Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १५

दिव्याविर्भावः

15.501

श्लोक

अद्य स्थित्वा निराहारः सर्वभोगविवर्जितः । भोक्षेऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ ५०१ ॥

15.502

श्लोक

कुर्वीत प्रातरष्टम्यां स्नपनादि तिलैः प्रभोः । अर्पयेच्च नरं सर्व शिष्टाचारानुसारतः ॥ ५०२ ॥

15.503

श्लोक

मध्याह्ने च शुभे तीर्थेऽन्यत्र वा सज्जले व्रती । मूर्ध्नि धात्रोफलं दत्त्वा स्नायात् कृष्णतिलैः शरैः ॥ ५०३ ॥

15.504

श्लोक

सुदेशे रचयेद्दिव्यं देवक्याः सूतिकागृहम् ॥ ५०४ ॥

15.505

श्लोक

भूषितं मणिभिर्वस्त्रवितानैस्तोरणैरपि । आबद्धैः फलपुष्पैश्च घृतपक्वादिभिस्तथा ॥ ५०५ ॥

15.506

श्लोक

यवदूर्वाम्बुजाद्याढ्यं वाद्यगीतादिसङ्कुलम् । द्वारे च शृङ्खलालोहखड्गच्छागादिसंयुतम् ॥ ५०६ ॥

15.507

श्लोक

गोकुलं विलिखेत्तत्र गोपगोपीजनावृतम् । रक्षपालांश्च गेहस्य सर्वतोऽवस्थितान् लिखेत् ॥ ५०७ ॥

15.508

श्लोक

तन्मध्ये सर्वतोभद्रमण्डले स्थापयेद्घटम् । पात्रं तदुपरि न्यसेद्धैमं वैणवमेव वा ॥ ५०८ ॥

15.509

श्लोक

देवकीं स्थापयेत्तत्र स्वर्णेनान्येन वा कृताम् । सल्लक्षणां सुपर्यङ्के सुप्तां स्नुतपयोधराम् ॥ ५०९ ॥

15.510

श्लोक

तथैव भगवन्तञ्च तदुत्सङ्गे स्तनन्धयम् । निजलक्षणसम्पन्नं स्थापयेच्छायितं सुखम् ॥ ५१० ॥

15.511

श्लोक

तथा क्वचित् प्रदेशे च श्रीयशोदां सकन्यकाम् । श्रीनन्दं रोहिणीं रामं गोपान् गोपीश्च गा अपि ॥ ५११ ॥

15.512

श्लोक

वसुदेवञ्च देवक्याः समीपे मुदिताननम् । खड्गपाणिं स्तुव तञ्च विस्मयोत्फुल्ललोचनम् ॥ ५१२ ॥

15.513

श्लोक

देवान् मुनींश्च तत्रोर्द्ध्वे प्रणतान् पुष्पवर्षिणः । गन्धर्वाप्सरसादींश्च गीतनृत्यादितत्परान् ॥ ५१३ ॥

15.514

श्लोक

कंसञ्च तत्परीवारान् गृहीतास्त्रांश्च निद्रया । मोहितान् स्थापयेत् क्वापि कृष्णायां कालियं लिखेत् ॥ ५१४ ॥

15.515

श्लोक

इत्थं कृत्वा यथाशोभं स्वशक्त्या सूतिकागृहम् । तत्तन्मूर्तीश्च विन्यस्य प्रारभेतार्चनं निशि ॥ ५१५ ॥

15.516

श्लोक

गन्धपुष्पाक्षतादीनि वस्त्रालङ्करणानि च । नैवेद्यानि विचित्राणि फलानि स्थापयेत्तथा ॥ ५१६ ॥

15.517

श्लोक

ततः शास्त्रोक्तमन्त्रेण विधिनावाह्य देवकीम् । प्रतिष्ठाप्य च तस्यै प्राक् पुष्पाञ्जलिमथार्पयेत् ॥ ५१७ ॥

15.518

श्लोक

गायद्भिः किन्नराद्यैः सततपरिवृता वेणुवीणादिनादैर्भृङ्गारादर्शकूम्भप्रकरकृतकरैः किन्नरैः सेव्यमाना । पर्यङ्के सास्तृते या मुदिततरमुखी पुत्रिणी सम्यगास्ते सा देवी देवमाता जयति सुतनया देवकी कान्तरूपा ॥ ५१८ ॥

15.519

श्लोक

तथा श्रीकृष्णदेवस्य प्राग्वदावाहनं बुधः । प्रतिष्ठाञ्च विधायास्मै दद्यात् पुष्पाञ्जलिं ततः ॥ ५१९ ॥

15.520

श्लोक

चन्द्रोदये बहिर्गेहात् संमार्ज्याब्जोपरीन्दवे । नारिकेलादिकं शङ्खे कृत्वा तेनार्घ्यमर्पयेत् ॥ ५२० ॥

15.521

श्लोक

क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव । गृहाणार्घ्यां शशाङ्केश रोहिण्या सहितो मम ॥ ५२१ ॥

15.522

श्लोक

ज्योत्स्नापते नमस्तुभ्यं नमस्ते ज्योतिषां पते । नमस्ते रोहिणीकान्त अर्घ्यं मे प्रतिगृह्यताम् ॥ ५२२ ॥

15.523

श्लोक

ततो गृहान्तरागत्य कृत्वा जय-जयध्वनिम् । ध्यात्वा श्रीभगवज्जन्म कृष्णायार्घ्यं निवेदयेत् ॥ ५२३ ॥

15.524

श्लोक

जातः कंसबधार्थाय ॥ ५२४ ॥

15.525

श्लोक

ततः क्षीरादिना शुद्धोदकेन तु यथाविधि । देवकीसहितं भक्त्या श्रीकृष्णं स्नापयेत् कृती ॥ ५२५ ॥

15.526

श्लोक

योगेश्वराय योगसम्भवाय योगपतये गोविन्दाय नमो नमः ॥ ५२६ ॥

15.527

श्लोक

योगेश्वराय देवाय देवकीनन्दनाय च । योगोद्भवाय नित्याय गोविन्दाय नमो नमः ॥ ५२७ ॥

15.528

श्लोक

अदिते देवमातस्त्वमित्यादि प्रार्थ्य देवकीम् । गन्धादीन्यर्पयेत्तस्यै नमो देव्यै श्रिये इति ॥ ५२८ ॥

15.529

श्लोक

अवतारसहस्राणीत्यादिनाभ्यर्थ्य च प्रभुम् । पाद्यादि वस्त्रभूषादि धूपदीपादि चार्पयेत् ॥ ५२९ ॥

15.530

श्लोक

ॐ यज्ञेश्वराय यज्ञसम्भवाय यज्ञपतये गोविन्दाय नमो नमः ॥ ५३० ॥

15.531

श्लोक

ॐ विश्वेश्वराय विश्वसम्भवाय विश्वप ये गोविन्दाय नमो नमः ॥ ५३१ ॥

15.532

श्लोक

वसुदेवं यशोदाञ्च नन्दं रामञ्च रोहिणीम् । अन्यांश्च पूजयेत्तत्तन्नाममन्त्रैर्यथाविधि ॥ ५३२ ॥

15.533

श्लोक

पक्वान्नानि विचित्राणि खाद्यानि विविधानि च । तत्कालीनफलान्यत्र ताम्बूलञ्च समर्पयेत् ॥ ५३३ ॥

15.534

श्लोक

धर्मेश्वराय धर्मसम्भवाय धर्मपतये गोविन्दाय नमो नमः ॥ ५३४ ॥

15.535

श्लोक

निशीथे गुडसर्पिभ्यां वसोर्धाराञ्च पातयेत् ॥ ५३५ ॥

15.536

श्लोक

श्रीनालवर्द्धनं कुर्यात् षष्ठीनिःसारणं ततः ॥ ५३६ ॥

15.537

श्लोक

श्रीनामकरण तत्तल्लीलानुकरणन्तथा । अथाचार्यं समभ्यर्च्य कुर्याज्जागरणं मुदा । गीतनृत्यादिना बाल्यक्रीडाश्रवणपूर्वकम् ॥ ५३७ ॥

15.538

श्लोक

आजन्मोपार्जितं पापं तत्क्षणादेव लीयते । रात्रौ जागरणे विप्र दृष्टे नश्यति देहिनाम् ॥ ५३८ ॥

15.539

श्लोक

प्रभाते सति निर्वर्त्य नित्यकर्माणि वैष्णवः । देवमभ्यर्च्य सम्प्राथ्य प्रणम्य च विसर्जयेत् ॥ ५३९ ॥

15.540

श्लोक

यं देवम् ॥ ५४० ॥

15.541

श्लोक

शान्तिरस्तु ॥ ५४१ ॥

15.542

श्लोक

इत्यादि । अथाचार्याय तत् सर्वं श्रीमूर्त्यादि सदक्षिणम् । प्रदाय विप्रान् सम्भोज्य विदध्यात् पारणोत्सवम् ॥ ५४२ ॥

15.543

श्लोक

भाद्रस्य शुक्लैकादश्यां शयनोत्सववत् प्रभोः । कटिदानोत्सवं कुर्याद्वैष्णवैः सह वैष्णवः ॥ ५४३ ॥

15.544

श्लोक

प्राप्ते भाद्रपदे मासि एकादश्यां सितेऽहनि । कटिदानं भवेद्विष्णोर्महापातकनाशनम् ॥ ५४४ ॥

15.545

श्लोक

जलाशयान्तिकं नीत्वा सम्यगभ्यर्च्य प्रभुम् । कर्णिकापरिवृत्तिञ्च दक्षिणाङ्के प्रकल्पयेत् ॥ ५४५ ॥

15.546

श्लोक

देव देव जगन्नाथ योगिगम्य निरञ्जन । कटिदानं कुरुष्वाद्य मासि भाद्रपदे शुभे ॥ ५४६ ॥

15.547

श्लोक

महापूजां ततः कृत्वा वैष्णवान् परितोष्य च । देवं स्वमन्दिरे नीत्वा यथापूर्वं निवेशयेत् ॥ ५४७ ॥

15.548

श्लोक

भाद्रस्य शुक्लद्वादश्यां युक्तायां श्रवणेन हि । उपोष्य सङ्गमे स्नात्वा देवं वामनमर्चयेत् ॥ ५४८ ॥

15.549

श्लोक

मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता । महती द्वादशी ज्ञेया उपवासे महाफला । अर्चयित्वाऽच्युतं भक्त्या लभेत् पुण्यं दशाब्दिकम् ॥ ५४९ ॥

15.550

श्लोक

फलं दत्त-हुतानाञ्च तस्यां लक्षगुणं भवेत् ॥ ५५० ॥

15.551

श्लोक

मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता । महती द्वादशी ज्ञेया उपवासे महाफला ॥ ५५१ ॥

15.552

श्लोक

सङ्गमे सरितः पुण्ये द्वादशी तामुपोषित । आप्लवादेव चाप्नोति द्वादशद्वादशीफलम् ॥ ५५२ ॥

15.553

श्लोक

बुधश्रवणसंयुक्ता सैव चेद्द्वादशी भवेत् । अत्यन्तमहती तस्यां दत्तं भवति चाक्षयम् ॥ ५५३ ॥

15.554

श्लोक

अर्चयित्वाऽच्युतं भक्त्या लभेत् पुण्यं दशाब्दिकम् । फलं दत्तहुतानाञ्च तस्यां लक्षगुणं भवेत् ॥ ५५४ ॥

15.555

श्लोक

मासि भाद्रपद शुक्लपक्षे यदि हरेर्दिने । बुधश्रवणसंयोगः प्राप्यते तत्र पूजितः ॥ ५५५ ॥

15.556

श्लोक

प्रयच्छति शुभान् कामान् वामनो मनसि स्थितान् । विजया नाम सा प्रोक्ता तिथिः प्रीतिकरी हरेः ॥ ५५६ ॥

15.557

श्लोक

सङ्गमे सर्वतीर्थानां सङ्गमस्तत्र जायते । शुक्ला भाद्रपदे स्वर्गं कृष्णा कलुषसंक्षयम् ॥ ५५७ ॥

15.558

श्लोक

फाल्गुने कुरुते मोक्षमपि ब्रह्मबधान्नृणाम् । महापुण्यप्रदा ह्येषा सङ्गमे विजया तिथिः । सर्वपापक्षयो नून जायते तदुपोषिणाम् ॥ ५५८ ॥

15.559

श्लोक

सर्वतीर्थानि भूपृष्ठे सङ्गमे यान्ति सङ्गमम् । विजयावासरे सर्वेदेवानां सङ्गमो भुवि ॥ ५५९ ॥

15.560

श्लोक

इदं सर्वपुराणेषु रहस्यं परिगीयते । सङ्गमे वामनं पूज्य प्रेतयोनौ न जायते ॥ ५६० ॥

15.561

श्लोक

उपवासासमर्थानां किं स्यादेकमुपोषितम् । महाफलं महादेव तन्ममाचक्ष्व सुव्रत ॥ ५६१ ॥

15.562

श्लोक

या रामश्रवणोपेता द्वादशी महती तु सा । तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम् । प्राप्नोत्ययत्नाद्धर्मज्ञ द्वादशद्वादशीफलम् ॥ ५६२ ॥

15.563

श्लोक

श्रवणद्वादशीयोगे बुधवारो भवेद्यदि । अत्यन्तमहती राम द्वादशी सा प्रकीर्तिता ॥ ५६३ ॥

15.564

श्लोक

स्नानं जप्यं तथा होमो दानं श्राद्धं सुरार्चनम् । सर्वमक्षयमाप्नोति तस्यां भृगुकुलोद्वह ॥ ५६४ ॥

15.565

श्लोक

तस्मिन् दिने तथा स्नातो योऽपि क्वचन सङ्गमे । स गङ्गास्नानजं राम फलं प्राप्नोत्यसंशयम् ॥ ५६५ ॥

15.566

श्लोक

श्रवणे सङ्गमाः सर्वे परिपुष्टिप्रदाः सदा । विशेषाद्द्वादशीयुक्ते बुधयुक्ते विशेषतः ॥ ५६६ ॥

15.567

श्लोक

उपवासासमर्थानां सदैव पुरुषोत्तम । एका या द्वादशी पुण्या तां वदस्व ममानघ ॥ ५६७ ॥

15.568

श्लोक

मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता । सर्वकामप्रदा पुण्या उपवासे महाफला ॥ ५६८ ॥

15.569

श्लोक

सङ्गमे सरितां स्नात्वा गङ्गास्नानादिजं फलम् । सोपवासः समाप्नोति नात्र कार्या विचारणा ॥ ५६९ ॥

15.570

श्लोक

बुधश्रवणसंयुक्ता सैव चेद्द्वादशी भवेत् । अतीव महती तस्यां सवं दत्तमिहाक्षयम् ॥ ५७० ॥

15.571

श्लोक

श्रवणद्वादशीयोगे पूजयित्वा जनार्दनम् । दानञ्च दत्त्वा विप्रेभ्यः सोपवासो जितेन्द्रियः ॥ ५७१ ॥

15.572

श्लोक

महानदीसङ्गमे च स्नात्वा दिष्टान्तमागतः । अवाप परमं स्थानं दुर्लभं सर्वमानवैः ॥ ५७२ ॥

15.573

श्लोक

यत्र कामफला वृक्षा नद्यः पायसकर्दमाः । शीतलामलपानीयाः पुष्करिण्यो मनोहराः ॥ ५७३ ॥

15.574

श्लोक

तं देशमासाद्य वणिङ्महात्मा सुमृष्टजाम्बूनदभूषिताङ्गः । कल्पं समग्रं सुरसुन्दरीभिः साकं स रेमे मुदितः सदैव ॥ ५७४ ॥

15.575

श्लोक

बुधश्रवणसंयुक्त-द्वादश्यां सङ्गमोदकम् । दानं बह्वोदनं शस्तमुपवासः परो विधिः ॥ ५७५ ॥

15.576

श्लोक

सगरेण ककुत्स्थेन धुन्धुमारेण गाधिना । एतश्चान्यैश्च राजेन्द्र कामदा द्वादशी कृता ॥ ५७६ ॥

15.577

श्लोक

या द्वादशी बुधयुता श्रवणेन सार्द्धं स्यात् सा जयेति कथिता मुनिभिर्नभस्ये । तामादरेण समुपोष्य नरो हि सम्यक् प्राप्नोति सिद्धिमणिमादिगुणोपपन्नः ॥ ५७७ ॥

15.578

श्लोक

द्वादश्येकादशो वा स्यादुपोष्या श्रवणान्विता । विष्णु शृङ्खलयोगश्च तन्त्रयं मिश्रितं यदि ॥ ५७८ ॥

15.579

श्लोक

श्रवणर्क्षसमायुक्ता द्वादशी यदि लभ्यते । उपोष्या द्वादशी तत्र त्रयोदश्यान्तु पारणम् ॥ ५७९ ॥

15.580

श्लोक

यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् । तदाऽसौ तु महापुण्या द्वादशी विजया स्मृता ॥ ५८० ॥

15.581

श्लोक

तत्र दानोपवासाद्यमक्षयं परिकीर्तितम् । एकादश्या विशुद्धत्वे द्वादश्यान्तु परेऽहनि । श्रवणे सति शक्तस्य व्रतयुग्मं विधीयते ॥ ५८१ ॥

15.582

श्लोक

असमाप्ते व्रते पूर्वे नैवकुर्याद्व्रतान्तरम् । इत्यादि वचनस्यात्र बाधक वं न विद्यते ॥ ५८२ ॥

15.583

श्लोक

एकादशीमुपोष्यैव द्वादशीं समुपोषयेत् । न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ॥ ५८३ ॥

15.584

श्लोक

अशक्तस्तु व्रतद्वन्द्वे भुङ्क्ते वैकादशी-दिने । उपवासं बुधः कुर्याच्छ्रवणद्वादशीदिने ॥ ५८४ ॥

15.585

श्लोक

उपोष्य द्वादशीं पुण्यां विष्णुऋक्षेण संयुताम् । एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम् ॥ ५८५ ॥

15.586

श्लोक

वाजपेये यथा यज्ञे कर्महीनोऽपि दीक्षितः । सर्वं फलमवाप्नोति अस्नातोऽप्यहुतोऽपि सन् ॥ ५८६ ॥

15.587

श्लोक

एवमेकादशीं त्यक्त्वा द्वादश्यां समुपोषणात् । पूर्ववासरजं पुण्यं सर्वं प्राप्नोत्यसंशयम् ॥ ५८७ ॥

15.588

श्लोक

अत्यल्पोऽप्यनयोर्योगो भवेत्तिथिभयोर्यदि । उपादेयः स एव स्यादित्यत्रोपवसेद्बुधः ॥ ५८८ ॥

15.589

श्लोक

तिथिनक्षत्रयोर्योगे योगश्चैव नराधिप । द्विकलो यदि लभ्येत स ज्ञेयो ह्यष्टयामिकः ॥ ५८९ ॥

15.590

श्लोक

द्वादशी श्रवणायुक्ता कृत्स्ना पुण्यतमा तिथिः । न तु सा तेन युक्ता च तावत्येव प्रशस्यते ॥ ५९० ॥

15.591

श्लोक

यदि न प्राप्यते ऋक्षं द्वादश्यां वैष्णवं क्वचित् । एकादशी तदोपोष्या पापघ्नी श्रवणान्विता ॥ ५९१ ॥

15.592

श्लोक

उभयोर्देवता विष्णुः पुराणः पुरुषोत्तमः । विभेदोऽत्र न कर्तव्यो विभेदात् पतते नरः ॥ ५९२ ॥

15.593

श्लोक

एकादशी यदा च स्यात् श्रवणेन समन्विता । विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा ॥ ५९३ ॥

15.594

श्लोक

याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः । तास्वेव तद्व्रतं कुर्याच्छ्रवणद्वादशी विना ॥ ५९४ ॥

15.595

श्लोक

एकादश्युपवासे च द्वादश्यां कृष्णमर्चयेत् । प्रादुर्भूतो हि भगवान् द्वादश्यामेव वामनः ॥ ५९५ ॥

15.596

श्लोक

उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्धरिम् ॥ ५९६ ॥

15.597

श्लोक

अतो यदि न लभ्येत मध्याह्ने द्वादशी तदा । द्वादशीमध्य एवार्च्यो वामनस्तर्हि सूरिभिः ॥ ५९७ ॥

15.598

श्लोक

द्वादशीश्रवणस्पृष्टा स्पृशेदेकादशी यदा । स एष वैष्णवो योगो विष्णुशृङ्खलसंजितः ॥ ५९८ ॥

15.599

श्लोक

तस्मिन्नुपोष्य विधिवन्नरः संक्षीणकल्मषः । प्राप्नोत्वनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥ ५९९ ॥

15.600

श्लोक

एकादशीपदेनात्र तदहोरात्र उच्यते । अन्यथा द्वादशीस्पर्शस्तस्यां नित्यं हि विद्यते ॥ ६०० ॥