Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १५

दिव्याविर्भावः

15.601

श्लोक

तिथिनक्षत्रयोर्योग इत्याद्यं यत्तु दर्शितम् । तेनाल्पकालसंयोगेऽप्यष्टयामिकतेष्यते ॥ ६०१ ॥

15.602

श्लोक

अत्रैव द्वादशीमध्ये पारणं श्रवणेऽधिके । वक्ष्यमाणञ्च घटतेऽन्यथा प्राग्वद्द्विधा व्रतम् ॥ ६०२ ॥

15.603

श्लोक

द्वादशी श्रवणर्क्षाञ्चेत्यस्मिन् पाठे भवेदिदम् । द्वादशीश्रवणस्पृष्टेयस्मिंश्च स्पृष्टता खलु । तत्तत्साहित्यमेवाह पूर्वस्मादेव हेतुतः ॥ ६०३ ॥

15.604

श्लोक

एकादशी द्वादशो च वैष्णव्यमपि तद्भवेत् । तद्विष्णुशृङ्खलं नाम विष्णुसायुज्यकृद्भवेत् । तस्मिन्नुपोषणाद्गच्छेच्छ्वेतद्वीपपुरं ध्रुवम् ॥ ६०४ ॥

15.605

श्लोक

द्वादश्यामुपवासोऽत्र त्रयोदश्यान्तु पारणम् । निषिद्धमपि कर्तव्यमित्याज्ञा पारमेश्वरी ॥ ६०५ ॥

15.606

श्लोक

योगोऽयमन्यो द्वादश्याः क्षय एवेति लक्ष्यते । द्वादश्यामुपवासाच्च त्रयोदश्याञ्च पारणात् ॥ त्रयोदश्यां पारणं हि श्रवणेऽपि निषेत्स्यते ॥ ६०६ ॥

15.607

श्लोक

द्वादश्येकादशी सौम्यः श्रवणञ्च चतुष्टयम् । देवदुन्दुभियोगोऽयं यज्ञायुतफलप्रदः ॥ ६०७ ॥

15.608

श्लोक

पारणाहे तु द्वादश्याः श्रवणायाश्च वृद्धितः । रात्रौ तु पारणाभावादयुक्तं कर्तुं व्रतद्वयम् ॥ ६०८ ॥

15.609

श्लोक

न चात्र विधिलोपः स्यादुभयोर्देवता हरिः ॥ ६०९ ॥

15.610

श्लोक

द्वादश्यामुपवासोऽत्र त्रयोदश्यान्तु पारणम् ॥ ६१० ॥

15.611

श्लोक

दिनद्वयेऽपि श्रवणाभावे तद्योगहानितः । एकादश्यामुपोष्यैव द्वादश्यां वामनं यजेत् ॥ ६११ ॥

15.612

श्लोक

विष्णुशृङ्खलकेऽपि स्याद्वृत्तिनिशि परत्र चेत् । यदाधिक्यं तिथिभयोः शक्तः कुर्याद्व्रतद्वयम् ॥ ६१२ ॥

15.613

श्लोक

पारणाया अनौचित्यं तावत्यां निशि चेद्भवेत् । अशक्तस्तूत्तरं कुर्याद्योगस्यैवास्य गौरवात् ॥ ६१३ ॥

15.614

श्लोक

स च व्रतविकल्पे द्वितीये विष्णुशृङ्खले च स्पष्ट एव केवलश्रवणनिष्कर्षे तु न तदादरः तिथि-नक्षत्रसंयोगे ॥ ६१४ ॥

15.615

श्लोक

अनुवृत्तिर्द्वयोरेव पारणाहे भवेद्यदि । तत्राधिक्ये तिथेर्वृत्ते भान्ते सत्येव पारणम् ॥ ६१५ ॥

15.616

श्लोक

तिथिनक्षत्रयोर्योगे उपवासो भवेद्यदा । पारणन्तु न कर्तव्यं यावन्नैकस्य संक्षयः ॥ ६१६ ॥

15.617

श्लोक

ऋक्षस्य सति चाधिक्ये तिथिमध्ये हि पारणम् । द्वादशीलङ्गाने दोषो बहुशो लिखितो यतः ॥ ६१७ ॥

15.618

श्लोक

तिथिनक्षत्रसंयोगे उपवासो यदा भवेत् । तावदेव न भोक्तव्यं यावन्नैकस्य संक्षयः ॥ ६१८ ॥

15.619

श्लोक

विशेषेण महीपाल श्रवणं वर्द्धते यदि । तिथिक्षयेण भोक्तव्यं द्वादशीं नैव लङ्घयेत् ॥ ६१९ ॥

15.620

श्लोक

एवं द्वयोर्निशाव्याप्तौ चाह्नि पारणमीरितम् । न रात्रौ पारणं कुर्यादिति ह्यन्यत्र सम्मतम् ॥ ६२० ॥

15.621

श्लोक

यतो रात्रावृक्षलब्धावपि द्वादश्यतिक्रमः । अतः कृतं पौनरुक्त्यं द्वादशीं नैव लङ्घन्येत् ॥ ६२१ ॥

15.622

श्लोक

एवकारेण च पुनस्तदेव निरधारि यत् । द्वादश्यनादरो नातः कार्या भस्य तु स स्मृतः ॥ ६२२ ॥

15.623

श्लोक

याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः । ऋक्षान्ते पारणं कुर्याद्विना श्रवण-रोहिणीम् ॥ ६२३ ॥

15.624

श्लोक

यतो रात्रिगतो द्वादश्यंशो नात्र विचार्यते । अतो वर्द्धत इत्याह पारणासमयात्ययम् ॥ ६२४ ॥

15.625

श्लोक

त्रयोदश्यां पारणन्तु नैतद्विषयमिष्यते । त्रयोदश्यामपीत्येतदनुक्तेरद्विधा ततः ॥ ६२५ ॥

15.626

श्लोक

प्रत्युतात्र तु-शब्देन तस्यैकध्यं प्रदर्शितम् । पर्यवस्येदतो युक्त्या द्वादशीक्षय एव तत् ॥ ६२६ ॥

15.627

श्लोक

तथापि सन्दिहानश्चेद्गृह्णीयाच्चरणामृतम् । पारणायाः परं सम्यक् पूरकं तद्भवेद्यतः ॥ ६२७ ॥

15.628

श्लोक

यदृक्षं वा तिथिर्वापि रात्रिं व्याप्य व्यवस्थिता । दिवसे पारणं कुर्यादिन्यथा पतनं भवेत् ॥ ६२८ ॥

15.629

श्लोक

नत्वा गुरुमनुज्ञाप्य पश्चान्नियममाचरेत् । न हि सिध्येद्गुरोर्भक्तिं नियमञ्च विना फलम् ॥ ६२९ ॥

15.630

श्लोक

एकादश्यां निराहारः स्थित्वा चैवापरेऽहनि । भोक्ष्ये श्रीवामनानन्त शरणागतवत्सल ॥ ६३० ॥

15.631

श्लोक

एकादश्या रजन्यां वा द्वादश्यां चार्चयेत् प्रभुम् ॥ ६३१ ॥

15.632

श्लोक

स्वर्णरूप्यमये पात्रे ताम्रवंशमयेऽपि वा । कुण्डिकां स्थापयेत् पार्श्वे छत्रिकापादुकास्तथा । शुभाञ्च वैणवीं यष्टिमक्षसूत्रं पवित्रकम् ॥ ६३२ ॥

15.633

श्लोक

पुष्पैर्गन्धैः फलैर्धूपैर्वामनं चार्चयेद्धरिम् । नानाविधैश्च नैवेद्यैर्भक्ष्यभोज्यैर्गुडौदनैः । जागरं निशि कुर्वीत गीतवाद्यादिनर्त्तनैः ॥ ६३३ ॥

15.634

श्लोक

एवमाराध्य देवेशं प्रभाते विमले सति । आदावर्घ्यं प्रदातव्यं पश्चाद्देवं प्रपूजयेत् । नारिकेलेन शुभ्रेण दद्यादर्घ्यञ्च पूर्ववत् ॥ ६३४ ॥

15.635

श्लोक

वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च । गृहाणार्घ्यं मया दत्तं वामनाय नमोऽस्तु ते । वामनाय अर्घ्यं नमः ॥ ६३५ ॥

15.636

श्लोक

मत्स्यं कूर्मं वराहञ्च नरसिंहञ्च वामनम् । रामं रामञ्च कृष्णञ्च क्रमाद्द्वौ बुद्धकल्किनौ ॥ ६३६ ॥

15.637

श्लोक

पादयोर्जानुनोर्गुह्ये नाभ्यामुरसि कक्षयोः । भुजयामूर्ध्नि सर्वाङ्गेष्वर्चयेदायुधानि च ॥ ६३७ ॥

15.638

श्लोक

महापूजान्तः कृत्वा गो-महीं काञ्चनादिकम् । शक्त्याचार्याय दातव्यं ब्राह्मणेभ्यश्च मन्त्रतः ॥ ६३८ ॥

15.639

श्लोक

ब्राह्मणश्चापि मन्त्रेण प्रतिगृह्णाति मन्त्रवित् । ददाति मन्त्रतो ह्येव दाता भक्तिसमन्वित ॥ ६३९ ॥

15.640

श्लोक

वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयम् । वामनश्च प्रतिग्राही तेन मे वामने रतिः ॥ ६४० ॥

15.641

श्लोक

वामनः प्रतिगृह्णाति वामनोऽपि ददाति च । वामनस्तारको द्वाभ्यां तेनेदं वामने नमः ॥ ६४१ ॥

15.642

श्लोक

एवं कृत्वा विधानेन भोजनं पृषदाज्यकम् । पूर्वं दद्याद्ब्राह्मणेभ्यः पश्चाद्भुञ्जीत बन्धुभिः ॥ ६४२ ॥

15.643

श्लोक

यद्वामनपुराणे च यद्भविष्योत्तरे व्रतम् । वामनस्योदितं तस्यानुसाराल्लिखितं त्विदम् ॥ ६४३ ॥

15.644

श्लोक

गृहीत्वा नियमं प्रातर्गत्वा नद्योश्च सङ्गमे । सोवर्णं वामनं कृत्वा सौवर्णमाषकेण वा ॥ ६४४ ॥

15.645

श्लोक

यथाशक्त्याथ वित्तस्य कुम्भोपरि जगत्पतिम् । स्वर्णपात्रे स्नापयित्वा मन्त्रैरेतेश्च पूजयेत् ॥ ६४५ ॥

15.646

श्लोक

ॐ वामनाय नमः पादौ काटिं दामोदराय च । ऊरू श्रीपतये गुह्यं कामदेवाय पूजयेत् ॥ ६४६ ॥

15.647

श्लोक

पूजयेज्जगतां पत्युरुदरं विश्वधारिणे । हृदयं योगनाथाय कण्ठं श्रीपतये नमः ॥ ६४७ ॥

15.648

श्लोक

मुखञ्च पङ्कजाक्षाय शिरः सर्वात्मने नमः । इत्थं सम्पूज्य वासोभिराच्छाद्य च जगद्गुरुम् । दद्यात् सुश्रद्धया चार्घ्यं नारिकेलादिभिः फलैः ॥ ६४८ ॥

15.649

श्लोक

ॐ नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक । अघौघसंक्षयं कृत्वा प्रेतमोक्षप्रदो भव ॥ ६४९ ॥

15.650

श्लोक

छत्रोपानहगोदानं दद्यादत्र कमण्डलुम् । विशेषेण द्विजाग्र्याय वामनः प्रीयतामिति ॥ ६५० ॥

15.651

श्लोक

यथाशक्त्या च दानानि द्विजाग्रेभ्यः प्रदापयेत् । कुर्याज्जागरणं रात्रौ गीतशास्त्रसमन्वितम् ॥ ६५१ ॥

15.652

श्लोक

श्रद्धया परया युक्तो निशामनिमिषेक्षणः । प्रभाते भोजयेद्विप्रान् द्वादश्यां पारणं ततः ॥ ६५२ ॥

15.653

श्लोक

कुर्यात् स्वयं श्रद्धया तत् सर्वं सफलतां व्रजेत् ॥ ६५३ ॥

15.654

श्लोक

एवं कृते तु कालेय व्रतेऽस्मिन् विजयादिने । न दुल्लभतरं किञ्चिदिहलोकेऽथवा परे ॥ ६५४ ॥

15.655

श्लोक

फलमस्य व्रतस्योक्तं दत्त्वा पित्रोर्नरोत्तमः । वंशोद्धारकरो मुक्तिं याति पैत्र्यादृणादपि ॥ ६५५ ॥

15.656

श्लोक

न पावनतरं किञ्चिदतः परमिहोच्यते । विजयाव्रततुल्यञ्च न परं परिपठ्यते ॥ ६५६ ॥

15.657

श्लोक

समाप्ते तु व्रते तस्मिन् यत् पुण्यं तन्निबोध मे । चतुर्युगानि राजेन्द्र सप्तसप्तति-संख्यया ॥ ६५७ ॥

15.658

श्लोक

प्राप्य विष्णुपुरं राजन् क्रीडते कालमक्षयम् । इहागत्य भवेद्राजा प्रतिपक्षभयङ्करः ॥ ६५८ ॥

15.659

श्लोक

हस्त्यश्वरथयानानां दाता भोक्ता विमत्सरः । रूपसौभाग्यसम्पन्नो दीर्घायुर्नीरुजो भवेत् ॥ ६५९ ॥

15.660

श्लोक

पुत्रपौत्रैः परिवृतो जीवेच्च शरदां शतम् ॥ ६६० ॥

15.661

श्लोक

आश्विनस्य सिते पक्षे दशम्यां विजयोत्सवः । कर्तव्यो वैष्णवैः सार्द्धं सर्वत्र विजयार्थिना ॥ ६६१ ॥

15.662

श्लोक

रथमारोप्य देवेशं सर्वालङ्कारशोभितम् । सासितूणधनुर्वाणपाणिं नक्तञ्चरान्तकम् ॥ ६६२ ॥

15.663

श्लोक

स्वलीलया जगत्त्रातुमाविर्भूतं रघूद्वहम् । राजोपचारैः श्रीरामं शमीवृक्षतलं नयेत् ॥ ६६३ ॥

15.664

श्लोक

सीताकान्तं शमीयुक्तं भक्तानामभयङ्करम् । अर्चयित्वा शमीवृक्षमर्चयेद्विजयाप्तये ॥ ६६४ ॥

15.665

श्लोक

शमी शमयते पापं शमी लोहितकण्टका । धरित्र्यर्जुनवाणानां रामस्य प्रियवादिनी ॥ ६६५ ॥

15.666

श्लोक

करिष्यमाणा या यात्रा यथाकालं सुख मया । तत्र निर्विघ्नकर्त्री त्वं भव श्रीरामपूजिते ॥ ६६६ ॥

15.667

श्लोक

गृहीत्वा साक्षतामार्द्रां शमीमूलगतां मृदम् । गीतवादित्रनिर्घोषैरततो देवं गृहे नयेत् ॥ ६६७ ॥

15.668

श्लोक

कैश्चिद्दृक्षैस्तत्र भाव्यं कैश्चिद्भाव्यञ्च वानरैः । कैश्चिद्रक्तमुखैर्भाव्यं कोशलेन्द्रस्य तुष्टये ॥ ६६८ ॥

15.669

श्लोक

निर्जिता राक्षसा दैत्या वैरिणो जगतीतले । रामराज्यं रामराज्यं रामराज्यमिति ध्रुवन् ॥ ६६९ ॥

15.670

श्लोक

आनीय स्थापयेद्देवं निजसिंहासने सुखम् । ततो नीराज्य देवेशं प्रणमेद्दण्डवद्भुवि । महाप्रसादवस्त्रादि धारयेद्वैष्णवैः सह ॥ ६७० ॥

15.671

श्लोक

विधिः श्रीरामविजयोत्सवस्योत्सवकृत सताम् ॥ ६७१ ॥

15.672

श्लोक

सीता दृष्टेति हनूमद्वाक्यं श्रुत्वाऽकरोत् प्रभुः । विजयं वानरैः सार्द्धं वासरेऽस्मिन् शमीतलात् ॥ ६७२ ॥