Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १५

दिव्याविर्भावः

15.401

श्लोक

यद्वा तिथ्यृक्षयोरेव द्वयोरन्ते तु पारणम् । समर्थानामशक्तानां द्वयोरेकवियोगतः ॥ ४०१ ॥

15.402

श्लोक

याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रसंयुताः । ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणी ॥ ४०२ ॥

15.403

श्लोक

अष्टम्यामथ रोहिण्यां न कुर्यात् पारणं क्वचित् । हन्यात् पुराकृतं कर्म उपवासार्जितं फलम् ॥ ४०३ ॥

15.404

श्लोक

तिथिरष्टगुणं हन्ति नक्षत्रञ्च चतुर्गुणम् । तस्मात् प्रयत्नतः कुर्यात्तिथिभान्ते च पारणम् ॥ ४०४ ॥

15.405

श्लोक

केचिच्च भगवज्जन्ममहोत्सवदिने शुभे । भक्त्योत्सवान्ते कुर्वन्ति वैष्णवा व्रतपारणम् ॥ ४०५ ॥

15.406

श्लोक

तिथ्यन्ते चोत्सवान्ते वा व्रती कुर्वीत पारणम् ॥ ४०६ ॥

15.407

श्लोक

यदीच्छेत् सर्वपापानि हन्तुं निरवशेषतः । उत्सवान्ते सदा विप्र जगन्नाथान्नमाशयेत् ॥ ४०७ ॥

15.408

श्लोक

व्रतसाधारणत्वाच्च सप्तम्यादि-दिनत्रये । कर्तव्या नियमाः सर्वे दशम्यादिदिनेष्विव ॥ ४०८ ॥

15.409

श्लोक

तद्व्रतं कीदृशं देव लोकैः सर्वैरनुष्ठितम् । जन्माष्टमीव्रतं नाम पवित्रं पुरुषोत्तम ॥ ४०९ ॥

15.410

श्लोक

तेन त्वं तुष्टिमायासि लोकानां प्रभवाव्यय । एतन्मे भगवन् ब्रूहि प्रासादान्मधुसूदन ॥ ४१० ॥

15.411

श्लोक

पार्थ तद्दिवसे प्राप्ते दन्तधावनपूर्वकम् । उपवासस्य नियमं गृह्णीयाद्यतमानसः ॥ ४११ ॥

15.412

श्लोक

एकेनैवोपवासेन कृतेन कुरुनन्दन । सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः ॥ ४१२ ॥

15.413

श्लोक

उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयो नोपवासस्तु लङ्घनम् ॥ ४१३ ॥

15.414

श्लोक

अद्य स्थित्वा निराहारः सर्वभोगविवर्जितः । भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत ॥ ४१४ ॥

15.415

श्लोक

ततः स्नात्वा तु मध्याह्ने नद्यादौ विमले जले । देवक्याः शोभनं कुर्यात् सुगुप्तं सूतिकागृहम् ॥ ४१५ ॥

15.416

श्लोक

पद्मरागैः पटैर्नेत्रैर्मण्डितं चर्चितं शुभैः । रम्यं वन्दनमालाभी रक्षामणिविभूषितम् ॥ ४१६ ॥

15.417

श्लोक

सर्वं गोकुलवत् कार्यं गोपीजनसमाकुलम् । घण्टामर्दलसङ्गीतं माङ्गल्यकलसान्वितम् ॥ ४१७ ॥

15.418

श्लोक

यवाद्रस्वस्तिकाब्जाद्यैः शङ्कवादित्रसङ्कुलम् । बन्धकरीलोहखड्गैर्दीपछागसमन्वितम् ॥ ४१८ ॥

15.419

श्लोक

मन्थानवारियूपैश्च भूतिसर्षपवह्निभिः । द्वारि विन्यस्तमूषलं रक्षितं रक्षपालकैः ॥ ४१९ ॥

15.420

श्लोक

षष्ठ्या देव्याश्च तत्रैव विधानं विधिवत्तथा । एवम्विधं यथाशक्ति कर्तव्यं सूतिकागृहम् ॥ ४२० ॥

15.421

श्लोक

तन्मध्ये प्रतिमा स्थाप्या सा चाप्यष्टविधा स्मृता । काञ्चनी राजती ताम्री पैत्तली मृन्मयी तथा । वार्क्षी मणिमयी चैव वर्णिका लिखताथवा ॥ ४२१ ॥

15.422

श्लोक

सर्वलक्षणसम्पन्ना पर्यङ्के चार्द्धसुप्तिका । प्रतप्तकाञ्चनाभासा कृता सा तु तपस्विनी । प्रसूता च प्रस्नुता च तत्क्षणाच्च प्रहर्षिता ॥ ४२२ ॥

15.423

श्लोक

माञ्चापि बालकं सुप्तं पर्यङ्के स्तनपायिनम् । श्रीवत्सवक्षसं देवं नीलोत्पलदलप्रभम् ॥ ४२३ ॥

15.424

श्लोक

शङ्खचक्र-गदाशार्ङ्ग वनमालाविभूषितम् । चतुर्भुजं महःपूर्णं स्थापयेत्तत्र भक्तितः ॥ ४२४ ॥

15.425

श्लोक

यशोदाञ्चापि तत्रैव प्रसूतवरकन्यकाम् ॥ ४२५ ॥

15.426

श्लोक

तत्र देवा ग्रहा नागा यक्षविद्याधरोरगाः । प्रणताः पुष्पमालाभिर्व्यग्रहस्ताः सुरासुराः । सञ्चरन्त इवाकाशे प्रकारैर्मुदितोदितैः ॥ ४२६ ॥

15.427

श्लोक

वसुदेवोऽपि तत्रैव खड्गचर्मधर स्थितः ॥ ४२७ ॥

15.428

श्लोक

कश्यपो वसुदेवोऽयमदितिश्चापि देवकी । शेषनागो हली चात्र यशोदादितिरेव च ॥ ४२८ ॥

15.429

श्लोक

नन्दः प्रजापतिर्दक्षो गर्गश्चापि चतुर्मुखः । एषोऽवतारो राजेन्द्र कंसो वै कालनेमिजः ॥ ४२९ ॥

15.430

श्लोक

तत्र कंसनियुक्ता ये दानवा विविधायुधाः । ते च प्राहरिका सर्वे सुप्ता निद्राविमोहिताः । अरिष्टो धेनुकः केशी दानवाः शस्त्रपाणयः ॥ ४३० ॥

15.431

श्लोक

नृत्यन्त्योऽप्सरसो हृष्टाः गन्धर्वा गीततत्पराः । लेखनीयश्च तत्रैव कालियो यमुनाह्रदे । नन्दगोपश्च गोपाश्च यशोदा च प्रसूतिका ॥ ४३१ ॥

15.432

श्लोक

रम्यामेवम्विधां कृत्वा देवकीं नवसूतिकाम् । तां पार्थ पूजयेद्भक्त्या गन्धपुष्पाक्षतैः फलैः ॥ ४३२ ॥

15.433

श्लोक

कुष्माण्डैर्नारिकेलैश्च खर्जूरैर्दाडिमीफलैः । वीजपूरैः पूगफलैर्नारङ्गैः पनसैस्तथा ॥ ४३३ ॥

15.434

श्लोक

देशकालोद्भवमिष्टैः पुष्पैश्चापि सुगन्धिभिः । ध्यात्वावतारान् प्रागुक्तान् मन्त्रेणानेन पूजयेत् ॥ ४३४ ॥

15.435

श्लोक

अदितिर्देवमाता त्वं सर्वपापप्रणाशिनी । अतस्त्वां पूजयिष्यामि भयभीतो भवस्य च ॥ ४३५ ॥

15.436

श्लोक

पूजितासि यदा देवैः प्रसन्ना त्वं वरानने । तथा मे पूजिता भक्त्या प्रसादं कुरु सुव्रते ॥ ४३६ ॥

15.437

श्लोक

यथा पुत्रं प्रियं लब्ध्वा प्राप्ता ते निर्वृतिः परा । तथा मे निर्वृतिं देवि सपुत्रा त्वं ददस्व मे ॥ ४३७ ॥

15.438

श्लोक

सा देवी देवमाता जयति सुवदना देवकी कान्तरूपा ॥ ४३८ ॥

15.439

श्लोक

पादावभ्यञ्जलन्ती श्रीर्देवक्याश्चरणान्तिके । निषण्णा पङ्कजे पूज्या नमो देव्यै श्रिये इति ॥ ४३९ ॥

15.440

श्लोक

अवतारसहस्रं व कृतं ते मधुसूदन । न संख्यामवताराणां कश्चिज्जानाति वै भुवि ॥ ४४० ॥

15.441

श्लोक

ब्रह्मा शिवादयो वापि स्वरूपं न विदुस्तव । अतस्त्वां पूजयाम्यद्य मातुरुत्सङ्गशायिनम् ॥ ४४१ ॥

15.442

श्लोक

स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोऽन्तकैः । पूजयेयुर्द्विजाः सर्वे स्त्री-शूद्रा मन्त्रवर्जिताः ॥ ४४२ ॥

15.443

श्लोक

विध्यन्तरमपीच्छन्ति केचिदत्र द्विजोत्तमाः । चन्द्रोदये शशाङ्काय दद्यादर्घ्यं हरिं स्मरन् ॥ ४४३ ॥

15.444

श्लोक

अनघं वामनं सौरिं वैकुण्ठं पुरुषोत्तमम् । अपराजितं वासुदेवं माधवं मधुसूदनम् ॥ ४४४ ॥

15.445

श्लोक

वराहं पुण्डरीकाक्षं नृसिंहं धरणीधरम् । दामोदरं पद्मनाभं केशवं गरुडध्वजम् ॥ ४४५ ॥

15.446

श्लोक

गोविन्दमच्युतं कृष्णमनन्तं पुरुषोत्तमम् । अधोक्षजं जगद्वीज सर्गस्थित्यन्तकारणम् ॥ ४४६ ॥

15.447

श्लोक

अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् । नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् ॥ ४४७ ॥

15.448

श्लोक

पीताम्बरधरं नित्यं वनमालाविभूषितम् । श्रीवत्साङ्कं जगत्सेतुं श्रीपतिं श्रीधरं हरिम् ॥ ४४८ ॥

15.449

श्लोक

देवकीगर्भसम्भूतं दैत्यसैन्यविनाशनम् । गृहाणार्ध्यमिदं देव गोविन्दाय नमो नमः ॥ ४४९ ॥

15.450

श्लोक

योगेश्वराय योगसम्भवाय योगपतये गोविन्दाय नमो नमः ॥ ४५० ॥

15.451

श्लोक

यज्ञेश्वराय यज्ञसम्भवाय यज्ञपतये गोविन्दाय नमो नमः ॥ ४५१ ॥

15.452

श्लोक

विश्वेश्वराय विश्वसम्भवाय विश्वपतये गोविन्दाय नमो नमः ॥ ४५२ ॥

15.453

श्लोक

धर्मेश्वराय धर्मसम्भवाय धर्मपतये गोविन्दाय नमो नमः ॥ ४५३ ॥

15.454

श्लोक

क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव । गृहाणार्घ्यां शशाङ्केमं रोहिणीसहितो मम ॥ ४५४ ॥

15.455

श्लोक

स्थण्डिले स्थापयेद्देवं शशाङ्कं रोहिणीन्तथा । देवकीं वसुदेवञ्च यशोदां नन्दमेव च ॥ ४५५ ॥

15.456

श्लोक

बलभद्रं तथा गोपान् गोपीगोकुलमेव च । एवं कृते न सन्देहो नरः पापात् प्रमुच्यते ॥ ४५६ ॥

15.457

श्लोक

अर्द्धरात्रे वसोर्धारां पातयेद्गुडसर्पिषा । ततो वर्द्धापनं षष्ठी नामादिकरणन्ततः ॥ ४५७ ॥

15.458

श्लोक

कर्तव्यं तत्क्षणाद्रात्रौ प्रभाते नवमीदिने । यथा मम तथा कार्यो भगवत्या महोत्सवः ॥ ४५८ ॥

15.459

श्लोक

ब्राह्मणान् भोजयेद्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् । हिरण्यं रजतं गावो वासांसि विविधानि च ॥ ४५९ ॥

15.460

श्लोक

यद्यदिष्टतमं तेन कृष्णो मे प्रीयतामिति ॥ ४६० ॥

15.461

श्लोक

यं देवं देवकी देवी वसुदेवादजीजनत् । भौमस्य ब्रह्मणो गुप्त्य तस्मै ब्रह्मात्मने नमः ॥ ४६१ ॥

15.462

श्लोक

सुजन्म-वासुदेवाय गोब्राह्मण-हिताय च । शान्तिरस्तु शिवञ्चास्तु इत्युक्त्वा तं विसर्जयेत् ॥ ४६२ ॥

15.463

श्लोक

एवं यः कुरुते देव्या देवक्याः सुमहोत्सवम् । वर्षे वर्षे तु मद्भक्तो धर्मार्थी धर्मनन्दन । नरो वा यदि वा नारी यथोक्तं फलमाप्नुयात् ॥ ४६३ ॥

15.464

श्लोक

गृह्णीयान्नियमं पूर्वं दन्तधावनपूर्वकम् । नियमात् फलमाप्नोति न श्रेयो नियमं विना ॥ ४६४ ॥

15.465

श्लोक

अद्य स्थित्वा निराहारः श्वोभूते परमेश्वर । भोक्ष्यामि देवकीपुत्र अस्मिन् जन्माष्टमीव्रते ॥ ४६५ ॥

15.466

श्लोक

उपोषितस्तु मध्याह्ने स्नात्वा कृष्णतिलैः शुभैः । धात्रीफलं शिरे दद्यान्महापुण्यविवृद्धये ॥ ४६६ ॥

15.467

श्लोक

कृत्वा माध्याह्निकं कर्म स्थापयेदव्रणं घटम् । पञ्चरत्नसमायुक्तं पवित्रोदकपूरितम् ॥ ४६७ ॥

15.468

श्लोक

तस्योपरि न्यसेत् पात्रं कर्पूरागुरुवासितम् । सुधूपवासितं शुभं पुष्पमालाभिशोभितम् । सौवर्णं वित्तवान् भक्त्या तदभावेऽथ वैणवम् ॥ ४६८ ॥

15.469

श्लोक

तस्योपरि न्यसेद्देवीं हैमीं लक्षणसंयुताम् । ददमानान्तु पुत्रस्य स्तनं वै विस्मिताननाम् ॥ ४६९ ॥

15.470

श्लोक

पीयमानः स्तनं सोऽथ कुचाग्रे पाणिना स्पृशन् । अवलोकमानः प्रेम्णा वै मुखं मातुर्मुहुर्मुहुः ॥ ४७० ॥

15.471

श्लोक

कृत्वा चैवन्तु वैकुण्ठं मात्रा सह जगत्प्रभुम् । क्षीरादिस्नपनं कृत्वा चन्दनेन विलेपयेत् ॥ ४७१ ॥

15.472

श्लोक

कुङ्कुमेन महाभाग कर्पूरागुरुचर्चितम् । पद्मकोषीरगन्धैश्च मृगनाभिविमिश्रितम् ॥ ४७२ ॥

15.473

श्लोक

श्वेतवस्त्रयुगच्छन्नं पुष्पमालासुशोभितम् । मालतीमल्लिकापुष्पैश्चम्पकैः केतकीदलैः ॥ ४७३ ॥

15.474

श्लोक

बिल्वपत्रैरखण्डैश्च तुलसीपत्रकोमलैः । अन्यैर्नानाविधः पुष्पैः करवीरैः सितासितैः ॥ ४७४ ॥

15.475

श्लोक

यूथिकाशतपत्रैश्च तथान्यैः कालसम्भवैः । पूजनीयो महाभाग महाभक्त्या जनार्दनः ॥ ४७५ ॥

15.476

श्लोक

कूष्माण्डैर्नारिकेलैश्च खर्जूरैर्दाडिमीफलैः । चूतवृक्षसमुद्भूतैः फलै रम्भासमुद्भवैः ॥ ४७६ ॥

15.477

श्लोक

तत्कालसम्भवैर्दिव्यैः फलैनानाविधैर्मुने । नैवेद्यैर्विविधैः शुभ्रैर्घृतपक्वैरनेकधा ॥ ४७७ ॥

15.478

श्लोक

दीपान् वै कारयेच्चाने तथा कुसुममण्डपम् । गीतं वाद्यं तथा नृत्यं स्तोत्रपाठञ्च कारयेत् । बालस्य चरितं विष्णोः पठनीयं पुनः पुनः ॥ ४७८ ॥

15.479

श्लोक

स्वगुरुं पूज्य शक्त्या वै पूजनीयस्ततो हरिः । निशि पूजा विधातव्या देवक्याः केशवस्य च । मन्त्रेणानेन विप्रेन्द्र पुराणविहितेन वै ॥ ४७९ ॥

15.480

श्लोक

अदिते देवमातस्त्वं सर्वपापप्रणाशिनी । अतस्त्वां पूजयिष्यामि भीतो भवभयस्य च ॥ ४८० ॥

15.481

श्लोक

पूजिता तु यथा देवैः प्रसन्ना त्वं वरानने । पूजिता तु मया भक्त्या प्रसादं कुरु सुव्रते ॥ ४८१ ॥

15.482

श्लोक

यथा पुत्रं हरिं लब्ध्वा प्राप्ता ते निवृतिः परा । निर्वृतिं देवि तामेव सपुत्रा त्वं प्रयच्छ मे ॥ ४८२ ॥

15.483

श्लोक

अवतारान् सहस्राणि करोषि मधुसूदन । न ते संख्याऽवताराणां कश्चिज्जानाति वै भुवि ॥ ४८३ ॥

15.484

श्लोक

देवा ब्रह्मादयो वापि स्वरूपं न विदुस्तव । अतस्त्वां पूजयिष्यामि मातुरुत्सङ्गसंस्थितम् ॥ ४८४ ॥

15.485

श्लोक

वाञ्छितं कुरु मे देव दुष्कृतं चैव नाशय । कुरुष्व मे दयां देव संसारार्तिभयापह ॥ ४८५ ॥

15.486

श्लोक

एवं सम्पूज्य गोविन्दं पात्रे तिलमये स्थितम् । ततश्च दापयेद्दर्ध्यमिन्दोरुदयतः शुचिः ॥ ४८६ ॥

15.487

श्लोक

कृष्णाय प्रथमं दद्याद्देवकीसहिताय वै । अर्घ्यं ऋषिवरश्रेष्ठे सर्वकामफलप्रदम् ॥ ४८७ ॥

15.488

श्लोक

जातः कंसबधार्थाय भूभारोत्तारणाय च । देवतानां हितार्थाय धर्मसंस्थापनाय च । कौरवाणां विनाशाय दैत्यानां निधनाय च ॥ ४८८ ॥

15.489

श्लोक

गृहाणार्ध्यं मया दत्तं देवकीसहितो मम ॥ ४८९ ॥

15.490

श्लोक

श्रीकृष्णाय देवकीसहिताय सपरिवाराय लक्ष्मीसहिताय अर्घ्यं नमः ॥ ४९० ॥

15.491

श्लोक

दधिपुष्पाक्षतैमिश्रं ततोऽर्घ्यं शशिने मुदा । क्षीरोदार्णवसम्भूत अत्रिनेत्रसमुद्भव । अर्घ्यमिन्दो गृहाण त्वं रोहिण्या सहितो मम ॥ ४९१ ॥

15.492

श्लोक

नारिकेलेन शुभ्रेण दद्यादर्घ्यं विचक्षणः । कृष्णाय परया भक्त्या शङ्खे कृत्वा विधानतः ॥ ४९२ ॥

15.493

श्लोक

दद्याद्भूमण्डलं कृत्स्नं ससागरनगान्वितम् । अर्घ्यदानेन तत् पुण्यं लभते मानवो भुवि ॥ ४९३ ॥

15.494

श्लोक

गीतशास्त्रकथालापैः कुर्याज्जागरणं निशि । धूपदीपञ्च नैवेद्यं ताम्बूलं दापयेद्धरेः ॥ ४९४ ॥

15.495

श्लोक

एवं जन्माष्टमी कृत्वा कर्तव्यं नावशिष्यते । सर्वं पुण्यफलं प्राप्य अन्ते याति पदं हरेः ॥ ४९५ ॥

15.496

श्लोक

अष्टोविंशतिमे जातः कृष्णोऽसौ देवकीसुतः ॥ ४९६ ॥

15.497

श्लोक

भारावतारणार्थाय क्षत्रियाणां क्षयाय च । तस्मात् स तत्र सम्पूज्यो यशोदा देवकी तथा ॥ ४९७ ॥

15.498

श्लोक

गन्धमाल्येस्तथा यावैर्यवगोधूमसम्भवैः । सगोरसैर्भक्ष्यभोज्यैः फलैश्च विविधैरपि । रात्रौ प्रजागरः कार्यो नृत्यगीतसमाकुलः ॥ ४९८ ॥

15.499

श्लोक

यो भविष्योत्तराद्युक्तो विधिस्तदनुसारतः । सर्वं जन्माष्टमीकृत्यमेकीकृत्यात्र लिख्यते ॥ ४९९ ॥

15.500

श्लोक

एकभक्तानन्तरन्तु दन्तधावनपूर्वकम् । सप्तम्यामथवाष्टम्यां प्रातः सङ्कल्पमाचरेत् ॥ ५०० ॥