Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १५

दिव्याविर्भावः

15.301

श्लोक

जयन्त्यामुपवासन्तु कृत्वा योऽर्चयते हरिम् । तस्य जन्मशतोद्भूतं पापं नश्यति सर्वथा ॥ ३०१ ॥

15.302

श्लोक

कौमारे यौवने बाल्ये वार्द्धक्ये यदुपार्जितम् । तत् पापं शमयेत् कृष्णस्तिथावस्यां सुपूजितः ॥ ३०२ ॥

15.303

श्लोक

स्नानं दानं तथा होमः स्वाध्यायोऽथ जपस्तपः । सर्वं शतगुणं प्रोक्तं जयन्त्यां यत् कृतं हरेः ॥ ३०३ ॥

15.304

श्लोक

धनधान्यवहा पुण्या सर्वपापहरा शुभा । समुपोष्या नरैर्यत्नाज्जयन्ती कृष्णभक्तिदा ॥ ३०४ ॥

15.305

श्लोक

या तु कृष्णाष्टमी नाम विश्रुता वैष्णवी तिथिः । तस्याः प्रभावमाश्रित्य पूताः सर्वे कलौ जनाः ॥ ३०५ ॥

15.306

श्लोक

श्रावणे मासि बहुला रोहिणीसंयुताष्टमी । जयन्तीति समाख्याता सर्वाघौघविनाशिनी ॥ ३०६ ॥

15.307

श्लोक

तस्यां विष्णुतिथौ केचिद्धन्याः कलियुगे जनाः । येऽभ्यर्च्यन्ति देवेशं जाग्रतः समुपोषिताः ॥ ३०७ ॥

15.308

श्लोक

न तेषां विद्यते क्वापि संसारभयमुल्वणम् । यत्र तिष्ठन्ति ते देशे कलिस्तत्र न तिष्ठति ॥ ३०८ ॥

15.309

श्लोक

य एष भगवान् विष्णुर्देवक्यां वसुदेवतः । जातः कंसबधार्थं हि तद्दिनं मङ्गलालयम् ॥ ३०९ ॥

15.310

श्लोक

या सा प्रत्यब्दमायाति श्रावणे बहुलाष्टमी । सङ्गता रोहिण्यक्षेण नृणां मुक्तिफलप्रदा ॥ ३१० ॥

15.311

श्लोक

यस्यां सनातनः साक्षात् पुराणः पुरुषोत्तमः । अवतीर्णः क्षितौ सैषा मुक्तिदेति किमद्भुतम् ॥ ३११ ॥

15.312

श्लोक

इदमेव परं श्रेय इदमेव परन्तपः । इदमेव परो धर्मो यद्विष्णुव्रतधारणम् ॥ ३१२ ॥

15.313

श्लोक

कृष्णजन्माष्टमी लोके प्रसिद्धा पापनाशिनी । क्रतुकोटिसमा त्वेषा तीर्थयुतशतैः समाः ॥ ३१३ ॥

15.314

श्लोक

कपिलागोसहस्रन्तु यो ददाति दिने दिने । तत् फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ ३१४ ॥

15.315

श्लोक

हेमभारसहस्रन्तु कुरुक्षेत्रे प्रयच्छति । तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ ३१५ ॥

15.316

श्लोक

रत्नकोटिसहस्राणि यो ददाति द्विजोत्तम । तत्फलं समवाप्नोति जयन्त्यां समुपोषणे ॥ ३१६ ॥

15.317

श्लोक

वापीकूपसहस्राणि देवतायतनानि च । कन्याकोटिप्रदानेन यत् फलं कविभिः स्मृतम् ॥ मातापित्रोर्गुरूणाञ्च भक्तिमुद्वहतां फलम् ॥ ३१७ ॥

15.318

श्लोक

गुर्वर्थे ब्राह्मणार्थे वा स्वाम्यर्थे वा त्यजेत्तनुम् । परोपकारयुक्तानां तीर्थसेवारतात्मनाम् । सत्यव्रतानां यत् पुण्यं जयन्त्यां समुपोषणे ॥ ३१८ ॥

15.319

श्लोक

निराश्रयेषु वसतां तापसानान्तु यत् फलम् । राजसूयसहस्रेषु शतवर्षाग्निहोत्रतः । एकेनैवोपवासेन जयन्त्यां तत् फलं स्मृतम् ॥ ३१९ ॥

15.320

श्लोक

कृत्वा राज्यं महीं भुक्त्वा प्राप्य कीर्तिञ्च शाश्वतीम् । जयन्त्याञ्चोपवासेनन विष्णोर्मूर्तौ लयं गताः ॥ ३२० ॥

15.321

श्लोक

धर्ममर्थञ्च कामञ्च मुक्तिञ्च मुनिपुङ्गव । ददाति वाञ्छितान् कामान् श्रावणे मासि चाष्टमी ॥ ३२१ ॥

15.322

श्लोक

जन्माष्टमीव्रतं ये वै प्रकुर्वन्ति नरोत्तमाः । कारयन्ति च विप्रेन्द्र लक्ष्मीरतेषां सदा स्थिरा ॥ ३२२ ॥

15.323

श्लोक

न वेदैर्न पुराणैश्च मया दृष्टं महामुने । यत्समञ्चाधिकं वापि कृष्णजन्माष्टमीव्रतात् ॥ ३२३ ॥

15.324

श्लोक

नियमस्थं नरं दृष्ट्वा जन्माष्टम्यां द्विजोत्तम । विवर्णवदनो भूत्वा तल्लिपिं मार्जयेद्यमः ॥ ३२४ ॥

15.325

श्लोक

व्रतेनाराध्य तं देवं देवकीसहितं हरिम् । त्यक्त्वा यमपथं घोरं याति विष्णोः परं पदम् ॥ ३२५ ॥

15.326

श्लोक

स्मरणं वासुदेवस्य मृत्युकाले भवेन्मुने । सिध्यन्ति सर्वकार्याणि कृते जन्माष्टमी व्रते । ममाज्ञया कुरुध्वं तज्जयन्तीं मुक्तये तथा ॥ ३२६ ॥

15.327

श्लोक

इत्येतत् कथितमशेषशास्त्रगुह्यं श्रीकृष्णव्रतमहिमानुवर्णनं यत् । श्रुत्वैतत् सकृदपि पातकैर्विमुक्तो देहान्ते व्रजति नरो मुरारिलोकम् ॥ ३२७ ॥

15.328

श्लोक

कृष्णोपास्याष्टमी भाद्रे रोहिण्याढ्या महाफला । निशीथेऽत्रापि किञ्चेन्दौ ज्ञे वापि नवमीयुता ॥ ३२८ ॥

15.329

श्लोक

प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी । मुहूर्तमपि लभ्येत सैवोपोष्या महाफला ॥ ३२९ ॥

15.330

श्लोक

मुहूर्तमप्यहोरात्रे यस्मिन् युक्तन्तु लभ्यते । अष्टम्या रोहिणीऋक्षं तां सुपुण्यामुपावसेत् ॥ ३३० ॥

15.331

श्लोक

अष्टमी कृष्णपक्षस्य रोहिणीऋक्षसंयुता । भवेत् प्रौष्ठपदे मासि जयन्ती नाम सा स्मृता ॥ ३३१ ॥

15.332

श्लोक

रोहिण्यऋक्षं यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम । जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥ ३३२ ॥

15.333

श्लोक

यद्बाल्ये यच्च कौमारे यौवने वार्द्धके तथा । बहुजन्मकृतं पापं हन्ति सोपोषिता तिथिः ॥ ३३३ ॥

15.334

श्लोक

प्राजापत्येन संयुक्ता अष्टमो तु यदा भवेत् । श्रावणे बहुले पक्षे सर्वपापप्रणाशिनी ॥ ३३४ ॥

15.335

श्लोक

जयं पुण्यञ्च कुरुते जयन्तीं तेन तां विदुः ॥ ३३५ ॥

15.336

श्लोक

कृष्णाष्टम्यां भवेद्यत्र कलैका रोहिणी नृप । जयन्ती नाम सा ज्ञेया उपोष्या सा प्रयत्नतः ॥ ३३६ ॥

15.337

श्लोक

सप्तजन्मकृतं पापं राजन् यस्त्रिविधं नृणाम् ॥ तत् फालयति गोविन्दस्तिथौ तस्यान्तु भावितः ॥ ३३७ ॥

15.338

श्लोक

उपवासश्च तत्रोक्तो महापातकनाशनः । जयन्त्यां जगतीपाल विधिनात्र न संशयः ॥ ३३८ ॥

15.339

श्लोक

त्रेतायां द्वापरे चैव राजन् कृतयुगे तथा । रोहिणीसंयुता चेयं विद्वद्भिः समुपोषिता ॥ ३३९ ॥

15.340

श्लोक

अर्द्धरात्रादधश्चोर्धं कलया वा यदा भवेत् । जयन्ती नाम सा प्रोक्ता सर्वपापप्रणाशिनी ॥ ३४० ॥

15.341

श्लोक

रोहिण्यामर्द्धरात्रे च यदा कृष्णाष्टमी भवेत् । तस्यामभ्यर्चनं शौरे हन्ति पापं त्रिजन्मजम् ॥ ३४१ ॥

15.342

श्लोक

प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी । सोपवासो हरेः पूजां तत्र कृत्वा न सीदति । अर्द्धरात्रे च योगोऽयं तारापत्यदये सति ॥ ३४२ ॥

15.343

श्लोक

रोहिणी-सहिता कृष्णा मासि भाद्रपदेऽष्टमी । अर्द्धरात्रादधश्चोर्द्ध्वं कलयापि यदा भवेत् ॥ ३४३ ॥

15.344

श्लोक

तत्र जातो जगन्नाथः कौस्तुभी हरिरव्ययः । तमेवोपवसेत् कालं कुर्यात् तत्रैव जागरम् ॥ ३४४ ॥

15.345

श्लोक

जयन्ती नाम सा रात्रिस्तत्र जातो जनार्दनः । नियतात्मा शुचिः स्नात्वा पूजां तत्र प्रवर्तयेत् ॥ ३४५ ॥

15.346

श्लोक

समयोगे तु रोहिण्या निशीथे राजसत्तम । समजायत गोविन्दो बालरूपी चतुर्भुजः । तस्मात्तं पूजयेत्तत्र यथावित्तानुसारतः ॥ ३४६ ॥

15.347

श्लोक

मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्द्धरात्रके । शशाङ्के वृषराशिस्थे प्राजापत्यर्क्षसंयुते । उपोषितोऽर्चयेत् कृष्णं यशोदां देवकीन्तथा ॥ ३४७ ॥

15.348

श्लोक

मासि भाद्रपदेऽष्टम्यां निशीथे कृष्णपक्षके । शशाङ्के वृषराशिस्थे ऋक्षे रोहिणीसंज्ञके । योगेऽस्मिन् वसूदेवाद्धि देवी देवमजीजनत् ॥ ३४८ ॥

15.349

श्लोक

तस्मात् सम्पूजयेदत्र शुचिः सम्यगुपोषितः ॥ ३४९ ॥

15.350

श्लोक

प्रेतयोनिं गतानान्तु प्रेतत्वं नाशितं नरैः । यैः कृता श्रावणे मासि अष्टमी रोहिणीयुता ॥ ३५० ॥

15.351

श्लोक

किं पुनर्बुधवारेण सोमेनापि विशेषतः । किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा ॥ ३५१ ॥

15.352

श्लोक

उदये चाष्टमी किञ्चिन्नवमी सकला यदि । भवते बुधसंयुक्ता प्राजापत्यर्क्षसंयुता । अपि वर्षशतेनापि लभ्यते वा न वा विभो ॥ ३५२ ॥

15.353

श्लोक

नवम्यां योगनिद्राया जन्माष्टम्यां हरेस्ततः । नवम्या सहितोपोष्या रोहिणी बुधसंयुता ॥ ३५३ ॥

15.354

श्लोक

इन्दुः पूर्वेऽहनि ज्ञे वा परे चेद्रोहिणीयुता । केवला चाष्टमी वृद्धा सोपोष्या नवमीयुता ॥ ३५४ ॥

15.355

श्लोक

मुहूर्तेनापि संयुक्ता सम्पूर्णा चाष्टमी भवेत् । किं पुनर्नवमीयुक्ता कुलकोट्यास्तु मुक्तिदा ॥ ३५५ ॥

15.356

श्लोक

मासि भाद्रपदे कृष्णा अष्टमो नवमी भवेत् । पूज्याष्टमी ततः पुंभिः स्त्रीभिश्चापि विशेषतः ॥ ३५६ ॥

15.357

श्लोक

रोहिण्यादेर्व्युक्तापि सोपोष्या केवलाष्टमी । तत्तद्योगस्तु वैशिष्ट्ये व्रतलोपोऽन्यथा भवेत् ॥ ३५७ ॥

15.358

श्लोक

इत्थं शुद्धैव लिखिता योगाद्बहुविधाष्टमी । त्याज्या विद्धा च सप्तम्या सा विद्धैकादशी यथा ॥ ३५८ ॥

15.359

श्लोक

वर्जनीया प्रयत्नेन सप्तमीसहिताष्टमी । सऋक्षापि न कर्तव्या सप्तमीसंयुताष्टमी ॥ ३५९ ॥

15.360

श्लोक

पञ्चगव्यं यथा शुद्धं न ग्राह्यं मद्यसंयुतम् । रविविद्धा तथा त्याज्या रोहिणीसहिता यदि ॥ ३६० ॥

15.361

श्लोक

पूर्वविद्धा यथा नन्दा वर्जिता श्रवणान्विता । तथाष्टमीं पूर्वविद्धां सऋक्षाञ्च विवर्जयेत् ॥ ३६१ ॥

15.362

श्लोक

वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी । विना ऋक्षेण कर्तव्या नवमीसंयुताष्टमी ॥ ३६२ ॥

15.363

श्लोक

अविद्धायां सऋक्षायां जातो देवकिनन्दनः ॥ ३६३ ॥

15.364

श्लोक

वासरे वा निशार्द्धे वा सप्तम्याञ्च यदाष्टमी । पूर्वमिश्रा तदा त्याज्या प्राजापत्यर्क्षसंयुता ॥ ३६४ ॥

15.365

श्लोक

जन्माष्टमीं पूर्वविद्धां सऋक्षां सकलामपि । विहाय नवमिं शुद्धामुपोष्य व्रतमाचरेत् ॥ ३६५ ॥

15.366

श्लोक

सकलापि सऋक्षापि नवमीसंयुतापि च । जन्माष्टमी पूर्वविद्धा न कर्तव्या कदाचन ॥ ३६६ ॥

15.367

श्लोक

पलवेधे तु विप्रेन्द्र सप्तम्या चाष्टमीं त्यजेत् । सुराया विन्दुना स्पृष्टं गङ्गाम्भःकलसं यथा ॥ ३६७ ॥

15.368

श्लोक

विना ऋक्षेण कर्तव्या नवमी-संयुताष्टमी । सऋक्षापि न कर्तव्या सप्तमीसंयुताष्टमी ॥ ३६८ ॥

15.369

श्लोक

तस्मात् सर्वप्रयत्नेन त्याज्यमेवाशुभं बुधैः । वेधे पुण्यक्षयं याति तमः सूर्योदये यथा ॥ ३६९ ॥

15.370

श्लोक

सम्पूर्णा चार्द्धरात्रे तु रोहिणी यदि लभ्यते । कर्तव्या सा प्रयत्नेन पूर्वविद्धां विवर्जयेत् ॥ ३७० ॥

15.371

श्लोक

यच्च वह्निपुराणादौ प्रोक्तं विद्धाष्टमीव्रतम् । अवैष्णवपरं तच्च कृतं तद्देवमायया ॥ ३७१ ॥

15.372

श्लोक

पुरा देवैरृषिगणैः स्वपदच्युतिशङ्कया । सप्तमीवेधजालेन गोपितं ह्यष्टमीव्रतम् ॥ ३७२ ॥

15.373

श्लोक

इयं प्रामाणिकैः कृष्णदेवाचार्यादिवैष्णवैः । व्यवस्थान्या च निर्णीता लिखिताचारतः सताम् ॥ ३७३ ॥

15.374

श्लोक

शुद्धा च रोहिणीयुक्ता पूर्वऽहनि परत्र च । अष्टम्युपोष्या पूर्वैव तिथिभान्ते च पारणम् ॥ ३७४ ॥

15.375

श्लोक

ब्रह्मणा प्रार्थितः पूर्वं देवक्यां कृपया विभुः ॥ ३७५ ॥

15.376

श्लोक

रोहिणृयक्षे शुभतिथौ दैत्यानां नाशहेतवे । महोत्सवं प्रकुर्वीत यत्नतस्तद्दिने शुभे ॥ ३७६ ॥

15.377

श्लोक

राजन्यैर्ब्राह्मणैवैश्यः शूद्रैश्चैव स्वशक्तितः । उपवासः प्रकर्तव्यो न भोक्तव्यं कदाचन ॥ ३७७ ॥

15.378

श्लोक

कृष्णजन्मदिने यस्तु भुङ्क्ते स तु नराधमः । निवसेन्नरके घोरे यावदाहूतसंप्लवम् ॥ ३७८ ॥

15.379

श्लोक

अष्टमी रोहिणीयुक्ता चार्द्धरात्रं यदा स्पृशेत् । उपोष्य तां तिथिं विद्वान् कोटियज्ञफलं लभेत् ॥ ३७९ ॥

15.380

श्लोक

सोमाह्नि बुधवारे वा चाष्टमी रोहिणीयुता । जयन्तो नाम सा ख्याता तां लभेत् पुण्यसञ्चयैः ॥ ३८० ॥

15.381

श्लोक

तस्यामुपोष्य यत् पापं लोकः कोटिभवोद्भवम् । विमुच्य निवसेद्विप्र वैकुण्ठे विरजे पुरे ॥ ३८१ ॥

15.382

श्लोक

अष्टमी नवमी-विद्धा उमामाहेश्वरी तिथिः । सैवोपोष्या सदा पुण्यकाङ्क्षिभी रोहिणीं विना ॥ ३८२ ॥

15.383

श्लोक

परविद्धा सदा कार्या पूर्वविद्धान्तु वर्जयेत् । अष्टमी सप्तमीविद्धा हन्यात् पुण्यं पुराकृतम् ॥ ३८३ ॥

15.384

श्लोक

ब्रह्महत्याफलं दद्याद्धरिवैमुख्यकारणात् । केवलस्त्वर्क्षयोगेन उपवासस्तिथिं विना । न यच्छति शुभं कार्यं मुनिभिः परिकीर्तितम् ॥ ३८४ ॥

15.385

श्लोक

परेऽह्नि पारणं कुर्यात् तिथ्यन्ते वाथ ऋक्षतः ॥ ३८५ ॥

15.386

श्लोक

यदृक्षं वा तिथिर्वापि रात्रिं व्याप्य व्यवस्थिता । दिवसे पारणं कुर्यादन्यथा पतनं भवेत् ॥ ३८६ ॥

15.387

श्लोक

उमामाहेश्वरी तिथिः ॥ ३८७ ॥

15.388

श्लोक

अष्टम्यां पूजयेच्छम्भुं नवम्यां शक्तिरिज्यते । तयोर्योगे तु सम्प्राप्ते द्वयोः पूजा महाफला ॥ ३८८ ॥

15.389

श्लोक

अत्र केवलमित्यादावुमामाहेश्वरी तिथिः । तिथिः प्रोक्ता सैव यस्मादुपोष्यत्वेन निश्चिता ॥ ३८९ ॥

15.390

श्लोक

अपिशब्दश्च तत्र स्याद्यदुक्तं रोहिणीं विना । तस्मादत्रापि सप्तम्या विद्धाष्टम्येव वर्जिता ॥ ३९० ॥

15.391

श्लोक

यद्दृक्षञ्चेति यद्वाक्यं तत्तु सामान्यतद्युतौ । प्रसङ्गादुक्तमस्मिन् हि विद्धा त्यक्तैव साग्रहम् ॥ ३९१ ॥

15.392

श्लोक

श्रुतिलिङ्गादिकन्यायाच्छ्रुतेरेव हि मुख्यता । तदेवमाष्टमीहानौ व्रतलोपः प्रसज्यते । तन्निरस्तं पूर्वमेव स्कान्दवाक्यानुसारतः ॥ ३९२ ॥

15.393

श्लोक

जन्माष्टमी पूर्वविद्धामित्याद्यं यदुदीरितम् । नृसिंहपरिचर्यायां दृष्टान्ताश्च प्रदर्शिताः ॥ ३९३ ॥

15.394

श्लोक

दशमीवेधयोगेन शुद्धं हि द्वादशीव्रतम् । सप्तम्यवेधवेधोक्तिव्यवस्था या कृता परैः । निरस्ता सा पुरा देवैरित्यादि-वचसो बलात् ॥ ३९४ ॥

15.395

श्लोक

वैष्णवावष्णवद्वैधाद्व्यस्थैव तदर्हति ॥ ३९५ ॥

15.396

श्लोक

द्वौ भूतसर्गौ लोकेऽस्मिन् देव आसुर एव च । विष्णुभक्तिपरो दैव आसुरस्तद्विपर्ययः ॥ ३९६ ॥

15.397

श्लोक

शुद्धायाः केवलायाश्चाष्टमीवृद्धौ तु पारणम् । तिथ्यन्ते भेऽधिके भान्ते द्विवृद्धौ चेकभेदतः ॥ ३९७ ॥

15.398

श्लोक

भान्ते कुर्यात् तिथेर्वापि शस्तं भारत पारणम् ॥ ३९८ ॥

15.399

श्लोक

रोहिणीसंयुता चेयं विद्वद्भिः समुपोषिता । वियोगे पारणं कुर्युर्मुनयो ब्रह्मवादिनः ॥ ३९९ ॥

15.400

श्लोक

सांयौगिके तु सम्प्राप्ते यत्रकोऽपि वियुज्यते । तत्रैव पारणं कुर्यादेवं वेदविदो विदुः ॥ ४०० ॥