Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १५

दिव्याविर्भावः

15.201

श्लोक

क्रियालोपविघातार्थं यत्त्वया विहितं प्रभो । मयैतत् क्रियते देव तव तुष्ट्यै पवित्रकम् ॥ २०१ ॥

15.202

श्लोक

न मे विघ्नो भवेत् त्वत्र कुरु नाथ दयां मयि । सर्वथा सर्वदा विष्णो मम त्वं परमा गतिः ॥ २०२ ॥

15.203

श्लोक

देवस्य सर्वतो न्यस्येद्दन्तकाष्ठं जलं कुशान् । मृत्तिकाञ्च हरिद्राञ्च कुङ्कुमं रोचनानि च ॥ २०३ ॥

15.204

श्लोक

उपानहौ सितच्छत्रं चामरं व्यजनं तथा । यवव्रीह्यादिधान्यानि यथास्थानं पृथक् पृथक् ॥ २०४ ॥

15.205

श्लोक

कुम्भं शुद्धाम्बुनापूर्य सर्वतोभद्रमण्डले । देवाग्रतो निधायास्मिन् पवित्राण्यधिवासयेत् ॥ २०५ ॥

15.206

श्लोक

भगवत्पुरतस्तानि पटलस्थानि पूजयन् । आदावावाहयेन्मूलयुजा तन्मनुना बुधः ॥ २०६ ॥

15.207

श्लोक

ॐ सांवत्सरस्य यागस्य पवित्रीकरणाय भोः । विष्णुलोकात् पवित्राद्य आगच्छेह नमोऽस्तु ते ॥ २०७ ॥

15.208

श्लोक

तेष्वावाह्य यथास्थानं ब्रह्माद्या देवतास्ततः । तत्तन्मन्त्रैः सन्निधाप्याक्षतगन्धादिनार्चयेत् ॥ २०८ ॥

15.209

श्लोक

ब्रह्मविष्णुमहादेवास्त्रिसूत्रीदेवताः स्मृताः । प्रणवो वायुवह्नी च ब्रह्मा नागः शशी रविः । शिवश्च विश्वेदेवाश्च नवसूत्र्यधिदेवताः ॥ २०९ ॥

15.210

श्लोक

क्रिया च पौरुषी वीरा चतुर्थी चापराजिता । जया च विजया चैव मुक्तिदा च सदाशिवा ॥ २१० ॥

15.211

श्लोक

मनोमयी तु नवमी दशमी सर्वतोमुखी । ग्रन्थीनां देवतास्त्वेतास्तत्र तत्र निवेदयेत् ॥ २११ ॥

15.212

श्लोक

ॐ सर्वाभरणचित्राङ्ग सर्वदेवनमस्कृत । लावण्यरूपविश्वात्मन् ज्येष्ठसूत्रं समाश्रय ॥ २१२ ॥

15.213

श्लोक

ॐ सर्वलक्ष्मीकर श्रीश सर्वज्ञानरसात्मक । निवृत्तरूप विश्वात्मन् मध्यसूत्रं समाश्रय ॥ २१३ ॥

15.214

श्लोक

ॐ अतिवेग मरुद्योने पुरुषात्मन् दिवस्पते । कनीयो हे प्रभो देव तेजसा सूत्रमाश्रय ॥ २१४ ॥

15.215

श्लोक

यन्त्र मन्त्रो न वर्तेत तत्तन्नाम्नैव तत्र च । नमोऽन्तः सचतुर्थीक ऊह्यः प्राग्लिखनान्मनुः ॥ २१५ ॥

15.216

श्लोक

वितस्तिमात्रं बध्नीयाद्डोरकं मङ्गलात्मकम् ॥ २१६ ॥

15.217

श्लोक

ॐ संवत्सरकृतार्चायाः सम्पूर्णफलदोऽसि यत् । पवित्रीकरणायतत् कौतुकं धर ते नमः ॥ २१७ ॥

15.218

श्लोक

ततो गन्धपवित्रञ्च गृहीत्वा धूपित बुधः । भगवन्तं नमस्कृत्य भक्त्या सम्प्रार्थयेदिदम् ॥ २१८ ॥

15.219

श्लोक

आमन्त्रितोऽसि देवेश सार्द्धं देवगणेश्वरैः । मन्त्रेशैर्लोकपालैश्च सहितः परिचारकैः ॥ २१९ ॥

15.220

श्लोक

आगच्छ भगवन्नीश विधिसम्पूणकारक । प्रातस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव ॥ २२० ॥

15.221

श्लोक

विष्णुतेजोद्भवं रम्यं सर्वपातकनाशनम् । सर्वकामप्रदं देव तवाङ्गं धारयाम्यहम् ॥ २२१ ॥

15.222

श्लोक

अनेन मनुना विद्वान् मूलसम्पुटितेन हि । दद्याद्गन्धपवित्रन्तत् श्रीकृष्णचरणाब्जयोः ॥ २२२ ॥

15.223

श्लोक

नीराज्य देवं स्तुत्वा च दत्त्वा पुष्पाञ्जलिं ततः । तत्पवित्राणि तत्कुम्भमप्यस्त्रमनुनाथवा । नृसिंहमनुना रक्षेत् कवचेनावगुण्ठयेत् ॥ २२३ ॥

15.224

श्लोक

गीतनृत्यादिना कुर्याद्विधिवज्जागरं निशि ॥ २२४ ॥

15.225

श्लोक

प्रातःकृत्यानि निर्वर्त्य नित्यपूजां विधाय च । विशेषतोऽर्चयेद्देवं पवित्राणि च पूजयेत् ॥ २२५ ॥

15.226

श्लोक

महावादित्रघोषेण नामसङ्कीर्तनोत्सवैः । मूलसम्पुटितेनैव पवित्राण्यर्पयेत् क्रमात् ॥ २२६ ॥

15.227

श्लोक

वक्ष्यमाणेन मन्त्रेण भक्त्या कृष्णाय वैष्णवः । पूजां कृत्वा परीवारदेवानां तान्यथार्पयेत् ॥ २२७ ॥

15.228

श्लोक

कृष्ण कृष्ण नमस्तुभ्यं गृहाणेदं पवित्रकम् । पवित्रीकरणार्थाय वर्षपूजाफलप्रद ॥ २२८ ॥

15.229

श्लोक

पवित्रकं कुरुष्वाद्य यन्मया दुष्कृतं कृतम् । शुद्धो भवाम्यहं देव त्वत्प्रसादाजनार्दन ॥ २२९ ॥

15.230

श्लोक

महापूजां ततः कृत्वा स्तुत्वा नत्वार्थयेत् प्रभुम् । वनमालां यथा देव कौस्तुभं सततं हृदि । तद्वत् पवित्रं तन्तुं च पूजाञ्च हृदये वह ॥ २३० ॥

15.231

श्लोक

जानताऽजानता वापि न कृतं यत्तवार्चनम् । केन वा विघ्नदोषेण परिपूर्णं तदस्तु मे ॥ २३१ ॥

15.232

श्लोक

तथाग्निं विधिनाभ्यर्च्य पवित्रं तस्य चार्पयेत् । कृष्णे निवेदयन्मन्त्रहीनमित्यादिना कृतम् ॥ २३२ ॥

15.233

श्लोक

गुरुञ्च भक्त्या सम्पूज्य पवित्रं गुरुवेऽर्पयेत् । वैष्णवेभ्यः पवित्राणि दत्त्वैकं धारयेत् स्वयम् ॥ २३३ ॥

15.234

श्लोक

सम्पूज्य वैष्णवान् विप्रान् शक्त्या संभोज्य बन्धुभिः । समं महाप्रसादान्नं सुखं भुञ्जीत वैष्णवः ॥ २३४ ॥

15.235

श्लोक

मासं पक्षमहोरात्रं त्रिरात्रं धारयेत्तथा । देवेशं सूत्रसन्दर्भं देशकालानुसारतः । प्रत्यहं स्नानकर्मादि सूत्राण्युत्तार्य कारयेत् ॥ २३५ ॥

15.236

श्लोक

अभिषिच्याथ तोयेन पुनर्देवे निवेदयेत् ॥ २३६ ॥

15.237

श्लोक

तथान्ते देवमभ्यय्च्य विशेषाद् पुष्पचन्दनैः । नैवेद्यं विविधं दत्त्वा तत्सूत्रन्तु विसर्जयेत् ॥ २३७ ॥

15.238

श्लोक

ॐ सांवत्सरीं शुभां पूजां सम्पाद्य विधिवन्मम । व्रजेदानीं पवित्र त्वं विष्णुलोकं विसर्जितम् ॥ २३८ ॥

15.239

श्लोक

यावद्देवे पवित्राणि तावत्तिष्ठेत् समाहितः । ब्रह्मचारी हविष्याशी देवपूजापरायणः ॥ २३९ ॥

15.240

श्लोक

एवं यः कुरुते विद्वान् वर्षे वर्षे न संशयः । स याति परमं स्थानं यत्र देवो नृकेशरी ॥ २४० ॥

15.241

श्लोक

मुख्यकालस्य चैतस्य विघ्नतोऽपगमे सति । भाद्रादावपि कर्तव्यं पवित्रारोपणं प्रभोः ॥ २४१ ॥

15.242

श्लोक

श्रावणस्य सिते पक्षे कर्कटस्थे दिवाकरे । द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम् ॥ २४२ ॥

15.243

श्लोक

सिंहस्थे वा रवौ कार्यं कन्यामपि गतेऽथवा । तस्यामेव तिथौ सम्यक् तुलास्थे न कथञ्चन ॥ २४३ ॥

15.244

श्लोक

कर्कटकं गते सूर्ये तथा सिंहगतेऽपि वा । द्वादश्यां शुक्लपक्षस्य हरेर्दद्यात् पवित्रकम् ॥ २४४ ॥

15.245

श्लोक

कन्यागतेऽपि कुर्वीत यावन्नोत्तिष्ठते हरिः ॥ २४५ ॥

15.246

श्लोक

भाद्रे भगवतो जन्मदिने कार्यो महोत्सवः । विशेषेण महापूजां व्रतपूर्णेन वैष्णवैः ॥ २४६ ॥

15.247

श्लोक

सर्वैरवश्यं कर्तव्यं जन्माष्टमीव्रतं नरैः । नित्यत्वात् पापहारित्वात् सवार्थप्रापणादपि ॥ २४७ ॥

15.248

श्लोक

जन्माष्टमीव्रतं ब्रूहि विस्तरेण ममाच्युत । कस्मिन् काले समुत्पन्नं किं पुण्यं को विधिः स्मृतः ॥ २४८ ॥

15.249

श्लोक

हते कंसासुरे दुष्टे मथुरायां युधिष्ठिर । देवकी मां परिष्वज्य कृत्वोत्सङ्गे रुरोद ह ॥ २४९ ॥

15.250

श्लोक

तत्रैव रङ्गवाटे सा मञ्चारूढा जनोत्सवे । मल्लयुद्धे पुरा वृत्ते संस्तुता कुकुरान्धकः ॥ २५० ॥

15.251

श्लोक

स्वजनैर्बहुभिः स्निग्धैस्तेषां स्त्रीभिः समावृता । वसुदेवोऽपि तत्रैव वात्सल्यात् प्ररुरोद मे । समागम्य परिष्वज्य पुत्र पुत्रेत्युवाच ह ॥ २५१ ॥

15.252

श्लोक

स गद्गदस्वरो दीनो वाष्पपर्याकुलेक्षणः । बलभद्रञ्च माञ्चैव परिष्वज्येदमब्रवीत् ॥ २५२ ॥

15.253

श्लोक

अद्य मे सफलं जन्म जीवितञ्च सुजीवितम् । यदुभाभ्यां सुताभ्यां मे समुद्भूतः समागमः ॥ २५३ ॥

15.254

श्लोक

एवं हर्षेण दम्पत्योर्हृष्टं सर्वऊ तदा नृप । प्रणिपत्य जनाः सर्वे मामूचुस्ते प्रहर्षिताः ॥ २५४ ॥

15.255

श्लोक

अद्य प्रहर्ःओ ह्यस्माकमद्य जातो जनार्दनः । अद्य मल्लाङ्गयुद्धेन दुष्टः कंसो निपातितः ॥ २५५ ॥

15.256

श्लोक

एवं महोत्सवं दृष्ट्वा समाजे मधुसूदन । प्रसादः क्रियतामस्या लोकस्यान्योऽपि शीघ्रतः ॥ २५६ ॥

15.257

श्लोक

यस्मिन् दिने प्रसूयेत देवकी त्वां जनार्दन । तद्दिनं देहि वैकुण्ठ कुर्मस्ते तत्र चोत्सवम् । सम्यग्भक्तिप्रपन्नानां प्रसादं कुरु केशव ॥ २५७ ॥

15.258

श्लोक

एवमुक्ते जनौघेन वसुदेवोऽपि विस्मितः । विलोक्य बलभद्रं तं संप्रहृष्टतनूरुहः ॥ २५८ ॥

15.259

श्लोक

एवमस्त्विति लोकानां कथयस्व यथातथम् ॥ २५९ ॥

15.260

श्लोक

ततस्तातसमादेशान्मया जन्माष्टमीव्रतम् । मथुरायां जनौघाय पार्थ सम्यक् प्रकाशितम् ॥ २६० ॥

15.261

श्लोक

पौराश्च तज्जन्मदिनं वर्षे गर्भाष्टमे गते । पुनर्जन्माष्टमीं लोकाः कुर्वन्तु ब्राह्मणादयः । क्षत्रिया वैश्यजातीयाः शूद्रा येऽन्येऽपि धर्मिणः ॥ २६१ ॥

15.262

श्लोक

सिंहराशिगते सूर्ये गगने जलदागमे । मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्द्धरात्रके ॥ २६२ ॥

15.263

श्लोक

शशाङ्के वृषराशिस्थे प्राजापत्यर्क्षंयुते । वसुदेवेन देवक्यामहं जातो जनाः स्वयम् ॥ २६३ ॥

15.264

श्लोक

एवमेतत् समाख्यातं लोके जन्माष्टमीव्रतम् । भगवत्याश्च तत्रैव कुरुध्वं सुमहोत्सवम् । मथुरायां ततः पश्चाल्लोके ख्यातिं गमिष्यति ॥ २६४ ॥

15.265

श्लोक

इत्याकर्ण्य यथाख्यातं तथा लोकैरनुष्ठितम् । शान्तिरस्तु सुखञ्चास्तु लोकाः सन्तु निरामयाः ॥ २६५ ॥

15.266

श्लोक

नित्यत्वञ्च परन्तस्य भगवत्प्रीणनान्मतम् । विधिवाक्यविशेषाच्चाकरणे प्रत्यवायतः ॥ २६६ ॥

15.267

श्लोक

प्रह्लादाद्यैश्च भूपालैः कृता जन्माष्टमी शुभा । श्रद्धया परया विष्णोः प्रीतये कृष्णवल्लभा ॥ २६७ ॥

15.268

श्लोक

प्राजापत्यर्क्षसंयुक्ता श्रावणस्यासिताष्टमी । वर्षे वर्षे तु कर्तव्या तुष्ट्यर्थं चक्रपाणिनः ॥ २६८ ॥

15.269

श्लोक

शूद्रान्नेन तु यत् पापं शवहस्तस्थभोजने । तत् पापं लभते पुंभिर्जयन्त्यां भोजने कृते ॥ २६९ ॥

15.270

श्लोक

गृध्रमांसं खरं काकं श्येनं वा मुनिसत्तम । मांसञ्च द्विपदां भुक्तं भुक्तं जन्माष्टमीदिने ॥ २७० ॥

15.271

श्लोक

जन्माष्टमीदिने प्राप्ते येन भुक्तं द्विजोत्तम । त्रैलोक्यसम्भवं पापं भुक्तमेव न संशयः ॥ २७१ ॥

15.272

श्लोक

जयन्तीवासरे प्राप्ते करोत्युदरपूरणम् । पोड्यते तिलमात्रन्तु यमदूतैः कलेवरम् ॥ २७२ ॥

15.273

श्लोक

यो भुङ्क्ते च विमूढात्मा जयन्तीवासरे नृप । न तस्य नरकोत्तारो द्वादशीञ्च प्रकुर्वतः ॥ २७३ ॥

15.274

श्लोक

अतीतानागतन्तेन कुलमेकोत्तरं शतम् । पातितं नरके घोरे भुञ्जता कृष्णवासरे ॥ २७४ ॥

15.275

श्लोक

ये न कुर्वन्ति जानन्तः कृष्णजन्माष्टमीव्रतम् । ते भवन्ति महाप्राज्ञ व्याला महति कानने ॥ २७५ ॥

15.276

श्लोक

ब्रह्महत्या सुरापानं गोवधः स्त्रीबधोऽपि वा । न लोको मुनिशार्दूल जयन्तीविमुखस्य च ॥ २७६ ॥

15.277

श्लोक

वर्षे वर्षे तु या नारी कृष्णजन्माष्टमीव्रतम् । न करोति महाप्राज्ञ व्याली भवति कानने ॥ २७७ ॥

15.278

श्लोक

श्रावणे बहुले पक्षे कृष्णजन्माष्टमीव्रतम् । न करोति नरो यस्तु स भवेत् क्रूरराक्षसः ॥ २७८ ॥

15.279

श्लोक

आवणे बहुले पक्षे न करोति यदाष्टमीम् । क्रूरायुधाः क्रूरमुखा हिंसन्ति यमकिङ्कराः ॥ २७९ ॥

15.280

श्लोक

न करोति यदा विष्णोर्जयन्तीसम्भवं व्रतम् । यमस्य वशमापन्नः सहते नारकीं व्यथाम् ॥ २८० ॥

15.281

श्लोक

कृष्णजन्माष्टमी त्यक्त्वा योऽन्यव्रतमुपासते । नाप्नोति सुकृतं किञ्चिद्दृष्टं श्रुतमथापि वा ॥ २८१ ॥

15.282

श्लोक

तुष्ट्यर्थं देवकीसूनोर्जयन्तीसम्भवं व्रतम् । कर्तव्यं वित्तशाठ्येन भक्त्या भक्तजनैरपि । अकुर्वन् याति निरयं यावदिन्द्राश्चतुर्दश ॥ २८२ ॥

15.283

श्लोक

एकेनैवोपवासेन कृतेन कुरुनन्दन । सप्तजन्मकृतात् पापान्मुच्यते नात्र संशयः ॥ २८३ ॥

15.284

श्लोक

पुत्रसन्तानमारोग्यं सौभाग्यमतुलं लभेत् । सत्यधर्मरतो भूत्वा मृतो वैकुण्ठमाप्नुयात् ॥ २८४ ॥

15.285

श्लोक

तन्त्र नित्यं विमानेन वर्षलक्षं युधिष्ठिर । भोगान्नानाविधान् भुक्त्वा पुण्यशेषादिहागतः ॥ २८५ ॥

15.286

श्लोक

सर्वकामसमृद्धे तु सर्वासुखविवर्जिते । सर्वधर्मयुते पार्थ सर्वगोकुलसङ्कुले ॥ २८६ ॥

15.287

श्लोक

तस्मिन् राष्ट्रेप्रभुर्भुङ्क्ते दीर्घायुर्मनसेप्सितान् । भोगानन्ते च परमं पदं यात्यपुनर्भवम् ॥ २८७ ॥

15.288

श्लोक

तत्कुले रूपविख्याता जायन्ते हृदयङ्गमाः ॥ २८८ ॥

15.289

श्लोक

यस्मिन् सदैव देशे तु लिखितं वापि चर्चितम् । मम जन्मदिनं पुण्य सर्वालङ्कार-शोभितम् । पूज्यते पाण्डवश्रेष्ठ जनैरुत्सव-संयुतम् ॥ २८९ ॥

15.290

श्लोक

परचक्रभयन्तत्र न कदाचिद्भवत्युत । पर्जन्यः कामवर्षी स्यादीतिभ्यो न भयं भवेत् ॥ २९० ॥

15.291

श्लोक

गृहे वा पूज्यते यस्मिन् देवक्याश्चरितं मम । तत्र सर्वसमृद्धिः स्यान्नोपसर्गादिकं भयम् ॥ २९१ ॥

15.292

श्लोक

पशुतो नकुलाद्व्यालात् पापरोगाच्च पातकात् । राजतश्चौरतो वापि न कदाचिद्भयं भवेत् ॥ २९२ ॥

15.293

श्लोक

यस्मिन् गृहे पाण्डुपुत्र लिख्यते देवकीव्रतम् । न तत्र मृतनिष्क्रान्तिर्न गर्भपतनं तथा ॥ २९३ ॥

15.294

श्लोक

न च व्याधिभयं तत्र भवेदिति मतं मम । न वैधव्यं न दौर्भाग्यं न दम्भः कलहो गृहे ॥ २९४ ॥

15.295

श्लोक

सम्पर्केणापि यः कुर्यात् कश्चिज्जन्माष्टमीव्रतम् । विष्णुलोकमवाप्नोति सोऽपि पार्थ न संशय ॥ २९५ ॥

15.296

श्लोक

जन्माष्टमीजनमनोनयनोत्सवाढ्या पापापहा सपदि नन्दितनन्दगोपा । यो देवकीं सदयितां यजतीह तस्यां पुत्रानवाप्य समुपैति पदं न विष्णोः ॥ २९६ ॥

15.297

श्लोक

रोहिणी च यदा कृष्णपक्षेऽष्टम्यां द्विजोत्तम । जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥ २९७ ॥

15.298

श्लोक

यद्वाल्ये यच्च कौमारे यौवने वार्द्धकेऽपि यत् । सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु । तत् क्षालयति गोविन्दं तस्यामभ्यर्च्य भक्तितः ॥ २९८ ॥

15.299

श्लोक

होमयज्ञादिदानानां फलञ्च शतसम्मितम् । सम्प्राप्नोति न सन्देहो यच्चान्यन्मनसेप्सितम् ॥ २९९ ॥

15.300

श्लोक

उपवासश्च तत्रोक्तो महापातकनाशनः ॥ ३०० ॥