Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १५

दिव्याविर्भावः

15.101

श्लोक

अङ्क्येत्तप्तचक्राद्यैरात्मनो बाहुमूलयोः । कलत्रापत्यभृत्येषु पश्वादिषु च सम्पदि ॥ १०१ ॥

15.102

श्लोक

आयसं विधिवत् कृत्वा पञ्चायुधविधानतः । तत्तन्मन्त्रेण मन्त्रज्ञाः प्रतिष्ठाप्य पृथक् पृथक् ॥ १०२ ॥

15.103

श्लोक

ललाटे च गदा धार्या मूर्धिन चापं शरन्तथा । नन्दकञ्चैव हृन्मध्ये शङ्खचक्रे भुजद्वये ॥ १०३ ॥

15.104

श्लोक

दक्षिणे तु भुजे विप्रो विभृयाद्वै सुदर्शनम् । सव्ये च शङ्खं विभृयादिति ब्रह्मविदो विदुः ॥ १०४ ॥

15.105

श्लोक

सौवर्णं राजतं ताम्रं कांस्यमायसमेव वा । चक्रं कृत्वा तु मेधावी धारयेत विचक्षणः ॥ १०५ ॥

15.106

श्लोक

एवमेव प्रबोधन्यां द्वादश्यां भगवत्परः । तप्तमुद्रा ध्रुवं धार्या द्वारकायां विशेषतः ॥ १०६ ॥

15.107

श्लोक

ततो नीराज्य कृष्णन्तु नरयानेन वैष्णवः । समं गीतादिघोषेण नयेत् पुण्यं जलाशयम् ॥ १०७ ॥

15.108

श्लोक

सम्प्रार्थ्य हस्तं दत्त्वा च तीरे समुपवेशयेत् ॥ १०८ ॥

15.109

श्लोक

धौताङ्घ्रिपाणिराचान्तः कृत्वा सङ्कल्पमात्मनि । देवे च न्यासमाचर्य स्नापयेत्तं यथाविधि ॥ १०९ ॥

15.110

श्लोक

सम्प्रार्थ्य जलमध्ये तं देवं संस्नापयेत् सुखम् । गन्धपुष्पादिभिश्चाथ महापूजां समाचरेत् ॥ ११० ॥

15.111

श्लोक

शेषे पर्यङ्कवर्येऽस्मिन् फणामणिगणामले । श्वेतद्वीपान्तरे देव कुरु निद्रां नमोऽस्त्विति ॥ १११ ॥

15.112

श्लोक

सुप्ते त्वयि जगन्नाथ जगत् सुप्तं भवेदिदम् । विबुद्धे तु विबुध्येत प्रसन्नो मे भवाच्युत ॥ ११२ ॥

15.113

श्लोक

इत्याशास्य प्रभोरग्रे गृह्णीयान्नियमं व्रती । चतुमासेषु कर्तव्यं कृष्णभक्तिविवृद्धये ॥ ११३ ॥

15.114

श्लोक

एकादश्यान्तु गृह्णीयात् संक्रान्तौ कर्कटस्य तु । आषाढ्यां वा नरो भक्त्या चातुर्मास्योदितं व्रतम् ॥ ११४ ॥

15.115

श्लोक

चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि । इमं करिष्ये नियमं निर्विघ्नं कुरु मेऽच्युत ॥ ११५ ॥

15.116

श्लोक

यो विना नियमं मर्त्यो व्रतं वा जप्यमेव वा । चातुर्मास्यं नयेन्मूर्खो जीवन्नपि मृतो हि सः ॥ ११६ ॥

15.117

श्लोक

श्रावणे वर्जयेच्छाकं दधि भाद्रपदे तथा । दुग्धमाश्चयुजे मासि कार्त्तिके चामिषं त्यजेत् ॥ ११७ ॥

15.118

श्लोक

निष्पावान् राजमाषांश्च सुप्ते देवे जनार्दने । यो भक्षयति विप्रेन्द्र श्वपचापधिको हि सः ॥ ११८ ॥

15.119

श्लोक

कार्त्तिके तु विशेषेण राजमाषांश्च भक्षयन् । निष्पावान् मुनिशार्दूल यावदाहूतनारकी ॥ ११९ ॥

15.120

श्लोक

कालिङ्गानि पटोलानि वृन्ताकं सन्धितानि च । एतानि भक्षयेद्यास्तु सुप्ते देवे जनार्दने । सप्तजन्मार्जितं पुण्यं हरते नात्र संशयः ॥ १२० ॥

15.121

श्लोक

रुच्यं तत्तत्काललभ्यं फलमूलादि वर्जयेत् ॥ १२१ ॥

15.122

श्लोक

जपहोमाद्यनुष्ठानं नामसङ्कीर्तनन्तथा । स्वीकृत्य प्रार्थयेद्देवं गृहीतनियमो बुधः ॥ १२२ ॥

15.123

श्लोक

इदं व्रतं मया देव गृहीतं पुरतस्तव । निर्विघ्नं सिद्धिमायातु प्रसादात्तव केशव ॥ १२३ ॥

15.124

श्लोक

गृहीतेऽस्मिन् व्रते देव पञ्चत्वं यदि वा भवेत् । तदा भवतु सम्पूर्णं प्रसादात्ते जनार्दन ॥ १२४ ॥

15.125

श्लोक

शृणु नारद कार्त्स्न्येन चातुर्मास्यव्रतक्रियाः । या निर्वर्त्त्य नरो भक्त्या प्रयाति परमां गतिम् ॥ १२५ ॥

15.126

श्लोक

व्रतानि वैष्णवानीह मनस्यपि चिकीर्षतः । नरस्य क्षयमाप्नोति पापं जन्मशतोद्भवम् ॥ १२६ ॥

15.127

श्लोक

एकभक्तो नरः शान्तो नित्यस्नायी दृढव्रतः । योऽर्चयेच्चतुरो मासान हरिं स्यात्तस्य लोकभाक् ॥ १२७ ॥

15.128

श्लोक

यस्तु सुप्ते हृषीकेशे क्षितिशायी भवेन्नरः । वार्षिकान् चतुरो मासान् लभते वैष्णवीं गतिम् ॥ १२८ ॥

15.129

श्लोक

यस्तु केशवमुद्दिश्य चान्द्रायणपरायणः । चातुर्मास्यं नयेद्भक्त्या स विष्णुतनुमाविशेत् ॥ १२९ ॥

15.130

श्लोक

चतुरो वार्षिकान् मासान् देवस्योत्थापनावधि । स्त्री वा नरो वा मद्भक्तो धर्मार्थं सुदृढवतः । गृह्नीयान्नियमानेतान् दन्तधावनपूर्वकम् ॥ १३० ॥

15.131

श्लोक

तेषां फलानि वक्ष्यामि तत्कर्तृणां पृथक् पृथक् ॥ १३१ ॥

15.132

श्लोक

मधुरस्वरसम्पन्नो भवेल्लवणवर्जनात् । लभते सन्ततिं दीर्घां तैलस्य परिवर्जनात् ॥ १३२ ॥

15.133

श्लोक

अभ्यङ्गन्वर्जनात् पार्थ सुन्दराङ्गः प्रजायते । पक्वतैलपरित्यागाच्छत्रुनाशमवाप्नुयात् ॥ १३३ ॥

15.134

श्लोक

मधुकतैलत्यागेन सौभाग्यमतुलं भवेत् । पुष्पोपभोगत्यागेन स्वर्गे विद्याधरो भवेत् ॥ १३४ ॥

15.135

श्लोक

योगाभ्यासी भवेद्यस्तु स ब्रह्मपदमाप्नुयात् । कट्वम्लातक्तमधुरक्षारकाषायजान् रसान् । यो वर्जयेत् स वैरूप्यं वैगान्ध्यं नाप्नुयात् क्वचित् ॥ १३५ ॥

15.136

श्लोक

ताम्बूलवर्जनाद्भोगी अपक्वादोऽमलो भवेत् ॥ १३६ ॥

15.137

श्लोक

पादाभ्यङ्गशिरोभ्यङ्गपरित्यागच्च पार्थिव । दीप्तिमान् दीप्तचरणो मधुक्षौद्रे परित्यजेत् ॥ १३७ ॥

15.138

श्लोक

दधिदुग्धतक्रनियमाद्गोलोकं लभते नरः । इन्द्रातिथित्वमायाति स्थालीपाकविवर्जनात् ॥ १३८ ॥

15.139

श्लोक

लभेच्च सन्ततिं दीर्घां तापपक्वस्य वर्जनात् । भूमौ प्रस्तरशायी च विष्णोरनुचरो भवेत् ॥ १३९ ॥

15.140

श्लोक

सदा मुनिः सदा योगी मधुमांसस्य वर्जनात् । निर्व्याधिर्नीरुगोजस्वी सुरामद्यविवर्जनात् ॥ १४० ॥

15.141

श्लोक

एकान्तरोपवासेन ब्रह्मलोके महीयते । धारणान्नखलोमानां गङ्गास्नानं दिने दिने ॥ १४१ ॥

15.142

श्लोक

मौनव्रती भवेद्यस्तु तस्याज्ञास्खलिता भवेत् । भूमौ भुङ्क्ते सदा यस्तु स पृथिव्याः पतिर्भवेत् ॥ १४२ ॥

15.143

श्लोक

नमो नारायणायेति जप्त्वा दानशतं फलम् ॥ १४३ ॥

15.144

श्लोक

पादाभिवन्दनाद्विष्णोर्भवेद्गोदानजं फलम् । विष्णुपादाम्बुजस्पर्शात् कृतकृत्यो भवेन्नरः ॥ १४४ ॥

15.145

श्लोक

विष्णोर्देवालये कुर्यादुपलेपनमार्जने । कल्पस्थायी भवेद्राजा स नरो नात्र संशयः ॥ १४५ ॥

15.146

श्लोक

प्रदक्षिणत्रयं कृत्वा यस्तु स्यात् स्तुतिपाठकः । हसयुक्तविमानेन स च विष्णुपदं व्रजेत् ॥ १४६ ॥

15.147

श्लोक

गीतवाद्यकरो विष्णोर्गन्धर्वलोकमाप्नुयात् । नित्यं शास्त्रविनोदेन लोकान् यस्तु प्रबोधयेत् । स व्यासरूपो भगवानन्ते विष्णुपुरं व्रजेत् ॥ १४७ ॥

15.148

श्लोक

पुष्पमालाकुलां पूजां कृत्वा विष्णोः पुरं व्रजेत् ॥ १४८ ॥

15.149

श्लोक

कृत्वा प्रोक्षणिकं दिव्यं स्थानमप्सरसां लभेत् । तीर्थादिषु कृतस्नानो निर्मलं देहमाप्नुयात् ॥ १४९ ॥

15.150

श्लोक

पञ्चगव्याशनात् पार्थ चान्द्रायणफलं लभेत् । एकभक्ताशनान्नित्यमग्निहोत्रफलं लभेत् ॥ १५० ॥

15.151

श्लोक

नक्तभोजी समग्रन्तु तीर्थयात्राफलं लभेत् । अयाचितेन चाप्नोति वापीकूपप्रपाफलम् ॥ १५१ ॥

15.152

श्लोक

षष्ठकालोऽन्नभोजी यः स्थायी स्वर्गे नरो भवेत् । नित्यस्नायी नरो यस्तु नरकं स न पश्यति ॥ १५२ ॥

15.153

श्लोक

भाजनं वज्जयेद्यस्तु स स्नानं पौष्करं लभेत् ॥ १५३ ॥

15.154

श्लोक

पत्रेषु यो नरो भुङ्क्ते कुरुक्षेत्रफलं लभेत् । शिलायां भोजनं नित्यं भवेत् स्नानं प्रयागजम् ॥ १५४ ॥

15.155

श्लोक

यामद्वयजलत्यागान्न रोगैः परिभूयते । एवमादिव्रतैः पार्थ तुष्टिमायाति तोषितः ॥ १५५ ॥

15.156

श्लोक

योगनिद्रां समालम्ब्य शेषाहिशयने स्वपन् । क्षीरोदतोयवीच्यग्रै धौतपादः समाहितः ॥ १५६ ॥

15.157

श्लोक

लक्ष्मीकराम्बुजैः श्लक्ष्णैर्मृज्यमानपदद्वयः ॥ १५७ ॥

15.158

श्लोक

तस्मिन् काले च मद्भक्तो यो मासांश्चतुरः क्षिपेत् । व्रतैरनेकैर्नियमैः पाण्डवश्रेष्ठ मानवः । कल्पस्थायी विष्णुलोके भवेन्नास्त्यत्र संशयः ॥ १५८ ॥

15.159

श्लोक

सत्यां व्रतसमाप्तौ च श्रीकृष्णस्य प्रसादतः । यद्यद्दानादिकृत्यञ्च लेख्यं तत्तच्च कार्त्तिके ॥ १५९ ॥

15.160

श्लोक

स्तुत्वाथ कृष्णमभ्यर्च्य प्रसाद्य च पुनः पुनः । शेषं शङ्खोदतीर्थे च स्वीकुर्याद्वैष्णवैः सह ॥ १६० ॥

15.161

श्लोक

गीतनृत्यादिना देवं परितोष्याथ वैष्णवान् । सम्पूज्य नरयानेन देवं स्वालयमानयेत् ॥ १६१ ॥

15.162

श्लोक

प्रभोर्नीराजनं कृत्वा विसर्ज्यं वत वैष्णवान् । निवेश्य स्वासने देवं शयीत भुवि तं स्मरन् ॥ १६२ ॥

15.163

श्लोक

एवञ्च कुर्वतो मासांश्चतुरो यान्ति वै सुखम । अन्यथा प्रभवेद्दुःखमनावृष्टिश्च जायते ॥ १६३ ॥

15.164

श्लोक

मिथुनस्थे सहस्रांशौ न स्वापयति यो हरिम् । वैष्णवैः सह सम्भूय ह्यनावृष्टिस्तदा भवेत् ॥ १६४ ॥

15.165

श्लोक

यो देवशयनं पार्थ अनुमोद्य समाचरेत् । उत्थानं वापि कृष्णस्य स हरेर्लोकमाप्नुयात् ॥ १६५ ॥

15.166

श्लोक

श्रावणे मासि कृष्णं तं पुष्पैः केतकसम्भवैः । चन्द्रचन्दनकस्तूरीकुङ्कुमादिसुवासितैः । एलालवङ्गकवकोलफलानि बहुधार्पयेत् ॥ १६६ ॥

15.167

श्लोक

पवित्रारोपणं कुर्याद्द्वादश्यामृषितर्पणम् । पौर्णमास्यान्तु कुर्वीत तत्तदुक्तविधानतः ॥ १६७ ॥

15.168

श्लोक

श्रावणस्य सिते पक्षे द्वादश्यां वैष्णवैर्मुदा । कर्तव्यः कृष्णदेवस्य पवित्रारोपणोत्सवः ॥ १६८ ॥

15.169

श्लोक

स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः । हरिश्च प्रीतिमाप्नोति यः पवित्रं समाचरेत् ॥ १६९ ॥

15.170

श्लोक

विधिना शास्त्रदृष्टेन यो न कुर्यात् पवित्रकम् । हरन्ति राक्षसास्तस्य वर्षपूजादिकं फलम् ॥ १७० ॥

15.171

श्लोक

ये त्वां न बहु मन्यन्ते यथा सम्भादितो मया । जपहोमादिक तेषां फलं त्वामेतु निश्चयात् ॥ १७१ ॥

15.172

श्लोक

न करोति विधानेन पवित्रारोपणन्तु यः । तस्य सांवत्सरी पूजा निष्फला मुनिसत्तम ॥ १७२ ॥

15.173

श्लोक

तस्माद्भक्तिसमायुक्तैर्नरैर्विष्णु परायणैः । वर्षे वर्षे तु कर्तव्यं पवित्रारोपणं हरेः ॥ १७३ ॥

15.174

श्लोक

यावत् सूत्रं पवित्रस्य तावत् स्वर्गे महीयते । आयुरारोग्यमैश्वर्यं विपुलं तस्य वर्धते ॥ १७४ ॥

15.175

श्लोक

संवत्सरेण या पूजा कृता वै मन्त्रिणा द्विज । पवित्रदानात् पूर्णा स्यादित्याह भगवान् हरिः ॥ १७५ ॥

15.176

श्लोक

पवित्रारोपणं विष्णोर्भुक्तिमुक्तिप्रदायकम् । स्त्रीपुंकीर्तिप्रदं पुण्यं सुखसम्पद्धनावहम् ॥ १७६ ॥

15.177

श्लोक

पुण्यानान्तु तथा पुण्यं सर्वपापहर तु वै । पवित्रारोपणं तस्मात् पवित्रं परमं स्मृतम् ॥ १७७ ॥

15.178

श्लोक

संवत्सरेण यो भक्त्या समभ्यर्च्य जनार्दनम् । यत् फलं समवाप्नोति पवित्रारोपणेन तत् ॥ १७८ ॥

15.179

श्लोक

पावयत्येनसो नित्यं त्रायते भवबन्धनात् । पवित्रं तेन विख्यातं ब्राह्म तेजोऽभिधीयते ॥ १७९ ॥

15.180

श्लोक

विष्ण्वाख्यया तु विख्यातं तदा लोके विधीयते । स एव सूत्ररूपेण यज्ञेशः कर्मणां प्रभुः ॥ १८० ॥

15.181

श्लोक

तदेव त्रिगुणीसूत्रं ततं नारायणाख्यया । त्रिवेदात्मा त्र्यक्षरः प्रणवः स्मृतः ॥ १८१ ॥

15.182

श्लोक

तत्र बौधायनाद्युक्तः पवित्रारोपणे विधिः । सम्मतो विदुषां कृष्णार्चने योऽत्र स लिख्यते ॥ १८२ ॥

15.183

श्लोक

सौवर्णे राजतैस्ताम्रैः क्षौमैः सूत्रैस्तु पाद्मिकैः । कार्पासैर्वा पवित्राणीष्यन्ते क शैः कुशैरपि ॥ १८३ ॥

15.184

श्लोक

तत्र कार्पासिकं सूत्रं ब्राह्मणीकर्तितं शुभम् । आनीय त्रिगुणीकृत्य पुनस्त्रिगुणयेत् शुचिः ॥ १८४ ॥

15.185

श्लोक

पञ्चगव्येन तत् प्रोक्ष्य प्रक्षाल्य शुचिनाम्बुना । मूलेनाष्टोत्तरशतं म त्रेणाथाभिमन्त्र्येत् ॥ १८५ ॥

15.186

श्लोक

स्त्रीणि साष्टशतेनास्य तस्यार्द्धेनास्य चार्द्धतः । जानूरुनाभिदघ्नानि पवित्राण्याचरेत् प्रभोः ॥ १८६ ॥

15.187

श्लोक

षट्त्रिंशद्ग्रन्थयस्तेषामाद्ये कार्यास्तु मध्यमे । चतुर्विंश तरन्ते च द्वादश ग्रन्थयो बुधैः ॥ १८७ ॥

15.188

श्लोक

अङ्गुष्ठपर्वमात्रन्तु कुर्याद्ग्रन्थिमथोत्तमे । तदर्द्धं मध्यमे कुर्यात्तदर्द्धञ्च कनीयसि ॥ १८८ ॥

15.189

श्लोक

ग्रन्थीन् कुर्वीत सर्वत्र सुवृत्तान् सुमनोहरान् । न वै विषमसंख्याकान् ग्रन्थीन् कुर्वीत कुत्रचित् ॥ १८९ ॥

15.190

श्लोक

अष्टोत्तरसहस्रेण तत्सूत्रस्य पवित्रकम् । अष्टोत्तरशतग्रन्थिवनम लाख्यमाचरेत् ॥ १९० ॥

15.191

श्लोक

आरभ्य मुकुटं या तु सूत्रैर्विरचिता शुभा । आपादलम्बिनी माला वनमाला प्रकीर्तिता ॥ १९१ ॥

15.192

श्लोक

कुर्याद्गन्धपवित्रञ्च सूत्रैर्द्व दशभिः शुभैः । अरन्तिप्रमितं तच्च द्वादशग्रस्थिकं कृती ॥ १९२ ॥

15.193

श्लोक

पवित्राणि परिवारदेवतानां समाचरेत् । सूत्रैरतैरुडुसंख्याकैः कलासख्यार्कसंख्यकैः ॥ १९३ ॥

15.194

श्लोक

तेषु ग्रन्थीन् यथाशोभं बद्ध्वा वह्नेर्गुरोरपि । सप्तविंशतिभिः सूत्रैः षड्विंशतिभिरात्मनः ॥ १९४ ॥

15.195

श्लोक

यथासम्भवमन्येषां पवित्राणि च कारयेत् । सम्पादयेच्च सर्वाणि शोभनायेव यत्नतः ॥ १९५ ॥

15.196

श्लोक

विशोभसूत्रदानेन कर्तुः स्यादशुभं फलम् । पवित्रं परया भक्त्या तस्मात् कुर्वीत शोभनम् ॥ १९६ ॥

15.197

श्लोक

रञ्जयित्वाथ काश्मीरागुरुगोरोचनादिभिः । वस्त्रेणाच्छाद्य पटले स्थापयेत्तानि वैणवे ॥ १९७ ॥

15.198

श्लोक

कृत्वा कृत्यं दशम्याञ्च पवित्रारोपणाय हि । कृष्णं विज्ञाप्य तद्रात्रिं यथा प्राग्लिखितं नयेत् ॥ १९८ ॥

15.199

श्लोक

एकादश्यां प्रभाते च नित्यकृत्यं समाप्य हि । देवालयमुपस्कृत्य मण्डलं रचयेत् शुभम् ॥ १९९ ॥

15.200

श्लोक

कृत्वा कृष्णस्य नित्यार्चा पवित्रारोपणार्थकाम् । पूजां विशेषतः कृत्वा कृष्णं विज्ञापयेदिदम् ॥ २०० ॥