Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १४

षाण्मासिकः

14.301

श्लोक

अकिञ्चनोऽपि नियत उपोष्य नवमीव्रतम् । कृत्वा जागरणं भक्त्या पूजयेद्विधिवन्मुने ॥ ३०१ ॥

14.302

श्लोक

गङ्गायां प्रक्षिपेल्लेप्यां लेख्यां मूर्तिं गृहे न्यसेत् । आचार्याय च हैमादिं वदीत प्रतिमां बुधः ॥ ३०२ ॥

14.303

श्लोक

चैत्रे सितैकादश्याञ्च दक्षिणाभिमुखं प्रभुम् । दोलया दोलनं कुर्याद्गीतनृत्यादिनोत्सवम् ॥ ३०३ ॥

14.304

श्लोक

चैत्रे मासि सिते पक्षे दक्षिणाभिमुखं हरिम् । दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ ॥ ३०४ ॥

14.305

श्लोक

ऊर्जे रथं मधौ दोलां श्रावणे तन्तुपर्व च । चैत्रे दमनकारोपमकुर्वाणो व्रजत्यधः ॥ ३०५ ॥

14.306

श्लोक

दोलारूढश्च भगवानवलोक्यः प्रयत्नतः । दोलारूढस्य चास्याग्रे कुर्याज्जागरणं शुभम् ॥ ३०६ ॥

14.307

श्लोक

दोलारूढं प्रपश्यन्ति कृष्णं कलिमलापहम् । अपराधसहस्रेस्तु मुक्तास्ते घूर्णने कृते ॥ ३०७ ॥

14.308

श्लोक

तावत्तिष्ठन्ति पापानि जन्मकोटिकृतान्यपि । यावन्नान्दोलयेद्भूप कृष्णं कंसविनाशिनम् ॥ ३०८ ॥

14.309

श्लोक

आन्दोलनदिने प्राप्ते रुद्रेण सहिताः सुराः । कुर्वन्ति प्राङ्गणे नृत्यं गीतं वाद्यञ्च हर्षिताः ॥ ३०९ ॥

14.310

श्लोक

ऋषयो गणगन्धर्वा रम्भाद्याप्सरसां गणाः । वासुकिप्रमुखा नागास्तथा देवाः सुरेश्वराः । दोलयात्रां समायान्ति विष्णुदर्शनलालसाः ॥ ३१० ॥

14.311

श्लोक

दोलयात्रानिमित्तन्तु दोलाहे मधुमाधवे । भूतानि सन्ति भूपृष्ठे ये केचिद्देवयोनयः । समायान्ति महीपाल कृष्णे दोलास्थिते ध्रुवम् ॥ ३११ ॥

14.312

श्लोक

विष्णुं दोलास्थितं दृष्ट्वा त्रैलोक्यस्योत्सवो भवेत् । तस्मात् कार्यशतं त्यक्त्वा दोलाहे उत्सवं कुरु ॥ ३१२ ॥

14.313

श्लोक

प्रह्लादे तु समायाते विष्णुर्दोलावरोहणम् । कुरुते पाण्डवश्रेष्ठ वरं दत्तमनुस्मरन् ॥ ३१३ ॥

14.314

श्लोक

दोलास्थितस्य कृष्णस्य येऽग्रे कुर्वन्ति जागरम् । सर्वपुण्यफलावाप्तिर्निमेषैकेन जायते ॥ ३१४ ॥

14.315

श्लोक

दोलासंस्थन्तु ये कृष्णं पश्यन्ति मधुमाधवे । क्रीडन्ति विष्णुना सार्द्ध वैकुण्ठे देववन्दिताः ॥ ३१५ ॥

14.316

श्लोक

दक्षिणाभिमुखं देवं दोलारूढं सुरेश्वरम् । सकृद्दृष्ट्वा तु गोविन्दं मुच्यते ब्रह्महत्यया ॥ ३१६ ॥

14.317

श्लोक

चैत्रस्य शुक्लद्वादश्यां प्रातःकृत्यं समाप्य च । नित्यपूजां विधायाथ कुर्याद्दोलोत्सवं व्रती ॥ ३१७ ॥

14.318

श्लोक

तदर्थञ्च विशेषेण नैवेद्यादिकमर्पयेत् । सम्मान्य वैष्णवांस्तैश्च गीतनृत्यादि कारयेत् ॥ ३१८ ॥

14.319

श्लोक

महानीराजनं कृत्वा प्रक्षिपेदच्युतोपरि । गन्धानुलेपचूर्णादिविचित्राणि विभागशः ॥ ३१९ ॥

14.320

श्लोक

सन्तोष्य वैष्णवांस्तैश्च गीतनृत्यादिभिः प्रभुम् । नत्वाभ्यर्थ्याप्रमत्तः सन् दोलामारोहयेच्छुभाम् ॥ ३२० ॥

14.321

श्लोक

नीत्वा बहिर्वेदिकायामुत्तङ्गायां यथाविधि । अभ्यर्च्यान्दोलयेत् कृष्णं सर्वलोकावलोकितम् ॥ ३२१ ॥

14.322

श्लोक

एवमभ्यर्चयन् यामे यामे त्वान्दोलयन् प्रभुम् । महोत्सवेन गमयेद्दिनं रात्रिञ्च यत्नतः ॥ ३२२ ॥

14.323

श्लोक

एवं जागरण कृत्वा वैष्णवैः सह वैष्णवः । प्रणम्य प्रार्थ्य निर्मञ्छ्यकृष्णं स्वालयमानयेत् ॥ ३२३ ॥

14.324

श्लोक

केचिच्च वैष्णवाः शुक्लतृतीयायां महोत्सवम् । इममिच्छन्ति शक्ताश्च कुर्वते मासमेव तम् ॥ ३२४ ॥

14.325

श्लोक

चैत्रे मासि सिते पक्षे तृतीयायां रमापतिम् । दोलारूढं समभ्यर्च्य मासमान्दोलयेत् कलौ ॥ ३२५ ॥

14.326

श्लोक

यत् फाल्गुनस्य राकादावुत्तरा फल्गुनी यदा । तदा दोलोत्सवः कार्यस्तच्च श्रीपुरुषोत्तमे ॥ ३२६ ॥

14.327

श्लोक

किन्त्वीदृग्भक्तिसन्दर्शि-जगन्नाथानुसारतः । दोलाचन्दन-कीलालरथयात्राइश्च कारयेत् ॥ ३२७ ॥

14.328

श्लोक

चैत्रस्य शुक्लद्वादश्यां दमनारोपणोत्सवम् । विदध्यात्तद्विधिबौधायानाद्युक्तोऽत्र लिख्यते ॥ ३२८ ॥

14.329

श्लोक

मधोः सितैकादश्याञ्च प्रातःकृत्यं समाप्य च । गत्वा दमनकारामं तत्राशोकं स्मरं यजेत् ॥ ३२९ ॥

14.330

श्लोक

अशोकाय नमस्तुभ्यं कामस्त्रीशोकनाशनः । शोकार्तिं हर मे नित्यमानन्दं जनयस्व मे ॥ ३३० ॥

14.331

श्लोक

नेष्यामि कृष्णपूजार्थं त्वां कृष्णप्रीतिकारकम् । इति सम्प्रार्थ्य नत्वा च गृह्णीयाद्दमनं शुभम् ॥ ३३१ ॥

14.332

श्लोक

प्रोक्ष्य तत् पञ्चगव्येन प्रक्षाल्याद्भिः प्रपूज्य च । वस्त्रेणाच्छाद्य वेदादिघोषेण गृहमानयेत् ॥ ३३२ ॥

14.333

श्लोक

कृष्णस्याग्रे समुद्धृत्य सर्वतो भद्रमण्डलम् । निधाय दमनं तत्र रात्रौ तदधिवासयेत् ॥ ३३३ ॥

14.334

श्लोक

पूजार्थं देवदेवस्य विष्णोर्लक्ष्मीपतेः प्रभोः । दमन त्वमिहागच्छ सान्निध्यं कुरु ते नमः ॥ ३३४ ॥

14.335

श्लोक

सबीजं कामदेवञ्च तथा भस्मशरीरकम् । अनङ्गं मन्मथञ्चैव वसन्तसखमेव च । स्मरन्तथेक्षुचापञ्च पुष्पवाणञ्च पूजयेत् ॥ ३३५ ॥

14.336

श्लोक

प्रागादिदिक्षु रत्याढ्यं विधिवद्दमने क्रमात् ॥ ३३६ ॥

14.337

श्लोक

अष्टोत्तरशतं कामगायत्र्या चाभिमन्त्र्य तत् । दत्त्वा पुष्पाञ्जलिं कामदेवं वन्देत मन्त्रवत् ॥ ३३७ ॥

14.338

श्लोक

नमोऽस्तु पुष्पवाणाय जगदाह्लादकारिणे । मन्मथाय जगन्नेत्रे रतिप्रीतिप्रदायिने ॥ ३३८ ॥

14.339

श्लोक

आमन्त्रितोऽसि देवेश पूराण पुरुषोत्तम । अतस्त्वां पूजयिष्यामि सान्निध्यं कुरु केशव ॥ ३३९ ॥

14.340

श्लोक

निवेदयाम्यहं तुभ्यं प्रातर्दमनकं शुभम् । सर्वथा सर्वदा विष्णो नमस्तेऽस्तु प्रसीद मे ॥ ३४० ॥

14.341

श्लोक

इत्थमामन्त्र्य देवेशं दत्वा पुष्पाञ्जलिं पुनः । गीतनृत्यादिना रात्रौ कुर्याज्जागरणं मुदा ॥ ३४१ ॥

14.342

श्लोक

प्रातः स्नानादि निर्वर्त्य नित्यपूजां विधाय च । दमनारोषणार्थञ्च महापूजां समाचरेत् ॥ ३४२ ॥

14.343

श्लोक

ततो दमनकं भक्त्या पाणिभ्यां परिगृह्य च । घण्टादिवाद्यघोषेण श्रीकृष्णाय समर्पयेत् ॥ ३४३ ॥

14.344

श्लोक

देवदेव जगन्नाथ वाञ्छितार्थप्रदायक । कृत्स्नान् पूरय मे कृष्ण कामान कामेश्वरीप्रिय ॥ ३४४ ॥

14.345

श्लोक

इदं दमनकं देव गृहाण मदनुग्रहात् । इमां सांवत्सरीं पूजां भगवन्निह पूरय ॥ ३४५ ॥

14.346

श्लोक

ततो दामनकीं मालां गन्धादीनि समर्प्य च । गीतादिनोत्सवं कृत्वा श्रीकृष्णं प्रार्थयेदिदम् ॥ ३४६ ॥

14.347

श्लोक

मणि-विद्रुममालाभिर्मन्दारकुसुमादिभिः । इयं सांवत्सरी पूजा तवास्तु गरुडध्वज ॥ ३४७ ॥

14.348

श्लोक

वनमालां यथा देव कौस्तुभं सततं हृदि । तद्वद्दामनकीं मालां पूजाञ्च हृदये वह ॥ ३४८ ॥

14.349

श्लोक

भगवन्तं प्रणम्याथ गुरुं सम्पूज्य भक्तितः । सम्पूज्य ब्राह्मणान् शक्त्या भुञ्जीत सह बन्धुभिः ॥ ३४९ ॥

14.350

श्लोक

पारणाहे न लभ्येत द्वादशीघटिकापि चेत् । तदा त्रयोदशी ग्राह्या पवित्रा दमनार्पणे ॥ ३५० ॥

14.351

श्लोक

न कृष्णे दमनारोपः स्यान्मधौ विघ्नतो यदि । वैशाख्यां श्रावणे मासि कर्तव्यं वा तदर्पणम् ॥ ३५१ ॥

14.352

श्लोक

चैत्रादौ कारयेत् पूजां सम्यग्वत्स यथाविधि । गन्धधूपार्घ्यनैवेद्यमाल्यैर्दमनकोद्भवैः ॥ ३५२ ॥

14.353

श्लोक

सहोमं पूजयेद्देवं सर्वकामानुवाप्नुयात् । सर्वतीर्थाभिषेकस्य फलं प्राप्नोति मानवः ॥ ३५३ ॥

14.354

श्लोक

माधवे मासि संप्राप्ते मेषस्ते कर्मसाक्षिणि । केशवप्रीतये कुर्यात् केशवव्रतसञ्चयम् ॥ ३५४ ॥

14.355

श्लोक

दद्यादनेकदानानि तिलाज्यप्रभृतीन्यपि । जन्मकोटिसमुद्भूतपातकान्तकराणि च ॥ ३५५ ॥

14.356

श्लोक

जलान्नशर्कराधेनु-तिलधेनुमुखानि च । वित्तमानेन देयानि दानानीप्सितसिद्धये । वैशाखे विधिना स्नानद्वयं नद्यादिके वहिः ॥ ३५६ ॥

14.357

श्लोक

हविष्यं ब्रह्मचर्यञ्च भूशया नियमस्थितिः । व्रतं दानं दमो देव-मधुसूदनपूजनम् । माधवे मासि कुर्वीत मधुसूदनतुष्टिदम् ॥ ३५७ ॥

14.358

श्लोक

तिलोदकसुवर्णान्नशर्कराम्बररोहिणीः । पादत्राणातपत्राम्बुकुम्भान् दद्याद्द्विजातिषु ॥ ३५८ ॥

14.359

श्लोक

त्रिसन्ध्यं पूजयेदीशं भक्तितो मधुसूदनम् । साक्षाद्विमलया लक्ष्म्या समुपेतं समाहितः ॥ ३५९ ॥

14.360

श्लोक

विशेषादिह दातव्यास्निला मधुसमन्विताः । धर्माय महते दीर्घदुरितक्षयहेतवे ॥ ३६० ॥

14.361

श्लोक

यद्यप्यास्तेऽखिलं कृत्यं माहात्म्यलिखने स्फुटम् । तथाप्येकत्र संगृह्य व्यलेखीदं समासतः ॥ ३६१ ॥

14.362

श्लोक

यः परित्यज्य वैशाखं व्रतमन्यदुपाचरेत् । स करस्थं महारत्नं हित्वा लोष्ट्रं हि याचते ॥ ३६२ ॥

14.363

श्लोक

अवैशाखी भवेच्छाखी विप्रः श्रौतपरोऽपि च ॥ ३६३ ॥

14.364

श्लोक

न माधवसमो मासो न माधवसमो विभुः । पोतोऽधिदुरिताम्भोधिमज्जमानजनस्य यः ॥ ३६४ ॥

14.365

श्लोक

तत्तं जप्तं हुतं स्नातं यद्भक्त्या मासि माधवे । तदक्षयं भवेद्भूप पुण्यं माधववल्लभे ॥ ३६५ ॥

14.366

श्लोक

वैशाखातानि पापानि सूर्यान्तानि तमांसि च । परापकारपैशुन्यप्राप्तानि सुकृतानि च ॥ ३६६ ॥

14.367

श्लोक

कार्त्तिके मासे यत् किञ्चित्तुलासंस्थे दिवाकरे । स्नानदानादिकं राजंस्तत् परार्धगुणं भवेत् ॥ ३६७ ॥

14.368

श्लोक

तस्मात् सहस्रगुणितं माघे मकरगे रवौ । ततोऽपि शतसंख्याकं वैशाखे मेषगे भगे ॥ ३६८ ॥

14.369

श्लोक

ते धन्यास्ते सुकृतिनो नरा वैशाखमासि ये । प्रातः स्नात्वा विधानेन पूजयन्ति मधुद्विषम् ॥ ३६९ ॥

14.370

श्लोक

पुनः कलियुगे राजन् नैतद्गोप्यं भविष्यति । अश्वमेधादिकं यस्मान्माहात्म्यं माधवस्य च ॥ ३७० ॥

14.371

श्लोक

तस्मिंस्तिष्ये नरैः पापैर्गन्तव्यं नरकार्णवे । अतस्तु विरलस्तस्य प्रचारोऽजेन निर्मितः ॥ ३७१ ॥

14.372

श्लोक

दुर्लभं भारते वर्षे जन्म तत्र मनुष्यता । मानुष्ये दुर्लभं लोके स्वस्वधर्मप्रवर्तनम् ॥ ३७२ ॥

14.373

श्लोक

ततोऽपि भक्तिर्भूपाल वासुदेवेऽतिदुर्लभा । तत्रापि दुर्लभो मासो माधवो माधवप्रियः ॥ ३७३ ॥

14.374

श्लोक

तमवाप्य ततो मासं स्नानदानजपादिकम् । कुर्वन्ति विधिना ये तु धनास्ते कृतिनो नराः ॥ ३७४ ॥

14.375

श्लोक

तेषां दर्शनमात्रेण पापिनोऽपि विकल्मषाः । भवन्ति भगवद्भावभाविता धर्मकाङ्क्षिणः ॥ ३७५ ॥

14.376

श्लोक

प्रातः स्नानञ्च वैशाखे यज्ञदानमुपोषणम् । हविष्यं ब्रह्मचर्यञ्च महापातकनाशनम् ॥ ३७६ ॥

14.377

श्लोक

वैशाखं सकलं मासं नित्यस्नायी जितेन्द्रियः । जपन् हविष्यभुक् शान्तः सर्वपापैः प्रमुच्यते ॥ ३७७ ॥

14.378

श्लोक

एकभक्तमथो नक्तमयाचितमतन्द्रितः । माधवे मासि यः कुर्याल्लभते सर्वमीप्सितम् ॥ ३७८ ॥

14.379

श्लोक

वैशाखे मासि यो विप्रान् भोजयेद्भक्तितत्परः । सिक्थे सिक्थे भवेत्तृप्तिः पितृणां युगसंख्यया ॥ ३७९ ॥

14.380

श्लोक

यच्छन्ति तत्र मधुराधिकभोजनानि ये वा यवाशनतिलोदकभोजनानि । छत्राम्बराणि चरणोचितरक्षणानि धन्यास्त एव परितो हरितोषणानि ॥ ३८० ॥

14.381

श्लोक

एवं कृतेन यत् पुण्यं प्राप्यते नियमैश्च तैः । तत् केन गणनां याति वर्षकोटिशतैरपि ॥ ३८१ ॥

14.382

श्लोक

पत्रपौत्रादिसम्पत्तिं दीर्घायुंषि यथेप्सितम् । इहाप्नोति परत्रापि मामेव प्रतिपद्यते ॥ ३८२ ॥

14.383

श्लोक

अम्बरीष महापुण्य-प्राप्तये कुरु वीक्षणम् । माधवे मासि यैः स्नातं प्रातर्नियमसंयुतैः ॥ ३८३ ॥

14.384

श्लोक

यदानन्दपुरे प्रोक्तं वसतां वर्षकोटिभिः । तत् प्रातर्माधवे मासि स्नानेनैकेन लभ्यते ॥ ३८४ ॥

14.385

श्लोक

यथैव माधवो ध्यातो विनाशयति किल्विषम् । तथैव माधवे स्नानं नियमेन विनिर्मितम् ॥ ३८५ ॥

14.386

श्लोक

विशेषादपि वैशाखे योऽर्चयेन्मधुसूदनम् । सर्वसम्वत्सरं यावदर्चितस्तेन माधवः ॥ ३८६ ॥

14.387

श्लोक

यश्चापि निःस्वः पुरुषो माधवे मासि माधवम् । पुष्पार्चनविधानेन पूजयेन्मधुसूदनम् ॥ ३८७ ॥

14.388

श्लोक

सर्वपापविनिर्मुक्तः पितृणां तारयेच्छतम् । स जन्मशतसाहस्रं न शोकफलभाग्भवेत् ॥ ३८८ ॥

14.389

श्लोक

न च व्याधिभयं तस्य न दारिद्र्यं न बन्धनम् । स विष्णुभक्तो जायेत धन्यो जन्मनि जन्मनि ॥ ३८९ ॥

14.390

श्लोक

यावद्यगसहस्राणि शतमष्टोत्तरं भवेत् । तावत् स्वर्गे वसेद्वीर भूपतिश्च पुनर्भवेत् ॥ ३९० ॥

14.391

श्लोक

भूपत्वे विविधान् भोगान् विहृत्य च यथासुखम् । माधवस्य प्रसादेन माधवे लीयते ततः ॥ ३९१ ॥

14.392

श्लोक

विधिनाऽविधिना वापि ये यजन्ति नरा धरे । माधवे मासि मां भक्त्या तैश्च याज्योऽस्म्यहं सदा ॥ ३९२ ॥

14.393

श्लोक

ये यजन्ति धरे नित्यमध्वरैर्विविधरपि । माधवे यजते यो मां तेभ्यस्तधिकं फलम् ॥ ३९३ ॥

14.394

श्लोक

वैशाखस्य परञ्चास्ते तत्रोपाख्यानपङ्क्तिषु । सामान्येन च माहात्म्यं विशेषेण च सर्वशः ॥ ३९४ ॥

14.395

श्लोक

मेषसंक्रमणे भानोर्माधवे मासि यत्नतः । महानद्यां नदीतीर्थे नवे सरसि निर्झरे । देवखाते तथा स्नायाद्यथा प्राप्ते जलाशये ॥ ३९५ ॥

14.396

श्लोक

दीर्घिकाकूपवापीषु नियतात्मा हरिं स्मरन् ॥ ३९६ ॥

14.397

श्लोक

मधुमासस्य शुक्लायामेकादश्यामुपोषितः । पञ्चदश्याञ्च वा वीर मेषसंक्रमणेऽपि वा ॥ ३९७ ॥

14.398

श्लोक

वैशाखस्नाननियमं ब्राह्मणानामनुज्ञया । मधुसूदनमभ्यर्च्य कुर्यात् सवनपूर्वकम् ॥ ३९८ ॥

14.399

श्लोक

वैशाखं सकलं मास मेषसंक्रमणे रवेः । प्रातः सनियमं स्नास्ये प्रीयतां मधुसूदनः ॥ ३९९ ॥

14.400

श्लोक

मधुहन्तुः प्रसादेन ब्राह्मणानामनुज्ञया । निर्विघ्नमस्तु मे पुण्यं वैशाखस्नानमन्वहम् ॥ ४०० ॥