Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १४

षाण्मासिकः

14.401

श्लोक

माधवे मेषगे भानौ मुरारे मधुसूदन । प्रातः स्नानेन मे नाथ यथोक्तफलदो भव ॥ ४०१ ॥

14.402

श्लोक

यथा ते माधवो मासे वल्लभो मधुसूदन । प्रातःस्नानेन मे तस्मिन् फलदो भव पापहा ॥ ४०२ ॥

14.403

श्लोक

एवमुचार्य तत्तीर्थे पादौ प्रक्षाल्य वाग्यतः । स्मरन्नारायणं देवं स्नानं कुर्याद्विधानतः ॥ ४०३ ॥

14.404

श्लोक

विधानञ्च परं ज्ञेयं प्रसिद्धं स्मृतिशास्त्रतः । तत् किञ्चिल्लिखितं पूर्वं प्रातःस्नानप्रसङ्गतः ॥ ४०४ ॥

14.405

श्लोक

वैशाखे मासि शुक्लायां तृतीयायां जनार्दनः । यवानुत्पादयामास युगञ्च कृतवान् कृतम् ॥ ४०५ ॥

14.406

श्लोक

ब्रह्मलोकात् त्रिपथगां पृविव्यामवतारयत् । तस्यां कार्या यवैर्होमो यवैर्विष्णुं समर्चयेत् ॥ ४०६ ॥

14.407

श्लोक

यवान् दद्याद्द्विजातिभ्यः प्रयतः प्राशयेद्यवान् ॥ ४०७ ॥

14.408

श्लोक

त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे । प्रवृत्तञ्च त्रयोधर्माः प्रवृत्तास्ते प्रवर्तिताः ॥ ४०८ ॥

14.409

श्लोक

अक्षया सोच्यते लोके तृतीया हरिवल्लभा । स्नाने दानेऽर्चने श्राद्धे जपे पूर्वजतर्पणे ॥ ४०९ ॥

14.410

श्लोक

येऽर्चयन्ति यवैर्विष्णुं श्राद्धं कुर्वन्ति यत्नतः । तस्यां ददति दानानि धन्यास्ते वैष्णवा नराः ॥ ४१० ॥

14.411

श्लोक

वैशाखशुक्लसप्तम्यां जाह्नवी जह्नुना पुरा । क्रोधात् पीता पुनस्त्यक्ता कर्णरन्ध्रात्तु दक्षिणात् ॥ ४११ ॥

14.412

श्लोक

तस्यां समर्चयेद्देवीं गङ्गां भुवनमेखलाम् । स्नात्वा सम्यग्विधानेन स धन्यः सुकृती नरः ॥ ४१२ ॥

14.413

श्लोक

तस्यां सन्तर्पयेद्देवान् पितृन् मर्त्यान् यथाविधि । साक्षात् पश्यन्ति ते गङ्गास्नातकं गतकल्मषम् ॥ ४१३ ॥

14.414

श्लोक

वैशाखस्य चतुर्दश्यां शुक्लायां श्रीनृकेशरी । जातस्तदस्यां तत्पूजोत्सवं कुर्वीत सव्रतम् ॥ ४१४ ॥

14.415

श्लोक

वर्षे वर्षे तु कर्तव्यं मम संतुष्टिकारणम् । महागुह्यमिदं श्रेष्ठं मानवैर्भवभीरुभिः ॥ ४१५ ॥

14.416

श्लोक

विज्ञाय मद्दिनं यस्तु लङ्घयेत् स तु पापभाक् । एवं ज्ञात्वा प्रकर्तव्यं मद्दिने व्रतमुत्तमम् । अन्यथा नरकं याति यावच्चन्द्रदिवाकरौ ॥ ४१६ ॥

14.417

श्लोक

सर्वेषामेव लोकानामधिकारोऽस्ति मद्व्रते । मद्भक्तैस्तु विशेषेण प्रणेयं मत्परायणैः ॥ ४१७ ॥

14.418

श्लोक

नमस्ते भगवान् विष्णो नृसिंहवपुषे नमः । त्वद्भक्तोऽहं सुरेशैकं त्वां प्रपृच्छामि तत्त्वतः ॥ ४१८ ॥

14.419

श्लोक

स्वामिंस्त्वयि ममोत्पन्ना भक्तिर्बहुविधा कथम् । कथन्ते सुप्रियो जातः कारणं वद मे प्रभो ॥ ४१९ ॥

14.420

श्लोक

कथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः । भक्तेर्यत् कारणं वत्स प्रियत्वस्य च तत् पुनः ॥ ४२० ॥

14.421

श्लोक

पुराकल्पे ह्यभूर्विप्रः किञ्चित्त्वं नाप्यधीतवान् । नाम्ना च वसुदेवो हि वेश्यायां तत्परो ह्यभूः ॥ ४२१ ॥

14.422

श्लोक

तस्मिन् जन्मनि नैव त्वं चकर्थ सुकृतं कियत् । मुक्त्वा तु मद्व्रतं चैकं वेश्यासङ्गतिलालसः । मद्व्रतस्य प्रभावेण भक्तिर्जीता तवेदृशी ॥ ४२२ ॥

14.423

श्लोक

श्रीनृसिंहाच्युत स्वामिन् कस्य पुत्रेण किं कृतम् । वेश्यायां वर्तमानेन कथं तद्धि कृतं मया । आख्यानं विस्तरेणेदं वक्तुमर्हसि साम्प्रतम् ॥ ४२३ ॥

14.424

श्लोक

पुरावन्तिपुरे ह्यासीद्ब्राह्मणो वेदपारगः । तन्नाम वसुशर्मेति सर्वलोकेषु विश्रुतम् ॥ ४२४ ॥

14.425

श्लोक

नित्यं होमक्रियामेष करोति द्विजसत्तमः । ब्रह्मक्रियासु सततं सर्वासु किल तत्परः ॥ ४२५ ॥

14.426

श्लोक

अग्निष्टोमादिभिर्यज्ञैरिष्टाः सर्वे सुरोत्तमाः । तेनापि विद्यमानेन न कृतं दुष्कृतं कियत् ॥ ४२६ ॥

14.427

श्लोक

तस्य भार्या सुशीलाभूद्विख्याता भुवनत्रये । पतिव्रता सदाचारा पतिभक्तिपरायणा ॥ ४२७ ॥

14.428

श्लोक

जज्ञिरे च सुताः पञ्च तस्यां द्विजवरात्ततः । सदाचाराः सुविद्वांसः पितृभक्तिपरायणाः । तेषां मध्ये कनिष्ठस्त्वं वेश्यायां तत्परः सदा ॥ ४२८ ॥

14.429

श्लोक

तां सन्निषेवमाणेन सुरापानं कृतं त्वया । सदा पापरतस्त्वं हि नाकृथाध्ययनं भृशम् ॥ ४२९ ॥

14.430

श्लोक

विलासिनीगृहे नित्यं वसतिर्ह्यभवत्तव । एकदा तद्गृहे ह्यासीत्तया सह महान् कलिः ॥ ४३० ॥

14.431

श्लोक

ततः कलहभावेन भोजनं न कृतं त्वया । अज्ञानात्मव्रतं चक्रे व्रतानामुत्तमं व्रतम् ॥ ४३१ ॥

14.432

श्लोक

तया सह विवादेन रात्रौ जागरणं कृतम् । वेश्याया अपि तत् सर्वं प्रजातन्तु त्वया समम् ॥ ४३२ ॥

14.433

श्लोक

रात्रौ जागरणे तस्याः सज्ञातं कायशोधनम् । युवयोर्मद्व्रतं जातमज्ञानाद्वहुपुण्यदम् ॥ ४३३ ॥

14.434

श्लोक

येन चीर्णव्रतेनाद्य मोदन्ते दिवि देवताः । सृष्ट्यर्थन्तु ततो ब्रह्मा चक्रे मद्व्रतमुत्तमम् ॥ ४३४ ॥

14.435

श्लोक

मद्व्रतस्य प्रभावेण निर्मितं सचराचरम् । ईश्वरेणापि तच्चीर्णं बधार्थं त्रिपुरस्य च । महिम्नैव व्रतस्यास्य त्रिपुरं संनिपातितम् ॥ ४३५ ॥

14.436

श्लोक

अन्यैश्च बहुभिर्देवैरृषिभिश्च पुरातनैः । राजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम् ॥ ४३६ ॥

14.437

श्लोक

एतद्व्रतप्रभावेण सर्वे सिद्धिमुपागताः । वेश्याति मत्प्रिया जाता त्रैलोक्ये सुखचारिणी । ईदृशं मद्व्रतं वत्स त्रैलोक्ये चैव विश्रुतम् ॥ ४३७ ॥

14.438

श्लोक

धूर्तायाश्च विलासिन्या व्रतमेतदुपस्थितम् । प्रह्लाद तेन ते भक्तिर्मयि जाता ह्यनुत्तमा ॥ ४३८ ॥

14.439

श्लोक

सा वेश्या स्वप्सरा जाता दिवि भोगाननेकेशः । भुक्त्वा कामं विलीना तु त्वं प्रह्लाद विविष्ट माम् ॥ ४३९ ॥

14.440

श्लोक

कार्यार्थमवतारस्ते मच्छरीरात् पृथक् त्वसौ । विधाय सर्वकार्याणि शीघ्रं मयि गमिष्यसि ॥ ४४० ॥

14.441

श्लोक

य इदं मद्व्रताग्र्यन्तु प्रविधास्यन्ति मानवाः । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ ४४१ ॥

14.442

श्लोक

अपुत्रो लभते पुत्रान् मद्भक्तांश्च सुवर्चसः । दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी ॥ ४४२ ॥

14.443

श्लोक

तेजस्कामो लभेत्तेजो राज्येप्सू राज्यमुत्तमम् । आयुष्कामो लभेदायुर्यादृशन्तु शिवस्य च ॥ ४४३ ॥

14.444

श्लोक

स्त्रीणां व्रतमिदं साधुपुत्रदं भाग्यदन्तथा । अवैधव्यकरं तासां पुत्रशोकविनाशनम् ॥ ४४४ ॥

14.445

श्लोक

धनधान्यकरञ्चैव पतिप्रियकरं शुभम् । सार्वभौमं सुखं तासां दिव्यसौख्यं भवेत्ततः ॥ ४४५ ॥

14.446

श्लोक

स्त्रियो वा पुरुषो वापि कुर्वन्ति व्रतमुत्तमम् । तेभ्यो ददाम्यहं सौख्यं भूक्तिमुक्तिफलन्तथा ॥ ४४६ ॥

14.447

श्लोक

बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हि । मद्व्रतस्य फलं वक्तुं नाहं शक्तो न शङ्करः ॥ ४४७ ॥

14.448

श्लोक

ब्रह्मा चतुर्भिर्वक्त्रैश्च नालं स्याज्जीवितावधि ॥ ४४८ ॥

14.449

श्लोक

यथा यथा प्रवृत्तिः स्यात् पातकस्य कलौ युगे । तथा तथा विधास्यन्ति मद्व्रतं विरलं जनाः ॥ ४४९ ॥

14.450

श्लोक

मद्व्रतस्य विधानेन मतिर्न स्याद्दुरात्मनाम् । सदा पापरतानान्तु पुरुषाणां विकर्मणि ॥ ४५० ॥

14.451

श्लोक

विचार्यैवं प्रकर्तव्यं माधवे मासि मद्व्रतम् । प्राप्ते भूतदिने वत्स सर्वकल्मषनाशनः ॥ ४५१ ॥

14.452

श्लोक

येनैव क्रियमाणेन सहस्रद्वादशीफलम् । जायते न मृषा वचिन मानुषाणां महात्मनाम् ॥ ४५२ ॥

14.453

श्लोक

य इदं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम् । तस्य श्रवणमात्रेण ब्रह्महत्यां व्यपोहति ॥ ४५३ ॥

14.454

श्लोक

पवित्रं परमं गुह्यं कीर्तयेद्यस्तु मानवः । सर्वान् कामानवाप्नोति व्रतस्यास्य फलं लभेत् ॥ ४५४ ॥

14.455

श्लोक

वैशाखे शुक्लपक्षे तु चतुर्दश्यां महातिथौ । सायं प्रह्लादधिक्कारमसहिष्णुः परो हरिः ॥ ४५५ ॥

14.456

श्लोक

सद्यः कटकटाशब्द-विस्मापितसभाजनः । लीलया स्तम्भगर्भान्तादुद्भूतः शब्दभीषणः ॥ ४५६ ॥

14.457

श्लोक

नृहरेरवतारात्तां यत्नतः समुपोषयेत् । महापुण्यतमायाञ्च सायं विष्णुं प्रपूजयेत् ॥ ४५७ ॥

14.458

श्लोक

वैशाखशुक्लपक्षस्य चतुर्दश्यां समाचरेत् । मज्जन्मसम्भवं पुण्यं व्रतं पापाप्रणाशनम् ॥ ४५८ ॥

14.459

श्लोक

स्वातीनक्षत्रयोगे तु शनिवारे हि मद्व्रतम् । सिद्धियोगस्य योगे च लभ्यते दैवयोगतः । सर्वैरेतैस्तु संयुक्तैर्हत्याकोटिविनाशनम् ॥ ४५९ ॥

14.460

श्लोक

केवलञ्च प्रकर्तव्यं मद्दिनं फलकाङ्क्षिभिः । वैष्णवैर्न तु कर्तव्या स्मरविद्धा चतुर्दशी ॥ ४६० ॥

14.461

श्लोक

प्रिया चतुर्दशी भौमे कर्तव्या किल्विषापहा । कामविद्धा न कर्तव्या स्वातीभौमयुता यदि ॥ ४६१ ॥

14.462

श्लोक

प्रातरुत्थाय कुर्वीत नियमं मनसा स्मरन् । मामेन मद्दिने वत्स दन्तधावनपूर्वकम् ॥ ४६२ ॥

14.463

श्लोक

श्रीनृसिंह महाभीम दयां कुरु ममोपरि । अद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय ॥ ४६३ ॥

14.464

श्लोक

व्रतस्थेन न वक्तव्यं मद्दिने पापिभिः सह । मिथ्यालापा न कर्तव्याः समग्रफलकाङ्क्षिभिः ॥ ४६४ ॥

14.465

श्लोक

स्त्रियं द्यूतं विहायोच्चैर्व्रतस्थेन महात्मना । स्मर्तव्यं मम रूपञ्च मद्दिने सकले शुभे ॥ ४६५ ॥

14.466

श्लोक

ततो मध्याह्नवेलायां नद्यादौ विमले जले । गृहे वा देवखाते वा तडागे वातिशोभने । वैदिकेन च मन्त्रेण स्नानं कुर्याद्विचक्षणः ॥ ४६६ ॥

14.467

श्लोक

मृत्तिकागोमयेनैव तथा धात्रीफलेन वा । तिलैर्वा सर्वपापघ्नैः स्नानं कृत्वा महात्मभिः । परिधाय शुचिर्वस्त्रे नित्यकर्म समाचरेत् ॥ ४६७ ॥

14.468

श्लोक

ततो गृहं समागत्य स्मरन् मां भक्तियोगतः । गोमयेन विलिप्याथ कुर्यादष्टदलाम्बुजम् ॥ ४६८ ॥

14.469

श्लोक

कलसं तत्र संस्थाप्य ताम्रं रत्नसमन्वितम् । तस्योपरि न्यसेत् पात्रं तण्डुलैः परिपूरितम् । हैमी मूर्तिस्तु तत्रैव स्थाप्या लक्ष्मीस्तथैव च ॥ ४६९ ॥

14.470

श्लोक

पलेन च तदर्द्धेन तदर्द्धार्द्धेन वा पुनः । यथा शक्तिस्तथा कार्या वित्तशाठ्यविवर्जितः । पञ्चामृतेन ते स्नाप्य पूजनं तु समाचरेत् ॥ ४७० ॥

14.471

श्लोक

ततो ब्राह्मणमाहूय तमाचार्यमलोलुपम् । कुर्याच्छास्त्रसमायुक्तं शान्तं दान्तं जितेन्द्रियम् ॥ ४७१ ॥

14.472

श्लोक

तेनैव कारयेत् पूजां दृष्ट्वा शास्त्रानुसारतः । आचार्यवचनाद्धीमान् पूजां कुर्याचरन् व्रतम् ॥ ४७२ ॥

14.473

श्लोक

प्रह्लाद-क्लेशनाशाय या हि पुण्या चतुर्दशी । पूजयेत्तत्र यत्नेन हरेः प्रह्लादमग्रतः ॥ ४७३ ॥

14.474

श्लोक

मद्रूपं कारयेत्तत्र पुष्पस्तवकशोभितम् । ऋतुकालोद्भवैः पुष्पैः पूज्योऽहञ्च यथाविधि ॥ ४७४ ॥

14.475

श्लोक

उपचारैः षोडशभिमन्मन्त्रैर्नामभिस्तथा । ततः पौराणिकैर्मन्त्रः पूजनीयो विशेषतः ॥ ४७५ ॥

14.476

श्लोक

चन्दनं शीतलं दिव्यं चन्द्रकुङ्कुममिश्रितम् । ददामि ते प्रतुष्ट्यर्थं नृसिंह परमेश्वर ॥ ४७६ ॥

14.477

श्लोक

कालोद्भवानि पुष्पाणि तुलस्यादीनि वै प्रभो । पूजयामि नृसिंहेश लक्ष्म्या सह नमोऽस्तुते ॥ ४७७ ॥

14.478

श्लोक

कालागुरुमयं धूपं सर्वदेवसुदुर्लभम् । करोमि ते महाविष्णो सर्वकामसमृद्धये ॥ ४७८ ॥

14.479

श्लोक

दीपः पापहरः प्रोक्तस्तमसां राशिनाशनः । दीपेन लभ्यते तेजस्तस्माद्दीपं ददामि ते ॥ ४७९ ॥

14.480

श्लोक

नैवेद्यं सौख्यदं चास्तु भक्ष्यभोज्यसमन्वितम् । ददामि ते रमाकान्त सर्वपापक्षयं कुरु ॥ ४८० ॥

14.481

श्लोक

नृसिंहाच्युत देवेश लक्ष्मीकान्त जगत्पते । अनेनार्घ्यप्रदानेन सफलाः स्युर्मनोरथाः ॥ ४८१ ॥

14.482

श्लोक

पीताम्बर महाविष्णो प्रह्लादभयनाशकृत् । यथाभूतार्चनेनाथ यथोक्तफलदो भव ॥ ४८२ ॥

14.483

श्लोक

रात्रौ जागरणं कुर्याद्गीतवादित्रनिस्वनैः । पुराणपठनं नृत्यं श्रोतव्यं मरकथानकम् ॥ ४८३ ॥

14.484

श्लोक

ततः प्रभातसमये स्नानं कृत्वा ह्यतन्द्रितः । पूर्वोक्तेन विधानेन पूजयेन्मां प्रयत्नतः ॥ ४८४ ॥

14.485

श्लोक

मद्वंशे ये नरा जाता ये जनिष्यन्ति मत्पुरः । तांस्त्वमुद्धर देवेश दुःसहाद्भवसागरात् ॥ ४८५ ॥

14.486

श्लोक

पातकार्णवमग्नस्य व्याधिदुःखाम्बुराशिभिः । तीव्रैस्तु परिभूतस्य महादुःखगतस्य मे ॥ ४८६ ॥

14.487

श्लोक

करावलम्बनं देहि शेषशायिन् जगत्पते । श्रीनृसिंह रमाकान्त भक्तानां भयनाशन ॥ ४८७ ॥

14.488

श्लोक

क्षीराम्बुधिनिवास त्वं प्रीयमाणो जनार्दन । व्रतेनानेन मे देव भुक्तिमुक्तिप्रदो भव ॥ ४८८ ॥

14.489

श्लोक

एवं प्रार्थ्य ततो देवं विसर्ज्यं च यथाविधि । उपहारादिकं सर्वमाचार्याय निवेदयेत् ॥ ४८९ ॥

14.490

श्लोक

दक्षिणाभिः सुसन्तोष्य ब्राह्मणाश्च विसर्जयेत् । मम ध्यानसमायुक्तो भुञ्जीत सह बन्धुभिः ॥ ४९० ॥

14.491

श्लोक

मेषसंक्रममारभ्य तिथयस्त्रिंशदुत्तमाः । सर्वयज्ञाधिकाः पुण्याः पुराणेषु प्रकीर्तिताः ॥ ४९१ ॥

14.492

श्लोक

तत्रापि पूर्णिमा पुण्या माधवी माधवप्रिया । येयं वराहकल्पस्य तिथिराद्या महाफला ॥ ४९२ ॥

14.493

श्लोक

स्नानदानार्चनश्राद्धक्रियापुण्यविवर्जिता । यस्यातीता च वैशाखी स नूनं निरयालयः ॥ ४९३ ॥

14.494

श्लोक

न वेदेन समं शास्त्रं न तीर्थं गङ्गया समम् । न दानं जलगोतुल्यं न वैशाखीसमा तिथिः ॥ ४९४ ॥

14.495

श्लोक

जलधेनुञ्च यो दद्याद्वैशाख्यां विष्णुतत्परः । त्रयाणामपि देवानां चतुर्थोऽयं विशेषतः ॥ ४९५ ॥

14.496

श्लोक

मया नैकापि वैशाखी पूर्णा पूर्णफलप्रदा । स्नानदानक्रियापूजासुकृतैः परिपालिता ॥ ४९६ ॥

14.497

श्लोक

तेन मे वैदिकं कर्म जातं सर्वञ्च निष्फलम् । ततो वैशाखनामाहं प्रेतो जातोऽस्मि गर्वतः ॥ ४९७ ॥

14.498

श्लोक

पापेन्धनदवज्वाला-तमोद्रुमकुठारिका । कृता नैकापि वैशाखी विधिना तत्र पूर्णिमा ॥ ४९८ ॥

14.499

श्लोक

अव्रता यस्य वैशाखी स वैशाखी भवेन्नरः । दश जन्मानि च ततस्तिर्यग्योनिषु जायते ॥ ४९९ ॥

14.500

श्लोक

त्रयोदश्यां चतुर्दश्यां वैशाख्याञ्च दिनत्रयम् । सर्वाशक्तोऽपि विधिना नारी वा पुरुषोऽपि वा ॥ ५०० ॥