Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १४

षाण्मासिकः

14.201

श्लोक

शुद्धोपोष्या च सा सर्वर्विद्धा स्याच्चेच्चतुर्दशी । प्रदोषव्यापिनी ग्राह्या तत्राप्याधिक्यमागता ॥ २०१ ॥

14.202

श्लोक

प्रदोषव्यापिनी ग्राह्या शिवरात्रिः शिवप्रियैः । रात्रौ जागरणं तस्यां यस्मात्तस्यामुपोषणम् ॥ २०२ ॥

14.203

श्लोक

प्रदोषश्च चतुर्नाड्यात्मकोऽभिज्ञजनैर्मतः ॥ २०३ ॥

14.204

श्लोक

प्रदोषव्यापिनी साम्येऽप्युपोष्यं प्रथमं दिनम् । नोपोष्या वैष्णवैर्विद्धा सापीति च सतां मतम् ॥ २०४ ॥

14.205

श्लोक

शिवरात्रिव्रते भूतं कामविद्धं विवर्जयेत् ॥ २०५ ॥

14.206

श्लोक

माघासितं भूतदिनं हि राजन्नुपैति योगं यदि पञ्चदश्या । जयाप्रयुक्तां न तु जातु कुर्याच्छिवस्य रात्रिं प्रियकृच्छिवस्य ॥ २०६ ॥

14.207

श्लोक

द्विमुहूर्ता भवेद्योगो वेधो मौहूर्तिकः स्मृतः ॥ २०७ ॥

14.208

श्लोक

शिवरात्रौ च कर्तव्यं नियमेन त्रयं बुधेः । उपवास-महादेवपूजाजागरणं निशि ॥ २०८ ॥

14.209

श्लोक

सायं शिवालयं गत्वा शुचिराचम्य च व्रती । कृत्वा शिवाग्रे सङ्कल्पमारभेत तदर्चनम् ॥ २०९ ॥

14.210

श्लोक

पञ्चाक्षरेण मन्त्रेण शतरुद्रेण वा द्विजः । क्षीरादिभिश्च शुद्धाद्भिर्धारया स्नापयेच्छिवम् ॥ २१० ॥

14.211

श्लोक

महार्चां विधिना कृत्वा गन्धपुष्पतिलादिभिः । समर्प्य धूपदीपादीन् शङ्खेनार्ध्यं निवेदयेत् ॥ २११ ॥

14.212

श्लोक

गौरीवल्लभ देवेश सर्पाढ्य शशिशेखर । वर्षपापविशुद्ध्यर्थमर्ध्यं मे प्रतिगृह्यताम् ॥ २१२ ॥

14.213

श्लोक

आचार्यं परिपूज्याथ दत्त्वा तस्मै च दक्षिणाम् । विधिवज्जागरं कृत्वा प्रातः पारणमाचरेत् ॥ २१३ ॥

14.214

श्लोक

पूर्वविद्धोपवासे च परेऽहनि चतुर्दशी । दिवसव्यापिनी तिष्ठेत् कुर्यात् तस्यां हि पारणम् ॥ २१४ ॥

14.215

श्लोक

सा त्वस्तमयपर्यन्तं व्यापिनी चेत् परेऽहनि । दिवैव पारणं कुर्यात् पारणे नैव दोषभाक् ॥ २१५ ॥

14.216

श्लोक

अनुष्ठानविधिश्चास्य व्रतस्योक्तोऽतिविस्तरम् । शिवधर्मोत्तरादौ तु ज्ञेयोपेक्ष्यः स चेत्ततः ॥ २१६ ॥

14.217

श्लोक

शिवव्रतस्य माहात्म्यमस्य सर्वत्र विश्रुतम् । व्याधोऽपि मुक्तो यस्तादृक् लिङ्गार्चाजगरादिना ॥ २१७ ॥

14.218

श्लोक

स्वयम्भूलिङ्गमभ्यर्च्य सोपवासः सजागरः । अजानन्नपि निष्पापो निषादो गणतां गतः ॥ २१८ ॥

14.219

श्लोक

शिवञ्च पूजयित्वा यो जागर्ति च चतुर्दशीम् । मातुः पयोधररसं न पिबेत् स कदाचन ॥ २१९ ॥

14.220

श्लोक

कश्चित् पुण्य विशेषेण व्रतहीनोऽपि यः पुमान् । जागरं कुरुते तत्र स रुद्रसमतां व्रजेत् ॥ २२० ॥

14.221

श्लोक

श्रीकृष्णे वैष्णवानान्तु प्रेमभक्तिर्विवर्धते । कृष्णभक्तिरसासारवर्षिरुद्रानुकम्पया ॥ २२१ ॥

14.222

श्लोक

फाल्गुने द्वादशी शुक्ला य पुष्यक्षेण संयुता । गोविन्दद्वादशी नाम सा स्याद्गोविन्दभक्तिदा ॥ २२२ ॥

14.223

श्लोक

तस्यामुपोष्य विधिना भगवन्तं प्रपूजयेत् । लिखितः पापनाशिन्यां विधिर्योऽत्रापि स स्मृतः ॥ २२३ ॥

14.224

श्लोक

फाल्गुनामलपक्षे तु पुष्यक्षे द्वादशी यदि । गोविन्दद्वादशी नाम महापातकनाशिनी ॥ २२४ ॥

14.225

श्लोक

तस्यामुपोष्य विधिवन्नरः संक्षीणकल्मषः । प्राप्नोत्यनुत्तमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥ २२५ ॥

14.226

श्लोक

आमर्दकी द्वादशीति लोके ख्यातेयमेव हि । योगाभावेऽत्र तन्नाम्नी तदीयैकादशी मता । यत्र आमर्दकीपूजाव्रतमस्यां विशेषतः ॥ २२६ ॥

14.227

श्लोक

फाल्गुने तु विशेषेण विशेषः कथितो नृप । आमर्दक्या व्रतं पुण्यं विष्णुलोकप्रदं नृणाम् ॥ २२७ ॥

14.228

श्लोक

फाल्गुनस्य सिते पक्षे एकादश्यामुपोषितः । स्नात्वा नद्यां ताडागे वा वाप्यां कूपे गृहेऽपि वा । गत्वा गिरौ वने वाऽपि यत्र सा प्राख्यते शिवा ॥ २२८ ॥

14.229

श्लोक

क्षीरोदे मथ्यमाने तु यदा वृक्षः समुत्थितः । आमर्दाद्देवदैत्यानां तेन सामर्दकी स्मृता ॥ २२९ ॥

14.230

श्लोक

शिवा लक्ष्मीः स्मृतो वृक्षः सेव्यते सुरसत्तमैः । देवैर्ब्रह्मादिभिः सर्वैर्वृक्षोऽसौ वैष्णवः स्मृतः ॥ २३० ॥

14.231

श्लोक

तत्र गत्वा हरिः पूज्यो वृक्षमूलेऽथवा शिवा । पूज्या पुष्पैः शुभै रात्रौ कार्यं जागरणं नरैः ॥ २३१ ॥

14.232

श्लोक

करकं जलपूर्णन्तु कर्तव्यं पात्रसंयुतम् । हविष्यान्नन्तु कर्तव्यं दीपः कार्यो विधानतः ॥ २३२ ॥

14.233

श्लोक

एवं जागरणं कार्यं कथाश्रवणतत्परैः । मुच्यन्ते देहिनः पापैः कलिजैः कायसम्भवैः ॥ २३३ ॥

14.234

श्लोक

देहान्ते च नराः सर्वे पूज्यन्ते हरिमन्दिरे ॥ २३४ ॥

14.235

श्लोक

फाल्गुन्यां पौर्णमास्यान्तु विदध्याद्वैष्णवैः सह । श्रीकृष्णप्रियभक्तस्य वसन्तस्यार्चनोत्सवम् ॥ २३५ ॥

14.236

श्लोक

भविष्योत्तरतो ज्ञेयस्तद्विधिश्चेदपेक्ष्यते । यः श्रीयुधिष्ठिरस्योक्तो व्यक्तं भगवता स्वयम् ॥ २३६ ॥

14.237

श्लोक

एवं यः कुरुते पार्थ शास्त्रोक्तं फाल्गुनोत्सवम् । मत्प्रसादाच्च सिध्यन्ति तस्य सर्वे मनोरथाः ॥ २३७ ॥

14.238

श्लोक

वृत्ते तुषारसमये शीतपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च । सम्प्राप्य चूतकुसुमं सह चन्दनेन सत्यं हि पार्थ पुरुषोऽब्दशतं सुखी स्यात् ॥ २३८ ॥

14.239

श्लोक

चैत्रे कुर्यात् सिते पक्षे श्रीरामनवमीव्रतम् । एकादश्यां प्रभोर्दोलां द्वादश्यां मदनार्पणम् ॥ २३९ ॥

14.240

श्लोक

चैत्रमासे वासुदेवं सर्वपुष्पैः समर्चयेत् ॥ २४० ॥

14.241

श्लोक

चैत्रे मासि नवम्यान्तु शुक्लायां हि रघूद्वहः । प्रादुरासीत् पुरा ब्रह्मन् परं ब्रह्मैव केवलम् । तस्मिन् दिने तु कर्तव्यमुपवासव्रतादिकम् ॥ २४१ ॥

14.242

श्लोक

मुमुक्षवोऽपि हि सदा श्रीरामनवमीव्रतम् । न त्यजन्ति सुरश्रेष्ठो देवेन्द्रोऽपि विशेषतः ॥ २४२ ॥

14.243

श्लोक

प्राप्ते श्रीरामनवमीदिने मर्त्यो विमूढधीः । उपोषणं न कुरुते कुम्भीपाकेषु पच्यते ॥ २४३ ॥

14.244

श्लोक

यस्तु रामनवम्यां हि भुङ्क्ते मोहाद्विमूढधीः । कुम्भीपाकेषु घोरेषु पच्यते नात्र संशयः ॥ २४४ ॥

14.245

श्लोक

श्रीरामनवमी प्रोक्ता कोटिसूर्यग्रहाधिका । तस्मिन् दिने महापुण्ये राममुद्दिश्य भक्तितः । यत् किञ्चित् कुरुते कर्म तद्भवक्षयकारकम् ॥ २४५ ॥

14.246

श्लोक

कुर्याद्रामनवम्यां य उपोषणमतन्द्रितः । न मातुर्गर्भमाप्नोति स वै रामप्रियो भवेत् ॥ २४६ ॥

14.247

श्लोक

तस्मात् सर्वात्मना सर्वे कृत्वैतन्नवमीव्रतम् । मुच्यते सर्वपापेभ्यो यान्ति ब्रह्म सनातनम् ॥ २४७ ॥

14.248

श्लोक

एकमपि नरो भक्त्या श्रीरामनवमीव्रतम् । उपोष्य कृतकृत्यः सन् सर्वं पापैः प्रमुच्यते ॥ २४८ ॥

14.249

श्लोक

वैत्रे मासि नवम्यान्तु जातो रामः स्वयं हरिः । पुनर्वस्वृक्षसंयुक्ता सा तिथिः सर्वकामदा ॥ २४९ ॥

14.250

श्लोक

सैव मध्याह्नयोगेन महापुण्यतमा भवेत् ॥ २५० ॥

14.251

श्लोक

मेषं पूषणि सम्प्राप्ते लग्ने कर्कटकाह्वये । आविरासीत् स्वकलया कौशल्यायां परः पुमान् ॥ २५१ ॥

14.252

श्लोक

नवमी चाष्टमोविद्धा त्याज्या विष्णुपरायणैः । उपोषणं नवम्यां वै दशम्यामेव पारणम् ॥ २५२ ॥

14.253

श्लोक

दशम्यां पारणायाश्च निश्चयान्नवमीक्षये । विद्धापि नवमी ग्राह्या वैष्णवैरप्यसंशयम् ॥ २५३ ॥

14.254

श्लोक

अस्य व्रतस्य चागस्त्यसंहितादौ सविस्तरम् । विधिरुक्तः प्रसिद्धञ्च लिख्यतेऽत्र समासतः ॥ २५४ ॥

14.255

श्लोक

अष्टम्यां चैत्रमासस्य शुक्लपक्षे जितेन्द्रियः । दन्तधावनपूर्वन्तु प्रातः स्नायाद्यथाविधि ॥ २५५ ॥

14.256

श्लोक

दान्तं कुटुम्बिनं विप्रं वेदशास्त्ररतं सदा । श्रीरामपूजानिरतं सुशीलं दम्भवर्जितम् ॥ २५६ ॥

14.257

श्लोक

विधिजं राममन्त्राणां राममन्त्रैकसाधकम् । आहूय भक्त्या सम्पूज्य शृणुयात् प्रार्थयन्निति ॥ २५७ ॥

14.258

श्लोक

श्रीरामप्रतिमादानं करिष्येहं द्विजोत्तम । तत्राचार्यो भव प्रीतः श्रीरामवित्त्वमेव मे ॥ २५८ ॥

14.259

श्लोक

आचार्यं भोजयेत् पश्चात् सात्त्विकान्नैः सुविस्तरैः । भुञ्जीत स्वयमप्येवं हृदि राममनुस्मरन् ॥ २५९ ॥

14.260

श्लोक

नवम्यामङ्गभूतेन एकभक्तेन राघव । इक्ष्वाकुवंशतिलक प्रीतो भव भवप्रिय ॥ २६० ॥

14.261

श्लोक

ततः प्रातः समुत्थार्य स्नात्वा सन्ध्यां विधाय च । प्रातः सर्वाणि कर्माणि शीघ्रमेव समापयेत् ॥ २६१ ॥

14.262

श्लोक

उपोष्या नवमी त्वद्य यामेष्वष्टासु राघव । तेन प्रीतो भव त्वम्भोः संसारात् त्राहि मां हरे ॥ २६२ ॥

14.263

श्लोक

विधिवन्निर्मिते यागमण्डपे परमोत्सवैः । पुण्याहं वाचयित्वा तु सद्भिः सङ्कल्पमाचरेत् ॥ २६३ ॥

14.264

श्लोक

अस्यां रामनवम्यान्तु समाराधनतत्परः । उपोष्याष्टसु यामेषु पूजयित्वा यथाविधि ॥ २६४ ॥

14.265

श्लोक

इमां स्वर्णमयीं रामप्रतिनां सुप्रयत्नतः । श्रीरामप्रीतये दास्ये रामभक्ताय धीमते ॥ २६५ ॥

14.266

श्लोक

प्रोतो रामो हरत्वासु पापानि सुबहूनि मे । अनेकजन्मसंसिद्धान्यभ्यस्तानि महान्ति च ॥ २६६ ॥

14.267

श्लोक

मूर्तिं श्रीरामचन्द्रस्य सुवर्णस्य पलेन तु । अशक्तश्चेत् पलार्द्धेन तदर्द्धार्द्धेन वा चरेत् ॥ २६७ ॥

14.268

श्लोक

रौप्येण वाथ लोहेन शिलया दारुणाथवा । लेप्याञ्च लेख्यां वा कुर्यात् कौशल्यां कल्पितां शुभाम् ॥ २६८ ॥

14.269

श्लोक

वामाङ्के जानकीं चास्य संश्लिष्टां वामपाणिना । दक्षिणाङ्के दशरथं पुत्रावेक्षणतत्परम् ॥ २६९ ॥

14.270

श्लोक

पृष्ठतो लक्ष्मणं देवं सच्छत्रं सहचामरम् । पार्श्वे भरतशत्रुघ्नौ तालवृन्तकरावुभौ । अग्ने व्यग्रं हनूमन्तं रामानुग्रहकाङ्क्षिणम् ॥ २७० ॥

14.271

श्लोक

आसनोपरि संविश्य न्यासजालं विधाय च । शङ्खं प्रपूजयेदग्रे गन्धपुष्पाक्षतादिभिः ॥ २७१ ॥

14.272

श्लोक

कलसं वामभागस्थं पूजाद्रव्याणि चादरात् । पात्रञ्च प्रोक्षयेद्भक्त्या चात्मानं मन्त्रमुच्चरन् ॥ २७२ ॥

14.273

श्लोक

सर्वेषां राममन्त्राणां मन्त्रराजः षडक्षरः । तारकब्रह्म चेत्युक्तस्तेन पूजा प्रशस्यते ॥ २७३ ॥

14.274

श्लोक

विलिखेत् सर्वतोभद्रं वेदिकोपरि सुन्दरम् । सर्वव्रते समुद्दिष्टं सर्वतोभद्रमण्डलम् ॥ २७४ ॥

14.275

श्लोक

मध्ये तीर्थोदकैः पूर्णं कुम्भं रत्नोदरं शुभम् । चूतपल्लपपुष्पैश्च युक्तं न्यस्येदलङ्कृतम् । सौवर्णे राजते ताम्रे पात्रे षट्कोणमालिखेत् ॥ २७५ ॥

14.276

श्लोक

अलाभे बिल्वपीठे वा कलसोपरि सस्थिते । उपर्यास्तीर्य वस्त्रे द्वे आच्छिन्ने सुदशे शुभे ॥ २७६ ॥

14.277

श्लोक

दिव्यसिंहासनं तत्र स्थापयित्वार्चयेत् सुधीः । पीठार्चां विधिवत् कृत्वा दत्त्वा चार्ध्यादिकन्तथा ॥ २७७ ॥

14.278

श्लोक

क्षीरादिना च स्नपनं कुर्यादावाहनादि च । नानारत्नविचित्राणि दद्यादाभरणानि च ॥ २७८ ॥

14.279

श्लोक

हिमाम्बुघृष्टरुचिरघनसारसमन्वितम् । गन्धं दद्यात् प्रयत्नेन सागुरुरञ्च सकुङ्कुमम् ॥ २७९ ॥

14.280

श्लोक

कह्लारकेतकी जाती पुन्नागाद्यैः प्रपूजयेत् । चम्पकैः शतपत्रेश्च सुगन्धैः सुमनोहरैः ॥ २८० ॥

14.281

श्लोक

चूतपल्लवपुष्पैश्च दूर्वाभिस्तुलसीदलैः । कोमलैर्बिल्वपत्रैश्च अशोककुसुमैस्तथा ॥ २८१ ॥

14.282

श्लोक

रामस्य जननी चासि रामात्मकमिदं जगत् । अतस्त्वां पूजयिष्यामि लोकमातर्नमोऽस्तु ते ॥ २८२ ॥

14.283

श्लोक

नमो दशरथायेति पूजयेत् पितरं ततः । ततोऽनुज्ञाप्य देवेशं परिवारान् समर्चयेत् । पूर्वषट्कोणकोणेषु हृदयादीनि षट् क्रमात् ॥ २८३ ॥

14.284

श्लोक

हनूमन्तं ससुग्रीवं भरतं सविभीषणम् । लक्ष्मणाङ्गदशत्रुघ्नान् जाम्बवन्तं बलेष्विमान् ॥ २८४ ॥

14.285

श्लोक

धृतिं जयन्तं विजयं सुराष्ट्रं राष्ट्रवर्धनम् । अशोकं धर्मपालञ्च सुमन्त्रं दलमध्यतः ॥ २८५ ॥

14.286

श्लोक

दलाग्रे लोकपालांश्च ॥ २८६ ॥

14.287

श्लोक

तदस्त्राणि ततो वहिः ॥ २८७ ॥

14.288

श्लोक

घण्टाञ्च वादयन् धूपं दीपञ्चास्मै निवेदयेत् । भक्ष्यभोज्यादिना भक्त्या नैवेद्यं विधिनार्पयेत् ॥ २८८ ॥

14.289

श्लोक

आचामञ्च सुताम्बूलं महानीराजनं ततः । नमस्कुर्यात्ततः स्तोत्रैः स्तुत्वा च प्रजपेन्मनुम् ॥ २८९ ॥

14.290

श्लोक

शृण्वन् जयन्ती-माहात्म्यं दिव्यां रामकथान्तथा । रामभक्तैः समं यामं नयेद्राममनुस्मरन् ॥ २९० ॥

14.291

श्लोक

शङ्खपात्रासनार्चाञ्च कुर्यायदामेष्वतन्द्रितः । यामे द्वितीये सम्पूज्य मध्याह्ने जन्म भावयेत् ॥ २९१ ॥

14.292

श्लोक

उच्चस्थे ग्रहपञ्चके सुरगुरौ सेन्दौ नवम्यां तिथौ लग्ने कर्कटके पुनर्वसुयुते मेषं गते पूषणि । निर्दग्धुं निखिलाः पलाशसमिधो मेध्यादयोध्यारणेराविर्भूतमभूदपूर्वविभवं यत् किञ्चिदेकं महः ॥ २९२ ॥

14.293

श्लोक

स्तुत्वैवं वादयेद्वाद्यान्यर्ध्यं दद्याज्जगत्पतेः । फलपुष्पाम्बुसम्पूर्णं गृहीत्वा शङ्खमुज्ज्वलम् । अशोकचूतकुसुमैर्युक्तञ्च तूलसीदलैः ॥ २९३ ॥

14.294

श्लोक

दशाननबधार्ताय धर्मसंस्थापनाय च । दानवानां विनाशाय दैत्यानां निधनाय च ॥ २९४ ॥

14.295

श्लोक

पवित्राणाय साधूनां जातो रामः स्वयं हरिः । गृहाणार्ध्यं मया दत्तं भ्रातृभिः सहियोऽनघ ॥ २९५ ॥

14.296

श्लोक

पुनः पुष्पाञ्जलिं दत्त्वा यामे यामे ह्यतन्द्रितः । पूजयेद्विधिवद्भक्त्या दिवारात्रं नयेद्बुधः ॥ २९६ ॥

14.297

श्लोक

ततः प्रातः समुत्थाय नित्यकृत्यं समाप्य च । विधिवद्राममभ्यर्च्य भक्त्याचार्यं प्रतोष्य च । ब्राह्मणैः सह भुञ्जीत तेभ्यो दद्याच्च दक्षिणाम् ॥ २९७ ॥

14.298

श्लोक

तव प्रसादस्वीकारात् कृतं यत् पारणं मया । व्रतेनानेन सन्तुष्टः स्वस्ति भक्तिं प्रयच्छ मे ॥ २९८ ॥

14.299

श्लोक

कृत्वैकं ब्रह्महत्यादिपापेभ्यो मुच्यते ध्रुवम् । तुलापुरुषदानादिफलं प्राप्नोति मानवः ॥ २९९ ॥

14.300

श्लोक

अनेकजन्मसंसिद्धपापेभ्यो मुच्यते ध्रुवम् । बहुना किमिहोक्तेन भक्तिस्तस्य करे स्थिता ॥ ३०० ॥