Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १४

षाण्मासिकः

14.101

श्लोक

सुभगा रोहिणी माघाद्दानशीला ह्यरुन्धती । शची च रूपसम्पन्ना अनसूया पतिव्रता ॥ १०१ ॥

14.102

श्लोक

उत्तमे विषये राजन् प्रासादे साप्तभौमिके । तुमुलीकृतशोभाढ्ये रत्नकैः खचिताजिरे ॥ १०२ ॥

14.103

श्लोक

द्विपकर्णमरुच्छन्ने रूपवत्स्त्रीजनाकुले । गीतवादित्रनिर्घोषे मङ्गलाचारशोभिते ॥ १०३ ॥

14.104

श्लोक

वेदध्वनि-पवित्रे च विद्वद्विप्रैरलङ्कृते । सुरार्चनरते रम्ये सदातिथिनिषेविते ॥ १०४ ॥

14.105

श्लोक

मुदितास्ते वसन्तीह यैः स्नातं मकरे रवौ । यैर्दत्तं बहुधा माघे मुरारिः पूजितस्तु यैः ॥ १०५ ॥

14.106

श्लोक

इष्टवस्तुपरित्यागान्नियमस्य च पालनात् । धर्ममूलं सदा माघः पापमूलं निकृन्तति ॥ १०६ ॥

14.107

श्लोक

एतदेव परं पथ्यमर्थमूलञ्च कीर्तितम् । काममूलं फलद्वारं निष्कामज्ञानदः सदा ॥ १०७ ॥

14.108

श्लोक

ये लोका दानशीलानां ये लोका विपिनौकसाम् । लोका येऽतिथिभक्तानां ते माघस्नायिनां नृणाम् ॥ १०८ ॥

14.109

श्लोक

देवलोकान्निवर्तन्ते पुण्यैरन्यैः परन्तप । कदाचित् न निवर्तन्ते माघस्नानरता दिवः ॥ १०९ ॥

14.110

श्लोक

नातः परतरं किञ्चित् पवित्रं पापनाशनम् । एतदेव परं पथ्यं सद्यो दुरितनाशनम् ॥ ११० ॥

14.111

श्लोक

विद्याधराय सङ्गीतं भृगुणा मणिपर्वते । विकुण्डलाय चान्यत्र देवदूतेन धीमता ॥ १११ ॥

14.112

श्लोक

माघस्नानैर्विपन्नाशो माघस्नानैरघक्षयः । सर्वव्रताधिको माघः सर्वदानफलप्रदः ॥ ११२ ॥

14.113

श्लोक

माधो गर्जति योगेभ्यो माघो योगाच्च गर्जति । तीव्राच्च तपसो माघो भो विद्याधर गर्जति ॥ ११३ ॥

14.114

श्लोक

पुष्करे च कुरुक्षेत्रे ब्रह्मावर्ते पृथूदके । अविमुक्ते प्रयागे च गङ्गासागरसङ्गमे ॥ ११४ ॥

14.115

श्लोक

यत् फलं दशभिर्वर्षैः प्राप्यते नियमैर्नरैः । तत् फलं लभते माघे त्र्यहं स्नानान्न संशयः ॥ ११५ ॥

14.116

श्लोक

स्वर्गभोगे चिरं वाञ्छा येषां मनसि वर्तते । यत्र क्वापि जले तैस्तु स्नातव्यं मृगभास्करे ॥ ११६ ॥

14.117

श्लोक

आयुरारोग्यसम्पत्तौ रूपे सुभगता गुणे । येषां मनोरथास्तैस्तु न त्याज्यं माघमज्जनम् ॥ ११७ ॥

14.118

श्लोक

ये विभ्यति नरकाब्देर्दारिद्र्याब्देश्च नित्यशः । सर्वथा तैः प्रयत्नेन माघे कार्यं निमज्जनम् ॥ ११८ ॥

14.119

श्लोक

दारिद्र्यपापदौर्भाग्यपङ्कप्रक्षालनाय च । माघस्नानान्न चान्योऽस्ति उपायो देवसत्तम ॥ ११९ ॥

14.120

श्लोक

श्रद्धाहीनानि कर्माणि मतान्यल्पफलानि वै । फलं ददाति सम्पूर्णं माघस्नानं यथा तथा ॥ १२० ॥

14.121

श्लोक

अकामो वा सकामो वा यत्र क्वापि बहिर्जले । इहामूत्र च दुःखानि माघस्नायी न विन्दति ॥ १२१ ॥

14.122

श्लोक

पक्षद्वये यथा चन्द्रः क्षीयते वर्धते तथा । पातकं क्षीयते माघे पुण्यराशिश्च वर्धते ॥ १२२ ॥

14.123

श्लोक

यथाब्धौ खलु जायन्ते रत्नानि विविधानि च । स्नानपुण्यानि जायन्ते नराणां माघतस्तथा ॥ १२३ ॥

14.124

श्लोक

आयुर्वित्तकलत्राणि सम्पदः प्रभवन्ति च । कामधेनुर्यथा कामं चिन्तामणिश्च चिन्तितम् । माघस्नानं ददातीह तद्वत् सर्वमनोरथान् ॥ १२४ ॥

14.125

श्लोक

कृते तपः परं ज्ञानं त्रेतायां यजनन्तथा । द्वापरे त कलौ दानं मागः सर्वयूगेषु च ॥ १२५ ॥

14.126

श्लोक

सर्वेषां सर्ववर्णानामाश्रमाणाञ्च भूपते । माघस्नानन्तु धर्मस्य धाराभिः खलु वर्षति ॥ १२६ ॥

14.127

श्लोक

प्रीतये वासुदेवस्य सर्वपापायनुत्तये । माघस्नानं प्रकुर्वीत स्वर्गलाभाय मानवः ॥ १२७ ॥

14.128

श्लोक

न समं भवते किञ्चित् तेजः सौरेण तेजसा । तद्वत् स्नानेन माघस्य न समाः क्रतुजाः क्रियाः ॥ १२८ ॥

14.129

श्लोक

किं रक्षितेन देहेन सुपुष्टेन बलीयसा । अघ्रूवेण सुजीर्णेन माघस्नानं विना भवेत् ॥ १२९ ॥

14.130

श्लोक

अस्थिस्तम्भं स्नायुबद्धं मांसक्षतजलेपनम् । चर्मावनद्धं दुर्गन्धिपूर्णं मूत्रपुरीषयोः ॥ १३० ॥

14.131

श्लोक

जराशोकविपद्व्याप्तं रोगमन्दिरमातुरम् । रजस्वलमनित्यञ्च सर्वदोषसमाश्रयम् ॥ १३१ ॥

14.132

श्लोक

परोपताप-पापार्ति-परद्रोहपरेर्षकम् । लोलुपं पिशुनं क्रूरं कृतघ्नं क्षणिकं तथा ॥ १३२ ॥

14.133

श्लोक

दुष्पूरं दुर्द्धरं दुष्टं दोषत्रयविदूषितम् । अशुचिस्रावि सच्छिद्रं तापत्रयविमोहितम् ॥ १३३ ॥

14.134

श्लोक

निसर्गतोऽधर्मरतं तृष्णाशतसमाकुलम् । कामक्रोधमहालोभ-नरकद्वारसंस्थितम् ॥ १३४ ॥

14.135

श्लोक

कृमिवर्चस्कभस्मादि परिणामे शुनां हविः । ईदृक्शरीरकं व्यर्थं माघस्नानविवर्जितम् ॥ १३५ ॥

14.136

श्लोक

अवैष्णवो हतो विप्रो हतं श्राद्धमयोगि च । अश्रद्धया हतं सर्वं यत् कृतं पारलौकिकम् ॥ १३६ ॥

14.137

श्लोक

इह लोको हतो नृणां दारिद्र्येण यथा नृप । मनुष्याणां तथा जन्म माघस्नानं विना हतम् ॥ १३७ ॥

14.138

श्लोक

मकरस्थे रवौ यो हि न स्नात्यनुदिते रवौ । कथं पापैः प्रमुच्येत स कथं त्रिदिवं व्रजेत् ॥ १३८ ॥

14.139

श्लोक

माघस्नायी विपापः स्यात्तत्संसर्गी च पञ्चमः ॥ १३९ ॥

14.140

श्लोक

माघमासे रटन्त्यापः किञ्चिदभ्युदिते रवौ । ब्रह्मघ्नं वा सुरापं वा कं पतन्तं पुनीमहे ॥ १४० ॥

14.141

श्लोक

उपपापानि सर्वाणि पातकानि महान्ति च । भस्मीभवन्ति सर्वाणि माघस्नायिनि मानवे ॥ १४१ ॥

14.142

श्लोक

वेपन्ते सर्वपापानि माघमाससमागमात् । नाशकालोऽयमस्माकं यदि स्नास्यति वारिणि ॥ १४२ ॥

14.143

श्लोक

पावका इव दीप्यन्ते माघस्नानैर्नरोत्तमाः । विमुक्ताः सर्वपापेभ्यो मेघेभ्य इव चन्द्रमाः ॥ १४३ ॥

14.144

श्लोक

आर्द्र शुष्कं लघु स्थूलं वाङ्मनःकर्मभिः कृतम् । माघस्नानं दहेत् पापं पावकः समिधो यथा ॥ १४४ ॥

14.145

श्लोक

प्रामादिकञ्च यत् पापं ज्ञानाज्ञानकृतञ्च यत् । स्नानमात्रेण तन्नश्येन्मकरस्थे दिवाकरे ॥ १४५ ॥

14.146

श्लोक

निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धतान् । सन्देहोऽत्र न कर्तव्यो माघस्नाने नराधिप ॥ १४६ ॥

14.147

श्लोक

एतदेव परो मन्त्र एतच्च परमन्तपः । प्रायश्चित्तं परञ्चैतत् माघस्नानमनुत्तमम् ॥ १४७ ॥

14.148

श्लोक

नृणां जन्मान्तराभ्यासान्माघस्नाने मतिर्भवेत् । अध्यात्मज्ञानकौशल्यं जन्माभ्यासाद्यथा भवेत् ॥ १४८ ॥

14.149

श्लोक

संसारकर्दमानाञ्च प्रक्षालनविशारदम् । पावनं पावनानाञ्च माघस्नानमनुत्तमम् ॥ १४९ ॥

14.150

श्लोक

स्नान्ति माघे नरा राजन् सर्वकामफलप्रदे । ते कथं भुञ्जते भोगान् चन्द्रसूयं ग्रहोपमान् ॥ १५० ॥

14.151

श्लोक

नानवाप्तोऽत्र तस्यास्ति पुरुषार्थो हि कश्चन । नाक्षीणं पातकं किञ्चिन्माघे मज्जति यो नरः ॥ १५१ ॥

14.152

श्लोक

तुलयन्ति न तेनात्र यज्ञाः सर्वे सदक्षिणाः । माघस्नानेन राजेन्द्र तीर्थे चैव विशेषतः ॥ १५२ ॥

14.153

श्लोक

न चान्यत् स्वर्गदं कर्म न चान्यत् पापनाशनम् । न चान्यत् मोक्षदं चात्र माघस्नानसमं भुवि ॥ १५३ ॥

14.154

श्लोक

एकविंशत्कुलैः सार्द्धं भुक्त्वा भोगान् यथेप्सितान् । माघे मासेऽम्भसि स्नात्वा विष्णुलोकं स गच्छति ॥ १५४ ॥

14.155

श्लोक

हेतुना केन विप्रर्षे माघस्नाने महाद्भुतः । प्रभावो वर्णितो नूनं तन्मे कथय सुव्रत ॥ १५५ ॥

14.156

श्लोक

गतपापो यदेकेन द्वितीयेन दिवं गतः । वैश्यो माघजपुण्येन ब्रूहि मे तत् कुतूहलात् ॥ १५६ ॥

14.157

श्लोक

निसर्गात् सलिलं मेध्यं निर्मलं शुचि पावनम् । मलहं पुरुषव्याघ्र द्रावकं दाहकं तथा ॥ १५७ ॥

14.158

श्लोक

धारकं सर्वभूतानां पोषकं जीवनञ्च तत् । आपो नारायणो देवः सर्ववेदेषु पठ्यते ॥ १५८ ॥

14.159

श्लोक

ग्रहानाञ्च यथा सूर्यो नक्षत्राणां यथा शशी । मासानां हि तथा माघः श्रेष्ठः सर्वेषु कार्मसु ॥ १५९ ॥

14.160

श्लोक

मकरस्थे रवौ माघे प्रातःकाले तथामले । गोष्पदेऽपि जले स्नानं स्वर्गदं पापिनामपि ॥ १६० ॥

14.161

श्लोक

योगोऽयं दुर्लभो राजन् त्रैलोक्ये सचराचरे । अस्मिन् मासे त्वशक्तोऽपि स्नायादपि दिनत्रयम् ॥ १६१ ॥

14.162

श्लोक

दद्यात् किञ्चिद्यथाशक्ति दारिद्र्याभावमिच्छति । त्रिस्नानेनापि माघे स्युर्धनिनो दीर्घजीविनः । पञ्च वा सप्त वाहानि चन्द्रवर्धते फलम् ॥ १६२ ॥

14.163

श्लोक

देवैस्तेजः परिक्षिप्तं माघमासे जलेषु वै । अतः पवित्रं हि जलमशेषाघौघनाशनम् ॥ १६३ ॥

14.164

श्लोक

अन्यानि माघमाहात्म्य वचनानि विशेषतः । उपाख्यानेषु वर्तन्ते पाद्मादौ तत्र तत्र हि ॥ १६४ ॥

14.165

श्लोक

इत्थञ्च माघस्नानस्य प्रायोऽत्र महिमोदितः । माघकृत्येषु यत् प्रातःस्नानस्यैव प्रधानता ॥ १६५ ॥

14.166

श्लोक

वासन्ती पञ्चमी माघे भैमी चैकादशी सिता । वाराही द्वादशी या च तासु कुर्यान्महोत्सवम् ॥ १६६ ॥

14.167

श्लोक

माघस्य शुक्लपञ्चम्यां महापूजां समाचरेत् । नरः प्रवालैः कुसुमैरनुलेपैर्विशेषतः ॥ १६७ ॥

14.168

श्लोक

नीराजनोत्सवं कृत्वा भक्त्या सम्मान्य वैष्णवान् । वसन्तरागं जनयन् गीतनृत्यादि कारयेत् ॥ १६८ ॥

14.169

श्लोक

श्रीपञ्चमीं समारभ्य यावत् स्याच्छयनं हरेः । तावद्वसन्तरागस्य गानमुक्तं मनीषिभिः । वसन्तरागः कर्तव्यो नान्यदा तु कदाचन ॥ १६९ ॥

14.170

श्लोक

कृत्वा वसन्तपञ्चम्यां श्रीकृष्णस्यार्चनोत्सवम् । स्याद्वसन्त इव प्रेयान् वृन्दावनविहारिणः ॥ १७० ॥

14.171

श्लोक

माघस्य चाष्टमीं शुक्लामारभ्य दिनपञ्चकम् । तर्पयेदथवाष्टम्यां भीष्मं भागवतोत्तमम् ॥ १७१ ॥

14.172

श्लोक

नित्यतर्पणतः पश्चात् सलिलान्तरुदङ्मुखः । निवीती तर्पणं कुर्याद्गाङ्गेयस्य महात्मनः ॥ १७२ ॥

14.173

श्लोक

वैयाघ्रपद्यगोत्राय साङ्कृतिप्रवराय च । अपुत्राय ददाम्येतत् सलिलं भीष्मवर्मणे ॥ १७३ ॥

14.174

श्लोक

कथमारोग्यमैश्वर्यमनन्तममरेश्वर । स्वल्पेन तपसा देव भवेन्मोक्षो यथा नृणाम् ॥ १७४ ॥

14.175

श्लोक

त्वया पृष्टस्य धर्मस्य रहस्यस्यास्य भेदकृत् । भविता स तदा ब्रह्मन् कर्ता चैव वृकोदरः ॥ १७५ ॥

14.176

श्लोक

इदं व्रतमशेषाणां व्रतानामधिकं यतः । कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः ॥ १७६ ॥

14.177

श्लोक

अशेषयज्ञफलदमशेषाघविनाशनम् । अशेषदुष्टशमनमशेषसुरपूजितम् ॥ १७७ ॥

14.178

श्लोक

पवित्राणां पवित्रञ्च मङ्गलानाञ्च मङ्गलम् । भविष्यञ्च भविष्याणां पुराणानां पुरातनम् ॥ १७८ ॥

14.179

श्लोक

यद्यष्टमी-चतुर्दश्योर्द्वादशीष्वथ भारत । अन्येष्वपि दिनक्षेषु न शक्तस्त्वमुपोषितुम् ॥ १७९ ॥

14.180

श्लोक

ततः पुण्यामिमां भीम तिथिं पापप्रणाशिनीम् । उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् ॥ १८० ॥

14.181

श्लोक

इदमेव कृतं महेन्द्रमुख्यैर्वसुभिश्चैव सुरादिभिस्तथा । फलमस्य न शक्यते हि वक्तुं यदि जिह्वायुतकोटयो मुखे स्युः ॥ १८१ ॥

14.182

श्लोक

व्रते कृत्यविधिश्चास्मिन् पूजाविधिविशेषवान् । वैष्णवैश्चेदपेक्ष्यः स्याज्ञेयो मत्स्यपुराणतः ॥ १८२ ॥

14.183

श्लोक

प्रातःस्नायो भवेन्नित्यं मासौ द्वौ माघफाल्गुनौ । देवान् पितृन् समभ्यर्च्यमुच्यते सर्वकिल्विषैः ॥ १८३ ॥

14.184

श्लोक

यदीच्छेद्विपुलान् भोगान् चन्द्रसूर्योपमान् शुभान् । माघफाल्गुनयोर्मध्ये प्रातःस्नायी तदा भवेत् ॥ १८४ ॥

14.185

श्लोक

फाल्गुने देवकीपुत्रं पूजयेत् स्वर्णचम्पकैः । चूतसौगन्धि-कुसुमैर्पैर्गन्धैः सुविस्तरैः ॥ १८५ ॥

14.186

श्लोक

शिवरात्रिव्रतमिदं यद्यप्यावश्यकं न हि । वैष्णवानां तथाप्यत्र सदाचाराद्विलिख्यते ॥ १८६ ॥

14.187

श्लोक

शिवरात्रिव्रतं कृष्णचतुर्दश्यान्तु फाल्गुने । वैष्णवैरपि तत् कार्यं श्रीकृष्णप्रीतये सदा ॥ १८७ ॥

14.188

श्लोक

सौरो वा वैष्णवो वान्यो देवतान्तरपूजकः । न पूजाफलमाप्नोति शिवरात्रिबहिर्मुखः ॥ १८८ ॥

14.189

श्लोक

परात् परतरं यान्ति नारायणपरायणाः । न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ १८९ ॥

14.190

श्लोक

यो मां समर्चयेन्नित्यमेकान्तं भावमाश्रितः । विनिन्दन् देवमीशानं स याति नरकायुतम् ॥ १९० ॥

14.191

श्लोक

मद्भक्तः शङ्करद्वेषी मद्द्वेषी शङ्करप्रियः । उभौ तौ नरकं यातौ यावच्चन्द्रदिवाकरौ ॥ १९१ ॥

14.192

श्लोक

यः शिवः सोऽहमेवेह योऽहं स भगवान् शिवः । नाचयोरन्तरं किञ्चिदाकाशानिलयोरिव ॥ १९२ ॥

14.193

श्लोक

शिवाय विष्णुरूपाय शिवरूपाय विष्णवे । शिवस्य हृदयं विष्णुर्विष्णोरतु हृदयं शिवः ॥ १९३ ॥

14.194

श्लोक

यथा शिवमयो विष्णुरेवं विष्णुमयः शिवः । यथान्तरं न पश्यामि तथा मे स्वस्तिरायुषः ॥ १९४ ॥

14.195

श्लोक

कार्यं गुणावतारत्वेनैक्याद्रुद्रस्य वैष्णवैः । वैष्णवाग्र्यतया श्रेष्ठ्यात् सदाचाराच्च तद्व्रतम् ॥ १९५ ॥

14.196

श्लोक

चतुर्थस्कन्धदृष्ट्या तु नैके कुर्वन्ति तद्व्रतम् ॥ १९६ ॥

14.197

श्लोक

भवव्रतधरा ये च ये च तान् समनुव्रताः । पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ॥ १९७ ॥

14.198

श्लोक

माघफाल्गुनयोर्मध्ये असिता या चतुर्दशी । शिवरात्रिस्तु सा ख्याता सर्वयज्ञोत्तमोत्तमा ॥ १९८ ॥

14.199

श्लोक

माघमासस्य शेषा या प्रथमा फाल्गुनस्य च । कृष्णा चतुर्दशी सा तु शिवरात्रिः प्रकीर्तिता ॥ १९९ ॥

14.200

श्लोक

यानि कान्यत्र लिङ्गानि स्थावराणि चराणि च । तेषु संक्रमते देवस्तस्यां रात्रौ यतो हरः । शिवरात्रिस्ततः प्रोक्ता तेन सा हरिवल्लभा ॥ २०० ॥