Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १२

एकादशी-निर्णयः

12.301

श्लोक

चक्रवर्तित्वम् आपन्ना भुक्त्वा भोगान् सुखानि वै । कुवलाश्वो विश्व-गन्धिर् हरिश्चन्द्रो नलः पृथुः ॥ ३०१ ॥

12.302

श्लोक

मरुतो भरतश् चैव कार्तवीर्यश् च हैहयः । मान्धाता सगरो रामः ककुत्स्थो नहुषस् तथा ॥ ३०२ ॥

12.303

श्लोक

उपोष्य द्वादशीं पुण्याम् अपरां च विवर्ज्य तु । भुक्त्वा स्वर्ग-सुखान्य् एते चक्रवर्तित्वम् आगताः ॥ ३०३ ॥

12.304

श्लोक

जनकानां महीपाल द्वादश्यां समुपोषणे । सप्तम्या सन्ततिर् युक्ता संसिद्धिं परमां गता ॥ ३०४ ॥

12.305

श्लोक

पुरु-कुत्सो महीपालो द्वादश्यां समुपोषणे । सिद्धिं गतः परित्यज्य कर्म-बन्धं दुरासदाम् ॥ ३०५ ॥

12.306

श्लोक

मान्धाता यौवनाश्वश् च द्वादश्यां समुपोषणे । सङ्ग्रामे निधनं प्राप्य सम्प्राप्तः परमं पदम् ॥ ३०६ ॥

12.307

श्लोक

शाकुन्तलो महीपालो दौष्मन्तिर् अपराजितः । द्वादश्याम् उपवासेन गतस् तद् वैष्णवं पदम् ॥ ३०७ ॥

12.308

श्लोक

वैण्यः पुरूरवा भूप पालयित्वा धरातलम् । धरणी-धरम् अभ्यर्च्य द्वादशीषु सदा पुनः । गतस् तद् वैष्णवं लोकं दाह-प्रलय-वर्जितम् ॥ ३०८ ॥

12.309

श्लोक

एते राजर्षयो भूप द्वादश्यां समुपोषणे । सिद्धिं परमिकां प्राप्त ये द्विजास् तान् शृणुष्व मे ॥ ३०९ ॥

12.310

श्लोक

याव-क्रीतश् च वैदर्भो माण्डव्यः कौशिको मुनिः । भरद्वाजस् तथा कण्वः कुम्भयोनिस् तथा मुनिः ॥ ३१० ॥

12.311

श्लोक

अष्टाशीति सहस्राणि मुनीनाम् ऊर्ध्व-रेतसाम् । प्रयान्ति स्यन्दस्याग्रे तिमिरारेर् जनाधिप ॥ ३११ ॥

12.312

श्लोक

ते सर्वे परमां सिद्धिं द्वादश्यां समुपोषणे । मया सह गता भूप कथन्ते संशयो भवेत् ॥ ३१२ ॥

12.313

श्लोक

द्वादशी-वासरं राजन् हरि-गुह्यं प्रकीर्तितम् । निरापबाधं लोकेऽस्मिन् शुद्धं वैष्णव-वल्लभम् ॥ ३१३ ॥

12.314

श्लोक

तस्माद् भूप न सन्देहः कर्तव्यो द्वादशीं प्रति । विशेष-फलदा प्रोक्ता द्वादशी पाप-नाशिनी ॥ ३१४ ॥

12.315

श्लोक

प्रतिपत्-प्रभृतयः सर्वा उदयाद् उदयाद् रवेः । सम्पूर्णा इति विख्याता हरि-वासर-वर्जिताः ॥ ३१५ ॥

12.316

श्लोक

उदयात् प्राक् यदा विप्र मुहूर्त-द्वय-संयुता । सम्पूर्णैकादशी नाम तत्रैवोपवसेद् गृही ॥ ३१६ ॥

12.317

श्लोक

आदित्योदय-वेलायाः प्राङ्-मुहूर्त-द्वयान्विता । एकादशी तु सम्पूर्णा विद्धान्या परिकीर्तिता ॥ ३१७ ॥

12.318

श्लोक

अतएव परित्याज्य समये चारुणोदये । दशम्यैकादशी विद्धा वैष्णवेन विशेषतः ॥ ३१८ ॥

12.319

श्लोक

अरुणोदय-वेलायां दशमी-संयुता यदि । अत्रोपोष्या द्वादशी स्यात् त्रयोदश्यां तु पारणम् ॥ ३१९ ॥

12.320

श्लोक

अरुणोदय-वेलायां दशमी यदि सङ्गता । रुचि-चक्रार्ध-मात्रापि द्वादशीम् उपवासयेत् । तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥ ३२० ॥

12.321

श्लोक

उदयात् प्राक् त्रिघटिका-व्यापिन्य् एकादशी यदा । सन्दिग्धैकादशी नाम वर्जयेद् धर्म-काङ्क्षया ॥ ३२१ ॥

12.322

श्लोक

उदयात् प्राङ्-मुहूर्तेन व्यापिन्य् एकादशी यदा । संयुक्तैकादशी नाम वर्जयेद् धर्म-वृद्धये ॥ ३२२ ॥

12.323

श्लोक

आदित्योदय-वेलाया आरभ्य षष्ठ-नाडिकाम् । सम्पूर्णैकादशी नाम त्याज्या धर्म-फलेप्सुभिः ॥ ३२३ ॥

12.324

श्लोक

पुत्र-पौत्र-समृद्ध्य्-अर्थं द्वादश्याम् उपवासयेत् । तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥ ३२४ ॥

12.325

श्लोक

अरुणोदय-वेलायां या स्तोकापि तिथिर् भवेत् । पूर्णैवेत्य् अवगन्तव्या प्रभूता नोदयं विना ॥ ३२५ ॥

12.326

श्लोक

तत्र चेद् दशमी-वेद्योऽतिवेधो वापि जायते । महावेधोऽथवा योगो रक्षसां तत् फलं भवेत् ॥ ३२६ ॥

12.327

श्लोक

कीदृशस् तु भवेद् वेधो योगो विप्रेन्द्र कीदृशः । योग-वेधौ समाचक्ष्व याभ्यां दुष्टम् उपोषणम् ॥ ३२७ ॥

12.328

श्लोक

चतस्रो घटिकाः प्रातर् अरुणोदय-निश्चयः । चतुष्टय-विभागोऽत्र वेधादीनां किलोदितः ॥ ३२८ ॥

12.329

श्लोक

अरुणोदय-वेधः स्यात् सार्धं तु घटिका-त्रयम् । अतिवेधो द्वि-घटिकः प्रभा-सन्दर्शनाद् वेधः ॥ ३२९ ॥

12.330

श्लोक

महोवेधोऽपि तत्रैव दृश्यतेऽर्को न दृश्यते । तुरीयस् तत्र विहितो योगः सूर्योदये बुधैः ॥ ३३० ॥

12.331

श्लोक

वेधातिवेध-महा-वेध-योगाश् चत्वार उपवासस्य दूषकाः । तत्र रवेः सन्दर्शनात् पूर्वं सार्धं घटिका-त्रयम् एकादश्या व्याप्तम् । तत्र प्राचीने घटिकार्वे दशमी-सम्भावे वेधः । यदा घटिका-द्वयम् उपरितनम् एकादशी-व्याप्तं पूर्वं तु घटिका-द्वयं दशमी-व्याप्तं तदानीम् अतिवेध इति ॥ ३३१ ॥

12.332

श्लोक

राक्षसानां फलं योगे महा-वेधे तु वास्कलेः । जम्भासुरस्यातिवेधे मोहिना वेध-शिल्पिनी ॥ ३३२ ॥

12.333

श्लोक

अरुणोदय-वेलायां दशमी यदि सङ्गता । संयुक्तैकादशीं तां तु मोहिन्यै दत्तवान् विभुः ॥ ३३३ ॥

12.334

श्लोक

अरुणोदय-वेलायां दशमी-मिश्रिता भवेत् । तां त्यक्त्वा द्वादशीं शुद्धाम् उपोष्येद् अविचारयन् ॥ ३३४ ॥

12.335

श्लोक

अरुणोदये तु दशमी-गन्ध-मात्रं भवेद् यदि । द्रष्टव्यं तत् प्रयत्नेन वर्जनीयं नराधिप ॥ ३३५ ॥

12.336

श्लोक

दशमी-शेष-संयुक्तो यदि स्याद् अरुणोदयः । वैष्णवेन न कर्तव्यं तद्-दिनैकादशी-व्रतम् ॥ ३३६ ॥

12.337

श्लोक

दशमी-शेष-संयुक्तो यदि स्याद् अरुणोदयः । नैवोपोष्यं वैष्णवैस् तु तत्र चैकादशी-व्रते ॥ ३३७ ॥

12.338

श्लोक

गृहीत-विष्णु-दीक्षाको विष्णु-सेवा-परो नरः । वैष्णवश् चात्र संग्राह्यः स्कान्दाद्य्-उक्तानुसारतः ॥ ३३८ ॥

12.339

श्लोक

परमापदम् आपन्ने हर्षे वा समुपस्थिते । नैकादशीं त्यजेद् यस् तु यस्य दीक्षास्ति वैष्णवी ॥ ३३९ ॥

12.340

श्लोक

समात्मा सर्व-जीवेषु निजाचाराद् अविप्लुतः । विष्ण्व्-अर्पिताखिलाचारः स हि वैष्णव उच्यते ॥ ३४० ॥

12.341

श्लोक

सदीक्षावधि सन्यासं स-यन्त्रं द्वादशाक्षरम् । अष्टाक्षरम् अथान्यं वा ये मन्त्रं समुपासते । ज्ञेयास् ते वैष्णवा लोके विष्ण्व्-अर्चन-रतास् तथा ॥ ३४१ ॥

12.342

श्लोक

उदयात् प्राक् चतस्रश् च घटिका अरुणोदयः । तत्र स्नानं प्रशस्तं स्यात् स वै पुण्यतमः स्मृतः ॥ ३४२ ॥

12.343

श्लोक

चतस्रो घटिकाः प्रातर् अरुणोदय उच्यते । यतीनां स्नान-कालोऽयं गङ्गाम्भः-सदृशः स्मृतः ॥ ३४३ ॥

12.344

श्लोक

त्रि-यामां रजनीं प्राहुस् त्यक्त्वाद्य्-अन्त-चतुष्टयम् । नाडीनां ते उभे सन्ध्ये दिवसाद्य्-अन्त-संज्ञिते ॥ ३४४ ॥

12.345

श्लोक

अरुणोदय-वेलायां बिद्धा काचिद् उपोषिता । तस्याः पुत्र-शतं नष्टं तस्मात् तां परिवर्जयेत् ॥ ३४५ ॥

12.346

श्लोक

अरुणोदय-काले तु बेधं दृष्ट्वा चतुर्विधम् । मद्-दिनं ये प्रकुर्वन्ति यावद् आहूत-नारकाः ॥ ३४६ ॥

12.347

श्लोक

कृते तु मद्-दिने तत्र सन्तानस्यापि संक्षयः । सप्त-जन्मसु नश्यन्ति धर्माणि च धनानि च ॥ ३४७ ॥

12.348

श्लोक

अरुणोदय-काले तु दशमी यदि दृश्यते । न तत्रैकादशी कार्या धर्म-कामार्थ-नाशिनी ॥ ३४८ ॥

12.349

श्लोक

अरुणोदय-काले तु दशमी यदि दृश्यते । पाप-मूलं तदा ज्ञेयम् एकादश्य्-उपवासिनाम् ॥ ३४९ ॥

12.350

श्लोक

बिद्धोपवास-दोषा ये सामान्याल् लिखिताः पुरा । ज्ञेयास् तेऽत्रापि बिद्धाया लक्षणस्यानुसारतः ॥ ३५० ॥

12.351

श्लोक

एवं ज्ञेयानि वाक्यानि बिद्धा-व्रत-पराणि तु । अवैष्णवाश्रयाण्य् एव शुक्र-माया-कृतानि वा ॥ ३५१ ॥

12.352

श्लोक

इत्थं च जन्माष्टम्यादि-व्रतान्य् अपि न वैष्णवैः । बिद्धेष्व् अहःसु कार्याणि तादृग्-दोष-गानाश्रयात् ॥ ३५२ ॥

12.353

श्लोक

अर्ध-रात्राच् च परतो वर्तेत दशमी यदि । तदाप्य् एकादशीं बिद्धां मन्यन्ते यच् च केचन ॥ ३५३ ॥

12.354

श्लोक

अर्ध-रात्रम् अतिक्रम्य दशमी यदि दृश्यते । तदा ह्य् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् ॥ ३५४ ॥

12.355

श्लोक

अभिज्ञास् तच् च मन्यन्ते पक्ष-वर्धन्य्-उपाश्रितम् । अतस् तच् च तथान्यं च महतां नैव सम्मतम् ॥ ३५५ ॥

12.356

श्लोक

अर्ध-रात्रेऽपि केषांचिद् दशम्या बेध इष्यते । अरुणोदय-वेलायां नावकाशो विचारणे ॥ ३५६ ॥

12.357

श्लोक

कपाल-बेध इत्य् आहुर् आचार्या यं हरि-प्रियाः । न तन् मम मतं यस्मात् त्रियामा रात्रिर् उच्यते ॥ ३५७ ॥

12.358

श्लोक

अर्ध-रात्रं स्पृशेत् पूर्णा पक्ष-वृद्धिर् यद् अग्रतः । कपाल-बेधनी सा च शुद्धां भद्राम् उपोषणम् ॥ ३५८ ॥

12.359

श्लोक

अग्रतो वृद्धि-गामित्वात् परित्याज्यैव वैष्णवैः ॥ ३५९ ॥

12.360

श्लोक

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा । वैष्णवी च त्रयोदश्यां घटिकैकापि दृश्यते । गृहस्थोऽपि परां कुर्यात् पूर्वा नोपवसेत् तदा ॥ ३६० ॥

12.361

श्लोक

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा । अत्रोपोष्या द्वितीया तु पुत्र-पौत्र-विवर्धिनी ॥ ३६१ ॥

12.362

श्लोक

द्वादशी-मिश्रिता ग्राह्या सर्वत्रैकादशी तिथिः । द्वादशी च त्रयोदश्यां विद्यते यदि वा न वा ॥ ३६२ ॥

12.363

श्लोक

सर्वत्रैकादशी कार्या द्वादशी-मिश्रिता नरैः । प्रातर् भवतु वा मा वा यतो नित्यम् उपोषणम् ॥ ३६३ ॥

12.364

श्लोक

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा । तत्र कृत-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥ ३६४ ॥

12.365

श्लोक

एकादशी-कला यत्र परतो द्वादशी न चेत् । तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥ ३६५ ॥

12.366

श्लोक

एकादशी-कलाप्य् एका परतो द्वादशी न चेत् । तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥ ३६६ ॥

12.367

श्लोक

एकादशी-कलाप्य् एका परतो न च वर्धते । गृहिभिः पुत्रवद्भिश् च नैवोपोष्या सदा तिथिः ॥ ३६७ ॥

12.368

श्लोक

एकादशी-कला-युक्ता येन द्वादश्य्-उपोषिता । किं तस्य बहुभिर् यज्ञैर् अश्वमेधादिभिर् नृप ॥ ३६८ ॥

12.369

श्लोक

एकादशी द्वादशी च तत्र सन्निहितो हरिः । उपोष्य रजनीम् एकां ब्रह्म-हत्यां व्यपोहति ॥ ३६९ ॥

12.370

श्लोक

एकादशी-कला-प्राप्ता येन द्वादश्य्-उपोषिता । तुल्या क्रतु-शतेन स्यात् त्रयोदश्यां तु पारणम् ॥ ३७० ॥

12.371

श्लोक

एकादशी-कला-युक्ता उपोष्या द्वादशी नरैः । त्रयोदश्यां तु यो भुङ्क्ते तस्य विष्णुः प्रसादति ॥ ३७१ ॥

12.372

श्लोक

एकादशी भवेत् पूर्णा परतो द्वादशी यदा । तदाह्य्-एकादशीं त्यक्त्वा द्वादश्यां समुपोषयेत् ॥ ३७२ ॥

12.373

श्लोक

एकादशी तु सम्पूर्णा परतो द्वादशी भवेत् । उपोष्या द्वादशी तत्र तिथि-वृद्धिः प्रशस्यते ॥ ३७३ ॥

12.374

श्लोक

उपोष्या द्वादशी शुद्धा द्वादश्याम् एव पारणम् । निर्गतायां त्रयोदश्यां कला च विकलापि वा ॥ ३७४ ॥

12.375

श्लोक

विकलायां तु द्वादश्यां पारणं यः करोति हि । ताम् उपोष्य महीपाल न गर्भे विशते नरः ॥ ३७५ ॥

12.376

श्लोक

सम्पूर्णैकदशी त्याज्या परतो द्वादशी यदि । उपोष्या द्वादशी शुद्धा द्वादश्याम् एव पारणम् । न गर्भे विशते जन्तुर् इत्य् आह भगवान् हरिः ॥ ३७६ ॥

12.377

श्लोक

एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी । त्रिस्पृशा नाम सा प्रोक्ता ब्रह्म-हत्यां व्यपोहति ॥ ३७७ ॥

12.378

श्लोक

एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी । त्रिभिर् मिश्रा तिथिः प्रोक्ता सर्व-पाप-हरा स्मृता ॥ ३७८ ॥

12.379

श्लोक

उपवासः कृतस् तस्यां सदा पातक-नाशनः । एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी । तत्र क्रतु-शतं पुण्यं त्रयोदश्यां तु पारणम् ॥ ३७९ ॥

12.380

श्लोक

त्रिस्पृशैकादशी यत्र तत्र सन्निहितो हरिः । ताम् एवोपवसेत् कामी अकामो विष्णु-तत्परः ॥ ३८० ॥

12.381

श्लोक

एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी । उपोष्या च प्रयत्नेन महा-पुण्य-विवर्धिनी ॥ ३८१ ॥

12.382

श्लोक

एकादशी-कला-युक्ता द्वादशी क्षीयते यदा । उपोष्या च महा-पुण्या सर्व-पाप-हरा तिथिः ॥ ३८२ ॥

12.383

श्लोक

एकादशी-कला-युक्ता द्वादशी लुप्यते यदा । एकादशी तदोपोष्या द्वितीया मोक्ष-काङ्क्षिभिः ॥ ३८३ ॥

12.384

श्लोक

एकादशी-कलाप्य् एका द्वादशी सकलं दिनम् । त्रयोदशी ऊषा-काले वैष्णवं तु दिन-त्रयम् । सर्व-पाप-हरं प्राप्तं तद् उपोष्यम् इति स्मृतिः ॥ ३८४ ॥

12.385

श्लोक

द्वादशी-संयुता यत्र भवत्य् एकादशी-कला । दिन-क्षयेऽपि या पुण्या न दशम्या कदाचन ॥ ३८५ ॥

12.386

श्लोक

त्रिस्पृशैकादशी यत्र तत्र सन्निहितो हरिः । पुण्यं क्रतु-शतस्योक्तं त्रयोदश्यां तु पारणम् ॥ ३८६ ॥

12.387

श्लोक

पुरा चैकादशी स्वल्पा अन्ते चैव त्रयोदशी । सम्पूर्णा द्वादशी मध्ये त्रिस्पृशा सा हरि-प्रिया ॥ ३८७ ॥

12.388

श्लोक

त्रिस्पृशां द्वादशीं प्राप्य कुरुते पूर्व-वासरम् । तेनात्मनस् तु कल्याणं दग्धं पापाग्निना दृढम् ॥ ३८८ ॥

12.389

श्लोक

तिथिः स-शल्या परिवर्जनीया धर्मार्थ-कामैस् तु बुधैर् मनुष्यैः । विहीन-शल्यापि विवर्जनीया यद्य् अग्रतो वृद्धिम् उपैति पक्षः ॥ ३८९ ॥

12.390

श्लोक

दर्शश् च पौर्णमासी च सम्पूर्णा वर्धते यदि । द्वितीयेऽह्नि नृप-श्रेष्ठ सा भवेत् पक्ष-वर्धिनी ॥ ३९० ॥

12.391

श्लोक

एवं महत्यो द्वादश्यश् चतस्रो दर्शिताः क्रमात् । उन्मीलनी वञ्जुली च त्रिस्पृशा पक्ष-वर्धिनी ॥ ३९१ ॥

12.392

श्लोक

अपराश् च चतस्रस् ता ज्ञेया नक्षत्र-योगतः । जया च विजया चैव जयन्ती पाप-नाशिनी ॥ ३९२ ॥

12.393

श्लोक

तत्र तत्र विशेषश् च योऽन्यः कृष्णार्चनादिकः । लेख्यः सोऽग्रे विशेषेण तत्-तन्-मुख्य-निरूपणे ॥ ३९३ ॥

12.394

श्लोक

एवं द्वादश्य्-अवृद्धौ च पूर्वोपोष्येति यद् वचः । तथा त्याज्या त्रिस्पृशा च कृष्णाप्य् एकादशीति यत् ॥ ३९४ ॥

12.395

श्लोक

पूर्णा एकादशी त्याज्या वर्धते द्वितयं यदि । द्वादश्यां पारणालाभे पूर्वैव परिगृह्यते ॥ ३९५ ॥

12.396

श्लोक

एकादशी द्वादशी च रात्रि-शेषे त्रयोदशी । त्रिस्पृशा तद् अहो-रात्रं नोपोष्यं तत् सुतार्थिभिः ॥ ३९६ ॥

12.397

श्लोक

एकादशी यदा वृद्धा द्वादशी च क्षयं गता । क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते ॥ ३९७ ॥

12.398

श्लोक

एकादशी कला यत्र द्वादशी च क्षयं गता । तत्र नक्तं प्रकुर्वीत नोपवासं गृहाश्रमी ॥ ३९८ ॥

12.399

श्लोक

यथा शुक्ला तथा कृष्णा द्वादशी मे सदा प्रिया । शुक्ला गृहस्थैः कर्तव्या भोग-सन्तान-वर्धिनी ॥ ३९९ ॥

12.400

श्लोक

सङ्क्रान्त्याद्य्-उपवासेन पारणा न युधिष्ठिर । एकादश्यां च कृष्णायां ज्येष्ठः पुत्रो विनश्यति ॥ ४०० ॥