Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १२

एकादशी-निर्णयः

12.401

श्लोक

शयनी-बोधनी-मध्ये या कृष्णैकादशी भवेत् । सैवोपोष्य गृहस्थेन नान्या कृष्णा कदाचन ॥ ४०१ ॥

12.402

श्लोक

एकादश्यां न भुञ्जीत पक्षयोर् उभयोर् अपि । वनस्थ-यति-धर्मोऽयं शुक्लाम् एव सदा गृही ॥ ४०२ ॥

12.403

श्लोक

एतत् सर्वं तथान्यच् च वचनं वैष्णवेतरान् । गृहस्थान् पुत्र-वित्तादि-तत्-परान् प्रति मन्यताम् ॥ ४०३ ॥

12.404

श्लोक

सम्पूर्णैकादशी यत्र परतः पुनर् एव सा । पूर्वाम् उपवसेत् कामी निष्कामस् तूत्तरं वसेत् ॥ ४०४ ॥

12.405

श्लोक

सम्पूर्णैकादशी यत्र प्रभाते पुनर् एव सा । उत्तरां तु यतिः कुर्यात् पूर्वाम् उपवसेद् गृही ॥ ४०५ ॥

12.406

श्लोक

निष्कामस् तु गृही कुर्याद् उत्तरैकादशीं सदा । प्रातर् भवतु वा मा वा द्वादशी च द्विजोत्तम ॥ ४०६ ॥

12.407

श्लोक

शुद्धैव द्वादशी राजन् उपोष्या मोक्ष-काङ्क्षिभिः । पारणस् तु त्रयोदश्यां पूजयित्वा जनार्दनम् ॥ ४०७ ॥

12.408

श्लोक

तादृशोऽपि गृहस्थोऽत्र परं पुत्रादि-कामुकः । उपवासस्य नित्यत्वात् किञ्चिद् भक्ष्यं प्रकल्पयेत् ॥ ४०८ ॥

12.409

श्लोक

उपवास-निषेधे तु किञ्चिद् भक्ष्यं प्रकल्पयेत् । नो दुष्यत्य् उपवासोऽत्र उपवास-फलं लभेत् ॥ ४०९ ॥

12.410

श्लोक

इत्थं शास्त्र-विचारेण शिष्टाचारानुसारतः । एकादशी-व्यवस्थेयं कृता वैष्णव-सम्मता ॥ ४१० ॥

12.411

श्लोक

विद्वांसोऽप्य् अत्र मूढाः स्युर् विना कृष्ण-प्रसादतः । अतः सदासौ निर्धार्या पृष्ट्वा भागवतोत्तमान् ॥ ४११ ॥

12.412

श्लोक

द्वादश्या निर्णये भूप मूढम् अत्र जगत्-त्रयम् । अत्र मूढा महीपाल प्रायशो ये नराः पुरा ॥ ४१२ ॥

12.413

श्लोक

महा-पुण्यतमा ह्य् एषा द्वादशी फलतोऽधिका । शोधयित्वा सदा कार्या सम्यग् दैवज्ञ-सत्तमैः ॥ ४१३ ॥

12.414

श्लोक

अर्चयन्ति सदा विष्णुं मनो-वाक्-काय-कर्मभिः । तेषां हि वचनं कार्यं ते हि विष्णु-समा मताः ॥ ४१४ ॥

12.415

श्लोक

संस्पृष्ट्वा वैष्णवान् विप्रान् विष्णु-शास्त्र-विशारदान् । चीर्ण-व्रतान् सदाचारांस् तद्-उक्तं यत्नतश् चरेत् ॥ ४१५ ॥

12.416

श्लोक

इतिहास-पुराण-ज्ञाः स्मृति-सिद्धान्त-वेदिनः । वासुदेव-प्रिया ये च तद्-उक्तं वैदिकं भवेत् ॥ ४१६ ॥

12.417

श्लोक

येषां न कारणं वेदा न विप्रा न जनार्दनः । तन्त्राणि धर्म-शास्त्राणि तेषां वाक्यं विवर्जयेत् ॥ ४१७ ॥

12.418

श्लोक

येषां गुरौ न जप्ये वा विष्णौ च परमात्मनि । नास्ति भक्तिः सदा तेषां वचनं परिवर्जयेत् ॥ ४१८ ॥

12.419

श्लोक

येषां विश्वेश्वरे विष्णौ शिवे भक्तिर् न विद्यते । न तेषां वचनं ग्राह्यं धर्म-निर्णय-सिद्धये ॥ ४१९ ॥

12.420

श्लोक

पञ्चरात्र-पुराणानि सेतिहासानि मानवाः । ये विनिन्दन्ति तेषां वै वचनं परिवर्जयेत् ॥ ४२० ॥

12.421

श्लोक

पुराणं पञ्चरात्रं च वेदाः पाशुपतास् तथा । अतिप्रमाणान्य् एतानि न हन्तव्यानि हेतुभिः ॥ ४२१ ॥