Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १२

एकादशी-निर्णयः

12.201

श्लोक

एकादशी तथा षष्ठी पौर्णमासी चतुर्दशी । तृतीया च चतुर्थी च अमावस्याष्टमी तथा । उपोष्याः पर-संयुक्ता नोपोष्याः पूर्व-संयुताः ॥ २०१ ॥

12.202

श्लोक

एकादशीम् उपवसेद् द्वादशीम् अथवा पुनः । विमिश्रां वापि कुर्वीत न दशम्या युतां क्वचित् ॥ २०२ ॥

12.203

श्लोक

भूत-बिद्धा त्व् अमावस्या दशम्यैकादशी-युता । दिशा बिद्धा तु सा स्वर्गं हन्ति पुण्यं पुरा कृतम् ॥ २०३ ॥

12.204

श्लोक

दशम्य्-अनुगता यत्र तिथिर् एकादशी भवेत् । तत्रापत्य-विनाशं च परेत्य नरकं व्रजेत् ॥ २०४ ॥

12.205

श्लोक

नोपोष्या दशमि-बिद्धा सदैवैकादशी तिथिः । समुपोष्य नरो जह्यात् पुण्यं वर्ष-चातोद्भवम् ॥ २०५ ॥

12.206

श्लोक

दशम्या चैव बिद्धायाम् एकादश्याम् उपोषितः । तस्यायुः क्षीयते नित्यं नारदोऽहं ब्रवीमि वः । सत्यं सत्यं विनश्येत सन्ततिस् तु न चान्यथा ॥ २०६ ॥

12.207

श्लोक

मुहूर्तेनापि संयुक्ता दशम्यैकादशी तु या । ताम् उपोष्य नरो मोहात् सुखाद् धर्माच् च हीयते ॥ २०७ ॥

12.208

श्लोक

दशम्यैकादशी यत्र तत्र नोपवसेद् बुधः । अपत्यानि विनश्यन्ति स्वर्ग-लोकं न गच्छति ॥ २०८ ॥

12.209

श्लोक

उपोष्यैकादशीं मोहाद् दशमी-शेष-संयुताम् । न नरः सुखम् आधत्ते इह-लोके परत्र च ॥ २०९ ॥

12.210

श्लोक

धृतराष्ट्रेण मैत्रेयः पृष्टः प्राह नराधिपम् । यद्-अर्थं ते वियोगोऽभूत् पुत्राणां भार्यया सह ॥ २१० ॥

12.211

श्लोक

पूर्वं त्वया सभार्येण दशमी-शेष-संयुता । कृता चैकादशी राजन् तस्येदं कारणं मतम् ॥ २११ ॥

12.212

श्लोक

न चाहं स्वैरिणी भार्या न चाहम् अपतिव्रता । न चेह कलुषं येन किं पापं त्व् अन्य-जन्मनि ॥ २१२ ॥

12.213

श्लोक

राम-पत्न्या वचः श्रुत्वा वाल्मीकिर् मुनि-पुङ्गवः । चिरं ध्यात्वा महाराज ताम् उवाचेदृशं वचः ॥ २१३ ॥

12.214

श्लोक

दशम्यैकादशीं पूर्वं समुपोष्य जनार्दनः । अभ्यर्चितस् त्वया देवि तस्येदं कर्मणः फलम् ॥ २१४ ॥

12.215

श्लोक

वशिष्ठः समुवाचेदं पृष्टो मान्धातृ-भार्यया । दशम्यैकादशी देवि पुरा चोपोषिता त्वया ॥ २१५ ॥

12.216

श्लोक

तेन ते कर्मणा चेह स्व-भर्तृ-सुत-बान्धवैः । वियोगः समनुप्राप्तः सत्यं विद्धि पतिव्रते ॥ २१६ ॥

12.217

श्लोक

यानि यानीह पापानि त्रैलोक्ये सम्भवन्ति वै । तेषां स्थानं दशम्या वै सहितैकादशी मता । सप्त-जन्म-कृतं पुण्यं नश्येत नात्र संशयः ॥ २१७ ॥

12.218

श्लोक

दशमी-शेष-संयुक्तां यः करोति विमूढ-धीः । एकादशी-फलं तस्य न स्याद् द्वादश-वार्षिकम् ॥ २१८ ॥

12.219

श्लोक

यैः कृता दशमी-बिद्धाविद्या-मोहेन मानवैः । ते गता नरकं घोरं युगानाम् एक-सप्ततिम् ॥ २१९ ॥

12.220

श्लोक

दशमी-बेध-संयुक्ताम् उपोष्यैकादशीं किल । संवत्सर-कृतेनेह नरो धर्मेण मुच्यते ॥ २२० ॥

12.221

श्लोक

पूर्णा-बिद्धां पलार्धेन नन्दां पूर्णाम् अपि त्यजेत् । यदीच्छेद् आत्म-सन्तानं चतुर्षु नियमेष्व् अपि ॥ २२१ ॥

12.222

श्लोक

नोपोषितं च नक्तं च नैक-भक्तम् अयाचितम् । नन्दायां पूर्व-बिद्धायां कुर्याद् ऐश्वर्य-मोहितः ॥ २२२ ॥

12.223

श्लोक

गङ्गोदकस्य सम्पूर्णं यथा त्याज्यं घटं भवेत् । सुरा-बिन्दु-समायुक्तं तत् सर्वं मद्यतां व्रजेत् ॥ २२३ ॥

12.224

श्लोक

हालाहलं विषं रौद्रं कः पिबेन् मूढ-धीर् नरः । दशमी-शेष-संयुक्तां क उपोषति सद्-व्रती ॥ २२४ ॥

12.225

श्लोक

एवं ज्ञात्वा मुनिश्रेष्ठ दशमी-शेष-संयुता । वर्जिता मुनिभिः सर्वैर् वासुदेवम् अभीप्सुभिः ॥ २२५ ॥

12.226

श्लोक

बिद्धाम् एकादशीं विप्रास् तज्यन्त्य् एआं मनीषिणः । तस्याम् उपोषितो याति दारिद्र्यं दुःखम् एव च ॥ २२६ ॥

12.227

श्लोक

लव-बेधेऽपि विप्रेन्द्र दशम्यैकादशीं त्यजेत् । सुराया बिन्दुना स्पृष्टं गङ्गाम्भः-कलसं यथा । श्वदृतौ पञ्च-गव्यं च दशम्या दूषितं त्यजेत् ॥ २२७ ॥

12.228

श्लोक

द्वापरान्ते तु गान्धारी कुरु-वंश-विवर्धिनी । करिष्यति च सेनानि मूढ-भावाच् छिखि-ध्वज । तेन पुत्र-शतं तस्या नाशम् एष्यत्य् असंशयम् ॥ २२८ ॥

12.229

श्लोक

कला काष्ठापि या चैव दृश्यते दशमी विभो । एकादश्यां तु सेनानि कर्तव्या न कथञ्चन ॥ २२९ ॥

12.230

श्लोक

दशयैकादशी यत्र तत्र सन्निहितोऽसुरः । द्वादश्यैकादशी यत्र तत्र सन्निहितो हरिः ॥ २३० ॥

12.231

श्लोक

स्वर्गापेक्षा महा-देवि तेन त्यक्ता न संशयः । वाञ्छितं नारकं सौख्यं विद्धं कृत्वा हरेर् दिनम् ॥ २३१ ॥

12.232

श्लोक

निहताः पितरस् तेन देवतानां वधः कृतः । दत्तं राज्यं तु दैत्यानां कृत्वा बिद्धं हरेर् दिनम् ॥ २३२ ॥

12.233

श्लोक

पितृभिः सहितं वैरं तैस् तु सुरैः सह । कारापयन्ति बिद्धं ये कुर्वन्ति हरि-वासरम् ॥ २३३ ॥

12.234

श्लोक

ये शंसन्ति दिनं विष्णोर् दशमी-वेध-दूषितम् । ज्ञेयास् ते पाप-पुरुषाः शुक्र-माया-विमोहिताः ॥ २३४ ॥

12.235

श्लोक

उपोषण-दिने विद्धे जागरः पूजनं हरेः । वृथा दानादिकं सर्वं कृतघ्नेषु कृतं यथा ॥ २३५ ॥

12.236

श्लोक

उपोषण-दिने विद्धे प्रारब्धे जागरे सति । विहाय स्थानं तद् विष्णुः शापं दत्त्वापगच्छति ॥ २३६ ॥

12.237

श्लोक

एकादशीं यदा विद्धां कुरुते चारु-लोचने । दशमी-वेधजं पापं नश्यते कृष्ण-दर्शनात् ॥ २३७ ॥

12.238

श्लोक

न चास्ति संशयं कश्चित् पुनर् न कुरुते यदि । कारापयन्ति ये त्व् अज्ञाः कूट-युक्तास् तु हैतुकाः ॥ २३८ ॥

12.239

श्लोक

प्रेत-योनिं प्रपश्यन्ति पितृभिः सहिता नराः । द्वादशीं दशमी-विद्धा धन-सन्तान-नाशिनी । ध्वंसिनी सर्व-पुण्यानां कृष्ण-भक्ति-प्रणाशिनी ॥ २३९ ॥

12.240

श्लोक

न स भागवतो ज्ञेयो यः करोति हरेर् दिनम् । एकादशी-बेध-संयुक्तं पाप-म्ञ्लं सदैव हि ॥ २४० ॥

12.241

श्लोक

पुराणम् अन्यथा कृत्वा करोत्य् एकादशी-दिनम् । दशमी-शेष-संयुक्तं स नरः पशु-सन्ततिः ॥ २४१ ॥

12.242

श्लोक

ब्रह्मघ्नस्य च यत् पापं स्त्री-बाल-गुरु-घातिनः । दशमी-शेष-संयुक्तां यः करोति तद् आप्नुयात् ॥ २४२ ॥

12.243

श्लोक

वृषली-सेवनात् पापं स्वपची-गमने च यत् । तत् पापं जायते बिद्धं यः करोति हरेर् दिनम् ॥ २४३ ॥

12.244

श्लोक

दशमी-शेष-संयुक्तं निषिद्धं विष्णुना पुरा । तस्माद् भागवतैर् भूप शोधयित्वा हरेर् दिनम् । उपोषितव्यं यत्नेन पूर्व-सङ्गति-वर्जितम् ॥ २४४ ॥

12.245

श्लोक

पृथिव्यां यानि पापानि स्थूल-सूक्ष्माणि भूपते । तेषां फलम् अवाप्नोति स-शल्यैकादशी-व्रते ॥ २४५ ॥

12.246

श्लोक

कुरुते वैष्णवो भूत्वा स-शल्यैकादशी-व्रतम् । ज्ञानतोऽज्ञानतो वापि न स विष्णु-प्रियो भवेत् ॥ २४६ ॥

12.247

श्लोक

विद्धाम् एकादशीं मोहाद् दशमी-शेष-संयुताम् । कुर्वन् न सुखम् आधत्ते इह-लोके परत्र च ॥ २४७ ॥

12.248

श्लोक

तस्माद् एकादशी युक्ता दशम्या नर-सत्तम । न कर्तव्या प्रयत्नेन निष्कला द्वादशी मता ॥ २४८ ॥

12.249

श्लोक

यथा चैकादशी राजन् द्वादशी च तथा नृणाम् । समाना तत्-फला प्रोक्ता व्रतेऽस्मिन् चक्र-पाणिनः ॥ २४९ ॥

12.250

श्लोक

वर्जनीयः प्रयत्नेन बेधो दशमि-सम्भवः । नो चेत् पुत्र न सन्देहः प्रेत-योनिम् अवाप्स्यति ॥ २५० ॥

12.251

श्लोक

हत्या गच्छन्ति काश्यां तु गयायां पैतृकं ऋणम् । दशमी-बेधजं पापं न काश्यां न गयाशिरे ॥ २५१ ॥

12.252

श्लोक

त्रैलोक्य-सम्भवं पापं तेषां भवति भूतले । सशल्यं ये कुर्वन्ति वासरं कृष्ण-संज्ञकम् । प्रेतत्वं दुःसहं पुत्र दुःसहा यम-यातना ॥ २५२ ॥

12.253

श्लोक

पुण्यं सुसञ्चितं याति कल्प-कोटि-शतार्जितम् । सशल्यं ये प्रकुर्वन्ति मुक्तिदं मम वासरम् ॥ २५३ ॥

12.254

श्लोक

दशमी-बेधजं पापं त्वद्-दिने मम पूर्वजैः । यत् कृतं नाशम् आयातु त्वत्-प्रसादाज् जनार्दनः ॥ २५४ ॥

12.255

श्लोक

स-बिद्धं त्वद्-दिने कृष्ण यत् कृतं जागरं विभो । तत् पापं विलयं यातु लवणं तु यथाम्भसि ॥ २५५ ॥

12.256

श्लोक

स-बिद्धं वासरं यस्मात् कृतं मम पितामहैः । प्रेतत्वं तेन सम्प्राप्तं महा-दुःख-प्रदायकम् ॥ २५६ ॥

12.257

श्लोक

शुक्रेण मोहिता विप्रा दैत्यानां कारणेन तु । पुष्ट्य्-अर्थं दशमी-विद्धं कुर्वन्ति मम वासरम् ॥ २५७ ॥

12.258

श्लोक

वासरं दशमी-विद्धं दैत्यानां पुष्टि-वर्धनम् । मदीयं नास्ति सन्देहः सत्यं सत्यं पितामह ॥ २५८ ॥

12.259

श्लोक

यावद् दशम्या संयुक्तं करिष्यन्ति दिनं मम । तत् पुण्यं दैत्य-जातीनां सुरैर् दत्तं पितामह ॥ २५९ ॥

12.260

श्लोक

तेन पुण्येन सम्पुष्टो हिरण्याक्षः पितामह । निर्जित्य वासवं सङ्ख्ये हृतं राज्यं दिवौकसाम् ॥ २६० ॥

12.261

श्लोक

शुक्रेण मोहिताः सर्वे दैत्यानां विजयाय वै । अतो विद्धं प्रकुर्वन्ति वासरं मम मानुषाः ॥ २६१ ॥

12.262

श्लोक

मार्कण्ड गच्छ भद्रं ते भूर्लोकं तु ममाज्ञया । दशमी-वेध-विषये मायां शुक्रस्य नाशय ॥ २६२ ॥

12.263

श्लोक

श्री-विष्णोर् वचनं श्रुत्वा मार्कण्डो मुनि-सत्तमः । सम्प्राप्तोऽनिक्मिषारण्यं यत्र यज्ञ-पुमान् हरिः ॥ २६३ ॥

12.264

श्लोक

मार्कण्ड-वचनं श्रुत्वा ऋषायो नैमिषालयाः । शुक्र-माया-विनिर्मुक्ता विस्मयं परमं गताः ॥ २६४ ॥

12.265

श्लोक

इन्द्रद्युम्नाय कथितं महाभागवताय वै । गत्वाश्रमेषु सर्वेषु कथितं वन-वासिनाम् ॥ २६५ ॥

12.266

श्लोक

हित्वा शुक्रस्य वाक्यानि मार्कण्वचनाज् जनैः । त्यक्ता दशमि-संयुक्ता विप्राद्यैः पुण्य-काङ्क्षिभिः ॥ २६६ ॥

12.267

श्लोक

पूर्णाबेध-कुठारेण नरा द्वादशी-पादपम् । छेदयन्ति च ये पापाः कल्पान्तं नारका हि ते ॥ २६७ ॥

12.268

श्लोक

पूर्णाबिद्धाम् उपास्ते को नन्दां वेद-बलाद् अपि । को वेद वचनात् तात गोसवे गां निहन्ति वै ॥ २६८ ॥

12.269

श्लोक

दशमी-शेष-संयुक्तम् आश्रयेत् को व्रतं व्रती । तस्माद् एकादशी त्याज्या दशमी-पल-मिश्रिता । उपोष्या द्वादशी शुद्धा त्रयोदश्यां तु पारणम् ॥ २६९ ॥

12.270

श्लोक

सुपुण्यैकादशी सूत यदि शल्य-विवर्जिता । कर्तुर् निरय-पाताय सशल्या समुपोषिता । शल्यं बेध इति प्रोक्तं पुराणार्थ-विचक्षणैः ॥ २७० ॥

12.271

श्लोक

ये तु मिथ्याभिधानेन मोहयन्ति नरा भुवि । विमूढाः पापिनस् तेषां रौरवं शरणं चिरम् ॥ २७१ ॥

12.272

श्लोक

अध्यापयन्त्य् अविज्ञेयं पण्डितं-मन्य-बुद्धयः । कारयन्त्य् अबुधा लोके द्वादशीं दशमी-युताम् ॥ २७२ ॥

12.273

श्लोक

ये कारयन्ति कुर्वन्ति द्वादशीं दशमी-युताम् । शुद्धये तन्-मुखं वीक्ष्य सूर्य-दर्शनम् आचरेत् ॥ २७३ ॥

12.274

श्लोक

नमो नारायणायेति जेपेद् वा द्वादशाक्षरम् । वराकाः किम् उ जानन्ति प्राणिनः कार्य-निश्चयम् । धिग् धिङ् मूढ-धियः पापान् धर्म-विप्लव-कारिणः ॥ २७४ ॥

12.275

श्लोक

हिंसितो भगवांस् तेन द्वादशी दशमी-युता । कृता येन द्विज-श्रेष्ठ सम्यग् उक्तं मया तव ॥ २७५ ॥

12.276

श्लोक

संस्थितो भगवान् कृष्णो द्वादशी-रूप-धृग् यतः । तस्माद् असंशयं त्याज्या द्वादशी दशमी-युता ॥ २७६ ॥

12.277

श्लोक

द्वयोर् विवदतोः श्रुत्वा द्वादशीं समुपोषयेत् । पारणं तु त्रयोदश्याम् एष शास्त्र-विनिर्णयः ॥ २७७ ॥

12.278

श्लोक

द्वादशी दशमी-युक्ता यतः शास्त्रे प्रतिष्ठिता । न तत् शास्त्रम् अहं मन्ये यदि ब्रह्मा स्वयं वदेत् ॥ २७८ ॥

12.279

श्लोक

बहु-वाक्य-विरोधेन सन्देहो जायते यदा । उपोष्या द्वादशी तत्र त्रयोदश्यां तु पारणम् ॥ २७९ ॥

12.280

श्लोक

विवादेषु च सर्वेषु द्वादश्यां समुपोषणम् । पारणं हि त्रयोदश्याम् आज्ञेयं मामकी मुने । हेतुवादो न कर्तव्यो हेतुना पतते नरः ॥ २८० ॥

12.281

श्लोक

एकादशी-दिन-क्षये उपवासं करोति यः । तस्य पुत्रा विनश्यन्ति मघायां पिण्डतो यथा ॥ २८१ ॥

12.282

श्लोक

दिन-क्षये तु सम्प्राप्ते नोपोष्या दशमी-युता । यदीच्छेत् पुत्र-पौत्राणां वृद्धिं सम्पदम् आत्मनः ॥ २८२ ॥

12.283

श्लोक

एकादशी-दिने क्षीणे उपवासी भवेद् गृही । अन्नाभावे निरुद्धो वा सङ्कल्पाद् वा विशेषतः ॥ २८३ ॥

12.284

श्लोक

धर्म-हानिश् च भवति सन्ततिर् नश्यति ध्रुवम् । तस्यायुः क्षीयते नित्यं संवत्सरम् इति श्रुतिः ॥ २८४ ॥

12.285

श्लोक

एकादश्यां यदा ब्रह्मन् दिन-क्षय-तिथिर् भवेत् । तदा ह्य् एकादशीं त्यक्त्वा द्वादशीं समुपोषयेत् । तत्र क्रतु-शतं पुण्यं त्रयदश्यां तु पारणम् ॥ २८५ ॥

12.286

श्लोक

क्षये वाप्य् अथवा वृद्धौ सम्प्राप्ते वा दिन-त्रये । उपोष्या द्वादशी शुद्धा पूर्व-बिद्धां विवर्जयेत् ॥ २८६ ॥

12.287

श्लोक

दशम्यैकादशी बिद्धा परतो द्वादशी न चेत् । द्वादशी तु तदोपोष्या त्रयोदश्यां तु पारणम् ॥ २८७ ॥

12.288

श्लोक

दिन-क्षये तु सम्प्राप्ते उपोष्या द्वादशी भवेत् । दशमी-शेष-संयुक्तां न कुर्वीत कदाचन ॥ २८८ ॥

12.289

श्लोक

तिथि-वृद्धौ तथा ह्रासे सम्प्राप्ते वा दिन-क्षये । सन्दिग्धेषु च वाक्येषु द्वादशीं समुपोषयेत् ॥ २८९ ॥

12.290

श्लोक

तिथि-च्छेदे तु सम्प्राप्ते द्वादशीं समुपक्रमेत् । पारयेद् वै त्रयोदश्यां यदीच्छेच् छ्रेय आत्मनः ॥ २९० ॥

12.291

श्लोक

जपे होमे तथा दाने ब्राह्मणानां च तर्पणे । पारणे चापि राजेन्द्र प्रशस्ता च त्रयोदशी ॥ २९१ ॥

12.292

श्लोक

एकादश्यां तु बिद्धायां नोपवासार्चनादिकम् । द्वादश्याम् एव तत् कुर्यात् त्रयोदश्यां च पारणम् । शत-यज्ञादिकं पुण्यं मुक्तिर् एव महा-फलम् ॥ २९२ ॥

12.293

श्लोक

ऊर्ध्वं हरि-दिनं न स्याद् द्वादशीं ग्राहयेत् ततः । द्वादश्याम् उपवासोऽत्र त्रयोदश्यां तु पारणम् ॥ २९३ ॥

12.294

श्लोक

एवं कुर्वन् नरो भक्त्या विष्णु-सायुज्यम् आप्नुयात् । अन्यथा कुरुते यस् तु स याति नरकं ध्रुवम् ॥ २९४ ॥

12.295

श्लोक

एकादशी ऋषीणां तु द्वादशी चक्रपाणिनः ॥ २९५ ॥

12.296

श्लोक

एकादशी ऋषीणां तु द्वादशी चक्रपाणिनः । तत् कथं द्वादशी भूप नोपोष्या क्रयते जनैः ॥ २९६ ॥

12.297

श्लोक

एषा निःश्रेयसी भूप फल-भोग-विवर्धनी । मोक्षात्मिका पुरा प्रोक्ता द्वादशी प्रवरा तिथिः ॥ २९७ ॥

12.298

श्लोक

एकादशी शरीरं तु पुरुषो द्वादशी स्मृता । द्वादश्याम् उपवासेन सिद्धा भूप सहस्रशः ॥ २९८ ॥

12.299

श्लोक

चक्रवर्तित्वम् अतुलं सम्प्राप्ता अचलां श्रियम् । चतुर्दशैते स ज्ञाता बलिनश् चक्रवर्तिनः ॥ २९९ ॥

12.300

श्लोक

विष्ण्व्-अंशास् ते महावीरा दुष्ट-दैत्य-निवर्हणाः । उपोष्य द्वादशीं शुद्धां यावज्-जीवं व्रतान्विताः ॥ ३०० ॥