Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १२

एकादशी-निर्णयः

12.101

श्लोक

मद्-उत्थाने मच्-छयने मत्-पार्श्व-परिवर्तने । अत्र यो दीक्षितः कश्चिद् वैष्णवो भक्ति-तत्-परः ॥ १०१ ॥

12.102

श्लोक

अन्नं वा यदि भुञ्जीत फल-मूलम् अथापि वा । अपराधम् अहं तस्य न क्षमामि कदाचन । क्षिपामि तरके घोरे यावद् आहूत-सम्प्लवम् ॥ १०२ ॥

12.103

श्लोक

मच्-छयने मद्-उत्थाने मत्-पार्श्व-परिवर्तने । फल-मूल-जलाहारी हृदि शल्यं ममार्पयेत् ॥ १०३ ॥

12.104

श्लोक

इत्थं सुसिद्धे नित्यत्वेऽप्य् अग्निहोत्रादिवत् फलम् । चित्रं स्याद् इति माहात्म्यम् एकादश्या विलिख्यते ॥ १०४ ॥

12.105

श्लोक

मातेव सर्व-बालानाम् औषधं रोगिनाम् इव । रक्षार्थं सर्व-लोकानां निर्मितैकादशी तिथिः ॥ १०५ ॥

12.106

श्लोक

नाना-दुःख-समाकीर्णे संसारे नर-जन्मनि । एकादश्य्-उपवासी यः स धन्यः स च बुद्धिमान् ॥ १०६ ॥

12.107

श्लोक

एकादशीं परित्यज्य योऽन्य-व्रतम् उपासते । स कर-स्थं महा-रत्नं त्यक्ता लोष्ट्रं हि याचते ॥ १०७ ॥

12.108

श्लोक

एकम् एकादशीं चापि समुपोष्य जनार्दनम् । तोयेनापि समभ्यर्च्य संसारान् मुक्तिम् आप्नुयात् ॥ १०८ ॥

12.109

श्लोक

प्रसङ्गाद् अथवा दम्भाल् लोभाद् वा त्रिदशाधिप । एकादश्यां मनः कृत्वा सर्व-दुःखाद् विमुच्यते ॥ १०९ ॥

12.110

श्लोक

समायास्य महा-रोगाद् दुःखिनां सर्व-देहिनाम् । एकादश्य्-उपवासोऽयं निर्मितं परमौषधम् ॥ ११० ॥

12.111

श्लोक

संसार-सर्प-दष्टानां नराणां पाप-कर्मणाम् । एकादश्य्-उपवासेन सद्य एव सुखं भवेत् ॥ १११ ॥

12.112

श्लोक

एकादशी-समुत्थेन वह्निना पातकेन्धनम् । भस्मतां याति राजेन्द्र अपि जन्म-शतोद्भवम् ॥ ११२ ॥

12.113

श्लोक

नेदृशं पावनं किञ्चिन् नराणां भूप विद्यते । यादृशं पद्मनाभस्य दिनं पातक-हानि-दम् ॥ ११३ ॥

12.114

श्लोक

तावत् पापानि देहेऽस्मिंस् तिष्ठन्ति मनुजाधिप । यावन् नोपवसेज् जन्तुः पद्मनाभ-दिनं शुभम् ॥ ११४ ॥

12.115

श्लोक

अश्वमेध-सहस्राणि राजसूय-शतानि च । एकादश्य्-उपवासस्य कलां नार्हन्ति षोडशीम् ॥ ११५ ॥

12.116

श्लोक

एकादशेन्द्रियैः पापं यत् कृतं भवति प्रभो । एकादश्य्-उपवासेन तत् सर्वं विलयं व्रजेत् ॥ ११६ ॥

12.117

श्लोक

एकादशी-समं किंचित् पाप-नाशं न विद्यते । स्वर्ग-मोक्ष-प्रदा ह्य् एषा राज्य-पुत्र-प्रदायिनी ॥ ११७ ॥

12.118

श्लोक

सुकलत्र-प्रदा ह्य् एषा शरीरारोग्य-दायिनी ॥ ११८ ॥

12.119

श्लोक

न गन्गा न गया भूप न काशी न च पुष्करम् । न चापि कौरवं क्षेत्रं न रेवा न च देविका । यमुना चन्द्र-भागा च पुण्या भूप हरेर् दिनात् ॥ ११९ ॥

12.120

श्लोक

व्याजेनापि कृता राजन् न दर्शयति पातकम् । अनायासेन राजेन्द्र प्राप्यते वैष्णवं पदम् ॥ १२० ॥

12.121

श्लोक

चिन्तामणि-समा ह्य् एषा अथवापि निधेः समा । कल्प-पादप-प्रेक्षा वा सर्व-वेदोपमाथवा ॥ १२१ ॥

12.122

श्लोक

सम्प्राप्य वासरं विष्णोर् यो नरः संयतेन्द्रियः । उपवास-परो भूत्वा पूजयेन् मधुसूदनम् । वहन्ति पूर्व-पापानि किं तपोभिः किम् अध्वरैः ॥ १२२ ॥

12.123

श्लोक

एकादशीं प्रपन्ना ये नरा नर-वरोत्तम । तेऽद्वन्द्व-बाहवो भूत्वा नागारि-कृत-केतनाः ॥ १२३ ॥

12.124

श्लोक

स्रग्विणः पीत-वस्त्रा हि प्रयान्ति हरि-मन्दिरम् । एष प्रभावो हि मया द्वादश्याः परिकीर्तितः । पापेन्धनस्य घोरस्य पावकाख्यो मही-पते ॥ १२४ ॥

12.125

श्लोक

यद् योगैर् मत्-पदं साङ्ख्यैः प्राप्यते वा न वा द्विज । अनायासेन तत् प्राप्यं पदं हरि-दिनानुगैः ॥ १२५ ॥

12.126

श्लोक

अन्नाभावे यदा विप्र एकादश्याम् उपोषितः । उपवास-फलं तेन समग्रं समवाप्यते ॥ १२६ ॥

12.127

श्लोक

राज-बन्धाद् यदा विप्र एकादश्याम् उपोषितः । उपवास-फलं तस्य सम्यग् भवति निश्चितम् ॥ १२७ ॥

12.128

श्लोक

यथा दावाग्निर् उदितः शुष्कम् आर्द्रं च गह्वरे । दहत्य् एव समस्तानि कलुषाणि हरेर् दिनम् ॥ १२८ ॥

12.129

श्लोक

पापेन्धनस्य घोरस्य शुष्कस्यार्द्रस्य भार्गव । नान्यद् विनाशाय मतं विनैकादश्य्-उपोषणम् ॥ १२९ ॥

12.130

श्लोक

सर्व-प्रायश्चित्तम् इदं संसारोत्तार-कारकम् । एकादशी-व्रतं विप्र कुर्वन् मुक्तिम् अवाप्नुयात् ॥ १३० ॥

12.131

श्लोक

नरो दिनैर् यद् दशभिश् चतुर्भिश् च करोत्य् अघम् । उपोष्य पञ्चदशमं दिनं विष्णोर् हि मुच्यते ॥ १३१ ॥

12.132

श्लोक

उपोष्यैकादशीं पापान् मुच्यते नात्र संशयः ॥ १३२ ॥

12.133

श्लोक

कलाव् उच्छिन्न-मार्गाणां नृशंस-पातितात्मनाम् । एकादशीं विना विप्र न संसाराद् विमोक्षणम् ॥ १३३ ॥

12.134

श्लोक

एतत् सारम् इदं तत्त्वम् इदं सत्यम् इदं व्रतम् । प्रायश्चित्तम् इदं सम्यग् एकादश्याम् उपोषणम् ॥ १३४ ॥

12.135

श्लोक

गोविन्द-स्मरणं नॄणाम् एकादश्याम् उपोषणम् । प्रायश्चित्तम् इदं नूनं संसारोत्तार-कारकम् ॥ १३५ ॥

12.136

श्लोक

स्नेहेन भक्त्या वैरेण प्रसङ्गेन यथा तथा । निहन्ति सर्वं कलुषम् एकादश्यां स्तुतो हरिः ॥ १३६ ॥

12.137

श्लोक

एवं समस्त-सुख-धर्म-गुणाश्रयं च एकादशी-व्रतम् इदं कलिकेतुर् उक्तः । शास्त्रेषु शौनक जगत्-पतिषु प्रियं च श्रद्धा-परः प्रकुरुते लभते न मुक्तिम् ॥ १३७ ॥

12.138

श्लोक

एतच् छृणोति कुरुतेऽनुमतिं ददाति श्रद्धां च कारयति यश् च तथा नराणाम् । एकादशी-व्रत-कृते कलुषैर् विमुक्तः प्राप्नोति दिव्य-भुवनं गरुड-ध्वजस्य ॥ १३८ ॥

12.139

श्लोक

उपोष्यैकादशीम् एकां प्रसङ्गेनापि मानवः । न याति यातनां यामीम् इति नो यमतः श्रुतम् ॥ १३९ ॥

12.140

श्लोक

एकादशेन्द्रियैः पापं यत् कृतं वैश्य मानवैः । एकादश्य्-उपवासेन तत् सर्वं विलयं व्रजेत् ॥ १४० ॥

12.141

श्लोक

एकादशी-समं किञ्चित् पुण्यं लोके न विद्यते । व्याजेनापि कृता यैस् ते वशं यन्ति न भास्करेः ॥ १४१ ॥

12.142

श्लोक

बालत्वे यौवने वापि वृद्धत्वे वा विशां वर । उपोष्यैकादशीं नूनं नैव प्राप्नोति दुर्गतिम् ॥ १४२ ॥

12.143

श्लोक

एकादश्यां च विधिवद् उपवास-परायणाः । शुक्ले सितेतरे पक्षे ते नऋआः स्वर्ग-भागिनः ॥ १४३ ॥

12.144

श्लोक

एकादशी-समं किंचित् पाप-त्राणं न विद्यते । ताम् उपोष्य विधानेन पुरुषाः स्वर्ग-गामिनः ॥ १४४ ॥

12.145

श्लोक

एकादशेन्द्रियैः पापं यत् कृतं भवति द्विज । नरो निर्धूय तत् तूर्णं प्रीतः स्वर्-गतिमान् भवेत् ॥ १४५ ॥

12.146

श्लोक

एकतः क्रतवः सर्वे सर्व-तीर्थ-तपांसि च । महा-दानादि-दानानि व्रतं वैष्णवम् एकतः ॥ १४६ ॥

12.147

श्लोक

वैष्णव-व्रतजो धर्मो धर्मो यज्ञादि-सम्भवः । एकत्र तुलितौ धात्रा तत्र पूर्वो भवेद् गुरुः । हरि-वासर-भक्तानाम् अच्युतानन्त-भाषिणाम् ॥ १४७ ॥

12.148

श्लोक

नाहं शास्ता विशेषेण तेभ्यो विप्र बिभेम्य् अहम् । येषां पुत्रश् च पौत्रश् च एकादश्याम् उपोषितः । स महात्मा स-पुरुषाञ् छतम् उद्धरते बलात् ॥ १४८ ॥

12.149

श्लोक

उपोषणं ततः कुर्यात् पक्षयोर् उभयोर् अपि । एकादश्यां स पुरुषो भुक्ति-मुक्त्य्-एक-भाजनम् ॥ १४९ ॥

12.150

श्लोक

एकादश्यां तु प्राप्तायां समुपोष्येह मानवः । सर्व-पाप-विनिर्मुक्ता यान्ति विष्णोः परं पदम् ॥ १५० ॥

12.151

श्लोक

धर्मदा ह्य् अर्थदा चैव कामदा मोक्षदा किल । सर्व-काम-दुघा नॄणां द्वादशी-वर-वर्णिनी ॥ १५१ ॥

12.152

श्लोक

एकादशी-व्रतं सौम्य यद्य् एकं सम्यग् अर्जितम् । किं दानैः किं तपस्-तीर्थैः सर्वदं विधिना कृतम् ॥ १५२ ॥

12.153

श्लोक

एकादशीं परित्यज्य यो ह्य् अन्यद् व्रतम् आचरेत् । स कर-स्थं महा-राज्यं त्यक्त्वा भैक्ष्यं तु याचते ॥ १५३ ॥

12.154

श्लोक

विनपि ऋक्ष-संयोगाद् एकैवैकादशी नृणाम् । विनिहन्तीह चैतांसि कुनृपो विषयं यथा ॥ १५४ ॥

12.155

श्लोक

न दानं न तपः स्नानं न चान्यत् सुकृतं क्वचित् । मुक्तये ह्य् अभवत् सुभ्रु मुक्त्वैकं हरि-वासरम् ॥ १५५ ॥

12.156

श्लोक

सकृच् चोपोषणेनास्यां नश्यन्ति पाप-राशयः । एकतः पृथिवी-दानम् एकतो हरि-वासरः । न समं कविभिः प्रोक्तं वासरो ह्य् अधिकः स्मृतः ॥ १५६ ॥

12.157

श्लोक

अगम्यागमने पापं मित्र-द्रोहे च पातकम् । इत्य् आदि पातकं यच् च यत्नैर् अन्यद् उपार्जितम् ॥ १५७ ॥

12.158

श्लोक

पाषाण्डालाप-जनितं पतितानां च सङ्गमात् । तन् मया मार्जितं सर्वम् एकादश्य्-उपवासिनाम् ॥ १५८ ॥

12.159

श्लोक

प्रतिग्रहोत्थं यत् पापं दशाभ्रंशोद्भवं च यत् । तन् मया मार्जितं दूता एकादश्य्-उपवासिनाम् ॥ १५९ ॥

12.160

श्लोक

एकादश्य्-उपवासी यो नरो भवति भूतले । मुक्तं मया शतानन्द तेषां त्रिपुरुषं कुलम् ॥ १६० ॥

12.161

श्लोक

एकादश्याम् अभुञ्जाना युक्ताः पाप-शतैर् अपि । भवद्भिर् परिहर्तव्या हिता मे यदि सर्वदा ॥ १६१ ॥

12.162

श्लोक

वरं चाण्डाल-जातीय एकादश्य्-उपवास-कृत् । न तु विप्रश् चतुर्वेदी यो भुङ्क्ते हरि-वासरे ॥ १६२ ॥

12.163

श्लोक

कल्प-वृक्ष-समाख्याता द्वादशी वाञ्छितार्थदा । सुगतेर् दायिनी पुंसां स्मृता च कृत-कीर्तया ॥ १६३ ॥

12.164

श्लोक

नाश्वमेध-सहस्रैश् च तीर्थ-कोट्य्-अवगाहनैः । यत् फलं प्राप्यते वत्स द्वादशी-वासरे कृते ॥ १६४ ॥

12.165

श्लोक

पूजाम् आप्नोति सर्वत्र न रोगेभ्यो भयं भवेत् । नोपसर्ग-भयं तस्य दुष्ट-जीव-समुद्भवम् ॥ १६५ ॥

12.166

श्लोक

न दाहो न क्लमो नार्तिः स्मरणं सर्वदा हरेः । सन्ततेर् न वियोगश् च द्वादशी-कारिणां हरेः ॥ १६६ ॥

12.167

श्लोक

कथा-रुचिर् भवेन् नित्यं न भयं विद्यते क्वचित् । रणे राज-कुले चैव सर्वत्र विजयी भवेत् ॥ १६७ ॥

12.168

श्लोक

धर्मोपरि मतिर् नित्यं कृष्णे भक्तिः सुनिर्मला । पातकैर् नैव लिप्येत द्वादशी-भक्तितो नराः ॥ १६८ ॥

12.169

श्लोक

इत्थं गुह्यं समाख्यातं दृष्ट्वा शास्त्र-समुच्चयम् । सर्व-धर्मान् परित्यज्य कलौ कार्यं हरेर् दिनम् ॥ १६९ ॥

12.170

श्लोक

न भवेन् मानसी पीडा रोगाश् चात्यन्त-दुःखदाः । माहात्म्यं पठतः पुंसो द्वादशी-सम्भवं कलौ ॥ १७० ॥

12.171

श्लोक

न तत् पुण्यं कुरुक्षेत्रे प्रयागे च सतां कलौ । माहात्म्यं पठतां पुंसां यत् फलं द्वादशीभवम् ॥ १७१ ॥

12.172

श्लोक

एकादशी महा-पुण्या सर्व-पाप-विनाशिनी । भक्तेस् तु दीपनी विष्णोः परमार्थ-गति-प्रदा । याम् उपोष्य नरो भक्त्या न संसारे भविष्यति ॥ १७२ ॥

12.173

श्लोक

एकादश्यां निराहारो यो भुङ्क्ते द्वादशी-दिने । न स दुर्गतिम् आप्नोति नरकाणि न पश्यति ॥ १७३ ॥

12.174

श्लोक

कृत्वा पाप-सहस्राणि एकादश्याम् उपोषितः । द्वादश्याम् अर्चयेद् विष्णुं न स दुर्गतिम् आप्नुयात् ॥ १७४ ॥

12.175

श्लोक

एषा तिथिः परा पुण्या विष्णोर् ईशस्य तुष्टिदा । तस्याम् एव जगन्नाथो अमूर्तो मूर्तिमान् स्थितः । तेन सा सर्व-पाप-घ्नी सर्व-दुःख-विनाशिनी ॥ १७५ ॥

12.176

श्लोक

या सा विष्णुमयी शक्तिर् अनन्ता व्याप्य या स्थिता । सा तेन तिथि-रूपेण द्रष्टव्यैकादशी सती ॥ १७६ ॥

12.177

श्लोक

कृत्वा पाप-सहस्राणि ब्रह्म-हत्या-शतानि वै । एकाम् एकादशीं भक्त्या समुपोष्य शुचिर् भवेत् ॥ १७७ ॥

12.178

श्लोक

एकादशी-व्रताद् अन्यद् यद् व्रतं क्रियते नरैः । तत् फलं तद् विजानीयाद् दुःखोद्भूतम् इवाङ्कुरम् ॥ १७८ ॥

12.179

श्लोक

एकतश् चाग्नि-होत्रादि द्वदशीम् एकतः प्रभुः । तुलयातौलयत् तत्र द्वादशी च विशिष्यते ॥ १७९ ॥

12.180

श्लोक

पापं पञ्च-विधं प्रोक्तं पातकं चातिपातकम् । उपपातक-संज्ञं च महा-पातकम् एव च ॥ १८० ॥

12.181

श्लोक

प्रकीर्णकं च तत् सर्वम् एकादश्याम् उपोषणात् । विलयं याति तोयस्थं यथा चैवाम् अभाजनम् ॥ १८१ ॥

12.182

श्लोक

गायत्रीह यथा सर्व-पाप-पञ्जर-भेदिनी । एकादशी तथा सर्व-पाप-पञ्जर-भेदिनी ॥ १८२ ॥

12.183

श्लोक

अभोज्य-भोजनाज् जातम् अगम्या-गमनाच् च यत् । अयाज्य-याजनाद् यच् च अभक्ष्याणां च भक्षणम् ॥ १८३ ॥

12.184

श्लोक

अस्पृश्य-स्पर्शनाद् यच् च परेषां निन्दया च यत् । आत्म-सम्भावनाद् यच् च पारदार्य-कृतं च यत् ॥ १८४ ॥

12.185

श्लोक

विहिताकरणाद् यच् च पर-वित्तापहारतः । कामान्धेन कृतं यच् च पातकं चोपपातकम् । तत् सर्वं विलयं याति एकादश्याम् उपोषणात् ॥ १८५ ॥

12.186

श्लोक

मनसापि चिकीर्षन्ति द्वदशीं ये नरोत्तमाः । तेऽपि घोरं न पश्यन्ति संसार-दुःख-सागरम् ॥ १८६ ॥

12.187

श्लोक

ओंकारः सर्व-देवानां यथा चाद्यः प्रपूजितः । तथा सर्व-व्रतानां च द्वादशी-व्रतम् उत्तमम् ॥ १८७ ॥

12.188

श्लोक

त्वत्-पादाम्बुज-भक्तानां न दुःखं पापिनाम् अपि । किं पुनः पाप-हीनानां द्वादशी-सेविनां नृणाम् ॥ १८८ ॥

12.189

श्लोक

नोष्णत्वं द्विज-राजे हि शीतत्वं न हुताशने । वैष्णवानाम् अपापत्वम् एकादश्य्-उपवासिनाम् ॥ १८९ ॥

12.190

श्लोक

एकादशी महा-पुण्या विष्णोर् ईशस्य वल्लभा । तसाम् उपोषितो यस् तु द्वादश्यां पूजयेद् धरिम् । तस्य पापानि नश्यन्ति विष्णौ भक्तिश् च जायते ॥ १९० ॥

12.191

श्लोक

महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । एकादश्यां निराहारः स्थित्वा याति परां गतिम् ॥ १९१ ॥

12.192

श्लोक

एकादशी-व्रतं यस् तु भक्तिमान् कुरुते नरः । सर्व-पाप-विनिर्मुक्तः स विष्णोर् याति मन्दिरम् ॥ १९२ ॥

12.193

श्लोक

एकादश्य्-उपवासं यः श्रद्धया कुरुते नरः । स सर्व-पातकैः सद्यस् त्वचेवाहिर् विमुच्यते ॥ १९३ ॥

12.194

श्लोक

न पश्यत्य् आमयं नापि नरकान्तर-यातनाम् । स नमस्यः प्रपूज्यश् च वासुदेव-प्रियो हि सः ॥ १९४ ॥

12.195

श्लोक

एकादशी-व्रतं भक्त्या यः करोति नरः सदा । स विष्णु-लोकं व्रजति याति विष्णोः स्वरूपताम् ॥ १९५ ॥

12.196

श्लोक

एकादश्य्-उपवासं यः सदा तु कुरुते नरः । स याति परमं स्थानं यत्र देवो हरिः स्थितः ॥ १९६ ॥

12.197

श्लोक

यः करोति नरो भक्त्या एकादश्याम् उपोषणम् । स याति विष्णु-सालोक्यं प्राप्य विष्णोः स्वरूपताम् ॥ १९७ ॥

12.198

श्लोक

ईदृङ्-माहात्म्य-रत्नानि शास्त्राम्भोधौ स्फुरन्त्य् अपि । कः सङ्ग्रहीतुं शक्तः स्याद् अत्र कृष्ण-कृपां विना ॥ १९८ ॥

12.199

श्लोक

एकादशी च सम्पूर्णा विद्धेति द्विविधा स्मृता । विद्धा च द्विविधा तत्र त्याज्या बिद्धा तु पूर्वजा ॥ १९९ ॥

12.200

श्लोक

नाग-विद्धा तु या षष्ठी शिव-विद्धा च सप्तमी । दशम्यैकादशी विद्धा तत्र नोपवसेद् बुधः ॥ २०० ॥