Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ११

नित्य-क्रिया-समापनः

11.601

श्लोक

न साधयति मां योगो न साङ्ख्यं धर्म उद्धव । न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ ६०१ ॥

11.602

श्लोक

धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता । मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ ६०२ ॥

11.603

श्लोक

सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत । दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ ६०३ ॥

11.604

श्लोक

मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् । नेच्छन्ति सेवया पूर्णाः कुतोऽन्यत् काल-विप्लुतम् ॥ ६०४ ॥

11.605

श्लोक

माहात्म्यं यच् च भगवद्-भक्तानां लिखितं पुरा । तद्-भक्तेर् अपि विज्ञेयं तेषां भक्त्यैव तत्त्वतः ॥ ६०५ ॥

11.606

श्लोक

तथा पूजा तद्-अङ्गानां श्रीमन्-नाम्नोऽपरस्य च । द्रष्टव्यम् इह माहात्म्यं तेषां भक्त्य्-अङ्गता यतः ॥ ६०६ ॥

11.607

श्लोक

यावज् जनो भजति नो भुवि विष्णु-भक्ति- वार्ता-सुधा-रस-विशेष-रसैक-सारम् । तावज् जरा-मरण-जन्म-शताभिघात- दुःखानि तानि लभते बहु-देहजानि ॥ ६०७ ॥

11.608

श्लोक

श्रेयः-सृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवेल-बोध-लब्धये । तेषाम् असौ क्लेशल एव शिष्यते नान्यद् यथा स्थूल-तुषावघातिनाम् ॥ ६०८ ॥

11.609

श्लोक

मुख-बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह । चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ ६०९ ॥

11.610

श्लोक

य एवं पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् । न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ ६१० ॥

11.611

श्लोक

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययापहृत-ज्ञाना आसुरं भावम् आश्रिताः ॥ ६११ ॥

11.612

श्लोक

नित्यत्वं यद् यद् अङ्गानां भक्तेर् विलिखितं पुरा । तेन तेनैव नित्यत्वम् अस्यां संसाधितं परम् ॥ ६१२ ॥

11.613

श्लोक

लक्षणानि च तद्-भक्तेः श्रीमद्-भागवतादिषु । ख्यातानि श्रवणादीनि लिख्यन्तेऽथापि कानिचित् ॥ ६१३ ॥

11.614

श्लोक

देवानां गुण-लिङ्गानाम् आनुश्रविक-कर्मणाम् । सत्त्व एवैक-मनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी ॥ ६१४ ॥

11.615

श्लोक

देवतायां च मन्त्रे च तथा मन्त्र-प्रदे गुरौ । भक्तिर् अष्ट-विधा यस्य तस्य कृष्णः प्रसीदति ॥ ६१५ ॥

11.616

श्लोक

तद्-भक्त-जन-वात्सल्यं पूजायां चानुमोदनम् । सुमना अर्चयेन् नित्यं तद्-अर्थे दम्भ-वर्जनम् ॥ ६१६ ॥

11.617

श्लोक

तत्-कथा-श्रवणे रागस् तद्-अर्थे चाङ्ग-विक्रिया । तद्-अनुस्मरणं नित्यं यस् तन्-नामोपजीवति ॥ ६१७ ॥

11.618

श्लोक

भक्तिर् अष्ट-विधा ह्य् एषा यस्मिन् म्लेच्छेऽपि वर्तते । स मुनिः सत्य-वादी च कीर्तिमान् स भवेन् नरः ॥ ६१८ ॥

11.619

श्लोक

श्रवणं कीर्तनं विष्णोः स्मरणं पाद-सेवनम् । अर्चनं वन्दनं दास्यं सख्यम् आत्म-निवेदनम् ॥ ६१९ ॥

11.620

श्लोक

क्रियेत भगवत्य् अद्धा तन् मन्येऽधीतम् उत्तमम् ॥ ६२० ॥

11.621

श्लोक

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः । सेवेज्यावनतिर् दास्यं सख्यम् आत्म-समर्पणम् ॥ ६२१ ॥

11.622

श्लोक

श्रवणं कीर्तनं पूजा सर्व-कर्मार्पणं स्मृतिः । परिचर्या नमस्कारः प्रेम स्वात्मार्पणं हरौ ॥ ६२२ ॥

11.623

श्लोक

आद्यं तु वैष्णवं प्रोक्तं शङ्ख-चक्राङ्कनं हरेः । धारणं चोर्ध्वर्पुण्ड्राणान्तन्मन्त्राणां परिग्रहः ॥ ६२३ ॥

11.624

श्लोक

अर्चनं च जपो ध्यानं तन्-नाम-स्मरणं तथा । कीर्तनं श्रवणं चैव वन्दनं पाद-सेवनम् ॥ ६२४ ॥

11.625

श्लोक

तत्-पादोदक-सेवा च तन्-निवेदित-भोजनम् । तदीयानां च सेवां च द्वादशी-व्रत-निष्ठितम् ॥ ६२५ ॥

11.626

श्लोक

तुलसी-रोपणं विष्णोर् देव-देवस्य शार्ङ्गिणः । भक्तिः षोडशधा प्रोक्ता भव-बन्ध-विमुक्तये ॥ ६२६ ॥

11.627

श्लोक

दर्शनं भगवन्-मूर्तेः स्पर्शनं क्षेत्र-सेवनम् । आघ्राणं धूप-शेषादेर् निर्माल्यस्य च धारणम् ॥ ६२७ ॥

11.628

श्लोक

नृत्यं भगवद्-अग्रे च तथा वीणादि-वादनम् । कृष्ण-लीलाद्य्-अभिनयः श्री-भागवत-सेवनम् ॥ ६२८ ॥

11.629

श्लोक

पद्माक्ष-माला-विधृतिर् एकादश्य्-आदि-जागरः । प्रासाद-रचनाद्य् अन्यज् ज्ञेयं शास्त्रानुसारतः ॥ ६२९ ॥

11.630

श्लोक

लिखिता भगवद्-धर्मा भक्तानां लक्षणानि च । तानि ज्ञेयानि सर्वाणि भक्तेर् वै लक्षणां न हि ॥ ६३० ॥

11.631

श्लोक

तेषु ज्ञेयानि गौणानि मुख्यानि च विवेकिभिः । बहिरङ्गान्तरङ्गाणि प्रेम-सिद्धौ च तानि यत् ॥ ६३१ ॥

11.632

श्लोक

भेदास् तु विविधा भक्तेर् भक्त-भावादि-भेदतः । मुक्ता-फलादि-ग्रन्थेभ्यो ज्ञेयास् तल् लिखनैर् अलम् ॥ ६३२ ॥

11.633

श्लोक

प्रेम-भक्तौ च सिद्धायां सर्वेऽर्थाः सेवकाः स्वयम् । भगवांश् चातिवश्यः स्याल् लिख्यतेऽस्याः सुलक्षणम् ॥ ६३३ ॥

11.634

श्लोक

अनन्य-ममता विष्णौ ममता प्रेम-सम्प्लुता । भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥ ६३४ ॥

11.635

श्लोक

प्रेम-भक्तेश् च माहात्म्यं भक्तेर् माहात्म्यतः परम् । सिद्धम् एव यतो भक्तेः फलं प्रेमैव निश्चितम् ॥ ६३५ ॥

11.636

श्लोक

चिह्नानि प्रेम-सम्पत्तेर् बाह्यान्य् अभ्यन्तराणि च । कियन्त्य् उल्लिखता तस्या महिमैव विलिख्यते ॥ ६३६ ॥

11.637

श्लोक

निशम्य कर्माणि गुणान् अतुल्यान् वीर्याणि लीला-तनुभिः कृतानि । यदातिहर्षोत्पुलकाश्रु-गद्गदं प्रोत्कण्ठ उद्गायति रौति नृत्यति ॥ ६३७ ॥

11.638

श्लोक

यदा ग्रह-ग्रस्त इव क्वचिद् धसत्य् आक्रन्दते ध्यायति वन्दते जनम् । मुहुः श्वसन् वक्ति हरे जगत्-पते नारायणेत्य् आत्म-मतिर् गत-त्रपः ॥ ६३८ ॥

11.639

श्लोक

तदा पुमान् मुक्त-समस्त-बन्धनस् तद्-भाव-भावानुकृताशयाकृतिः । निर्दग्ध-बीजानुशयो महीयसा भक्ति-प्रयोगेण समेत्य् अधोक्षजम् ॥ ६३९ ॥

11.640

श्लोक

शृण्वन् सुभद्राणि रथाङ्ग-पाणेर् जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः ॥ ६४० ॥

11.641

श्लोक

एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या जातानुरागो द्रुत-चित्त उच्चैः । हसत्य् अथो रोदिति रौति गायत्य् उन्माद-वन् नृत्यति लोक-बाह्यः ॥ ६४१ ॥

11.642

श्लोक

स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ ६४२ ॥

11.643

श्लोक

क्वचिद् रुदन्त्य् अच्युत-चिन्तया क्वचिद् धसन्ति नन्दन्ति वदन्त्य् अलौकिकाः । नृत्यन्ति गायन्त्य् अनुशीलयन्त्य् अजं भवन्ति तूष्णीं परम् एत्य निर्वृताः ॥ ६४३ ॥

11.644

श्लोक

कथं विना रोम-हर्षं द्रवता चेतसा विना विनानन्दाश्रु-कलया शुध्येद् भक्त्या विनाशयः ॥ ६४४ ॥

11.645

श्लोक

वाग् गद्गदा द्रवते यस्य चित्तं रुदत्य् अभीक्ष्णं हसति क्वचिच् च । विलज्ज उद्गायति नृत्यते च मद्-भक्ति-युक्तो भुवनं पुनाति ॥ ६४५ ॥

11.646

श्लोक

यथोक्त-भक्त्य्-अशक्तौ तु भगवच्-चरणाम्बुजम् । शरणागत-भावेन कृत्स्न-भीति-घ्नम् आश्रयेत् ॥ ६४६ ॥

11.647

श्लोक

सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ ६४७ ॥

11.648

श्लोक

तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥ ६४८ ॥

11.649

श्लोक

माम् एकम् एव शरणम् आत्मानं सर्व-देहिनाम् । याहि सर्वात्म-भावेन मया स्या ह्य् अकुतो-भयः ॥ ६४९ ॥

11.650

श्लोक

प्राप्यापि दुर्लभतरं मानुष्यं विबुधेप्सितम् । यैर् आश्रितो न गोविन्दस् तैर् आत्मा वञ्चितश् चिरम् ॥ ६५० ॥

11.651

श्लोक

अशीति-चतुरश् चैव लक्षांस् तान् जीव-जातिषु । भ्रमद्भिः पुरुषैः प्राप्य मानुष्यं जन्म-पर्ययात् ॥ ६५१ ॥

11.652

श्लोक

तद् अप्य् अफलतां जातं तेषाम् आत्माभिमानिनाम् । वराकानाम् अनाश्रित्य गोविन्द-चरण-द्वयम् ॥ ६५२ ॥

11.653

श्लोक

सकृद् एव प्रपन्नो यस् तवास्मीति च याचते । अभयं सर्वदा तस्मै ददाम्य् एतद् व्रतं हरेः ॥ ६५३ ॥

11.654

श्लोक

त्वां प्रपन्नोऽस्मि शरणं देव-देवं जनार्दनम् । इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥ ६५४ ॥

11.655

श्लोक

सर्वाचार-विवर्जिताः शठ-धियो व्रात्या जगद्-वञ्चका दम्भाहङ्कृति-पान-पैशुन-पराः पापान्त्यजा निष्ठुरा । ये चान्ये धन-दार-पुत्र-निरताः सर्वाधमास् तेऽपि हि श्री-गोविन्द-पदारविन्द-शरणा मुक्ता भवन्ति द्विज ॥ ६५५ ॥

11.656

श्लोक

न हि नारायणं नाम नराः संश्रित्य शौनक । प्राप्नुवन्त्य् अशुभ सत्यम् इदम् उक्तं पुनः पुनः ॥ ६५६ ॥

11.657

श्लोक

परमार्थम् अशेषस्य जगताम् आदि-कारणम् । शरण्यं शरणं यातो गोविन्दः नावसीदति ॥ ६५७ ॥

11.658

श्लोक

स्थितः प्रियहिते जिष्णोः स एव पुरुषर्षभ । राजंस् तव च दुर्धर्षो वैकुण्ठः पुरुषोत्तमः ॥ ६५८ ॥

11.659

श्लोक

य एनं संश्रयन्तीह भक्त्या नारायणं हरिम् । ते तरन्तीह दुर्गाणि न मेऽत्रास्ति विचारणा ॥ ६५९ ॥

11.660

श्लोक

शारीरा मानसा दिव्या वैयासे ये च मानुषाः । भौतिकाश् च कथं क्लेशा बाधन्ते हरि-संश्रयम् ॥ ६६० ॥

11.661

श्लोक

ते धर्म-राज-करणं न विशन्ति धीराः ॥ ६६१ ॥

11.662

श्लोक

तेषां भयं नास्ति विमुक्ति-भाजाम् ॥ ६६२ ॥

11.663

श्लोक

संसारेऽस्मिन् महा-घोरे मोह-निद्रा-समाकुले । ये हरिं शरणं यान्ति ते कृतार्था न संशयः ॥ ६६३ ॥

11.664

श्लोक

कर्मणा मनसा वाचा येऽच्युतं शरणं गताः । न समर्थो यमस् तेषां ते मुक्ति-फल-भागिनः ॥ ६६४ ॥

11.665

श्लोक

समाश्रिता ये पद-पल्लव-प्लवं महत्-पदं पुण्य-यशो मुरारेः । भवाम्बुधिर् वत्स-पदं परं पदं पदं पदं यद् विपदां न तेषाम् ॥ ६६५ ॥

11.666

श्लोक

यत्-पाद-संश्रयाः सूत मुनयः प्रशमायनाः । सद्यः पुनन्त्य् उपस्पृष्टाः स्वर्धुन्य्-आपोऽनुसेवया ॥ ६६६ ॥

11.667

श्लोक

किरात-हूणान्ध्र-पुलिन्द-पुल्कशा आभीर-शुम्भा यवनाः खसादयः । येऽन्ये च पापा यद्-अपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ ६६७ ॥

11.668

श्लोक

किं दुरापादनं तेषां पुंसाम् उद्दाम-चेतसाम् । यैर् आश्रितस् तीर्थ-पदश् चरणो व्यसनात्ययः ॥ ६६८ ॥

11.669

श्लोक

न नाक-पृष्ठं न च पारमेष्ठ्यं न सार्व-भौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा समञ्जस त्वा विरहय्य काङ्क्षे ॥ ६६९ ॥

11.670

श्लोक

देवर्षि-भूताप्त-नॄणां पितॄणां नायं किङ्करो नायम् ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ ६७० ॥

11.671

श्लोक

ताप-त्रयेणाभिहतस्य घोरे सन्तप्यमानस्य भवाध्वनीश । पश्यामि नान्यच् छरणं तवाङ्घ्रि- द्वन्द्वातपत्राद् अमृताभिवर्षात् ॥ ६७१ ॥

11.672

श्लोक

इत्थं च बोध्यं विद्वद्भिः शरणापत्ति-लक्षणम् । वाचा हृदा च तन्वापि कृष्णैकाश्रयणं हि यत् ॥ ६७२ ॥

11.673

श्लोक

गोविन्दं परमानन्दं मुकुन्दं मधुसूदनम् । त्यक्त्वान्यं वै न जानामि न भजामि स्मरामि न ॥ ६७३ ॥

11.674

श्लोक

न नमामि न च स्तौमि न पश्यामि स्व-चक्षुषा । न स्पृहामि न गायामि न वा यामि हरिं विना ॥ ६७४ ॥

11.675

श्लोक

केचिद् आहुश् च शरणागतत्वं षट्-प्रकारकम् । प्रायः सख्य-प्रकारे तत् पर्यवस्येद् विचारतः ॥ ६७५ ॥

11.676

श्लोक

आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्वे वरणं तथा । आत्म-निक्षेप-कार्पण्ये षड्-विधा शरणागतिः ॥ ६७६ ॥

11.677

श्लोक

तवास्मीति वदन् वाचा तथैव मनसा विदन् । तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः ॥ ६७७ ॥

11.678

श्लोक

कः पण्डितस् त्वद्-अपरं शरणं समीयाद् भक्त-प्रियाद् ऋत-गिरः सुहृदः कृत-ज्ञात् । सर्वान् ददाति सुहृदो भजतोऽभिकामान् आत्मनम् अप्य् उपचयापचयौ न यस्य ॥ ६७८ ॥

11.679

श्लोक

अहो बकी यं स्तन-काल-कूटं जिघांसयापाययद् अप्य् असाध्वी । लेभे गतिं धात्र्य्-उचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ॥ ६७९ ॥

11.680

श्लोक

अथाचारा बहु-विधाः शिष्टाचारानुसारतः । श्री-वैष्णवानां कर्तव्या लिख्यन्तेऽत्र समासतः ॥ ६८० ॥

11.681

श्लोक

देव-गो-ब्राह्मणान् सिद्धान् वृद्धाचार्यांस् तथार्चयेत् । द्विकालं च नमेत् सन्ध्याम् अग्नीन् उपचरेत् तथा ॥ ६८१ ॥

11.682

श्लोक

सदानुपहते वस्त्रे प्रशस्तां च तथौषधीः । गारुडानि च रत्नानि बिभृयात् प्रयतो नरः ॥ ६८२ ॥

11.683

श्लोक

प्रस्निग्धामल-केशश् च सुगन्धश् चारु-वेश-धृक् । किंचित् परस्वं न हरेत् नाल्पम् अप्य् अप्रियं वदेत् ॥ ६८३ ॥

11.684

श्लोक

प्रियं च नानृतं ब्रूयान् नान्य-दोषान् उदीरयेत् नान्य-स्त्रियं तथा वैरं रोचयेत् पुरुषर्षभ ॥ ६८४ ॥

11.685

श्लोक

न दुष्टं यानम् आरोहेत् कुल-च्छायां न संश्रयेत् ॥ ६८५ ॥

11.686

श्लोक

विद्विष्ट-पतितोन्मत्त-बहु-वैरादि-कीटकैः । बन्धकी बन्धकी-भर्तुः क्षुद्रानृत-कथैः सह ॥ ६८६ ॥

11.687

श्लोक

तथातिव्यय-शीलैश् च परिवाद-रतैः शठैः । बुधो मैत्रीं न कुर्वीत नैकः पन्थानम् आश्रयेत् ॥ ६८७ ॥

11.688

श्लोक

नावगाहेज् जलौघस्य वेगम् अग्रे नरेश्वर । प्रदीप्तं वेश्म न विशेन् नारोहेच् छिखरं तरोः ॥ ६८८ ॥

11.689

श्लोक

न कुर्याद् दन्त-सङ्घर्षं कुष्णीयाच् च न नासिकाम् । नासंवृत-मुखो जृम्भेच् छ्वासकासौ विसर्जयेत् ॥ ६८९ ॥

11.690

श्लोक

नोच्चैर् हसेत् स-शब्दं च न मुञ्चेत् पवनं बुधः । नखान् न खादयेच् छिन्द्यान् न तृणं न महीं लिखेत् ॥ ६९० ॥

11.691

श्लोक

न श्मश्रु भक्षयेल् लोष्टं न मूद्नीयाद् विचक्षणः ॥ ६९१ ॥

11.692

श्लोक

ज्योतींष्य् अमेध्य-शस्तानि नाभिवीक्षेत च प्रभो ॥ ६९२ ॥

11.693

श्लोक

न हुङ्कुर्याच् छवं गन्धं शव-गन्धो हि सोमजः ॥ ६९३ ॥

11.694

श्लोक

चतुष्पथं चिअत्य-तरुं श्मशानोपवनानि च । दुष्ट-स्त्री-सन्निकर्षं च वर्जयेन् निशि सर्वदा । पूज्य-देव-द्विज-ज्योतिश्-छायां नातिक्रमेद् बुधः ॥ ६९४ ॥

11.695

श्लोक

नैकः शून्याटवीं गच्छेत् तथा शून्य-गृहे वसेत् ॥ ६९५ ॥

11.696

श्लोक

केशास्थि-कण्टकामेध्य-बलि-भस्म-तुषांस् तथा । स्नानार्द्र-धरणीं चैव दूरतः परिवर्जयेत् ॥ ६९६ ॥

11.697

श्लोक

नानार्थानाश्रयेत् कांश्चिन् न जिह्मं रोचयेद् बुधः ॥ ६९७ ॥

11.698

श्लोक

उपसर्पेन् न वै व्यालं चिरं तिष्ठेन् न चोत्थितः । यथेष्ट-भोजकांश् चैव तथा देव-पराङ्मुखान् । वर्णाश्रम-क्रियातीतान् दूरतः परिवर्जयेत् ॥ ६९८ ॥

11.699

श्लोक

अतीव जागर-स्वप्नौ तद्वत् स्थानासने बुधः । न सेवेत तथा शय्यां व्यायामं च नरेश्वर ॥ ६९९ ॥

11.700

श्लोक

दंष्ट्रिणः शृङ्गिणश् चैव प्राज्ञो दूरेण वर्जयेत् ॥ ७०० ॥