Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ११

नित्य-क्रिया-समापनः

11.501

श्लोक

सत्यं ब्रवीमि ते शम्भो गोपनीयम् इदं मम । मृत्यु-संजीवनीं नाम कृष्णाख्याम् अवधारय ॥ ५०१ ॥

11.502

श्लोक

व्रीडा-नम्रौ तिष्ठतोऽन्यावृणस्थौ ॥ ५०२ ॥

11.503

श्लोक

नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः । पूर्णः शुद्धो नित्य-मुक्तोऽभिन्नत्वान् नाम-नामिनोः ॥ ५०३ ॥

11.504

श्लोक

तेभ्यो नमोऽस्तु भव-वारिधि-जीर्ण-पङ्क- संमग्न-मोक्षण-विचक्षण-पादुकेभ्यः । कृष्णेति वर्ण-युगलं श्रवणेन येषां आनन्दथूर्भवति नर्तित-रोम-वृन्दः ॥ ५०४ ॥

11.505

श्लोक

तद् अश्म-सारं हृदयं बतेदं यद् गृह्यमाणैर् हरि-नाम-धेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्र-रुहेषु हर्षः ॥ ५०५ ॥

11.506

श्लोक

नाम्नि सङ्कीर्तिते विष्णोर् यस्य पुंसो न जायते । सरोम-पुलकं गात्रं स भवेत् कुलिशोपमः ॥ ५०६ ॥

11.507

श्लोक

नाम-सङ्कीर्तनाज् जातं पुण्यं नोपचयन्ति ये । नाना-व्याधि-समायुक्ताः शत-जन्मसु ते नराः ॥ ५०७ ॥

11.508

श्लोक

सा हानिस् तन् महच् छिद्रं स मोहः स च विभ्रमः । यन्-मुहूर्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥ ५०८ ॥

11.509

श्लोक

अवमत्य च ये यान्ति भगवत्-कीर्तनं नराः । ते यान्ति नरकं घोरं तेन पापेन कर्मणा ॥ ५०९ ॥

11.510

श्लोक

ॐ आस्य जानन्तो नाम चिद् विविक्तन् महस् ते विष्णो सुमतिं भजामहे ॥ ५१० ॥

11.511

श्लोक

व्यन्तः श्रवस्य् अवश्रव आपन्नम् ऋक्तम् । नामानि चिद् दधिरे यज्ञियन्ति भद्रायान्ते रणयन्तः सन्दृष्टौ ॥ ५११ ॥

11.512

श्लोक

ऋतस्य गर्भं जनुषा पिपर्तन । आस्य जानन्तो नाम चिद् विविक्तन् महस् ते विष्णो सुमतिं भजामहे ॥ ५१२ ॥

11.513

श्लोक

इत्य् आद्या इति । ईदृशे नाम-माहात्म्ये श्रुति-स्मृति-विनिश्चिते । कल्पयन्त्य् अर्थ-वादं ये यान्ति घोर-यातनाम् ॥ ५१३ ॥

11.514

श्लोक

अर्थ-वादं हरेर् नाम्नि सम्भावयति यो नरः । स पापिष्ठो मनुष्याणां निरये पतन्ति स्फुटम् ॥ ५१४ ॥

11.515

श्लोक

यन्-नाम-कीर्तन-फलं विविधं निशम्य न श्रद्दधाति मनुते यद् उतार्थ-वादम् । यो मानुषस् तम् इह दुःख-चये क्षिपामि संसार-घोर-विविधार्ति-निपीडिताङ्गम् ॥ ५१५ ॥

11.516

श्लोक

श्रुति-स्मृति-पुराणेषु नाम-माहात्म्य-वाचिषु । येऽर्थ-वाद इति ब्रूयुर् न तेषां निरय-क्षयः ॥ ५१६ ॥

11.517

श्लोक

तस्मिंश् च भगवन्-नाम्नि जगद्-एकोपकारिणि । विश्वैक-सेव्ये मतिमान् अपराधान् विवर्जयेत् ॥ ५१७ ॥

11.518

श्लोक

सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात् ॥ ५१८ ॥

11.519

श्लोक

हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः । नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ॥ ५१९ ॥

11.520

श्लोक

नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ ५२० ॥

11.521

श्लोक

सतां निन्दा नाम्नः परमम् अपराधं वितनुते यतः ख्यातिं यातं कथम् उ सहते तद्-विगर्हाम् । शिवस्य श्री-विष्णोर् य इह गुण-नामादि-सकलं धिया भिन्नं पश्येत् स खलु हरि-नामाहित-करः ॥ ५२१ ॥

11.522

श्लोक

गुरोर् अवज्ञा श्रुति-शास्त्र-निन्दनं तथार्थ-वादो हरि-नाम्नि कल्पनम् । नाम्नो बलाद् यस्य हि पाप-बुद्धिर् न विद्यते तस्य यमैर् हि शुद्धिः ॥ ५२२ ॥

11.523

श्लोक

धर्म-व्रत-त्याग-हुतादि-सर्व- शुभ-क्रिया-साम्यम् अपि प्रमादः । अश्रद्दधाने विमुखेऽप्य् अशृण्वति यश् चोपदेशः शिव-नामापराधः ॥ ५२३ ॥

11.524

श्लोक

श्रुतेऽपि नाम-माहात्म्ये यः प्रीति-रहितोऽधमः । अहं-ममादि-परमो नाम्नि सोऽप्य् अपराध-कृत् ॥ ५२४ ॥

11.525

श्लोक

जाते नामापराधेऽपि प्रमादेन कथञ्चन । सदा सङ्कीर्तयन् नाम तद्-एक-शरणो भवेत् ॥ ५२५ ॥

11.526

श्लोक

नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् । अविश्रान्त-प्रयुक्तानि तान्य् एवार्थ-कराणि च ॥ ५२६ ॥

11.527

श्लोक

नामैकं यस्य वाचि स्मरण-पथ-गतं श्रोत्र-मूलं गतं वा शुद्धं वाशुद्ध-वर्णं व्यवहित-रहितं तारयत्य् एव सत्यम् । तच् चेद् देह-द्रविण-जनता-लोभ-पाषण्ड-मध्ये निक्षिप्तं स्यान् न फल-जनकं शीघ्रम् एवात्र विप्र ॥ ५२७ ॥

11.528

श्लोक

मह्मिनाम् अपि यन्-नाम्नः पारं गन्तुम् अनीश्वरः । मनवोऽपि मुनीद्राश् च कथं क्षुण्ण-धीर् भजे ॥ ५२८ ॥

11.529

श्लोक

इत्थं श्री-कृष्ण-पादाब्जे भक्तिः कार्या सदा बुधैः । सा च तस्य प्रसादेन महा-पुण्यात् प्रजायते ॥ ५२९ ॥

11.530

श्लोक

न ह्य् अपुण्यवतां लोके मूढानां कुटिलात्मनाम् । भक्तिर् भवति गोविन्दे स्मरणं कीर्तनं तथा ॥ ५३० ॥

11.531

श्लोक

निमिषं निमिषार्धं वा मर्त्यानाम् इह नारद । नादग्धाशेष-पापानां भक्तिर् भवति केशवे ॥ ५३१ ॥

11.532

श्लोक

जन्मान्तर-सहस्रेषु तपो-ज्ञान-समाधिभिः । नराणां क्षीण-पापानां कृष्णे भक्तिः प्रजायते ॥ ५३२ ॥

11.533

श्लोक

जन्मान्तर-सहस्रेषु समाराध्य वृष-ध्वजम् । वैष्णवत्वं लभेद् धीमान् सर्व-पाप-क्षये सति ॥ ५३३ ॥

11.534

श्लोक

जन्म-कोटि-सहस्रेषु पुण्यं यैः समुपार्जितम् । तेषां भक्तिर् भवेच् छुद्धा देव-देवे जनार्दने ॥ ५३४ ॥

11.535

श्लोक

सुलभं जाह्नवी-स्नानं तथैवातिथि-पूजनम् । सुलभाः सर्व-यज्ञाश् च विष्णु-भक्तिः सुदुर्लभा ॥ ५३५ ॥

11.536

श्लोक

गङ्गायां मरणं चैव दृढा भक्तिश् च केशवे । ब्रह्म-विद्या-प्रबोधश् च नाल्पस्य तपसः फलम् ॥ ५३६ ॥

11.537

श्लोक

व्रतोपवास-नियमैर् जन्म-कोट्याप्य् अनिष्ठितेः । यज्ञैश् च विविधैः सम्यग् भक्तिर् भवति केशवे ॥ ५३७ ॥

11.538

श्लोक

दिवसं दिवसार्धं वा मुहूर्तं चैकम् एव वा । नाशाच् चाशेष-पापस्य भक्तिर् भवति केशवे ॥ ५३८ ॥

11.539

श्लोक

अनेक-जन्म-साहस्रैर् नाना-योन्य्-अन्तरेषु च । जन्तोः कलुष-हीनस्य भक्तिर् भवति केशवे ॥ ५३९ ॥

11.540

श्लोक

दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः । श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ ५४० ॥

11.541

श्लोक

येषां त्व् अन्त-गतं पापं जनानां पुण्य-कर्मणाम् । ते द्वन्द्व-मोह-निर्मुक्ता भजन्ते मां दृढव्रताः ॥ ५४१ ॥

11.542

श्लोक

राजन् पतिर् गुरुर् अलं भवतां यदूनां दैवं प्रियः कुल-पतिः क्व च किङ्करो वः । अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ ५४२ ॥

11.543

श्लोक

लक्षेषु श्रृणुते कश्चित् कोटिष्वेकस्तु बुध्यते । भक्तितत्त्वं परिज्ञाय कश्चिदेव समाचरेत् ॥ ५४३ ॥

11.544

श्लोक

पूजया हसते भक्तिर्जपतस्त्रस्यति स्फुटम् । समाधियोगाच्च बहिः सा भक्तिः केन गृह्यते ? ॥ ५४४ ॥

11.545

श्लोक

देवानां शुद्ध-सत्त्वानाम् ऋषीणां चामलात्मनाम् । भक्तिर् मुकुन्द-चरणे न प्रायेणोपजायते ॥ ५४५ ॥

11.546

श्लोक

श्रीमद्-भक्त्यै नमस् तस्यै यस्या माहात्म्य-मन्दरम् । यत्-प्रभावेण लोलोऽयं कीटोऽप्य् उद्धर्तुम् इच्छति ॥ ५४६ ॥

11.547

श्लोक

यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् । पापानि भगवद्-भक्तिस् तथा दहति तत्-क्षणात् ॥ ५४७ ॥

11.548

श्लोक

केचित् केवलया भक्त्या वासुदेव-परायणाः । अघं धुन्वन्ति कार्त्स्न्येन नीहारम् इव भास्करः ॥ ५४८ ॥

11.549

श्लोक

यथाग्निः सु-समृद्धार्चिः करोत्य् एधांसि भस्मसात् । तथा मद्-विषया भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ ५४९ ॥

11.550

श्लोक

स्व-पाद-मूलं भजतः प्रियस्य त्यक्तान्य-भावस्य हरिः परेशः । विकर्म यच् चोत्पतितं कथञ्चिद् धुनोति सर्वं हृदि सन्निविष्टः ॥ ५५० ॥

11.551

श्लोक

मद्-भक्तिं वहतां पुंसाम् इह लोके परेऽपि वा । नाशुभं विद्यते किञ्चित् कुल-कोटिं नयेद् दितम् ॥ ५५१ ॥

11.552

श्लोक

बाध्यमानोऽपि मद्-भक्तो विषयैर् अजितेन्द्रियः । प्रायः प्रगल्भया भक्त्या विषयैर् नाभिभूयते ॥ ५५२ ॥

11.553

श्लोक

तावत् कर्माणि कुर्वीत न निर्विद्येत यावता । मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ ५५३ ॥

11.554

श्लोक

त्यक्त्वा स्व-धर्मं चरणाम्बुजं हरेर् भजन्न् अपक्वोऽथ पतेत् ततो यदि । यत्र क्व वाभद्रम् अभूद् अमुष्य किं को वार्थ आप्तोऽभजतां स्व-धर्मतः ॥ ५५४ ॥

11.555

श्लोक

एकान्ति-लक्षणे यच् च लिखितं शरणागतौ । लेख्यं च तत्-तद्-वचनैर् एतत् सुदृढताम् इयात् ॥ ५५५ ॥

11.556

श्लोक

स वै पुंसां परो धर्मो यतो भक्तिर् अधोक्षजे । अहैतुक्य् अप्रतिहता ययात्मा सुप्रसीदति ॥ ५५६ ॥

11.557

श्लोक

धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता । मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥ ५५७ ॥

11.558

श्लोक

भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् ॥ ५५८ ॥

11.559

श्लोक

एतावान् एव लोकेऽस्मिन् पुंसां धर्मः परः स्मृतः । भक्ति-योगो भगवति तन्-नाम-ग्रहणादिभिः ॥ ५५९ ॥

11.560

श्लोक

किं तस्य बहुभिः मन्त्रैः शास्त्रैः किं बहु-विस्तरैः । वाजपेय-सहस्रैः किं भक्तिर् यस्य जनार्दने ॥ ५६० ॥

11.561

श्लोक

यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना सर्वैर् गुणैस् तत्र समासते सुराः । हराव् अभक्तस्य कुतो महद्-गुणा मनोरथेनासति धावतो बहिः ॥ ५६१ ॥

11.562

श्लोक

त्वं प्रत्यग्-आत्मनि तदा भगवत्य् अनन्त आनन्द-मात्र उपपन्न-समस्त-शक्तौ । भक्तिं विधाय परमां शनकैर् अविद्या- ग्रन्थिं विभेत्स्यसि ममाहम् इति प्ररूढम् ॥ ५६२ ॥

11.563

श्लोक

यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः । तद्वन् न रिक्त-मतयो यतयोऽपि रुद्ध- स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ ५६३ ॥

11.564

श्लोक

न युज्यमानया भक्त्या भगवत्य् अखिलात्मनि । सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्म-सिद्धये ॥ ५६४ ॥

11.565

श्लोक

सध्रीचीनो ह्य् अयं लोके पन्थाः क्षेमोऽकुतो-भयः । सुशीलाः साधवो यत्र नारायण-परायणाः ॥ ५६५ ॥

11.566

श्लोक

न ह्य् अतोऽन्यः शिवः पन्था विशतः संसृताव् इह । वासुदेवे भगवति भक्ति-योगो यतो भवेत् ॥ ५६६ ॥

11.567

श्लोक

भगवान् ब्रह्म कार्त्स्न्येन त्रिर् अन्वीक्ष्य मनीषया । तद् अध्यवस्यत् कूट-स्थो रतिर् आत्मन्य् अतो भवेत् ॥ ५६७ ॥

11.568

श्लोक

यथा समस्त-लोकानां जीवनं सलिलं स्मृतम् । तथा समस्त-सिद्धीनां जीवनं भक्तिर् इष्यते ॥ ५६८ ॥

11.569

श्लोक

जीवन्ति जन्तवः सर्वे यथा मातरमाश्रिताः । तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धार्मिकाः ॥ ५६९ ॥

11.570

श्लोक

महा-पातक-युक्तो वा युक्तो वा सर्व-पातकैः । ईप्सितां भगवद्-भक्त्या लभते परमां गतिम् ॥ ५७० ॥

11.571

श्लोक

अपत्यं द्रविणं दारा हारा हर्म्यं हया गजाः । सुखानि स्वर्ग-मोक्षौ च न दूरे हरि-भक्तितः ॥ ५७१ ॥

11.572

श्लोक

वासुदेवे भगवति भक्ति-योगः प्रयोजितः । जनयत्य् आशु वैराग्यं ज्ञानं च यद् अहैतुकम् ॥ ५७२ ॥

11.573

श्लोक

यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् । योगेन दाम-धर्मेण श्रेयोभिर् इतरैर् अपि ॥ ५७३ ॥

11.574

श्लोक

सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा । स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ ५७४ ॥

11.575

श्लोक

अकामः सर्व-कामो वा मोक्ष-काम उदार-धीः । तीव्रेण भक्ति-योगेन यजेत पुरुषं परम् ॥ ५७५ ॥

11.576

श्लोक

अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी । जरयत्य् आशु या कोषं निगीर्णम् अनलो यथा ॥ ५७६ ॥

11.577

श्लोक

यस्याम् एव कवय आत्मानम् अविरतं विविध-वृजिन-संसार-परितापोपतप्यमानम् अनुसवनं स्नापयन्तस् तयैव परया निर्वृत्या ह्य् अपवर्गम् आत्यन्तिकं परम-पुरुषार्थम् अपि स्वयम् आसादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परिसमाप्त-सर्वार्थाः ॥ ५७७ ॥

11.578

श्लोक

नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत । भक्तिं परां भगवति लब्धवान् पुरुषेऽव्यये ॥ ५७८ ॥

11.579

श्लोक

यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान् प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् । नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्- सेवानुरक्त-मनसाम् अभवोऽपि फल्गुः ॥ ५७९ ॥

11.580

श्लोक

न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं न सार्वभौमं न रसाधिपत्यम् । न योग-सिद्धीर् अपुनर्-भवं वा मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ ५८० ॥

11.581

श्लोक

वासुदेवे भगवति भक्तिम् उद्वहतां नॄणाम् । ज्ञान-वैराग्य-वीर्याणां नेह कश्चिद् व्यपाश्रयः ॥ ५८१ ॥

11.582

श्लोक

धर्मार्थ-कामैः किं तस्य मुक्तिस् तस्य करे स्थिता । समस्त-जगतां मूले यस्य भक्तिः स्थिता त्वयि ॥ ५८२ ॥

11.583

श्लोक

मुक्तौ किम् अर्थं क्रियते प्रयत्नः ॥ ५८३ ॥

11.584

श्लोक

आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे । कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्भूत-गुणो हरिः ॥ ५८४ ॥

11.585

श्लोक

येषां चक्र-गदा-पाणौ भक्तिर् अव्यभिचारिणी । ते यान्ति नियतं स्थानं यत्र योगेश्वरो हरिः ॥ ५८५ ॥

11.586

श्लोक

मुनिर् जाप्य-परो नित्यं दृढ-भक्तिर् जितेन्द्रियः । स्व-गृहेऽपि वसन् याति तद् विष्णोः परमं पदम् ॥ ५८६ ॥

11.587

श्लोक

यच् च व्रजन्त्य् अनिमिषाम् ऋषभानुवृत्त्या दूरे यमा ह्य् उपरि नः स्पृहणीय-शीलाः । भर्तुर् मिथः सुयशसः कथनानुराग- वैक्लव्य-बाष्प-कलया पुलकी-कृताङ्गाः ॥ ५८७ ॥

11.588

श्लोक

पुरेह भूमन् बहवोऽपि योगिनस् त्वद्-अर्पितेहा निज-कर्म-लब्धया । विबुध्य भक्त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् ॥ ५८८ ॥

11.589

श्लोक

सर्व-देव-मयो विष्णुः शरणार्ति-प्रनाशनः । स्व-भक्त-वत्सलो देवो भक्त्या तुष्यति नान्यथा ॥ ५८९ ॥

11.590

श्लोक

नालं द्विजत्वं देवत्वम् ऋषित्वं वासुरात्मजाः । प्रीणनाय मुकुन्दस्य न वृत्तं न बहु-ज्ञता ॥ ५९० ॥

11.591

श्लोक

न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयतेऽमलया भक्त्या हरिर् अन्यद् विडम्बनम् ॥ ५९१ ॥

11.592

श्लोक

मन्ये धनाभिजन-रूप-तपः-श्रुतौजस्- तेजः-प्रभाव-बल-पौरुष-बुद्धि-योगाः । नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान् गज-यूथपाय ॥ ५९२ ॥

11.593

श्लोक

व्याधस्याचरणं ध्रुवस्य च वयो विद्या गजेन्द्रस्य का कुब्जायाः किम् उ नाम रूपम् अधिकं किं तत् सुदाम्नो धनम् । वंशः को विदुरस्य यादव-पतेर् उग्रस्य किं पौरुषं भक्त्या तुष्यति केवलं न च गुणैर् भक्ति-प्रियो माधवः ॥ ५९३ ॥

11.594

श्लोक

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तद् अहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः ॥ ५९४ ॥

11.595

श्लोक

न जन्म नूनं महतो न सौभगं न वाङ् न बुद्धिर् नाकृतिस् तोष-हेतुः । तैर् यद् विसृष्टान् अपि नो वनौकसश् चकार सखे बत लक्ष्मणाग्रजः ॥ ५९५ ॥

11.596

श्लोक

भक्त्या त्व् अनन्यया शक्य अहम् एवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ॥ ५९६ ॥

11.597

श्लोक

यथाग्निना हेम-मलं जहाति ध्मातं पुनः स्वं भजते च रूपम् । आत्मा च कर्मानुशयं विधूय मद्-भक्ति-योगेन भजत्य् अथो माम् ॥ ५९७ ॥

11.598

श्लोक

भक्त्योद्धवानपायिन्या सर्व-लोक-महेश्वरम् । सर्वोत्पत्त्य्-अप्ययं ब्रह्म कारणं मोपयाति सः ॥ ५९८ ॥

11.599

श्लोक

भुक्तिं मुक्तिं हरिर् दद्यात् अर्चितोऽन्यत्र सेविनाम् । भक्तिं च ददात्य् एष यतो वश्य-करी हरेः ॥ ५९९ ॥

11.600

श्लोक

मायाजानिर् अमायोऽसौ भक्त्या राजन् न मायया । साध्यते साधु-पुरुषैः स्वयं जानाति तद् भवान् ॥ ६०० ॥