Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ११

नित्य-क्रिया-समापनः

11.701

श्लोक

अवश्यायं च राजेन्द्र पुरो वातातपौ तथा । न स्नायान् न स्वपेन् नग्नो न चैवोपस्पृशेद् बुधः ॥ ७०१ ॥

11.702

श्लोक

मुक्त-कच्छश् च नाचामेद् देवाद्य्-अर्चां च वर्जयेत् । नैक-वस्त्रः प्रवर्तेत द्विज-वाचनिके जपे ॥ ७०२ ॥

11.703

श्लोक

न च निर्धूनयेत् केशान् नाचामेच् चैव चोत्थितः । पादेन नाक्रमेत् पादं न पूज्याभिमुखं नयेत् ॥ ७०३ ॥

11.704

श्लोक

अपसव्यं न गच्छेच् च देवागार-चतुष्पथान् । मङ्गल्य-पूज्यांश् च तथा विपरीतान् न दक्षिणाम् ॥ ७०४ ॥

11.705

श्लोक

सोमार्काग्न्य्-अम्बु-वायूनां पूज्यानां च न सम्मुखम् । कुर्यान् निष्ठीव-विण्-मूत्र-समुत्सर्गं च पण्डितः ॥ ७०५ ॥

11.706

श्लोक

तिष्ठन् न मूत्रयेत् तद्वत् पथिष्व् अपि न मूत्रयेत् । श्लेष्म-विण्-मूत्र-रक्तानि सर्वदैव न लङ्घयेत् ॥ ७०६ ॥

11.707

श्लोक

श्लेष्म-ष्टीवनकोत्सर्गो नान्न-काले प्रशस्यते । बलि-मङ्गल-जप्यादौ न होमे न महाजने ॥ ७०७ ॥

11.708

श्लोक

योषितो नावमन्येत न चासां विश्वसेद् बुधः । न चैवेर्ष्युर् भवेत् तासु नाधिकुर्यात् कदाचन ॥ ७०८ ॥

11.709

श्लोक

मङ्गल्य-पुष्प-रत्नाज्य-पूज्याननभिवाद्य च । न निष्क्रामेद् गृहात् प्राज्ञः सदाचार-परो नरः ॥ ७०९ ॥

11.710

श्लोक

अकाल-गर्जितादौ तु पर्वस्वशौचकादिषु । अनध्यायं बुधः कुर्याद् उपरागादिके तथा ॥ ७१० ॥

11.711

श्लोक

वर्षातपादिके छत्री दण्डी रात्र्य्-अटवीषु च । शरीर-त्राण-कामो वै सोपानत्कः सदा व्रजेत् ॥ ७११ ॥

11.712

श्लोक

नोर्ध्वं न तिर्यग्-दूरं वा निरीक्षन् पर्यटेद् बुधः । युग-मात्रं मही-पृष्ठं नरो गच्छेद् विलोकयन् ॥ ७१२ ॥

11.713

श्लोक

प्रियम् उक्तं हितं नैतद् इति मत्वा न तद् वदेत् । श्रेयस् तद्-रहितं वाच्यं यद्यप्य् अत्यन्त-विप्रियम् ॥ ७१३ ॥

11.714

श्लोक

प्राणिनाम् उपकाराय यद् एवेह परत्र च । कर्मणा मनसा वाचा तद् एव मतिमान् भजेत् ॥ ७१४ ॥

11.715

श्लोक

असाव् अहम् इति ब्रूयाद् द्विजो वै ह्य् अभिवादने । श्राद्धं व्रतं तथा दानं देवताभ्यर्चनं तथा । यज्ञं च तर्पणं चैव कुर्वन्तं नाभिवादयेत् ॥ ७१५ ॥

11.716

श्लोक

तथा स्नानं प्रकुर्वन्तं धावन्तम् अशुचिं तथा । भुञ्जानं च अभ्यक्त-शिरसं तथा ॥ ७१६ ॥

11.717

श्लोक

भिक्षान्न-धारिणं चैव रमन्तं जल-मध्य-गम् । कृतेऽभिवादने यस् तु न कुर्यात् प्रतिवादनम् । नाभिवाद्यः स विज्ञेयो यथा शूद्रस् तथैव सः ॥ ७१७ ॥

11.718

श्लोक

असत्-प्रलापम् अनृतं व्क्-पारुष्यं च वर्जयेत् । असच्-छास्त्रम् असद्-वादम् असत्-सेवां च पुत्रक ॥ ७१८ ॥

11.719

श्लोक

केश-प्रसाधनादर्श-दर्शनं दन्त-धावनम् । पूर्वाह्न एव कार्याणि देवतानां च तर्पणम् ॥ ७१९ ॥

11.720

श्लोक

उदक्या दर्शनं स्पर्शं वर्जेत सम्भाषणं तथा ॥ ७२० ॥

11.721

श्लोक

शिरः-स्नातश् च तैलेन नाङ्गं किंचिद् अपि स्पृशेत् ॥ ७२१ ॥

11.722

श्लोक

विद्याधिकस्य गुर्विण्या भारार्तस्य महीयसः ॥ ७२२ ॥

11.723

श्लोक

पुंश्चल्याः कृत-वैरस्य बालस्य पतितस्य च ॥ ७२३ ॥

11.724

श्लोक

उपानद्-वस्त्र-माल्यानि धृतान्य् अन्यैर् न धारयेत् । उपवीतम् अलङ्कारं कवलं चैव वर्जयेत् ॥ ७२४ ॥

11.725

श्लोक

न क्षिप्त-बाहु-जङ्घश् च प्राज्ञस् तिष्ठेत् कदाचन । न चापि विक्षिपेत् पादौ वाससा न च धूनयेत् ॥ ७२५ ॥

11.726

श्लोक

न्यूनाङ्गानधमांश् चैव नोपहासेन् न दूषयेत् ॥ ७२६ ॥

11.727

श्लोक

नानुलेपनम् आदद्याद् अस्नातः स्नातकी क्वचित् ॥ ७२७ ॥

11.728

श्लोक

क्षुर-कर्मणि चान्ते च स्त्री-सम्भोगे च पुत्रक । स्नायीत चेलवान् प्राज्ञः कट-भूमिम् उपेत्य च ॥ ७२८ ॥

11.729

श्लोक

युगपज् जलम् अग्निं च बिभृयान् न विचक्षणः । नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् ॥ ७२९ ॥

11.730

श्लोक

शौच-कालेषु सर्वेषु गुरुष्व् अल्पेषु वा पुनः । न विलम्बेत शौचार्थं न मुखेनानलं धमेत् ॥ ७३० ॥

11.731

श्लोक

विपुर्षो मक्षिकाद्याश् च हस्त-सङ्गाद् अदोषिणः । अजाश्वौ मुहतो मेध्यौ न गोर् वत्सस्य चाननम् ॥ ७३१ ॥

11.732

श्लोक

मातुः प्रस्नवने मेध्यं शकुनिः फल-पातने । उदक्याशौचिनग्नांश् च सूतिकान्त्याचसायिनः । स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृत-हारिणः ॥ ७३२ ॥

11.733

श्लोक

नारं स्पृष्ट्वास्थि स-स्नेहं स्नातः शुध्यति मानवः । आचम्यैव तु निस्नेहं गाम् आलभ्यार्कम् ईक्ष्य वा ॥ ७३३ ॥

11.734

श्लोक

न चालपेज् जनं द्विष्टं वीर-हीनां तथा स्त्रियम् । देवतातिथि-सच्-छास्त्र-यज्ञ-सिद्धादि-निन्दकैः ॥ ७३४ ॥

11.735

श्लोक

कृत्वा तु स्पर्शतालापं शुध्येद् अर्कावलोकनात् । अवलोक्य तथोदक्याम् अन्त्यजान् पतितं शठम् । विधर्मि-सूतिका-षण्ड-विवस्त्रान्यावसायिनः ॥ ७३५ ॥

11.736

श्लोक

मृत-निर्यातकाश् चैव पर-दार-रताश् च ये । एतद् एव हि कर्तव्यं प्राज्ञैः शोधनम् आत्मनः ॥ ७३६ ॥

11.737

श्लोक

यच् चापि कुर्वतो नात्मा जुगुप्साम् एति पुत्रक । तत् कर्तव्यम् अशङ्केन यन् न गोप्यं महाजने ॥ ७३७ ॥

11.738

श्लोक

उपासते न ये पूर्वां द्विजाः सन्ध्यां न पश्चिमाम् । सर्वाम्स् तान् धार्मिको राजा शूद्र-कर्मणि योजयेत् ॥ ७३८ ॥

11.739

श्लोक

दूराद् आवसथान् मूत्रं दूरात् पादावसेचनम् । उच्छिष्टोत्सर्जनं भूप सदा कार्या हितैषिणा ॥ ७३९ ॥

11.740

श्लोक

उच्छिष्टौ न स्पृशेच् छीर्षं सर्वे प्राणास् तद्-आश्रयाः । केश-ग्राहान् प्रहारांश् च शिरस्य् एतानि वर्जयेत् । न पाणिभ्याम् उभाभ्यां तु कण्डूयाज् जातु वै शिरः ॥ ७४० ॥

11.741

श्लोक

सुवासिनीर् गुर्विणीश् च वृद्धं बालातुरौ तथा । भोजयेत् संस्कृतान्न् एव प्रथमं चरमं गृही ॥ ७४१ ॥

11.742

श्लोक

अघं स केवलं भुङ्क्ते वृद्धे गो-वाहनादिके । यो भुङ्क्ते पाण्डव-श्रेष्ठ प्रेक्षताम् अप्रदाय च ॥ ७४२ ॥

11.743

श्लोक

वर्जयेद् दधि-शक्तुं च रात्रौ धानाश् च वासरे ॥ ७४३ ॥

11.744

श्लोक

स्रजश् च नावकर्षेत न बहिर् धारयेत च । गृहे पारावता धन्याः शुकाश् च सह-सारिकाः ॥ ७४४ ॥

11.745

श्लोक

तृणं वा यदि वा शाकं मूलं वा जलम् एव वा । परस्यापहरन् जन्तुर् नरकं प्रतिपद्यते ॥ ७४५ ॥

11.746

श्लोक

न राज्ञः प्रतिगृह्णीयान् न शूद्रात् पतिताद् अपि । नान्यस्माद् याचकत्वं च निन्दिताद् वर्जयेद् बुधः ॥ ७४६ ॥

11.747

श्लोक

नित्यं याचनको न स्यात् पुनस् तत्रैव याचयेत् । प्राणान् अपहरत्य् एष याचकस् तस्य दुर्मतिः ॥ ७४७ ॥

11.748

श्लोक

न देव-द्रव्य-हारी स्याद् विशेषेण द्विजोत्तमाः । ब्रह्मस्वं च नापहरेद् आपद्य् अपि कदाचन ॥ ७४८ ॥

11.749

श्लोक

न विषं विषम् इत्य् आहुर् ब्रह्मस्वं विषम् उच्यते । देवस्वं वापि यत्नेन सदा परिहरेत् ततः ॥ ७४९ ॥

11.750

श्लोक

न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्री-शूद्र-दम्भनम् ॥ प्रेत्येह चेदृशो विप्रो गर्ह्येत ब्रह्म-वादिभिः ॥ ७५० ॥

11.751

श्लोक

देव-द्रोहाद् गुरु-द्रोहः कोटि-कोटि-गुणाधिकः । ज्ञानापवाओ नास्तिक्यं तस्माद् कोटि-गुणाधिकम् ॥ ७५१ ॥

11.752

श्लोक

हिमवद्-विन्ध्ययोर् मध्ये पूर्व-पश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर् देशं नान्यत्र निवसेद् द्विजः ॥ ७५२ ॥

11.753

श्लोक

कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्याश् च विश्रुता नद्यस् तत्र वा निवसेद् द्विजः । अर्ध-क्रोशान् नदी-कुलं वर्जयित्वा द्विजोत्तमाः ॥ ७५३ ॥

11.754

श्लोक

अग्निना भस्मना चैव सलिलेन विशेषतः । द्वारेण स्तम्भ-मार्गेण पद्भिः पङ्क्तिर् विभिद्यते । पर-क्षेत्रे चरन्तीं गां न चाचक्षीत कस्यचित् ॥ ७५४ ॥

11.755

श्लोक

नषुर्य-परिवेशं वा नेन्द्रचापं न चाग्निकम् । परस्मै कथयेद् विद्वान् शशिनं वा कथंचन । तिथिं पक्षस्य न ब्रूयान् नक्षत्राणि विनिर्दिशेत् ॥ ७५५ ॥

11.756

श्लोक

न देव-गुरु-विप्राणां दीयमानं तु वारयेत् । निन्दयेद् यो गुरून् देवान् वेदं वा सोपबृंहितम् । कल्प-कोटि-शतं साग्रं रौरवे पच्यते नरः ॥ ७५६ ॥

11.757

श्लोक

तूष्णीम् आसीत निन्दायां न ब्रूयात् किंचिद् उत्तरम् । कर्णौ पिधाय गन्तव्यं न चैनम् अवलोकयेत् ॥ ७५७ ॥

11.758

श्लोक

वर्जयेद् रहस्यं च परेषां गूहयेद् बुधः । विवादं स्वजनैः सार्धं न कुर्याद् वै कदाचन ॥ ७५८ ॥

11.759

श्लोक

न पापं पापिनं ब्रूयाद् अपापं वा द्विजोत्तमाः ॥ ७५९ ॥

11.760

श्लोक

नेक्षेतोद्यन्तम् आदित्यं शशिनं वा निमित्ततः ॥ ७६० ॥

11.761

श्लोक

आस्तं यान्तं न वारिस्थं नोपसृष्टं न मध्यगम् । तिरोहितं वाससा वा न दर्शान्तर-गामिनम् ॥ ७६१ ॥

11.762

श्लोक

नग्नां स्त्रियं पुमांसं वा पुरीषं मूत्रम् एव वा । पतित-व्यङ्ग-चाण्डालान् उच्छिष्टानुच्छिष्टान् नावलोकयेत् ॥ ७६२ ॥

11.763

श्लोक

न मुक्त-बन्धनां गां वा नोन्मत्तं मत्तम् एव वा । स्पृशेन् न भोजने पत्नीं नैनाम् ईक्षेत मेहतीम् ॥ ७६३ ॥

11.764

श्लोक

क्षुबन्तीं जृम्भमाणां वा नासनस्थां यथा सुखम् । नोदके चात्मनो रूपं नकुलं श्वभ्रम् एव वा ॥ ७६४ ॥

11.765

श्लोक

न शूद्राय मतिं दद्यात् कृषरं पायसं दधि । नोच्छिष्टं वा घृत-मधु न च कृष्णाजिनं हविः ॥ ७६५ ॥

11.766

श्लोक

न कुर्यात् कस्यचित् पीडां सुतं शिष्यं च ताडयेत् । नात्मानम् अवमन्येत दैन्यं यत्नेन वर्जयेत् । न च शिष्यान्नं सत्कुर्यान् नात्मानं शंसयेद् बुधः ॥ ७६६ ॥

11.767

श्लोक

न नदीं च नदीं ब्रूयात् पर्वतेषु न पर्वतम् । आवसेत् तेन नैवापि यस् त्यजेत् सहवासिनम् ॥ ७६७ ॥

11.768

श्लोक

शिरोऽभ्यङ्गावशिष्टेन तलेनाङ्गं न लेपयेत् । रोमाणि च रहस्यानि स्वानि खानि न च स्पृशेत् ॥ ७६८ ॥

11.769

श्लोक

न पाणि-पाद-वाङ्-नेत्र-चापलानि समाश्रयेत् । नाभिहन्याज् जलं पद्भ्यां पाणिना न कदाचन ॥ ७६९ ॥

11.770

श्लोक

न घातयेद् इष्टकाभिः फलानि न फलेन च । न म्लेच्छ-भाषणं शिक्षेन् न कर्षेच् च पदासनम् ॥ ७७० ॥

11.771

श्लोक

नोत्सङ्गे भक्षयेद् भक्ष्यान् गां च संवेशयेन् न हि । नाक्षैः क्रीडेन् न धावेत स्त्रीभिर् वादं च चाचरेत् ॥ ७७१ ॥

11.772

श्लोक

न दन्तैर् नख-लोमानि छिन्द्यात् सुप्तं न बोधयेत् । न बालातपम् आसेवेत् प्रेत-धूमं विवर्जयेत् ॥ ७७२ ॥

11.773

श्लोक

नैकः सुप्यात् शून्य-गृहे स्वयं नोपानहौ हरेत् । नाकारणाद् वा निष्ठीवेन् न बाहुभ्यां नदीं तरेत् ॥ ७७३ ॥

11.774

श्लोक

न पाद-क्षालनं कुर्यात् पादेनैव कदाचन । नाग्नौ प्रतापयेत् पादौ न कांस्ये धारयेद् बुधः ॥ ७७४ ॥

11.775

श्लोक

नाभिप्रतारयेद् देवान् ब्राह्मणान् गाम् अथापि वा । न स्पृशेत् पानिनोच्छिष्टो विप्रा गो-ब्राह्मणानलान् । न चैवान्नं पदा वापि न देव-प्रतिमां स्पृशेत् ॥ ७७५ ॥

11.776

श्लोक

नोत्तरेद् अनुपस्पृश्य स्रवन्तीं नो व्यतिक्रमेत् । चैत्यं बृह्मं नैव छिन्द्यान् नाप्सु ष्ठीवनम् उत्सृजेत् । न चाग्निं लङ्घयेद् धीमान् नोपदध्याद् अधः क्वचित् ॥ ७७६ ॥

11.777

श्लोक

न चैनं पादतः कुर्यात् तिल-बद्धं निशि त्यजेत् । न कूपम् अवरोहेत नाचक्षीताशुचिः क्वचित् ॥ ७७७ ॥

11.778

श्लोक

अग्नौ न प्रक्षिपेद् अग्निं नाद्भिः प्रशमयेत् तथा । सुहृन्-मरणम् आर्तिं वा न स्वयं श्रावयेत् परान् । अपण्यम् अथ पण्यं वा विक्रयं न प्रयोजयेत् ॥ ७७८ ॥

11.779

श्लोक

पुण्य-स्थानोदक-स्थाने सीमान्तं वा कृषेन् न तु । भिन्द्यात् पूर्व-समयं सत्र्योपेतं कदाचन ॥ ७७९ ॥

11.780

श्लोक

परस्परं पशून् व्यालान् पक्षिणो न च योधयेत् । कारयित्वा स्व-कर्माणि कारून् विद्वान् न वञ्चयेत् ॥ ७८० ॥

11.781

श्लोक

बहिर् गन्धं च कुद्वार-प्रवेशं च विवर्जयेत् । नैकश् चरेत् सभां विप्रः समवायं च वर्जयेत् ॥ ७८१ ॥

11.782

श्लोक

न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् । नाग्नि-गो-ब्राह्मणादीनाम् अन्तरेण व्रजेत् क्वचित् ॥ ७८२ ॥

11.783

श्लोक

नाक्रामेत् कामतश् छायां ब्राह्मणानां गवाम् अपि । स्वान्तु नाक्रामयेच् छायं पतिताद्यैर् न रोगिभिः ॥ ७८३ ॥

11.784

श्लोक

नाश्नीयात् पयसा तक्रं न बीजान्य् उपबीजयेत् । विवत्सायाश् च गोः क्षीरम् औष्ट्रं वा निर्दशस्य च । आविकं सन्धिनी-क्षीरम् अपेयं मनुर् अब्रवीत् ॥ ७८४ ॥

11.785

श्लोक

हन्त-कारम् अथाग्र्यं वा भिक्षां वा शक्तितो द्विजः । दद्याद् अतिथये नित्यं बुध्येत परमेश्वरम् ॥ ७८५ ॥

11.786

श्लोक

भिक्षाम् आहुर् ग्रास-मात्रम् अग्र्यं तस्माच् चतुर्गुणम् । पुष्कलं हन्त-कारं तु तच् चतुर्गुणम् इष्यते ॥ ७८६ ॥

11.787

श्लोक

भोजनं हन्त-कारं वा अग्र्यं भिक्षाम् अथापि वा । अदत्त्वा तु न भोक्तव्यं यथा-विभवम् आत्मनः ॥ ७८७ ॥

11.788

श्लोक

नैवोत्कटासनेऽश्नीयान् नाग्नौ वस्त्व् अशुचि क्षिपेत् । श्राद्धं कृत्वा पर-श्राद्धे योऽश्नीयाज् ज्ञान-वर्जितः । दातुः श्राद्ध-फलं नास्ति भोक्ता किल्बिष-भुग् भवेत् ॥ ७८८ ॥

11.789

श्लोक

नोत्पाटयेल् लोम-नखं दशनेन कदाचन । करजैः करज-च्छेदं करेणैव विवर्जयेत् ॥ ७८९ ॥

11.790

श्लोक

अपद्वारे न गन्तव्यं स्व-वेश्म-पर-वेश्मनोः । उत्कोच-द्युत-दौत्यार्थ-द्रव्यं दूरात् परित्यजेत् ॥ ७९० ॥

11.791

श्लोक

निष्ठीवनं च श्लेष्माणं गृहाद् दूरे विनिक्षिपेत् । उद्धृत्य पञ्च मृत्-पिण्डान् स्नायात् पर-जलाशये । अनुद्धृत्य च तत्-कर्तुर् एनसः स्यात् तुरीय-भाक् ॥ ७९१ ॥

11.792

श्लोक

यस् तु पाणि-तले भुङ्क्ते यस् तु फुत्कार-संयुतम् । प्रसृताङ्गुलिभिर् यस् तु तस्य गो-मांसवच् च तत् ॥ ७९२ ॥

11.793

श्लोक

न्यूनाधिक-स्तनी या गौर् याथवाभक्ष्य-चारिणी । तयोर् दुग्धं न होतव्यं न पातव्यं कदाचन ॥ ७९३ ॥

11.794

श्लोक

अजा गावो महिष्यश् च यामेध्यम् अपि भक्षयेत् । हव्ये कव्ये च तद्-दुग्धं गोमयं च विवर्जयेत् ॥ ७९४ ॥

11.795

श्लोक

अङ्गुल्या दन्त-काष्ठं च प्रत्यक्ष-लवणं तथा । मृत्तिका-प्राशनं चैव तुल्यं गोमांस-भक्षणैः ॥ ७९५ ॥

11.796

श्लोक

सामुद्रं सैन्धवं चैव लवणे परमाद्भुते । प्रत्यक्षे अपि ते ग्राह्ये निषेधस् त्व् अन्य-गोचरः ॥ ७९६ ॥

11.797

श्लोक

दिवा कपित्थ-च्छाया च निशायां दधि-भोजनम् । कार्पासं दन्त-काष्ठं च शक्राद् अपि हरेत् श्रियम् ॥ ७९७ ॥

11.798

श्लोक

कपिलायाः पयः पीत्वा शूद्रस् तु नरकं व्रजेत् । होम-शेषं पिबेद् विप्रो विप्रः स्याद् अन्यथा पशुः ॥ ७९८ ॥

11.799

श्लोक

परिहर्तुं पुनर् लेखं तत्-तत्-शास्त्रोक्तम् अन्यथा । यद् अत्र लिखितं किञ्चित् तत् क्षन्तव्यं महात्मभिः ॥ ७९९ ॥

11.800

श्लोक

आचाराश् चेदृशाः सन्ति परेऽपि बहुलाः सताम् । ते लोक-शास्त्रतो ज्ञेया अपेक्ष्या यदि वैष्णवैः ॥ ८०० ॥