Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ११

नित्य-क्रिया-समापनः

11.401

श्लोक

सर्वार्थ-शक्ति-युक्तस्य देवदेवस्य चक्रिणः । यच् चाभिरुचितं नाम तत् सर्वार्थेषु योजयेत् ॥ ४०१ ॥

11.402

श्लोक

स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यत्य् अनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्ध-सङ्घाः ॥ ४०२ ॥

11.403

श्लोक

नारायण जगन्नाथ वासुदेव जनार्दन । इतीरयन्ति ये नित्यं ते वै सर्वत्र वन्दिताः ॥ ४०३ ॥

11.404

श्लोक

स्वपन् भुञ्जन् व्रजंस् तिष्ठंश् च वदंस् तथा । ये वदन्ति हरेर् नाम तेभ्यो नित्यं नमो नमः ॥ ४०४ ॥

11.405

श्लोक

स्त्री शूद्रः पुक्कशो वापि ये चान्ये पाप-योनयः । कीर्तयन्ति हरिं भक्त्या तेभ्योऽपीह नमो नमः ॥ ४०५ ॥

11.406

श्लोक

अनन्य-गतयो मर्त्या भोगिनोऽपि परन्तपाः । ज्ञान-वैराग्य-रहिता ब्रह्मचर्यादि-वर्जिताः ॥ ४०६ ॥

11.407

श्लोक

सर्व-धर्मोज्झिता विष्णोर् नाम-मात्रैक-जल्पकाः । सुखेन यां गतिं यान्ति न तां सर्वेऽपि धार्मिकाः ॥ ४०७ ॥

11.408

श्लोक

न देश-नियमस् तस्मिन् न काल-नियमस् तथा । नोच्छिष्ठादौ निषेधोऽस्ति श्री-हरेर् नाम्नि लुब्धक ॥ ४०८ ॥

11.409

श्लोक

चक्रायुधस्य नामानि सदा सर्वत्र कीर्तयेत् । नाशौचं कीर्तने तस्य स पवित्र-करो यतः ॥ ४०९ ॥

11.410

श्लोक

न देश-कालावस्थासु शुद्ध्य्-आदिकम् अपेक्षते । किन्तु स्वतन्त्रम् एवैतन् नाम कामित-कामदम् ॥ ४१० ॥

11.411

श्लोक

न देश-काल-नियमो न शौचाशौच-निर्णयः । परं सङ्कीर्तनाद् एव राम रामेति मुच्यते ॥ ४११ ॥

11.412

श्लोक

न देश-नियमो राजन् न काल-नियमस् तथा । विद्यते नात्र सन्देहो विष्णोर् नामानुकीर्तने ॥ ४१२ ॥

11.413

श्लोक

कालोऽस्ति दाने यज्ञे च स्थाने कालोऽस्ति सज्-जपे । विष्णु-सङ्कीर्तने कालो नास्त्य् अत्र पृथिवी-तले ॥ ४१३ ॥

11.414

श्लोक

एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् । योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनम् ॥ ४१४ ॥

11.415

श्लोक

नारायणाच्युतानन्त वासुदेवेति यो नरः । सततं कीर्तयेद् भूमि याति मल्लयतां स हि ॥ ४१५ ॥

11.416

श्लोक

किं करिष्यति साङ्ख्येन किं योगैर् नर-नायक । मुक्तिम् इच्छसि राजेन्द्र कुरु गोविन्द-कीर्तनम् ॥ ४१६ ॥

11.417

श्लोक

सकृद् उच्चारितं येन हरिर् इत्य् अक्षर-द्वयम् । बद्धः परिकरस् तेन मोक्षाय गमनं प्रति ॥ ४१७ ॥

11.418

श्लोक

अप्य् अन्य-चित्तोऽशुद्धो वा यः सदा कीर्तयेद् धरिम् । सोऽपि दोष-क्षयान् मुक्तिं लभेच् चेदि-पतिर् यथा ॥ ४१८ ॥

11.419

श्लोक

सकृद् उच्चारयेद् यस् तु नारायणम् अतन्द्रितः । शुद्धान्तःकरणो भूत्वा विर्वाणम् अधिगच्छति ॥ ४१९ ॥

11.420

श्लोक

पर-दार-रतो वापि परापकृति-कारकः । स शुद्धो मुक्तिम् आप्नोति हरेर् नामानुकीर्तनात् ॥ ४२० ॥

11.421

श्लोक

सर्व-धर्म-बहिर्-भूतः सर्व-पाप-रतस् तथा । मुच्यते नात्र सन्देहो विष्णोर् नामानुकीर्तनात् ॥ ४२१ ॥

11.422

श्लोक

यथा कथञ्चित् यन् नास्ति कीर्तिते वा श्रुतेऽपि वा । पापिनोऽपि विशुद्धाः स्युः शुद्धा मोक्षम् अवाप्नुयुः ॥ ४२२ ॥

11.423

श्लोक

प्राण-प्रयाण-पाथेयं संसार-व्याधि-भेषजम् । दुःख-शोक-परित्राणं हरिर् इत्य् अक्षर-द्वयम् ॥ ४२३ ॥

11.424

श्लोक

जीवन्-मुक्ताः संशयो नास्ति तत्र ॥ ४२४ ॥

11.425

श्लोक

आपन्नः संसृतिं घोरां यन्-नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद् बिभेति स्वयं भयम् ॥ ४२५ ॥

11.426

श्लोक

यस्यावतार-गुण-कर्म-विडम्बनानि नामानि येऽसु-विगमे विवशा गृणन्ति । तेऽनैक-जन्म-शमलं सहसैव हित्वा संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥ ४२६ ॥

11.427

श्लोक

एतावतालम् अघ-निर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुण-कर्म-नाम्नाम् । विक्रुश्य पुत्रम् अघवान् यद् अजामिलोऽपि नारायणेति म्रियमाण इयाय मुक्तिम् ॥ ४२७ ॥

11.428

श्लोक

व्रजंस् तिष्ठन् स्वपन्न् अश्नन् श्वसन् वाक्य-प्रपूरणे । नाम-सङ्कीर्तनं विष्णोर् हेलया कलि-मर्दनम् । कृत्वा स्वरूपतां याति भक्ति-युक्तं परं व्रजेत् ॥ ४२८ ॥

11.429

श्लोक

ब्राह्मणः श्वपचीं भुञ्जन् विशेषेण रजस्वलाम् । अश्नाति सुरया पक्वं मरणे हरिम् उच्चरन् ॥ ४२९ ॥

11.430

श्लोक

अभक्ष्यागम्ययोर् जातं विहायाघौघ-सञ्चयम् । प्रयाति विष्णु-सालोक्यं विमुक्तो भव-बन्धनैः ॥ ४३० ॥

11.431

श्लोक

जिह्वाग्रे वर्तते यस्य हरिर् इत्य् अक्षर-द्वयम् । विष्णोर् लोकम् अवाप्नोति पुनर् आवृत्ति-दुर्लभम् ॥ ४३१ ॥

11.432

श्लोक

यत्र तत्र स्थितो वापि कृष्ण कृष्णेति कीर्तयेत् । सर्व-पाप-विशुद्धात्मा स गच्छेत् परमां गतिम् ॥ ४३२ ॥

11.433

श्लोक

यद् उच्यते केशव-नाम-मात्रम् ॥ ४३३ ॥

11.434

श्लोक

एवं सङ्ग्रहणी-पुत्राभिधान-व्याजतो हरिम् । समुच्चार्यान्त-कालेऽगाद् धाम तत् परमं हरेः ॥ ४३४ ॥

11.435

श्लोक

नारायणम् इति व्याजाद् उच्चार्य कलुषाश्रयः । अजामिलोऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन् ॥ ४३५ ॥

11.436

श्लोक

म्रियमाणो हरेर् नाम गृणन् पुत्रोपचारितम् । अजामिलोऽप्य् अगाद् धाम किम् उत श्रद्धया गृणन् ॥ ४३६ ॥

11.437

श्लोक

ये कीर्तयन्ति वरदं वर-पद्मनाभं शङ्खाब्ज-चक्र-शर-चाप-गदासि-हस्तम् । पद्मालया-वदन-पङ्कज-षट्-पदाक्षं नूनं प्रयान्ति सदनं मधु-घातिनस् ते ॥ ४३७ ॥

11.438

श्लोक

वासुदेवेति मनुज उच्चार्य भव-भीतितः । तन्-मुक्तः पदम् आप्नोति विष्णोर् एव न संशयः ॥ ४३८ ॥

11.439

श्लोक

सर्वदा सर्व-कालेषु येऽपि कुर्वन्ति पातकम् । नाम-सङ्कीर्तनं कृत्वा यान्ति विष्णोः परं पदम् ॥ ४३९ ॥

11.440

श्लोक

कलेर् दोष-निधे राजन्न् अस्ति ह्य् एको महान् गुणः । कीर्तनाद् एव कृष्णस्य मुक्त-सङ्गः परं व्रजेत् ॥ ४४० ॥

11.441

श्लोक

यद् इच्छसि परं ज्ञानं ज्ञानाद् यत् परमं पदम् । तद्-आदरेण राजेन्द्र कुरु गोविन्द-कीर्तनम् ॥ ४४१ ॥

11.442

श्लोक

वासुदेवस्य सङ्कीर्त्या सुरापो व्याधितोऽपि वा । मुक्तो जायेत नियतं महा-विष्णुः प्रसीदति ॥ ४४२ ॥

11.443

श्लोक

नाम-सङ्कीर्तनं विष्णोः क्षुत्-तृट्-प्रस्खलितादिषु । करोति सततं विप्रास् तस्य प्रीतो ह्य् अधोक्षजः ॥ ४४३ ॥

11.444

श्लोक

नाम-सङ्कीर्तनं विष्णोः क्षुत्-तृट्-प्रस्खलितादिषु । यः करोति महाभाग तस्य तुष्यति केशवः ॥ ४४४ ॥

11.445

श्लोक

यद् अभ्यर्च्य हरिं भक्त्या कृते क्रतु-शतैर् अपि । फलं प्राप्नोत्य् अविकलं कलौ गोविन्द-कीर्तनात् ॥ ४४५ ॥

11.446

श्लोक

गीत्वा च मम नामानि विचरेन् मम सन्निधौ । इदं ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥ ४४६ ॥

11.447

श्लोक

गीत्वा च मम नामानि विचरेन् मम सन्निधौ । इति ब्रवीमि ते सत्यं क्रीतोऽहं तस्य चार्जुन ॥ ४४७ ॥

11.448

श्लोक

एवं च श्रुत्वा च मम नामानीत्य् आदि ॥ ४४८ ॥

11.449

श्लोक

जितं तेन जितं तेन जितं तेनेति निश्चितम् । जिह्वाग्रे वर्तते यस्य हरिर् इत्य् अक्षर-द्वयम् ॥ ४४९ ॥

11.450

श्लोक

इदम् एव हि माङ्गल्यम् एतद् एव धनार्जनम् । जीवितस्य फलं चैतद् यद् दामोदर-कीर्तनम् ॥ ४५० ॥

11.451

श्लोक

मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् । सकृद् अपि परिगीतं श्रद्धया हेलया वा भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ ४५१ ॥

11.452

श्लोक

एतद् एव परं ज्ञानम् एतद् एव परं तपः । एतद् एव परं तत्त्वं वासुदेवस्य कीर्तनम् ॥ ४५२ ॥

11.453

श्लोक

अघच्छित्-स्मरणं विष्णोर् बह्व्-आयासेन साध्यते । ओष्ठ-स्पन्दन-मात्रेण कीर्तनं तु ततो वरम् ॥ ४५३ ॥

11.454

श्लोक

येन जन्म-शतैः पूर्वं वासुदेवः समर्चितः । तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥ ४५४ ॥

11.455

श्लोक

यद् अभ्यर्च्य हरिं भक्त्या कृते क्रतु-शतैर् अपि । फलं प्राप्नोत्य् अविकलं कलौ गोविन्द-कीर्तनात् ॥ ४५५ ॥

11.456

श्लोक

ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् । यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ ४५६ ॥

11.457

श्लोक

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ ४५७ ॥

11.458

श्लोक

कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम् । यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सु-मेधसः ॥ ४५८ ॥

11.459

श्लोक

महा-भागवता नित्यं कलौ कुर्वन्ति कीर्तनम् ॥ ४५९ ॥

11.460

श्लोक

हरेर् नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥ ४६० ॥

11.461

श्लोक

सकृद् उच्चारयन्त्य् एव हरेर् नाम चिद्-आत्मकम् । फलं नास्य क्षमो वक्तुं सहस्र-वदनो विधिः ॥ ४६१ ॥

11.462

श्लोक

र-कारादीनि नामानि शृण्वतो देवि जायते । प्रीतिर् मे मनसो नित्यं राम-नाम-विशङ्कया ॥ ४६२ ॥

11.463

श्लोक

ईशोऽहं सर्व-जगतां नाम्नां विष्णोर् हि जापकः । सत्यं सत्यं वदाम्य् एष हरेर् नाम गतिर् नॄणाम् ॥ ४६३ ॥

11.464

श्लोक

श्रद्धया हेलया नाम रटन्ति मम जन्तवः । तेषां नाम सदा पार्थ वर्तते हृदये मम ॥ ४६४ ॥

11.465

श्लोक

न नाम सदृशं ज्ञानं न नाम सदृशं व्रतम् । न नाम सदृशं ध्यानं न नाम सदृशं फलम् ॥ ४६५ ॥

11.466

श्लोक

न नाम सदृशस् त्यागो न नाम सदृशः शमः । न नाम सदृशं पुण्यं न नाम सदृशी गतिः ॥ ४६६ ॥

11.467

श्लोक

नामैव परमा मुक्तिर् नामैव परमा गतिः । नामैव परमा शान्तिर् नामैव परमा स्थितिः ॥ ४६७ ॥

11.468

श्लोक

नामैव परमा भक्तिर् नामैव परमा मतिः । नामैव परमा प्रीतिर् नामैव परमा स्मृतिः ॥ ४६८ ॥

11.469

श्लोक

नामैव कारणं जन्तोर् नामैव प्रभुर् एव च । नामैव परमाराध्यो नामैव परमो गुरुः ॥ ४६९ ॥

11.470

श्लोक

नाम-युक्तान् जनान् दृष्ट्वा स्निग्धो भवति यो नरः । स याति परमं स्थानं विष्णुना सह मोदते ॥ ४७० ॥

11.471

श्लोक

तस्मान् नामानि कौन्तेय भजस्व दृढ-मानसः । नाम-युक्तः प्रियोऽस्माकं नाम-युक्तो भवार्जुन ॥ ४७१ ॥

11.472

श्लोक

श्रवणस्यापि माहात्म्यम् ईषद् भेदाद् विलिख्यते ॥ ४७२ ॥

11.473

श्लोक

पाषाण-काष्ठ-सदृशाय ददाम्य् अभीष्टम् ॥ ४७३ ॥

11.474

श्लोक

क्वास्तीह जन्म जपतां क्व कृतान्त-भीतिः ॥ ४७४ ॥

11.475

श्लोक

वासुदेव-जपासक्तान् अपि पाप-कृतो जनान् । नोपसर्पन्ति तान् विप्र यमदूताश् च दारुणाः ॥ ४७५ ॥

11.476

श्लोक

क्व नाक-पृष्ठ-गमनं पुनर्-आवृत्ति-लक्षणम् । क्व जपो वासुदेवेति मुक्ति-बीजम् अनुत्तमम् ॥ ४७६ ॥

11.477

श्लोक

प्रकीर्तिते नाग्निर् जनार्दनस्य ॥ ४७७ ॥

11.478

श्लोक

ते स-भाग्या मनुष्येषु कृतार्था नृप निश्चितम् । स्मरन्ति ये स्मारयन्ति हरेर् नाम कलौ युगे ॥ ४७८ ॥

11.479

श्लोक

प्रयाणे चाप्रयाणे च यन्-नाम-स्मरणान् नॄणाम् । सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥ ४७९ ॥

11.480

श्लोक

यन्-नाम-स्मरणाद् एव पापिनाम् अपि सत्वरम् । मुक्तिर् भवति जातूनां ब्रह्मादीनां सुदुर्लभा ॥ ४८० ॥

11.481

श्लोक

यद्-अनुध्यानदावाग्नि-दग्ध-कर्म-तृणः पुमान् । विशुद्धः पश्यति व्यक्तम् अव्यक्तम् अपि केशवम् ॥ ४८१ ॥

11.482

श्लोक

तद् अस्य नाम जीवस्य पतितस्य भवाम्बुधौ । हस्तावलम्ब-दानाय प्रवीणो नापरो हरेः ॥ ४८२ ॥

11.483

श्लोक

हरेर् नाम परं जप्यं ध्येयं गेयं निरन्तरम् । कीर्तनीयं च बहुधा निर्वृतीर् बहुधेच्छता ॥ ४८३ ॥

11.484

श्लोक

यन्-नाम-श्रवणेनापि महा-पातकिनोऽपि ये । पावनत्वं प्रपद्यन्ते कथं स्तोष्यामि खिन्न-धीः ॥ ४८४ ॥

11.485

श्लोक

श्रुतं सङ्कीर्तितं वापि हरेर् आश्चर्य-कर्मणः । दहत्य् एनांसि सर्वाणि प्रसङ्गात् किम् उ भक्तितः ॥ ४८५ ॥

11.486

श्लोक

न हि भगवन्न् अघटितम् इदं त्वद्-दर्शनान् नृणाम् अखिल-पाप-क्षयः । यन्-नाम सकृच् छ्रवणात् पुक्कशोऽपि विमुच्यते साक्षात् ॥ ४८६ ॥

11.487

श्लोक

श्रीमन्-नाम्नां च सर्वेषां माहात्म्येषु समेष्व् अपि । कृष्णस्यैवावतारेषु विशेषः कोऽपि कस्यचित् ॥ ४८७ ॥

11.488

श्लोक

सहस्र-नाम्नां पुण्यानां त्रिर्-आवृत्त्या तु यत् फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥ ४८८ ॥

11.489

श्लोक

इदं किरीटी संजप्य जयी पाशुपतास्त्र-भाक् । कृष्णस्य प्राण-भूतः सन् कृष्णं सारथिम् आप्तवान् ॥ ४८९ ॥

11.490

श्लोक

किम् इदं बहुना शंसन् मानुषानन्द-निर्भरः । ब्रह्मानन्दम् अवाप्यान्ते कृष्ण-सायुज्यम् आप्नुयात् ॥ ४९० ॥

11.491

श्लोक

तत्र गुह्यानि नामानि भविष्यन्ति मम प्रिये । पुण्यानि च पवित्राणि संसार-च्छेदनानि च ॥ ४९१ ॥

11.492

श्लोक

अतीताः पुरुषाः सप्त भविषाश् च चतुर्दश । नरस् तारयते सर्वान् कलौ कृष्णेति कीर्तनात् ॥ ४९२ ॥

11.493

श्लोक

कृष्ण कृष्णेति कृष्णेति स्वपन् जाग्रद् व्रजंस् तथा । यो जल्पति कलौ नित्यं कृष्ण-रूपी भवेद् धि सः ॥ ४९३ ॥

11.494

श्लोक

हनन् ब्राह्मणम् अत्यन्तं कामतो वा सुरां पिबन् । कृष्ण कृष्णेत्य् अहो-रात्रं सङ्कीर्त्य शुचिताम् इयात् ॥ ४९४ ॥

11.495

श्लोक

कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते । भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः ॥ ४९५ ॥

11.496

श्लोक

कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्त्वा यथा पद्मं नरकाद् उद्धराम्य् अहम् ॥ ४९६ ॥

11.497

श्लोक

संसार-सर्प-संदष्टं नष्ट-चेष्टैक-भेषजम् । कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः ॥ ४९७ ॥

11.498

श्लोक

नाम्नां मुख्यतरं नाम कृष्णाख्यं मे परन्तप । प्रायश्चित्तम् अशेषाणां पापानां मोचकं परम् ॥ ४९८ ॥

11.499

श्लोक

यत्र यत्र स्थितो वापि कृष्ण-कृष्णेति कीर्तयेत् । सर्व-पाप-विशुद्धात्मा स गच्छेत् परमां गतिम् ॥ ४९९ ॥

11.500

श्लोक

बल्लवी-कान्त किं तैस् तैर् उपायैः कृष्ण-नाम ते । किन्तु जिह्वाग्रगं जाग्रन् निरुन्धे हि महा-भयम् ॥ ५०० ॥