Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ११

नित्य-क्रिया-समापनः

11.301

श्लोक

महार्णवादौ पर्यङ्क-शायिनं च नरः स्मरेत् । बलभद्रं समृद्ध्य्-अर्थं सर्व-कर्माणि संस्मरेत् ॥ ३०१ ॥

11.302

श्लोक

जगत्-पतिम् अपत्यार्थं स्तुवान् भक्त्या न सीदति । श्रीशं सर्वाभ्युदयिके कर्मन्य् आशु प्रकीर्तयेत् ॥ ३०२ ॥

11.303

श्लोक

अरिष्टेषु ह्य् अशेषेषु विशोकं च सदा जपेत् । मरु-प्रपाताग्नि-जल-बन्धनादिषु मृत्युषु । स्वतन्त्र-परतन्त्रेषु वासुदेवं जपेद् बुधः ॥ ३०३ ॥

11.304

श्लोक

सर्वार्थ-शक्ति-युक्तस्य देव-देवस्य चक्रिणः । यथाभिरोचते नाम तत् सर्वार्थेषु कीर्तयेत् ॥ ३०४ ॥

11.305

श्लोक

सर्वार्थ-सिद्धिम् आप्नोति नाम्नाम् एकार्थता यथा । सर्वाण्य् एतानि नामानि परस्य ब्रह्मणो हरेः ॥ ३०५ ॥

11.306

श्लोक

कूर्मं वराहं मत्स्यं वा जल-प्रतरणे स्मरेत् । भ्राजिष्णुम् अग्नि-जनने जपेन् नाम त्व् अखण्डितम् ॥ ३०६ ॥

11.307

श्लोक

गरुडध्वजानुस्मरणाद् आपदो मुच्यते नरः । ज्वर-जुष्ट-शिरो-रोग-विष-वीर्यं च शम्यति ॥ ३०७ ॥

11.308

श्लोक

बलभद्रं तु युद्धार्थी कृश्यारम्भे हलायुधम् । उत्तरानां वाणिज्यार्थी रामम् अभ्युदये नृप ॥ ३०८ ॥

11.309

श्लोक

मङ्गल्यं मङ्गलं विष्णुं मङ्गल्येषु च कीर्तयेत् । उत्तिष्ठन् कीर्तयेद् विष्णुं प्रस्वपन् मधवं नरः । भोजने चैव गोविन्दं सर्वत्र मधुसूदनम् ॥ ३०९ ॥

11.310

श्लोक

औषधे चिन्तयेद् विष्णुं भोजने च जनार्दनम् । शयने पद्मनाभं च मैथुने च प्रजापतिम् ॥ ३१० ॥

11.311

श्लोक

सङ्ग्रामे चक्रिणं क्रुद्धं स्थान-भ्रंशे त्रिविक्रमम् । नारायणं वृषोत्सर्गे श्रीधरं प्रिय-सङ्गमे । जल-मध्ये च वाराहं पावके जलशायिनम् ॥ ३११ ॥

11.312

श्लोक

कानने नरसिंहं च पर्वते रघुनन्दनम् । दुःस्वप्ने स्मर गोविन्दं विशुद्धौ मधुसूदनम् । मायासु वामनं देवं सर्व-कार्येषु माधवम् ॥ ३१२ ॥

11.313

श्लोक

कीर्तयेद् वासुदेवं च अनुक्तेष्व् अपि यादव । कार्यारम्भे तथा राजन् यथेष्टं नाम कीर्तयेत् ॥ ३१३ ॥

11.314

श्लोक

सर्वेषु कार्येषु जपेत भक्त्या ॥ ३१४ ॥

11.315

श्लोक

अहो सु-निर्मल यूयं रागो हि हरि-कीर्तने । अविधूय तमः कृत्स्नं नृणाम् उदेति सूर्यवत् ॥ ३१५ ॥

11.316

श्लोक

पापानलस्य दीप्तस्य मा कुर्वन्तु भयं नराः । गोविन्द-नाम-मेघौघैर् नश्यते नीर-बिन्दुभिः ॥ ३१६ ॥

11.317

श्लोक

अवशेनापि यन्-नाम्नि कीर्तने सर्व-पातकैः । पुमान् विमुच्यते सद्यः सिंह-त्रस्तैर् मृगैर् इव ॥ ३१७ ॥

11.318

श्लोक

यन्-नाम-कीर्तनं भक्त्या विलापनम् अनुत्तमम् । मैत्रेयाशेष-पापानां धातूनाम् इव पावकः ॥ ३१८ ॥

11.319

श्लोक

किं चित्रं यद्-अघं प्रय्âति विलयं तत्राच्युते कीर्तिते ॥ ३१९ ॥

11.320

श्लोक

सायं प्रातस् तथा कृत्वा देव-देवस्य कीर्तनम् । सर्व-पाप-विनिर्मुक्तः स्वर्ग-लोके महीयते ॥ ३२० ॥

11.321

श्लोक

हरत्य् अशेषं श्रुत-मात्र एव ॥ ३२१ ॥

11.322

श्लोक

गोविन्देति तथा प्रोक्तं भक्त्या वा भक्ति-वर्जितैः । दहते सर्व-पापानि युगान्ताग्निर् इवोत्थितः ॥ ३२२ ॥

11.323

श्लोक

गोविन्द-नाम्ना यः कश्चिन् नरो भवति भू-तले । कीर्तनाद् एव तस्यापि पापं याति सहस्रधा ॥ ३२३ ॥

11.324

श्लोक

प्रमादाद् अपि संस्पृष्टो यथानल-कणो दहेत् । तथौष्ठ-पुट-संस्पृष्टं हरि-नाम दहेद् अघम् ॥ ३२४ ॥

11.325

श्लोक

नराणां विषयान्धानां ममताकुल-चेतसाम् । एकम् एव हरेर् नाम सर्व-पाप-विनाशनम् ॥ ३२५ ॥

11.326

श्लोक

न मम पट-लिपिं विशन्ति मर्त्याः ॥ ३२६ ॥

11.327

श्लोक

गोविन्द-नाम्ना निहतानि सद्यः ॥ ३२७ ॥

11.328

श्लोक

अनिच्छयापि दहति स्पृष्टो हुत-वहो यथा । तथा दहति गोविन्द-नाम व्याजाद् अपीरितम् ॥ ३२८ ॥

11.329

श्लोक

कीर्तनाद् एव कृष्णस्य विष्णोर् अमित-तेजसः । दुरितानि विलीयन्ते तमांसीव दिनोदये ॥ ३२९ ॥

11.330

श्लोक

नान्यत् पश्यामि जन्तूनां विहाय करि-कीर्तनम् । सर्व-पाप-प्रशमनं प्रायश्चित्तं द्विजोत्तम ॥ ३३० ॥

11.331

श्लोक

अयं हि कृत-निर्वेशो जन्म-कोट्य्-अंहसाम् अपि । यद् व्याजहार विवशो नाम स्वस्त्य्-अयनं हरेः ॥ ३३१ ॥

11.332

श्लोक

स्तेनः सुरा-पो मित्र-ध्रुग् ब्रह्म-हा गुरु-तल्प-गः । स्त्री-राज-पितृ-गो-हन्ता ये च पातकिनो ऽपरे ॥ ३३२ ॥

11.333

श्लोक

सर्वेषाम् अप्य् अघवताम् इदम् एव सुनिष्कृतम् । नाम-व्याहरणं विष्णोर् यतस् तद्-विषया मतिः ॥ ३३३ ॥

11.334

श्लोक

न निष्कृतैर् उदितैर् ब्रह्म-वादिभिस् तथा विशुद्ध्यत्य् अघवान् व्रतादिभिः । यथा हरेर् नाम-पदैर् उदाहृतैस् तद् उत्तमश्लोक-गुणोपलम्भकम् ॥ ३३४ ॥

11.335

श्लोक

साङ्केत्यं पारिहास्यं वा स्तोभं हेलनम् एव वा । वैकुण्ठ-नाम-ग्रहणम् अशेषाघ-हरं विदुः ॥ ३३५ ॥

11.336

श्लोक

पतितः स्खलितो भग्नः सन्दष्टस् तप्त आहतः । हरिर् इत्य् अवशेनाह पुमान् नार्हति यातनाः ॥ ३३६ ॥

11.337

श्लोक

अज्ञानाद् अथवा ज्ञानाद् उत्तमश्लोक-नाम यत् । सङ्कीर्तितम् अघं पुंसो दहेद् एधो यथानलः ॥ ३३७ ॥

11.338

श्लोक

ब्रह्म-हा पितृ-हा गो-घ्नो मातृ-हाचार्य-हाघवान् । श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ ३३८ ॥

11.339

श्लोक

वर्तमानं तु यत् पापं यद् भूतं यद् भविष्यति । तत् सर्वं निर्दहत्य् आशु गोविन्दानल-कीर्तनात् ॥ ३३९ ॥

11.340

श्लोक

सदा द्रोह-परो यस् तु सज्जनानां मही-तले । जायते पावनो धन्यो हरेर् नामानुकीर्तनात् ॥ ३४० ॥

11.341

श्लोक

वसन्ति यानि कोटिस् तु पावनानि महीतले । न तानि तत्-तुलां यान्ति कृष्ण-नामानुकीर्तने ॥ ३४१ ॥

11.342

श्लोक

नाम्नोऽस्य यावती शक्तिः पाप-निर्हरणे हरेः । तावत् कर्तुं न शक्नोति पातकं पातकी जनः ॥ ३४२ ॥

11.343

श्लोक

स्वादोऽपि न हि शक्नोति कर्तुं पापानि यत्नतः । तावन्ती यावती शक्तिर् विष्णोर् नाम्नोऽसुभ-क्षये ॥ ३४३ ॥

11.344

श्लोक

तन् नास्ति कर्मजं लोके वाग्-जं मानसम् एव वा । यन् न क्षपयते पापं कलौ गोविन्द-कीर्तनम् ॥ ३४४ ॥

11.345

श्लोक

शमायालं जलं वह्नेस् तमसो भस्करोदयः । शान्त्यै कलेर् अघौघस्य नाम-सङ्कीर्तनं हरेः ॥ ३४५ ॥

11.346

श्लोक

पापं निहत्य् आशु किम् अत्र चित्रम् ॥ ३४६ ॥

11.347

श्लोक

गोविन्द-नाम्ना भवतीह यादृक् ॥ ३४७ ॥

11.348

श्लोक

महा-पातक-युक्तोऽपि कीर्तयेन्न् अनिशं हरिम् । शुद्धान्तःकरणो भूत्वा जायते पङ्क्ति-पावनः ॥ ३४८ ॥

11.349

श्लोक

गोविन्देति मुदा युक्तः कीर्तयेद् यस् त्व् अनन्य-धीः । पावनेन च धन्येन तेनेयं पृथिवी धृता ॥ ३४९ ॥

11.350

श्लोक

न चैवम् एकं वक्तारं जिह्वा रक्षति वैष्णवी । आश्राव्य भगवत्-ख्यातिं जगत् कृत्स्नं पुनाति हि ॥ ३५० ॥

11.351

श्लोक

यन्-नाम गृह्णन्न् अखिलन् श्रोतॄन् आत्मानम् एव च । सद्यः पुनाति किं भूयस् तस्य स्पृष्टः पदा हि ते ॥ ३५१ ॥

11.352

श्लोक

ते सन्तः सर्व-भूतानां निरुपाधिक-बान्धवाः । ये नृसिंह भवन्-नाम गायन्त्य् उच्चैर् मुदान्विताः ॥ ३५२ ॥

11.353

श्लोक

अच्युतानन्द-गोविन्द-नामोच्चरण-भीषितः । नश्यन्ति सकला रोगाः सत्यं सत्यं वदाम्य् अहम् ॥ ३५३ ॥

11.354

श्लोक

न साम्ब व्याधिजं दुःखं हेयं नान्यौषधैर् अपि । हरि-नामौषधं पीत्वा व्याधिस् त्याज्यो न संशयः ॥ ३५४ ॥

11.355

श्लोक

आधयो व्याधयो यस्य स्मरणान् नाम-कीर्तनात् । तदैव विलयं यान्ति तम् अनन्तं नमाम्य् अहम् ॥ ३५५ ॥

11.356

श्लोक

महा-व्याधि-समाच्छन्नो राज-वधोपापिदितः । नारायणेति सङ्कीर्त्य निराटङ्को भवेन् नरः ॥ ३५६ ॥

11.357

श्लोक

सर्व-रोगोपशमनं सर्वोपद्रव-नाशनम् । शान्तिदं सर्वारिष्टानां हरेर् नामानुकीर्तनम् ॥ ३५७ ॥

11.358

श्लोक

सर्व-पाप-प्रशमनं सर्वोपद्रव-नाशनम् । सर्व-दुःख-क्षय-कारं हरि-नामानुकीर्तनम् ॥ ३५८ ॥

11.359

श्लोक

सङ्कीर्त्यमानो भगवान् अनन्तः श्रुतनुभावो व्यसनं हि पुंसाम् । प्रविश्य चित्तं विधुनोत्य् अशेषं यथा तमोऽर्कोऽभ्रम् इवाति-वातः ॥ ३५९ ॥

11.360

श्लोक

आर्ता विषण्णाः शिथिलाश् च भीता घोरेषु च व्याधिषु वर्तमानाः । सङ्कीर्त्य नारायण-शब्दम् एकं विमुक्त-दुःखाः सुखिनो भवन्ति ॥ ३६० ॥

11.361

श्लोक

कीर्तनद् देव-देवस्य विष्णोर् अमित-तेजसः । यक्ष-रक्षस-वेतल-भूत-प्रेत-विनयकः ॥ ३६१ ॥

11.362

श्लोक

दकिन्यो विद्रवन्ति स्म ये तथान्ये च सिंहकः । सर्वानर्थ-हरं तस्य नाम-सङ्कीर्तनं स्मृतम् ॥ ३६२ ॥

11.363

श्लोक

नाम-सङ्कीर्तनं कृत्वा क्षुट्-तृट्-प्रस्खलितादिषु । वियोगं शीघ्रम् आप्नोति सर्वानर्थैर् न संशयः ॥ ३६३ ॥

11.364

श्लोक

मोहानलोल्लसज्-ज्वाल-ज्वलल्-लोकेषु सर्वदा । यन्-नामाम्भोधर-च्छायां प्रविष्टो नैव दह्यते ॥ ३६४ ॥

11.365

श्लोक

कलि-काल-कुसर्पस्य तीक्ष्ण-दंष्ट्रस्य मा भयम् । गोविन्द-नाम-दावेन दग्धो यास्यति भस्मताम् ॥ ३६५ ॥

11.366

श्लोक

हरि-नाम-परा ये च घोरे कलि-युगे नराः । त एव कृत-कृत्याश् च न कलिर् बाधते हि तान् ॥ ३६६ ॥

11.367

श्लोक

हरे केशव गोविन्द वासुदेव जगन्-मय । इतीरयन्ति ते नित्यं न हि तान् बाधते कलिः ॥ ३६७ ॥

11.368

श्लोक

येऽहर्-निशं जगद्-धातुर् वासुदेवस्य कीर्तनम् । कुर्वन्ति तान् नर-व्याघ्र न कलिर् बाधते नरान् ॥ ३६८ ॥

11.369

श्लोक

यथा यथा हरेर् नाम कीर्तयन्ति स्म नारकाः । तथा तथा हरौ भक्तिम् उद्वहन्तो दिवं ययुः ॥ ३६९ ॥

11.370

श्लोक

नरके पच्यमानानां नराणां पाप-कर्मणाम् । मुक्तिः सञ्जायते तस्मान् नाम-सङ्कीर्तनाद् धरेः ॥ ३७० ॥

11.371

श्लोक

नातः परं कर्म-निबन्ध-कृन्तनं मुमुक्षतां तीर्थ-पदानुकीर्तनात् । न यत् पुनः कर्मसु सज्जते मनो रजस्-तमोभ्यां कलिलं ततोऽन्यथा ॥ ३७१ ॥

11.372

श्लोक

यन्-नाम-धेयं म्रियमाण आतुरः पतन् स्खलन् वा विवशो गृणन् पुमान् । विमुक्त-कर्मार्गल उत्तमां गतिं प्राप्नोति यक्ष्यन्ति न तं कलौ जनाः ॥ ३७२ ॥

11.373

श्लोक

उक्त्य कर्म-निबन्धेति तथा कर्मार्गलेति च । अवश्य-भोग्यतापत्तेः प्रारब्धे पर्यवस्यति ॥ ३७३ ॥

11.374

श्लोक

गोविन्देति जपन् जन्तुः प्रत्य्-अहं नियतेन्द्रियः । सर्व-पाप-विनिर्मुक्तः सुरवद् भासते नरः ॥ ३७४ ॥

11.375

श्लोक

मम नामानि लोकेऽस्मिन् श्रद्धया यस् तु कीर्तयेत् । तस्यापराध-कोटिस् तु क्षमाम्य् एव न संशयः ॥ ३७५ ॥

11.376

श्लोक

मन्त्रतस् तन्त्रतश् छिद्रं देश-कालार्ह-वस्तुतः । सर्वं करोति निश्छिद्रम् अनुसङ्कीर्तनं तव ॥ ३७६ ॥

11.377

श्लोक

यस्य स्मृत्या च नामोक्त्या तपो-यज्ञ-क्रियादिषु । न्यूनं सम्पूर्णताम् एति सद्यो वन्दे तम् अच्युतम् ॥ ३७७ ॥

11.378

श्लोक

र्ग्-वेदो हि यजुर्-वेदः साम-वेदोऽप्य् अथर्वणः । अधीतस् तेन येनोक्तं हरिर् इत्य् अक्षर-द्वयम् ॥ ३७८ ॥

11.379

श्लोक

मा ऋचो मा यजुस् तात मा साम पठ किंचन । गोविन्देति हरेर् नाम गेयं गायस्व नित्यशः ॥ ३७९ ॥

11.380

श्लोक

विष्णोर् एकैक-नामापि सर्व-वेदाधिकं मतम् । तदृङ्-नाम-सहस्रेण राम-नाम समं स्मृतम् ॥ ३८० ॥

11.381

श्लोक

कुरुक्षेत्रेण किं तस्य किं कस्य पुस्करेण वा । जिह्वाग्रे वसते यस्य हरिर् इत्य् अक्षर-द्वयम् ॥ ३८१ ॥

11.382

श्लोक

तीर्थ-कोटि-सहस्राणि तीर्थ-कोटि-शतानि च । तनि सर्वाण्य् अवाप्नोति विष्णोर् नामानुकीर्तनात् ॥ ३८२ ॥

11.383

श्लोक

विश्रुताणि बहून्य् एव तीर्थानि बहुधानि च । कोत्य्-अंशेनापि तुल्यानि नाम-कीर्तनतो हरेः ॥ ३८३ ॥

11.384

श्लोक

किं तात वेदागम-शास्त्र-विस्तरैस् तीर्थैर् अनेकैर् अपि किं प्रयोजनम् । यद्य् आत्मनो वाञ्छसि मुक्ति-कारणं गोविन्द गोविन्द इति स्फुतं रट ॥ ३८४ ॥

11.385

श्लोक

गो-कोटि-दानं ग्रहणे खगस्य प्रयाग-गङ्गोदक-कल्प-वासः । यज्ञायुतं मेरु-सुवर्ण-दानं गोविन्द-कीर्तेर् न समं शतांशैः ॥ ३८५ ॥

11.386

श्लोक

इष्ट-पूर्तानि कर्माणि सु-बहूनि कृतान्य् अपि । भव-हेतूनि तान्य् एव हरेर् नाम तु मुक्तिदम् ॥ ३८६ ॥

11.387

श्लोक

वाजपेय-सहस्राणां नित्यं फलम् अभीप्ससि । प्रातर् उत्थाय भूपाल कुरु गोविन्द-कीर्तनम् ॥ ३८७ ॥

11.388

श्लोक

किं करिष्यति साङ्ख्येन किं योगैर् नर-नायक । मुक्तिम् इच्छसि राजेन्द्र कुरु गोविन्द-कीर्तनम् ॥ ३८८ ॥

11.389

श्लोक

अहो बत श्वपचोऽतो गरीयान् यज्-जिह्वाग्रे वर्तते नाम तुभ्यम् । तेपुस् तपस् ते जुहुवुर् सस्नुर् अर्या ब्रह्मानूचुर् नाम गृह्णन्ति ये ते ॥ ३८९ ॥

11.390

श्लोक

एतत् सद्-वर्ग-हरणं रिपु-निग्रहणं परम् । अध्यात्म-मूलम् एतद् धि विष्णोर् नामानुकीर्तनम् ॥ ३९० ॥

11.391

श्लोक

हृदि कृत्वा तथा कामम् अभीष्टं द्विज-पुङ्गवः । एकं नाम जपेद् यस् तु शतं कामान् अवाप्नुयात् ॥ ३९१ ॥

11.392

श्लोक

सर्व-मङ्गल-मङ्गल्यम् आयुष्यं व्याधि-नाशनम् । भुक्ति-मुक्ति-प्रदं दिव्यं वासुदेवस्य कीर्तनम् ॥ ३९२ ॥

11.393

श्लोक

परिहासोपहासाद्यैर् विष्णोर् गृह्णन्ति नाम ते । कृतार्थास् तेऽपि मनुजास् तेभ्योऽपीह नमो नमः ॥ ३९३ ॥

11.394

श्लोक

ते धन्यास् ते कृतार्थाश् च तैर् एव सुकृतं कृतम् । तैर् आप्तं जन्मनः प्राप्यं ये काले कीर्तयन्ति माम् ॥ ३९४ ॥

11.395

श्लोक

सकृद् उच्चारयन्त्य् एतद् दुर्लभं चाकृतात्मनाम् । कलौ युगे हरेर् नाम ते कृतार्था न संशयः ॥ ३९५ ॥

11.396

श्लोक

कलिं सभाजयन्त्य् आर्या गुण-जाः सार-भागिनः । यत्र सङ्कीर्तनेनैव सर्वः स्वर्थोऽभिलभ्यते ॥ ३९६ ॥

11.397

श्लोक

तथा चैवोत्तमं लोके तपः श्री-हरि-कीर्तनम् । कलौ युगे विशेषेण विष्णु-प्रीत्यै समाचरेत् ॥ ३९७ ॥

11.398

श्लोक

दान-व्रत-तपस्-तीर्थ-यात्रादीनां च याः स्थिताः । शक्तयो देव-महतां सर्व-पाप-हराः शुभाः ॥ ३९८ ॥

11.399

श्लोक

राज-सूयाश्वमेधानां ज्ञानस्याध्यात्म-वस्तुनः । आकृष्य हरिणा सर्वाः स्थापिताः स्वेषु नामसु ॥ ३९९ ॥

11.400

श्लोक

वातोऽप्य् अतो हरेर् नाम्न उग्राणाम् अपि दुःसहः । सर्वेषां पाप-राशीनां यथैव तमसां रविः ॥ ४०० ॥