Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ११

नित्य-क्रिया-समापनः

11.201

श्लोक

संसारेऽस्मिन् महा-घोरे जन्म-मृत्यु-भयाकुले । पूजनं वासुदेवस्य तारकं वादिभिः स्म्र्तम् ॥ २०१ ॥

11.202

श्लोक

स नाम सुकृति लोके कुलं तेन ह्य् अलङ्कृतम् । आधारः सर्व-भूतानां येन विष्णुः प्रसदितः ॥ २०२ ॥

11.203

श्लोक

यज्ञानां तपसां चैव शुभानाम् अपि कर्मणाम् । तद् विशिष्ट-फलं नॄणां सदैवाराधनं हरेः ॥ २०३ ॥

11.204

श्लोक

कलौ कलि-मलाक्रान्ता न जानन्ति हरिं परम् । येऽर्चयन्ति तम् ईशानं कृत-कृत्यस् त एव हि । नास्ति श्रेयोत्तमं नॄणां विष्णोर् आराधनत् परम् ॥ २०४ ॥

11.205

श्लोक

युगेऽस्मिन् तमसे तस्मात् सततं हरिम् अर्चयेत् । अर्चिते देव-देवेसे शङ्ख-चक्र-गदा-धरे ॥ २०५ ॥

11.206

श्लोक

अर्चितः सर्व-देवाः स्युर् यतः सर्व-गतो हरिः । अर्चिते सर्व-लोकेशे सुरासुर-नमस्कृते । केशवे केशि-कंस-घ्ने न याति नरकं नरः ॥ २०६ ॥

11.207

श्लोक

सकृद् अभ्यर्चितो येन हेलयापि नमस्कृतः । स याति परमं स्थानं यत् सुरैर् अपि पूजितम् ॥ २०७ ॥

11.208

श्लोक

समस्त-लोक-नाथस्य देव-देवस्य शार्ङ्गिणः । साक्षाद् भगवतो नित्यं पूजनं जन्मनः फलम् ॥ २०८ ॥

11.209

श्लोक

असारे खलु संसारे सारम् एतन् निरूपितम् । समस्त-लोक-नाथस्य श्रद्धयाराधनं हरेः ॥ २०९ ॥

11.210

श्लोक

यत्र विष्णु-कथा नित्यं यत्र तिष्ठन्ति वैष्णवाः । कलि-बाह्या नरास् ते वै येऽर्चयन्ति सदा हरिम् ॥ २१० ॥

11.211

श्लोक

हरेर् आराधनं पुंसां किं किं न कुरुते बत । पुत्र-मित्र-कलत्रार्थं राज्य-स्वर्गापवर्ग-दम् ॥ २११ ॥

11.212

श्लोक

हरत्य् अघं ध्वम्सयति व्याधीन् आधीन् निरस्यति । धर्मं विवर्धयेत् क्षिप्रं प्रयच्छन्ति मनो-रथम् ॥ २१२ ॥

11.213

श्लोक

सकृद् अभ्यर्चितो येन देव-देवो जनार्दनः । स प्राप्नोति परं स्थानं सत्यम् एतन् मयोदितम् ॥ २१३ ॥

11.214

श्लोक

यस्यान्तः सर्वम् एवेदं यस्य नान्तो महात्मनः । तम् आराधय गोविन्दं स्थानम् आग्र्यं यद् इच्छसि ॥ २१४ ॥

11.215

श्लोक

परं ब्रह्म परं धाम योऽसौ सस्वत-पूरुषः । तम् आराध्य हरिं याति मुक्तिम् अप्य् अति-दुर्लभम् ॥ २१५ ॥

11.216

श्लोक

ऐन्द्रम् इन्द्रः परं स्थानं यम् आराध्य जगत्-पतिम् । प्राप यज्ञ-पतिं विष्णुं तम् आराधय सु-व्रत ॥ २१६ ॥

11.217

श्लोक

प्राप्नोत्य् आराधिते विष्णौ मनसा यद् यद् इच्छति । त्रैलोक्यान्तर्-गतं स्थानं किम् उ सर्वोत्तमोत्तमम् ॥ २१७ ॥

11.218

श्लोक

यन् यन् कामयते कामान् नारी वा पुरुषोऽपि वा । तन् समाप्नोति विपुलान् समाराध्य जनार्दनम् ॥ २१८ ॥

11.219

श्लोक

आराध्यैव नरो विष्णुं मनसा यद् यद् इच्छति । फलं प्राप्नोत्य् अविहतं भूरि स्वल्पम् अथापि वा ॥ २१९ ॥

11.220

श्लोक

अनाराधित-गोविन्दैर् नरैर् स्थानं नृपात्मज । न हि सम्प्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम् ॥ २२० ॥

11.221

श्लोक

भौमान् मनोरथान् स्वर्गं स्वर्ग-वन्द्यं तथास्पदम् । प्राप्नोत्य् आराधिते विष्णौ निर्वाणम् अपि चोत्तमम् ॥ २२१ ॥

11.222

श्लोक

यत्-पादोदकम् आधाय शिवः शिरसि नृत्यति । यन्-नाभि-नलिनाद् आसीद् ब्रह्मा लोक-पितामहः ॥ २२२ ॥

11.223

श्लोक

यद्-इच्छा-शक्ति-विक्षोभाद् ब्रह्मण्डोद्भव-सङ्क्षयौ । तम् आराधय गोविन्दं स्थानम् अग्र्यं यदीच्छसि ॥ २२३ ॥

11.224

श्लोक

यस् तु सम्पूजयेन् नित्यं नरसिंह नरेश्वर । स स्वर्ग-मोक्ष-भागी स्यान् नात्र कार्या विचारणा ॥ २२४ ॥

11.225

श्लोक

तस्माद् एक-मना भूत्वा यावज्-जीवं प्रतिज्ञया । अर्चनान् नरसिंहस्य सम्प्राप्नोत्य् अभिवाञ्छितम् ॥ २२५ ॥

11.226

श्लोक

नरके पच्यमानस् तु यमेन परिभाषितः । किं त्वया नार्चितो देवः केशवः क्लेश-नाशनः ॥ २२६ ॥

11.227

श्लोक

उदकेनाप्य् अलाभे तु द्रव्याणां पूजितः प्रभुः । यो ददाति स्वकं लोकं स त्वया किं न पूजितः ॥ २२७ ॥

11.228

श्लोक

नरसिंहो हृषीकेशः पुण्डरीक-निभेक्षणः । स्मरनान् मुक्ति-दो नृणां स त्वया किं न पूजितः ॥ २२८ ॥

11.229

श्लोक

यत्र पूजा-परो विष्णोस् तत्र विघ्नो न बाधते । राजा च तस्करश् चापि व्याधयश् च न सन्ति हि ॥ २२९ ॥

11.230

श्लोक

प्रेताः पिशाचाः कुष्माण्डा ग्रहा बालग्रहास् तथा । डाकिन्यो राक्षसाश् चैव न बाधन्तेऽच्युतर्चकम् ॥ २३० ॥

11.231

श्लोक

पत्रैः पुष्पैः फलैर् वार्च्य पूजा-रहितम् अच्युतम् । स याति विष्णु-सालोक्यं कुल-सप्तति-संयुतः ॥ २३१ ॥

11.232

श्लोक

उत्क्रान्ति-काले यन्-नाम श्रुतवन्तोऽपि वै सकृत् । लभन्ते परमं स्थानं किम् उ शुश्रूषणे रतः ॥ २३२ ॥

11.233

श्लोक

मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे । स याति परमं स्थानं किम् उ शुश्रूषणे रतः ॥ २३३ ॥

11.234

श्लोक

अवशेनापि यत् कर्म कृतं तु सु-महत् फलम् । ददाति नॄणां राजेन्द्र किं पुनः सम्यग्-अर्चना ॥ २३४ ॥

11.235

श्लोक

सम्पर्काद् यदि वा मोहाद् यस् तु पूजयते हरिम् । सर्व-पाप-विनिर्मुक्तः स याति परमं पदम् ॥ २३५ ॥

11.236

श्लोक

सर्वान्तराया नश्यन्ति मनः-सुद्धिश् च जायते । परं मोक्षं लभेच् चैव पूज्यमाने जनार्दने ॥ २३६ ॥

11.237

श्लोक

धर्मार्थ-काम-मोक्षाख्या पुरुषार्थाः सनातनाः । हरि-पूजा-पराणां तु सिध्यन्ते नात्र संशयः ॥ २३७ ॥

11.238

श्लोक

सर्व-तीर्थानि यज्ञाश् च साङ्गा वेदाश् च सत्तमाः । नारायणर्चनस्यैते कालं नर्हन्ति सोदसिम् ॥ २३८ ॥

11.239

श्लोक

सत्यं वच्मि हितं वच्मि सारं वच्मि पुनः पुनः । असारोदग्र-संसारे सारं यद् विष्णु-पूजनम् ॥ २३९ ॥

11.240

श्लोक

अकामाद् अपि ये विष्णोः सकृत् पूजां प्रकुर्वते न तेषाम् । भव-बन्धस् तु कदाचिद् अपि जायते ॥ २४० ॥

11.241

श्लोक

तस्मात् शृणुत विप्रेन्द्र देवो नारायणोऽव्ययः । जानतोऽजानतो वापि पूजकानां विमुक्ति-दः ॥ २४१ ॥

11.242

श्लोक

ते वन्द्यास् ते प्रपूज्याश् च नमस्कार्या विशेषतः । येऽर्चयन्ति महा-विष्णुं प्रपन्नार्ति-प्रणाशनम् ॥ २४२ ॥

11.243

श्लोक

ये यजन्ति स्पृहा-शून्या हरिं वा हरम् एव वा । त एव भुवनं सर्वं पुनन्ति विबुध-र्षभाः ॥ २४३ ॥

11.244

श्लोक

मद्-भक्तो यो मद्-अर्चां च करोति विधि-दृष्टये । तस्यान्तरायः स्वप्नेऽपि न भवत्य् अभयो हि सः ॥ २४४ ॥

11.245

श्लोक

पुत्रान् कलत्रान् दीर्घायू राज्यं स्वर्गापवर्गकम् । स दद्याद् ईप्सितं सर्वं भक्त्या सम्पूजितोऽजितः ॥ २४५ ॥

11.246

श्लोक

नरकेऽपि चिरं मग्नाः पूर्वजा ये कुल-द्वये । तत्रैव यान्ति ते स्वर्गं यदार्चेत सूतो हरिम् ॥ २४६ ॥

11.247

श्लोक

अनाराध्य हरिं भक्त्या को लोकान् प्राप्नुयाद् बुधः । आराधिते हरौ कामाः सर्वे कर-तल-स्थिताः ॥ २४७ ॥

11.248

श्लोक

सोऽपि धन्यतमो लोके योऽर्चयेद् अचुत्यं सकृत् । किं पुनः श्रद्धया युक्तः स-पुष्पैः प्रतिवासरम् ॥ २४८ ॥

11.249

श्लोक

वैष्णवान् अपि ये नित्यं प्रपश्यन्त्य् अर्चयन्ति च । तेऽपि विष्णु-पदं यान्ति किं पुनर् विष्णु-सेवकाः ॥ २४९ ॥

11.250

श्लोक

स योगी स विशुद्धात्मा स शान्तः स महा-मतिः । स शुद्धः स च सम्पूर्णः कृष्णं सेवेत यो नरः ॥ २५० ॥

11.251

श्लोक

अनन्य-मनसः शश्वद् गणयन्तोऽक्ष-मालया । जपन्तो राम-रामेति सुखामृत-निधौ मनः । प्रविलाप्यामृतीभूय सुखं तिष्ठन्ति केचन ॥ २५१ ॥

11.252

श्लोक

परिचर्या-पराः केचित् प्रासादादिषु शेरते । मनुष्यम् इव तं द्रष्टुं व्यवहर्तुं च बन्धुवत् ॥ २५२ ॥

11.253

श्लोक

यथा विधि-निषेधौ तु मुक्तं नविओपसर्पतः । तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥ २५३ ॥

11.254

श्लोक

एवं सतत-युक्ता ये भक्तास् त्वां पर्युपासते । ये चाप्य् अक्षरम् अव्यक्तं तेषां के योग-वित्तमाः ॥ २५४ ॥

11.255

श्लोक

मय्य् आवेश्य मनो ये मां नित्ययुक्ता उपासते । श्रद्धया परयोपेतास् ते मे युक्ततमा मताः ॥ २५५ ॥

11.256

श्लोक

यत्-पाद-सेवाभिरुचिस् तपस्विनाम् अशेष-जन्मोपचितं मलं धियः । सद्यः क्षिणोत्य् अन्वहम् एधती सती यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ २५६ ॥

11.257

श्लोक

यथा तरोर् मूल-निषेचनेन तृप्यन्ति तत्-स्कन्ध-भुजोपशाखाः । प्राणोपहाराच् च यथेन्द्रियाणां तथैव सर्वार्हणम् अच्युतेज्या ॥ २५७ ॥

11.258

श्लोक

मन्येऽकुतश्चिद्-भयम् अच्युतस्य पादाम्बुजोपासनम् अत्र नित्यम् । उद्विग्न-बुद्धेर् असद्-आत्म-भावाद् विश्वात्मना यत्र निवर्तते भीः ॥ २५८ ॥

11.259

श्लोक

एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः । अर्चन्न् उभयतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ २५९ ॥

11.260

श्लोक

माम् एव नैरपेक्ष्येण भक्ति-योगेन विन्दति । भक्ति-योगं स लभत एवं यः पूजयेत माम् ॥ २६० ॥

11.261

श्लोक

तुलसी-दल-मात्रेण जलस्य चुलुकेन च । विक्रीणीते स्वम् आत्मानं भक्तेभ्यो भक्त-वत्सलः ॥ २६१ ॥

11.262

श्लोक

मातृवत् परिरक्षन्तं सृष्टि-संहार-कारकम् । यो नार्चयति देवेशं तं विद्याद् ब्रह्म-घातकम् ॥ २६२ ॥

11.263

श्लोक

हरि-पूजा-विधानं तु यस्य वेश्मनि नो द्विजः । श्मशान-सदृशं विद्यान् न कदापि विशेच् च तत् ॥ २६३ ॥

11.264

श्लोक

पुष्पैर् वा यदि वा पत्रैह् फलैर् वा यदि वाम्बुभिः । यष्टव्यः पुण्डरीकाक्षस् त्यक्त्वा कार्य-शतानि च ॥ २६४ ॥

11.265

श्लोक

निमित्तेषु च सर्वेषु तत्-तत्-काल-विशेषतः । पूजयेद् देव-देवेशं द्रव्यं सम्पाद्य यत्नतः ॥ २६५ ॥

11.266

श्लोक

प्रतिष्ठितार्चा न त्याज्या यावज्-जीवं समर्चयेत् । वरं प्राणस्य वा त्यागः शिरसो वापि कर्त्तनम् ॥ २६६ ॥

11.267

श्लोक

पूजया नित्यतालेखि प्राक् च नैवेद्य-भक्षणे । माहात्म्यं च परं शालग्राम-चक्र-प्रसङ्गतः ॥ २६७ ॥

11.268

श्लोक

पूजाङ्गानां च माहात्म्यं यद् यद् विलिखितं पुरा । तत् सर्वम् इह पूजायां पर्यवस्यति हि स्वतः ॥ २६८ ॥

11.269

श्लोक

पूजा-महिम-मत्तेभाह् शास्त्रारण्य-विहारिणः । कीटेन कति सङ्ग्राह्याः प्रभावं श्री-हरेर् विना ॥ २६९ ॥

11.270

श्लोक

तन्-माहात्म्यं च विख्यातं सङ्क्षेपेनात्र लिख्यते ॥ २७० ॥

11.271

श्लोक

तत्र श्री-भगवन्-नाम-विशेषस्य च सेवनम् । ऋषिभिः कृपयादिष्टं तत्-तत्-काम-हतात्मनाम् ॥ २७१ ॥

11.272

श्लोक

जप्तं निहन्याद् अपि विप्र-हत्याम् ॥ २७२ ॥

11.273

श्लोक

श्री-पूर्वो नरसिंहो द्विर् जयाद् उत्तरतस् तु सः । त्रिः-सप्त-कृत्वो जपतो महाभय-निवारणः ॥ २७३ ॥

11.274

श्लोक

पुरुषं वासुदेवं च तथा सङ्कर्षणं विभुम् । प्रद्युम्नम् अनिरुद्धं च क्रमाद् अब्देषु कीर्तयेत् ॥ २७४ ॥

11.275

श्लोक

बलभद्रं तथा कृष्णं कीर्तयेद् अयन-द्वये । मधवं पुण्डरीकाक्षं तथा वै भोग-सयिनम् ॥ २७५ ॥

11.276

श्लोक

पद्मनाभं हृषीकेशं तथा देवं त्रिविक्रमम् । क्रमेन रज-सर्दुल वसन्तदिसु कीर्तयेत् ॥ २७६ ॥

11.277

श्लोक

विष्णुं च मधु-हन्तारं तथा देवं त्रिविक्रमम् । वामनं श्रीधरं चैव हृषीकेशं तथाइव च ॥ २७७ ॥

11.278

श्लोक

दामोदरं पद्मनाभं केशवं च यदूत्तमम् । नारायणं माधवं च गोविन्दं च तथा क्रमात् ॥ २७८ ॥

11.279

श्लोक

चैत्रादिषु च मासेषु देव-देवम् अनुस्मरेत् । प्रद्युम्नम् अनिरुद्धं च पक्षयोः कृष्ण-शुक्लयोः ॥ २७९ ॥

11.280

श्लोक

सर्वः शर्वः सिवः स्थाणुर् भूतादिर् निधिर् अव्ययः । अदित्यादिषु वरेषु क्रमाद् एवम् अनुस्मरेत् ॥ २८० ॥

11.281

श्लोक

विश्वं विष्णुर् वषट्-कारो भूत-भव्य-भवत्-प्रभुः । भूत-भृद् भूत-कृद् भवो भूतात्मा भूत-भवनः ॥ २८१ ॥

11.282

श्लोक

अव्यक्तः पुण्डरीकाक्षो विस्वकर्म सुचिस्रवः । सद्-भवो भवनो भर्त प्रभवः प्रभुर् इस्वरः ॥ २८२ ॥

11.283

श्लोक

अप्रमेयो हृषीकेशह् पद्मनभोऽमर-प्रभुः । अग्रह्यः सस्वतो धत कृष्णश् चैतन्य् अनुस्मरेत् । देव-देवस्य नामानि कृत्तिकदिसु यदव ॥ २८३ ॥

11.284

श्लोक

ब्रह्माणं श्री-पतिं विष्णुं कपिलं श्रीधरं प्रभुम् । दामोदरं हृषीकेशं गोविन्दं मधुसूदनम् ॥ २८४ ॥

11.285

श्लोक

भूधरं गदिनं देवं सङ्खिनं पद्मिनं तथा । चक्रिणं च महाराज प्रथमादिषु संस्मरेत् ॥ २८५ ॥

11.286

श्लोक

सर्वं वा सर्वदा नाम देव-देवस्य यादव ॥ २८६ ॥

11.287

श्लोक

ग्राह्यं यथेष्टं वरदस्य राजन् ॥ २८७ ॥

11.288

श्लोक

कामः काम-प्रदः कान्तः काम-पालस् तथा हरिः । आनन्दो माधवश् चैव काम-संसिद्धये जपेत् ॥ २८८ ॥

11.289

श्लोक

रामः परशुरामश् च नृसिंहो विष्णुर् एव च । विक्रमश् चैवम् आदीनि जप्यान्य् अरि-जिगीषुभिः ॥ २८९ ॥

11.290

श्लोक

विद्याम् अभ्यस्तता नित्यं जप्तव्यः पुरुषोत्तमः । दामोदरं बन्ध-गतो नित्यम् एव जपेन् नरः ॥ २९० ॥

11.291

श्लोक

केशवं पुण्डरीकाक्षम् अनिशं हि तथा जपेत् । नेत्र-बाधासु सर्वासु हृषीकेशं भयेषु च ॥ २९१ ॥

11.292

श्लोक

अच्युतं चामृतं चैव जपेद् औषध-कर्माणि । सङ्ग्रामाभिमुखो गच्छन् संस्मरेद् अपराजितम् ॥ २९२ ॥

11.293

श्लोक

चक्रिणं गदिनं चैव शार्ङ्गिणं खड्गिनं तथा । क्षेमार्थी प्रवसन् नित्यं दिक्षु प्रच्यादिषु स्मरेत् ॥ २९३ ॥

11.294

श्लोक

अजितं चाधिपं चैव सर्वं सर्वेश्वरं तथा । संस्मरेत् पुरुषो भक्त्या व्यवहारेषु सर्वदा ॥ २९४ ॥

11.295

श्लोक

नारायणं सर्व-कालं क्षुत-प्रस्खलनादिषु । ग्रह-नक्षत्र-पीडासु देव-बाधासु सर्वतः ॥ २९५ ॥

11.296

श्लोक

दस्यु-वैरि-निरोधेषु व्याघ्र-सिंहादि-सङ्कटे । अन्धाकारे तमस्-तीव्रे नरसिंहम् अनुस्मरेत् ॥ २९६ ॥

11.297

श्लोक

अग्नि-दाहे समुत्पन्ने संस्मरेज् जल-शायिनम् । गरुडध्वजानुस्मरनाद् विष-वीर्यं व्यपोहति ॥ २९७ ॥

11.298

श्लोक

स्नाने देवार्चने होमे प्रणिपाते प्रदक्षिने । कीर्तयेद् भगवन्-नाम वासुदेवेति तत्-परः ॥ २९८ ॥

11.299

श्लोक

स्थापने वित्त-धान्यादेर् अपध्याने च दुष्टजे । कुर्वीत तन्-मना भूत्वा अनन्ताच्युत-कीर्तनम् ॥ २९९ ॥

11.300

श्लोक

नारायणं शार्ङ्ग-धरं श्रीधरं पुरुषोत्तमम् । वामनं खड्गिनं चैव दुष्ट-स्वप्ने सदा स्मरेत् ॥ ३०० ॥