Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ११

नित्य-क्रिया-समापनः

11.101

श्लोक

नरः सुवर्ण-दानेन सर्वान् कामान् अवाप्नुयात् । रूप्यदो रूपम् आप्नोति विशेषाद् भुवि दुर्लभम् ॥ १०१ ॥

11.102

श्लोक

रत्न-दानेन लोकेषु प्रामाण्यम् उपगच्छति । अनड्वाह-प्रदानेन दश-धेनु-फलं लभेत् ॥ १०२ ॥

11.103

श्लोक

आज्ञा-विमहिषोष्ट्राणां दानम् अश्वतरस्य च । सहस्र-गुणितं दानात् पूर्व-प्रोक्तात् प्रकीर्तितम् ॥ १०३ ॥

11.104

श्लोक

वारुणं लोकम् आप्नोति दत्त्वा वस्तुं द्विजोत्तमाः । अविप्रदानाच् च तथा तम् एनं लोकम् अश्नुते ॥ १०४ ॥

11.105

श्लोक

उष्ट्रं वा गर्दभं वापि खरं वा यः प्रयच्छति । अलकां स समासाद्य यक्षेन्द्रैः सह मोदते ॥ १०५ ॥

11.106

श्लोक

आरण्य-मृग-जातीनां तथा दानाच् च पक्षिणाम् । अग्निष्टोमम् अवाप्नोति सुभगश् च तथा भवेत् ॥ १०६ ॥

11.107

श्लोक

दासं दत्त्वा सुखे लोके नेष्ट-भ्रष्टो विजायते । दासीं दत्त्वा तथा विप्रा नात्र कार्या विचारणा ॥ १०७ ॥

11.108

श्लोक

गणिकां ये प्रयच्छन्ति नृत्य-गीत-विशारदाम् । सर्व-दुःख-विनिर्मुक्तास् ते प्रयान्त्य् अमरावतीम् ॥ १०८ ॥

11.109

श्लोक

नृत्यं दत्त्वा तथ्âप्नोति रुद्र-लोकम् असंशयम् ॥ १०९ ॥

11.110

श्लोक

प्रेक्षणीय-प्रदानेन शक्र-लोके महीयते । गीतं दत्त्वा तथाप्नोति ब्रह्म-लोकम् असंशयम् ॥ ११० ॥

11.111

श्लोक

दुन्दुभिं ये प्रयच्छन्ति कीर्तिमन्तो भवन्ति ते ॥ १११ ॥

11.112

श्लोक

दत्त्वा धान्यानि बीजानि शस्यानि विविधानि च । रूपकानि च तान्य् एव प्राप्नुयात् सुर-पूज्यताम् ॥ ११२ ॥

11.113

श्लोक

दत्त्वा शाकानि रम्यानि विशोकस् त्व् अभिजायते । दत्त्वा च व्यञ्जनार्थाय तथोपकरणानि च ॥ ११३ ॥

11.114

श्लोक

पुष्प-वृक्षं तथा दत्त्वा देशस्याधिपतिर् भवेत् । फल-वृक्षं तथा नगराधिपतिर् भवेत् ॥ ११४ ॥

11.115

श्लोक

सुगन्ध-साधनानीह पट-वासानि यो नरः । ददाति देवदेवस्य सोऽश्वमेध-फलं लभेत् ॥ ११५ ॥

11.116

श्लोक

कङ्कतस्य प्रदानेन विरोमस् त्व् अभिजायते । कूर्च-प्रसाधनं कृत्वा परं मङ्गलम् अश्नुते ॥ ११६ ॥

11.117

श्लोक

विस्मापनीयं यत् किञ्चिद् दत्त्वात्यन्तं सुखं लभेत् ॥ ११७ ॥

11.118

श्लोक

वस्त्रालङ्करणादीनां कृष्णार्पण-फलं च यत् । उपचार-प्रयोगे प्राक् तत्र तत्र व्यलेखि तत् ॥ ११८ ॥

11.119

श्लोक

उपचाराश् च विविधाः श्रीमद्-भगवद्-अर्चने । शक्यशक्त्यादि-भेदेन तान्त्रिकैर् वैष्णविर् मताः ॥ ११९ ॥

11.120

श्लोक

आसन-स्वागते सार्घ्ये पाद्यम् आचमनीयकम् ।मधुपर्काचम-स्नान-वसनाभरणानि च ॥ १२० ॥

11.121

श्लोक

सुगन्ध-सुमनो-धूप-दीप-नैवेद्य-वन्दनम् । प्रयोजयेद् अरचनाज्ञाम् उपचारांस् तु षोडश ॥ १२१ ॥

11.122

श्लोक

अर्घ्यं च पाद्याचमन-मधुपर्काचमान्य् अपि । गन्धादयो निवेद्यान्ता उपचारा दश क्रमात् ॥ १२२ ॥

11.123

श्लोक

गन्धादिभिर् निवेद्यान्तैः पूजा पञ्चोपचारिकी । सपर्यास् त्रिविधाः प्रोक्तास् तासाम् एकां समाचरेत् ॥ १२३ ॥

11.124

श्लोक

आसनावाहनं चैव पाद्यार्घ्याचमनीयकम् । स्नानं वासो भूषणं च गन्धः पुष्पं च धूपकः ॥ १२४ ॥

11.125

श्लोक

प्रदीपश् चैव नैवेद्यं पुष्पाञ्जलिर् अतः परम् । प्रदक्षिणं नमस्कारो विसर्गश् चैव षोडश ॥ १२५ ॥

11.126

श्लोक

केचिच् चाहुश् चतुःषष्टिम् उपचारान् ममार्चने । तेष्व् अनेक-प्रकारेषु प्रकारैकोऽत्र लिख्यते ॥ १२६ ॥

11.127

श्लोक

सुख-सुप्तस्य कृष्णस्य प्रातर् आदौ प्रबोधनम् । वेद-घोषण-वीणा-विवाद्यैर् वन्दि-स्तवैर् अपि ॥ १२७ ॥

11.128

श्लोक

जय-शब्दा नमस्कारा मङ्गलारात्रिकं ततः । आसनं दन्त-काष्ठं च पाद्यार्घ्याचमनान्य् अपि ॥ १२८ ॥

11.129

श्लोक

ततश् च मधुपर्काढ्याचमनं पादुकार्पणम् । अङ्ग-मार्जनम् अभ्यङ्गोद्वर्तने स्नपनं जलः ॥ १२९ ॥

11.130

श्लोक

क्षीरेण दध्ना हविषा मधुना सितया तथा । मन्त्र-पूतैः पुनर् वार्भिर् अङ्ग-वासोऽथ वाससी ॥ १३० ॥

11.131

श्लोक

उपवीतं पुन¨च् चाचमनीयं चानुलेपनम् । भूषणं कुसुमं धूपो दीपो दृष्ट्य्-अपसारणम् ॥ १३१ ॥

11.132

श्लोक

नैवेद्यं मुख-वासस् तु ताम्बूलं शयनोत्तमम् । केश-प्रसाधनं दिव्य-वस्त्राणि मुकुटं महत् ॥ १३२ ॥

11.133

श्लोक

दिव्य-गन्धानुलेपश् च कौस्तुभादि-विभूषणम् । विचित्र-दिव्य-पुष्पाणि मङ्गलारात्रिकं ततः ॥ १३३ ॥

11.134

श्लोक

आदर्शः सुखयानेन मण्डपागमनोत्सवः । सिंहासनोपवेशश् च पाद्याद्यैः पुनर् अर्चनम् ॥ १३४ ॥

11.135

श्लोक

पुनर् धूपाद्य्-अर्पणेन प्राग्वन् नैवेद्यम् उत्तमम् । ततश् च दिव्य-ताम्बूल-महा-नीराजनं पुनः ॥ १३५ ॥

11.136

श्लोक

चामर-व्यजन-च्छत्रं गीतं वाद्यं च नर्तनम् । प्रदक्षिणं नमस्कारः स्तुतिः श्री-चरणाब्जयोः ॥ १३६ ॥

11.137

श्लोक

तयोश् च स्थापनं मूर्ध्नि तीर्थ-निर्माल्य-धारणम् । उच्छिष्ट-भोजनं पाद-सेवोद्देशोपवेशनम् ॥ १३७ ॥

11.138

श्लोक

नक्तं शय्या-विनिर्माणं दिव्यैर् विविध-साधनैः । हस्त-प्रदानं शयन-स्थानागम-महोत्सवः ॥ १३८ ॥

11.139

श्लोक

शय्योपवेशनं श्रीमत्-पाद-क्षालन-पूर्वकम् । गन्ध-प्रसून-ताम्बूलार्पण-नीराजनोत्सवः ॥ १३९ ॥

11.140

श्लोक

शेष-पर्यङ्क-शयन-पाद-संवाहनादिकम् । क्रमेणैते चतुः-षष्ठिर् उपचाराः प्रकीर्तिताः ॥ १४० ॥

11.141

श्लोक

सदाचारानुसारेण यद् यद् आचर्यते स्वयम् । नित्य-कर्मादिकं तत् तत् श्री-कृष्णस्यापि कारयेत् ॥ १४१ ॥

11.142

श्लोक

अतोऽत्रालिखितं यद् यद् उपचारादिकं परम् । सर्वं तत् तच् च जानीयाल् लोक-रीत्य्-अनुसारतः ॥ १४२ ॥

11.143

श्लोक

उक्तानां चोपचाराणाम् अभावे भगवान् सदा । भक्तेनार्च्यो यथा-लब्धैस् तैर् अन्तर्-भावितैर् अपि ॥ १४३ ॥

11.144

श्लोक

उपचारोक्त-वस्तूनाम् उपसङ्ग्रहणे विधिः । द्रव्याणाम् अप्य् अभावे तु पुष्पाक्षत-यवैः क्रियाः ॥ १४४ ॥

11.145

श्लोक

निर्मलेनोदकेनैव द्रव्य-सम्पूर्णता भवेत् ॥ १४५ ॥

11.146

श्लोक

तत् सर्वं मनसा बुद्ध्या पुष्प-क्षेपेण कल्पयेत् ॥ १४६ ॥

11.147

श्लोक

यद् असम्पन्नम् एतेषां मनसा तु प्रकल्पयेत् ॥ १४७ ॥

11.148

श्लोक

यद् यन् न्यूनं भवत्य् एव रामाराधन-साधनम् । तुलसी-दल-मात्रेण युक्तं तत् परिपूर्यते ॥ १४८ ॥

11.149

श्लोक

द्रव्यैः प्रसिद्धैर् मद्-यागः प्रतिमादिष्व् अमायिनः । भक्तस्य च यथा-लब्धैर् हृदि भावेन चैव हि ॥ १४९ ॥

11.150

श्लोक

ततोऽनुज्ञां प्रभोः प्रार्थ्य दण्डवत् तं प्रणम्य च । सायं भुक्त्वा यथान्यायं सुखं स्वप्यात् प्रभुं स्मरेत् ॥ १५० ॥

11.151

श्लोक

निर्गुणो निष्कलश् चैव विश्व-मूर्ति-धरोऽव्ययः । अनाद्यन्ते सदानन्ते फणा-मणि-विशोभिते । क्षीराब्धि-मध्ये यः शेते स मां रक्षतु माधवः ॥ १५१ ॥

11.152

श्लोक

स-बाह्याभ्यन्तरं देहम् आपाद-तल-मस्तकम् । सर्वात्मा सर्व-शक्तिश् च पातु मां गरुड-ध्वजः ॥ १५२ ॥

11.153

श्लोक

इति रक्षां पुरस्कृत्य स्वपेद् विष्णुम् अनुस्मरन् ॥ १५३ ॥

11.154

श्लोक

वस्त्रेणाङ्घ्रि-युगं प्रमृज्य शयनं त्व् आपाद्य सद्यः स्वपेत् ॥ १५४ ॥

11.155

श्लोक

रामं स्कन्दं हनुमन्तं वैनतेयं वृकोदरम् । शयने यः स्मरेन् नित्यं दुःस्वप्नस् तस्य नश्यति ॥ १५५ ॥

11.156

श्लोक

ऋतु-कालाभिगामी यः स्व-दार-निरतश् च यः । सर्वदा ब्रह्मचारीह विज्ञेयः स गृहाश्रमी ॥ १५६ ॥

11.157

श्लोक

ऋतुः षोडश-यामिन्यश् चतस्रस् तासु गर्हिताः । पुत्र-दास् तासु या युग्मा अयुग्माः कन्यका-प्रदाः ॥ १५७ ॥

11.158

श्लोक

त्यक्त्वा चन्द्रमसं दुष्टं मघां मूलं विहाय च । शुचिः सन्निर्विशेत् पत्नीं पुं-नामर्क्षे विशेषतः । शुचिं पुत्रं प्रसूयेत पुरुषार्थ-प्रसाधनम् ॥ १५८ ॥

11.159

श्लोक

कृत-पादादि-शौचश् च भुक्त्वा सायं ततो गृही । गच्छेच् छय्याम् अस्फुटिताम् एक-दारु-मयीं नृप ॥ १५९ ॥

11.160

श्लोक

नाविशालां न वै भग्नां नासमां मलिनां न च । न च जन्तु-मयीं शय्याम् अधितिष्ठेद् अनास्तृताम् ॥ १६० ॥

11.161

श्लोक

प्राच्यां दिशि शिरः शस्तं याम्यायाम् अथवा नृप । सदैव स्वपतः पुंसो विपरीतं तु रोगदम् ॥ १६१ ॥

11.162

श्लोक

ऋताव् उपगमः शस्तः स्वपत्न्याम् अवनीपते । पुन्नामर्क्षे शुभे काले ज्येष्ठ-युग्मासु रात्रिषु ॥ १६२ ॥

11.163

श्लोक

नानिष्टां न प्रकुपितां नाप्रशस्तां न गुर्विणीम् ॥ १६३ ॥

11.164

श्लोक

क्षुत्-क्षामाम् अतिभुक्तां वा स्वयं चैभिर् गुणैर् युतः ॥ १६४ ॥

11.165

श्लोक

स्नातः स्रग्-गन्ध-धृक्-प्रीतो नाध्यातः क्षुधितोऽपि वा । सकामः सानुरागश् च व्यवायं पुरुषो व्रजेत् ॥ १६५ ॥

11.166

श्लोक

चतुर्दश्य्-अष्टमी चैव अमावस्याथ पूर्णिमा । पर्वाण्य् एतानि राजेन्द्र रवि-सङ्क्रान्तिर् एव च ॥ १६६ ॥

11.167

श्लोक

तैल-स्त्री-मांस-सम्भोगी पर्वस्व् एतेषु वै पुमान् । विण्-मूत्र-भोजनं नाम प्रयाति नरकं नृप ॥ १६७ ॥

11.168

श्लोक

नान्य-योनाव् अयोनौ वा नोपयुक्तौषधस् तथा । देव-द्विज-गुरूणां च व्यवायी नाश्रमी भवेत् ॥ १६८ ॥

11.169

श्लोक

चैत्य-चत्वर-तीर्थेषु नैव गोष्ठे चतुष्पथे । नैव श्मशानोपवने सलिलेषु महीपते ॥ १६९ ॥

11.170

श्लोक

प्रोक्त-पर्व-स्व-शेषेषु नैव भूपाल सन्ध्ययोः । गच्छेद् व्यवायं मतिमान् न मूत्रोच्चार-पीडितः ॥ १७० ॥

11.171

श्लोक

पर-दारान् न गच्छेत मनसापि कदाचन । किम् उ वाचास्थि-बन्धोऽपि नास्ति तेषु व्यवायिनाम् ॥ १७१ ॥

11.172

श्लोक

मृतो नरकम् अभ्येति हीयते चात्र चायुषः । पर-दार-रतिः पुंसाम् उभयत्रापि भीतिदा ॥ १७२ ॥

11.173

श्लोक

यथोक्त-दोष-हीनेषु सकामेष्व् अनृताव् अपि ॥ १७३ ॥

11.174

श्लोक

तेषां भक्त्य्-उपयोगित्वं न स्याद् यद्यपि कर्मणाम् । तथापि कृत उल्लेखो गृहिष्व् आवश्यकं ततः ॥ १७४ ॥

11.175

श्लोक

इत्थं हि प्रातरु त्थानात् प्रत्यहं शयनावधि । श्री-कृष्णं पूजयन् सिद्ध-सर्वार्थोऽस्य प्रियो भवेत् ॥ १७५ ॥

11.176

श्लोक

न विष्ण्व्-आराधनात् पुण्यं विद्यते कर्म वैदिकम् । तस्माद् अनादि-मध्यान्तं नित्यम् आराधयेद् धरिम् ॥ १७६ ॥

11.177

श्लोक

येऽर्चयिष्यन्ति मां भक्त्या नित्यं कलि-युगे द्विजाः । विधिना वेद-दृष्टेन ते गमिष्यन्ति तत्-पदम् ॥ १७७ ॥

11.178

श्लोक

श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि । ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम् ॥ १७८ ॥

11.179

श्लोक

न मे ध्यान-रताः सम्यग्-योगिनः परितुष्टये । तथा भवन्ति देवर्षे क्रिया-योग-रता यथा ॥ १७९ ॥

11.180

श्लोक

क्रिया-योगो हि मेऽभीष्टः पर-योगात् स्वनुष्ठितात् । तुष्टिर् मे सम्भवेत् पुम्भिर् भक्तिमद्भिर् अमत्सरैः ॥ १८० ॥

11.181

श्लोक

येऽर्चयन्ति नरा नित्यं क्रिया-योग-रताः स्वयम् । ध्यायन्ति ये च मां नित्यं तेषां श्रेष्ठाः क्रिया मताः ॥ १८१ ॥

11.182

श्लोक

क्रिया-हीनस्य देवर्षे तथा ध्यानं न मुक्तिदम् । न तथा मां विदुर् विप्रा ध्यानिनस् तत्त्वतो विना । क्रिया-योग-रताः सम्यग् लभन्ते मां समाधिना ॥ १८२ ॥

11.183

श्लोक

यथा हि कामदं नॄणां मम तुष्टि-करं परम् । भक्तियोगं महापुण्यं भुक्ति-मुक्ति-प्रदं शुभम् ॥ १८३ ॥

11.184

श्लोक

संवत्सरेण यत् पुण्यं लभन्ते ध्यानिनो मम । प्राप्यन्ते तद् इहैकाहात् क्रिया-योग-परैर् नरैः ॥ १८४ ॥

11.185

श्लोक

न कर्म-सदृशं ध्यानं न कर्म-सदृशं फलम् । न कर्म-सदृशस् त्यागो न कर्म-सदृशं तपः । न कर्म-सदृशं पुण्यं न कर्म-सदृशी गतिः ॥ १८५ ॥

11.186

श्लोक

भक्ति-ग्राह्यो हृषीकेशो न धनैर् धरणी-धर । भक्त्या संपूजितो विष्णुः प्रददाति मनोरथम् ॥ १८६ ॥

11.187

श्लोक

तस्माद् विप्राः सदा भक्तिः कर्तव्या चक्र-पाणिनः । जनेनापि जगन्नाथः पूजितः क्लेशहा भवेत् ॥ १८७ ॥

11.188

श्लोक

कृतापि दम्भ-हास्यार्थे सेवा तारयते जनान् । विफला नान्य-कर्मेव कृपालुः को न्व् अतः परः ॥ १८८ ॥

11.189

श्लोक

स समाराधितो देवो मुक्ति-कृत् स्याद् यथा तथा । अनिच्छयापि हुत-भुक् संस्पृष्टो दहति द्विज ॥ १८९ ॥

11.190

श्लोक

धनवान् पुत्रवान् भोगी यशस्वी भय-वर्जितः । मेधावी मतिमान् प्राज्ञो भवत्य् आराधनाद् धरेः ॥ १९० ॥

11.191

श्लोक

विशिष्टः सर्व-धर्माच् च धर्मो विष्ण्व्-अर्चनं नॄणाम् । सर्व-यज्ञ-तपो-होमस् तीर्थ-स्नानैश् च यत् फलम् ॥ १९१ ॥

11.192

श्लोक

तत् फलं कोटि-गुणितं विष्णुं सम्पूज्य चाप्नुयात् । तस्मात् सर्व-प्रयत्नेन नारायणम् इहार्चयेत् ॥ १९२ ॥

11.193

श्लोक

यः प्रदद्यद् द्विजेन्द्रय सर्वं भुमिं स-सगरम् । अर्चयेद् यः सकृद् विष्णुं तत् फलं लभते नरः ॥ १९३ ॥

11.194

श्लोक

मसर्धम् अपि यो विष्णुं नैरन्तर्येन पूजयेत् । पुरुषोत्तमः स विज्ञेयो विष्णु-भक्तो न संशयः ॥ १९४ ॥

11.195

श्लोक

मध्यन्दिन-गते सुर्ये यो विष्णुं परिपूजयेत् । वसु-पूर्ण-महि-दतुर् यत् पुन्यं तद् अवाप्नुयात् ॥ १९५ ॥

11.196

श्लोक

प्रातर् उत्थय यो विष्णुं सततं परिपूजयेत् । अग्निस्तोम-सहस्रस्य लभते फलम् उत्तमम् ॥ १९६ ॥

11.197

श्लोक

यो विष्णुं प्रयतो भूत्वा सयंकले समर्चयेत् । गवं मेधस्य यज्ञस्य फलम् आप्नोति दुर्लभम् ॥ १९७ ॥

11.198

श्लोक

एवं सर्वासु वेलासु अवेलासु च केशवम् । सम्पूजयन् नरो भक्त्या सर्वान् कामान् अवाप्नुयात् ॥ १९८ ॥

11.199

श्लोक

किं पुनर् योऽर्चयेन् नित्यं सर्व-देव-नमस्कृतम् । धन्यः सः कृत-कृत्यश् च विष्णु-लोकम् अवाप्नुयात् ॥ १९९ ॥

11.200

श्लोक

दीक्षा-मात्रेण कृष्णस्य नरा मोक्षं लभन्ति वै । किं पुनर् ये सदा भक्त्या पूजयन्त्य् अच्युतं नरः ॥ २०० ॥