Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १०

दशम-विलासः

10.401

श्लोक

यस्यां वै श्रूयमाणायां कृष्णे परम-पूरुषे । भक्तिर् उत्पद्यते पुंसः शोक-मोह-भयापहा ॥ ४०१ ॥

10.402

श्लोक

परिनिष्ठितो ऽपि नैर्गुण्य उत्तम-श्लोक-लीलया । गृहीत-चेता राजर्षे आख्यानं यद् अधीतवान् ॥ ४०२ ॥

10.403

श्लोक

राजन्ते तावद् अन्यानि पुराणानि सतां गणे । यावद् भागवतं नैव श्रूयते ऽमृत-सागरम् ॥ ४०३ ॥

10.404

श्लोक

राजन्ते तावद् अन्यानि पुराणानि सतां गणे । यावद् भागवतं नैव श्रूयतेऽमृत-सागरः ॥ ४०४ ॥

10.405

श्लोक

सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते । तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ ४०५ ॥

10.406

श्लोक

निम्न-गानां यथा गङ्गा देवानाम् अच्युतो यथा । वैष्णवानां यथा शम्भुः पुराणानाम् इदं तथा ॥ ४०६ ॥

10.407

श्लोक

तच् छृण्वन् सु-पठन् विचारण-परो भक्त्या विमुच्येन् नरः ॥ ४०७ ॥

10.408

श्लोक

मुहुर् अहो रसिका भुवि भावुकाः ॥ ४०८ ॥

10.409

श्लोक

तं व्यास-सूनुम् उपयामि गुरुं मुनीनाम् ॥ ४०९ ॥

10.410

श्लोक

भगवद्-धर्म-वक्तारं भगवच्-छास्त्र-वाचकम् । वैष्णवं गुरुवद् भक्त्या पूजयेज् ज्ञान-दायकम् ॥ ४१० ॥

10.411

श्लोक

वैष्णवं ज्ञान-वक्तारं यो विद्याद् विष्णुवद् गुरुम् । पूजयेद् वाङ्-मनः-कायैः स शास्त्रज्ञः स वैष्णवः ॥ ४११ ॥

10.412

श्लोक

श्लोक-पादस्य वक्तापि यः पूज्यः स सदैव हि । किं पुनर् भगवद्-विष्णोः स्वरूपं वितनोति यः ॥ ४१२ ॥

10.413

श्लोक

नारायणः परं ब्रह्म तज्-ज्ञानेनाथ गम्यते । ज्ञानस्य साधनं शास्त्रं शास्त्रं च गुरु-वक्तृगम् ॥ ४१३ ॥

10.414

श्लोक

ब्रह्म प्राप्तिर् अतो हेतोर् गुर्व्-अधीना सदैव हि । हेतुनानेन वै विप्रा गुरुर् गुरुतरः स्मृतः ॥ ४१४ ॥

10.415

श्लोक

यस्माद् देवो जगन्नाथः कृत्वा मर्यमयीं तनुम् । मग्नान् उद्धरते लोकान् कारुण्याच् छास्त्र-पाणिना ॥ ४१५ ॥

10.416

श्लोक

तस्माद् भक्तिर् गुरौ कार्या संसार-भय-भीरुणा । शास्त्र-ज्ञानेन योऽज्ञानं तिमिरं विनिपातयेत् ॥ ४१६ ॥

10.417

श्लोक

शास्त्रं पाप-हरं पुण्यं पवित्रं भोग-मोक्षदम् । शान्तिदं च महार्थं च वक्ति यः स जगद्-गुरुः ॥ ४१७ ॥

10.418

श्लोक

तेषां क्षीणं महत् पापं वर्ष-कोटि-शतोद्भवम् । विप्रेन्द्र नास्ति सन्देहो ये शृण्वन्ति हरेः कथाम् ॥ ४१८ ॥

10.419

श्लोक

सर्वाश्रमाभिगमनं सर्व-तीर्थावगाहनम् । न तथा पारणं नॄणां नारायण-कथा यथा ॥ ४१९ ॥

10.420

श्लोक

अहो हरि-कथा लोके पाप-घ्नी पुण्य-दायिनी । शृण्वतां वदतां चैव तद्-भक्तानां विशेषतः ॥ ४२० ॥

10.421

श्लोक

शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः । हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् ॥ ४२१ ॥

10.422

श्लोक

सच्-छ्रद्धया श्रवण-सम्भृतया यथा स्यात् ॥ ४२२ ॥

10.423

श्लोक

नैषातिदुःसहा क्षुन् मां त्यक्तोदम् अपि बाधते । पिबन्तं त्वन्-मुखाम्भोज- च्युतं हरि-कथामृतम् ॥ ४२३ ॥

10.424

श्लोक

श्री-प्रदं विष्णु-चरितं सर्वोपद्रव-नाशनम् । सर्व-दुःखोपशमनं दुष्ट-ग्रह-निवारणम् ॥ ४२४ ॥

10.425

श्लोक

श्रोतव्यं साधु-चरितं यशो-धर्म-जयार्थिभिः । पाप-क्षयार्थं देवर्षे स्वर्गार्थं धर्म-बुद्धिभिः ॥ ४२५ ॥

10.426

श्लोक

आयुष्यामारोग्यकरं यशस्यं पुण्य-वर्धनम् । चरितं वैष्णवं नित्यं श्रोतव्यं साधु-बुद्धिना ॥ ४२६ ॥

10.427

श्लोक

कुटुम्ब-वृद्धिं विजयं शत्रु-नाशं बलम् । करोति विष्णु-चरितं सर्व-काल-फल-प्रदम् ॥ ४२७ ॥

10.428

श्लोक

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः । नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ ४२८ ॥

10.429

श्लोक

कथा-सुधायाम् उपसम्प्रयोगम् ॥ ४२९ ॥

10.430

श्लोक

आयुर् हरति वै पुंसाम् उद्यन्न् अस्तं च यन्न् असौ । तस्यर्ते यत्-क्षणो नीत उत्तम-श्लोक-वार्तया ॥ ४३० ॥

10.431

श्लोक

समस्त-दुःखाप्ययम् आशु धत्ते ॥ ४३१ ॥

10.432

श्लोक

यावद् गदाग्रज-कथासु रतिं न कुर्यात् ॥ ४३२ ॥

10.433

श्लोक

तव विक्रीडितं कृष्ण नृणां परम-मङ्गलम् । कर्ण-पीयूषम् आसाद्य त्यजन्त्य् अन्य-स्पृहां जनाः ॥ ४३३ ॥

10.434

श्लोक

गृहेष्व् आविशतां चापि पुंसां कुशल-कर्मणाम् । मद्-वार्ता-यात-यामानां न बन्धाय गृहा मताः ॥ ४३४ ॥

10.435

श्लोक

धर्मार्थ-काम-मोक्षाणां यद् इष्टं च नॄणाम् इह । तत् सर्वं लभते वत्स कथां श्रुत्वा हरेः सदा ॥ ४३५ ॥

10.436

श्लोक

पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥ ४३६ ॥

10.437

श्लोक

नित्यं कृष्ण-कथा यस्य प्राणाद् अपि गरीयसी । न तस्य दुर्लभं किञ्चिद् इह लोके परत्र च ॥ ४३७ ॥

10.438

श्लोक

को निर्वृतो हरि-कथासु रतिं न कुर्यात् ॥ ४३८ ॥

10.439

श्लोक

चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ ४३९ ॥

10.440

श्लोक

सभाजयन्ते मम पौरुषाणि ॥ ४४० ॥

10.441

श्लोक

व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥ ४४१ ॥

10.442

श्लोक

यथाञ्जसान्वीयुर् अकुण्ठ-धिष्ण्यम् ॥ ४४२ ॥

10.443

श्लोक

ये शृण्वन्ति कथां विष्णोर् ये पठन्ति हरेः कथाम् । कलायुतं नावलोक्यं गतास् ते ब्रह्म शाश्वतम् ॥ ४४३ ॥

10.444

श्लोक

यस्य विष्णु-कथालापैर् नित्यं प्रमुदितं मनः । तस्य न च्यवते लक्ष्मीस् तत्-पदं च करे स्थितम् ॥ ४४४ ॥

10.445

श्लोक

कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ ४४५ ॥

10.446

श्लोक

यत्र यत्र मही-पाल वैष्णवी वर्तते कथा । तत्र तत्र हरिर् याति गौर् यथा सुत-वत्सला ॥ ४४६ ॥

10.447

श्लोक

मत्-कथा-वाचकं नित्यं मत्-कथा-श्रवणे रतम् ।मत्-कथा-प्रीत-मनसं नाहम् त्यक्ष्यामि तं नरम् ॥ ४४७ ॥

10.448

श्लोक

ये प्रायशो ञ्जित जितो ऽप्य् असि तैस् त्रि-लोक्याम् ॥ ४४८ ॥

10.449

श्लोक

कीर्तन्य-तीर्थ-यशसः कुशला रस-ज्ञाः ॥ ४४९ ॥

10.450

श्लोक

न निष्क्रामति ब्रह्म-सम्पन्नवन् नः ॥ ४५० ॥

10.451

श्लोक

वयं तु न वितृप्याम उत्तम-श्लोक-विक्रमे । यच्-छृण्वतां रस-ज्ञानां स्वादु स्वादु पदे पदे ॥ ४५१ ॥

10.452

श्लोक

योगेश्वरा ये भव-पाद्म-मुख्याः ॥ ४५२ ॥

10.453

श्लोक

सुश्लोक-मौलेश् चरितामृतानि ॥ ४५३ ॥

10.454

श्लोक

ब्रह्मन् कृष्ण-कथाः पुण्या माध्वीर् लोक-मलापहाः । को नु तृप्येत शृण्वानः श्रुत-ज्ञो नित्य-नूतनः ॥ ४५४ ॥

10.455

श्लोक

विधत्स्व कर्णायुतम् एष मे वरः ॥ ४५५ ॥

10.456

श्लोक

श्रेयो-निधीन् अधिक-भाव-भुजो भजन्ति ॥ ४५६ ॥

10.457

श्लोक

या याः कथा भगवतः कथनीयोरु-कर्मणः । गुण-कर्माश्रयाः पुम्भिः संसेव्यास् ता बुभूषुभिः ॥ ४५७ ॥

10.458

श्लोक

श्रूयाद् अमुष्य पदयोर् अनुवृत्तिम् इच्छन् ॥ ४५८ ॥

10.459

श्लोक

अतः कृष्ण-कथायां तु सत्याम् अन्य-कथा-श्रुतिम् । तद् अश्रुतिं च वैमुख्यं तस्यां तृप्तिम् अपि त्यजेत् ॥ ४५९ ॥

10.460

श्लोक

नूनं दैवेन विहता ये चाच्युत-कथा-सुधाम् । हित्वा शृण्वन्त्य् असद्-गाथाः पुरीषम् इव विड्-भुजः ॥ ४६० ॥

10.461

श्लोक

तांस् तान् क्षिपन्त्य् अशरणेषु तमःसु हन्त ॥ ४६१ ॥

10.462

श्लोक

वाच्यमानं तु ये शास्त्रं वैष्णवं पुरुषाधमाः । न शृण्वन्ति मुनि-श्रेष्ठ तेषां स्वामी सदा यमः ॥ ४६२ ॥

10.463

श्लोक

न शृण्वन्ति न हृष्यन्ति वैष्णवीं प्राप्य ये कथाम् । धम आयुर् यशो धर्मः सन्तानश् चैव नश्यति ॥ ४६३ ॥

10.464

श्लोक

न शृणोति हरेर् यस् तु कथां पाप-प्रणाशिनीम् । अचिराद् एव देवर्षे समूलं तु विनश्यति ॥ ४६४ ॥

10.465

श्लोक

न चोपगायत्य् उरुगाय-गाथाः ॥ ४६५ ॥

10.466

श्लोक

लोभाभिभूत-मनसो ऽकुशलानि शश्वत् ॥ ४६६ ॥

10.467

श्लोक

आयुर् वृथा-वाद-गति-स्मृतीनाम् ॥ ४६७ ॥

10.468

श्लोक

अहो विरज्येत विना नरेतरम् ॥ ४६८ ॥

10.469

श्लोक

श्रीर् यत् प्रवव्रे गुण-सङ्ग्रहेच्छया ॥ ४६९ ॥

10.470

श्लोक

पुमान् विरज्येत विना पशुघ्नात् ॥ ४७० ॥

10.471

श्लोक

सुरेश-लोको ऽपि न वै स सेव्यताम् ॥ ४७१ ॥

10.472

श्लोक

अतो निषेव्यमाणां च सर्वथा भगवत्-कथाम् । मुहुस् तद्-रसिकान् पृच्छेन् मिथो मोद-विवृद्धये ॥ ४७२ ॥

10.473

श्लोक

स्त्रिया विटानाम् इव साधु वार्ता ॥ ४७३ ॥

10.474

श्लोक

तुल्य-श्रुत-तपः-शीलास् तुल्य-स्वीयारि-मध्यमाः । अपि चक्रुः प्रवचनम् एकं शुश्रूषवो ऽपरे ॥ ४७४ ॥

10.475

श्लोक

तथा वैष्णव-धर्मांश् च क्रियमानाम् अपि स्वयम् । सम्पृच्छेत् तद्-विदः साधून् अन्योन्य-प्रीति-वृद्धये ॥ ४७५ ॥

10.476

श्लोक

श्रद्धया भगवद्-धर्मान् वैष्णवायानुपृच्छते । अवश्यं कथयेद् विद्वान् अन्यथा दोष-भाग् भवेत् ॥ ४७६ ॥

10.477

श्लोक

नाख्याति वैष्णवं धर्मं विष्णु-भक्तस्य पृच्छतः । कलौ भागवतो भूत्वा पुण्यं याति शताब्दिकम् ॥ ४७७ ॥

10.478

श्लोक

वैष्णवे वैष्णवं धर्मं यो ददाति द्विजोत्तमः । स-सागर-मही-दाने यत् फलं लभतेऽधिकम् ॥ ४७८ ॥

10.479

श्लोक

अज्ञानाय च यो ज्ञानं दद्याद् धर्मोपदेशनम् । कृत्स्नां वा पृथिवीं दद्यात् तेन तुल्यं हि तत् स्मृतम् ॥ ४७९ ॥

10.480

श्लोक

तत् कथां श्रावयेद् यस् तु तद्-भक्तान् मानवोत्तमः । गो-दान-फलम् आप्नोति स नरस् तेन कर्मणा ॥ ४८० ॥

10.481

श्लोक

ज्ञानम् अज्ञाय यो दद्याद् वेद-शास्त्र-समुद्भवम् । अपि देवास् तम् अर्चन्ति भव-बन्ध-विदारकम् ॥ ४८१ ॥

10.482

श्लोक

देहावसानेऽच्युत-तुल्य-तेजाः ॥ ४८२ ॥

10.483

श्लोक

ते च श्री-भगवद्-धर्मा भगवद्-भक्त-लक्षणैः । व्यञ्जिताः कतिचिन् मुख्या लिख्यन्तेऽत्र परेऽपि ते ॥ ४८३ ॥

10.484

श्लोक

ते तु यद्यपि विख्याताः श्रीमद्-भागवतादिषु । तथापि यत्नाद् एकत्र सङ्गृह्यन्ते समाधनाः ॥ ४८४ ॥

10.485

श्लोक

अद्य प्रभृति कर्तव्यं यन् मया कृष्ण तच् छृणु । एकादश्यां न भोक्तव्यं कर्तव्यो जागरः सदा ॥ ४८५ ॥

10.486

श्लोक

महोत्सवः प्रकर्तव्यः प्रत्यह-पूजनं तव । पलार्धेनापि बिद्धं तु भोक्तव्यं वासरान्तरे ॥ ४८६ ॥

10.487

श्लोक

त्वत्-प्रीत्याष्टौ मया कार्या द्वादश्यो व्रत-संयुता । भक्तिर् भागवती कार्या प्राणैर् अपि धनैर् अपि ॥ ४८७ ॥

10.488

श्लोक

नित्यं नाम-सहस्रं तु पठनीयं तव प्रियम् । पूजा तु तुलसी-पत्रैर् मया कार्या सदैव हि ॥ ४८८ ॥

10.489

श्लोक

तुलसी-काष्ठा-सम्भूता माला कार्या सदा मया । नृत्य-गीतं प्रकर्तव्यं सम्प्राप्ते जागरे तव ॥ ४८९ ॥

10.490

श्लोक

तुलसी-काष्ठा-सम्भूत-चन्दनेन विलेपनम् । करिष्यामि तवाग्रे च गुणानां तव कीर्तनम् ॥ ४९० ॥

10.491

श्लोक

मथुरायां प्रकर्तव्यं प्रत्यब्दं गमनं मया । तत्-कथा-श्रवणं कार्यं तथा पुस्तक-वाचनम् ॥ ४९१ ॥

10.492

श्लोक

नित्यं पादोदकं मूर्ध्ना मया धार्यं प्रयत्नतः । नैवेद्य-भक्षणं चापि करिष्यामि यत-व्रतः ॥ ४९२ ॥

10.493

श्लोक

निर्माल्यं शिरसा धार्यं त्वदीयं सादरं मया । तव दत्त्वा यद् इष्टं तु भक्षणीयं मुदा मया ॥ ४९३ ॥

10.494

श्लोक

तथा तथा प्रकर्तव्यं तव तुष्टिः प्रजायते । सत्यम् एतन् मया कृष्ण तवाग्रे परिकीर्तनम् ॥ ४९४ ॥

10.495

श्लोक

गुरु-शुश्रूषया भक्त्या सर्व-लब्धार्पणेन च ॥ श्रद्धया तत्-कथायां च कीर्तनैर् गुण-कर्मणाम् । तत्-पादाम्बुरुह-ध्यानात् तल्-लिङ्गेक्षार्हणादिभिः ॥ ४९५ ॥

10.496

श्लोक

हरिः सर्वेषु भूतेषु भगवान् आस्त ईश्वरः । इति भूतानि मनसा कामैस् तैः साधु मानयेत् ॥ ४९६ ॥

10.497

श्लोक

ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये । अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ ४९७ ॥

10.498

श्लोक

सर्वतो मनसो ऽसङ्गम् आदौ सङ्गं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेष्व् अद्धा यथोचितम् ॥ ४९८ ॥

10.499

श्लोक

शौचं तपस् तितिक्षां च मौनं स्वाध्यायम् आर्जवम् । ब्रह्म-चर्यम् अहिंसां च समत्वं द्वन्द्व-संज्ञयोः ॥ ४९९ ॥

10.500

श्लोक

सर्वत्रात्मेश्वरान्वीक्षां कैवल्यम् अनिकेतताम् । विविक्त-चीर-वसनं सन्तोषं येन केनचित् ॥ ५०० ॥