Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १०

दशम-विलासः

10.301

श्लोक

भगवद्-भक्ति-हीना ये मुख्याऽसन्तस् त एव हि । तेषां निष्ठा शुभा क्वापि न स्यात् सच्-चरितैर् अपि ॥ ३०१ ॥

10.302

श्लोक

किं वेदैः किम् उ वा शास्त्रैः किम् उ तीर्थ-निषेवणैः । विष्णु-भक्ति-विहीनानां किं तपोभिः किम् अध्वरैः ॥ ३०२ ॥

10.303

श्लोक

अन्तं गतोऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि । यो न सर्वेश्वरे भक्तस् तं विद्यात् पुरुषाधमम् ॥ ३०३ ॥

10.304

श्लोक

युष्मत्-प्रसङ्ग-विमुखा इह संसरन्ति ॥ ३०४ ॥

10.305

श्लोक

प्रायश्चित्तानि चीर्णानि नारायण-पराङ्मुखम् । न निष्पुनन्ति राजेन्द्र सुरा-कुम्भम् इवापगाः ॥ ३०५ ॥

10.306

श्लोक

कुतः पाप-क्षयस् तेषां कुतस् तेषां च मङ्गलम् । येषां नैव हृदिस्थोऽयं मङ्गलायतनो हरिः ॥ ३०६ ॥

10.307

श्लोक

हरि-पूजा-विहीनाश् च वेद-विद्वेषिणस् तथा । द्विज-गो-द्वेषिणश् चापि राक्षसाः परिकीर्तिताः ॥ ३०७ ॥

10.308

श्लोक

जुष्टाद् गृहे निरय-वर्त्मनि बद्ध-तृष्णान् ॥ ३०८ ॥

10.309

श्लोक

तान् आनयध्वम् असतो ऽकृत-विष्णु-कृत्यान् ॥ ३०९ ॥

10.310

श्लोक

यो हि भागवतं लोकम् उपहासं नृपोत्तम । करोति तस्य नश्यन्ति अर्थ-धर्म-यशः-सुता ॥ ३१० ॥

10.311

श्लोक

निन्दां कुर्वन्ति ये मूढा वैष्णवानां महात्मनाम् । पतन्ति पितृभिः सार्धं महा-रौरव-संज्ञिते ॥ ३११ ॥

10.312

श्लोक

हन्ति निन्दति वै द्वेष्टि वैष्णवान् नाभिनन्दति । क्रुध्यते याति नो हर्षं दर्शने पतनानि षट् ॥ ३१२ ॥

10.313

श्लोक

जन्म-प्रभृति यत् किञ्चित् सुकृतं समुपार्जितम् । नाशम् आयाति तत् सर्वं पीडयेद् यदि वैष्णवान् ॥ ३१३ ॥

10.314

श्लोक

कर-पत्रैश् च फाल्यन्ते सुतीव्रैर् यम-शासनैः । निन्दां कुर्वन्ति ये पापा वैष्णवानां महात्मनाम् ॥ ३१४ ॥

10.315

श्लोक

पूजितो भगवान् विष्णुर् जन्मान्तर-शतैर् अपि । प्रसीदति न विश्वात्मा वैष्णवे चापमानिते ॥ ३१५ ॥

10.316

श्लोक

निन्दां भगवतः शृण्वंस् तत्-परस्य जनस्य वा । ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः ॥ ३१६ ॥

10.317

श्लोक

जीवितं विष्णु-भक्तस्य वरं पञ्च-दिनानि च । न तु कल्प-सहस्राणि भक्ति-हीनस्य केशवे ॥ ३१७ ॥

10.318

श्लोक

ततो दुःसङ्गम् उत्सृज्य सत्सु सज्जेत बुद्धिमान् । सन्त एवास्य छिन्दन्ति मनो-व्यासङ्गम् उक्तिभिः ॥ ३१८ ॥

10.319

श्लोक

गत्वा तान् दूरतो दृष्ट्वा दण्डवत् प्रणमेन् मुदा ॥ ३१९ ॥

10.320

श्लोक

वैष्णवो वैष्णवं दृष्ट्वा दण्डवत् प्रणमेद् भुवि । उभयोर् अन्तरा विष्णुः शङ्ख-चक्र-गदाधरः ॥ ३२० ॥

10.321

श्लोक

सभायां यज्ञ-शालायां देवतायतनेष्व् अपि । प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुराकृतम् ॥ ३२१ ॥

10.322

श्लोक

पुण्य-क्षेत्रे पुण्य-तीर्थे स्वाध्याय-समये तथा । प्रत्येकं तु नमस्कारो हन्ति पुण्यं पुराकृतम् ॥ ३२२ ॥

10.323

श्लोक

वैष्णवं चागतं वीक्ष्याभिगम्यालिङ्ग वैष्णवम् । वैदेशिकं प्रीणयेयुर् दर्शयन्तः स्व-वैष्णवान् ॥ ३२३ ॥

10.324

श्लोक

नारायणाश्रयं भक्तं देशान्तर-समागतम् । प्रीणयेद् दर्शयंस् तस्य भक्त्या नारायणाश्रयान् ॥ ३२४ ॥

10.325

श्लोक

ततश् च वैष्णवः प्राप्तः सन्तर्प्य वचनामृतैः । सद्-बन्धुर् इव सम्मान्योऽन्यथा दोषो महान् स्मृतः ॥ ३२५ ॥

10.326

श्लोक

दृष्ट्वा भागवतं दैवात् सम्मुखे यो न याति हि । न गृह्णाति हरिस् तस्य पूजां द्वादश-वार्षिकीम् ॥ ३२६ ॥

10.327

श्लोक

यो न गृह्णाति भूपाल वैष्णवं गृहम् आगतम् । तद्-गृहं पितृभिस् त्यक्तं श्मशानम् इव भीषणम् ॥ ३२७ ॥

10.328

श्लोक

अथवाभ्यगतं दूराद् यो नार्चयन्ति वैष्णवम् । स्व-शक्त्या नृप-शार्दूल नान्यः पाप-रतस् ततः ॥ ३२८ ॥

10.329

श्लोक

श्रान्तं भागवतं दृष्ट्वा कठिनं यस्य मानसम् । प्रसीदति न दुष्टात्मा श्वपचाद् अधिको हि सः ॥ ३२९ ॥

10.330

श्लोक

विप्रं भागवतं दृष्ट्वा दीनम् आतुर-मानसम् । न करोति परित्राणं केशवो न प्रसीदति ॥ ३३० ॥

10.331

श्लोक

दृष्ट्वा भागवतं विप्रं नमस्कारेण नार्चयेत् । देहिनस् तस्य पापस्य न च वै क्षमते हरिः ॥ ३३१ ॥

10.332

श्लोक

अपूजितो यदा गच्छद् वैष्णवो गृह-मेधिनः । शत-जन्मार्जितं भूप पुण्यम् आदाय गच्छति ॥ ३३२ ॥

10.333

श्लोक

अनभ्यर्च्य पितॄन् देवान् भुञ्जते हरि-वासरे । तत् पापं जायते भूप वैष्णवानाम् अतिक्रमे ॥ ३३३ ॥

10.334

श्लोक

पूर्वं कृत्वा तु सम्मानम् अवज्ञां कुरुते तु यः । वैष्णवानां महीपाल सान्वयो याति सङ्क्षयम् ॥ ३३४ ॥

10.335

श्लोक

वैष्णवं जनम् आलोक्य नाभ्युत्थानं करोति यः । प्रणयादरतो विप्र स नरो नरकातिथिः ॥ ३३५ ॥

10.336

श्लोक

व्यालालय-द्रुमा वै तेष्व् अरिक्ताखिल-सम्पदः । यद्-गृहास् तीर्थ-पादीय- पादतीर्थ-विवर्जिताः ॥ ३३६ ॥

10.337

श्लोक

दह्न्योऽहं कृत-कृत्योऽहं यद् यूयं गृहम् आगताः । दुर्लभं दर्शनं नूनं वैष्णवानां यथा हरेः ॥ ३३७ ॥

10.338

श्लोक

मेरु-मन्दर-तुल्या वै पुण्य-पुञ्जा मया कृताः । सम्प्राप्तं दर्शनं यद् वै वैष्णवानां महात्मनाम् ॥ ३३८ ॥

10.339

श्लोक

महद्-विचलनं नॄणां गृहिणां दीन-चेतसाम् । निःश्रेयसाय भगवन् कल्पते नान्यथा क्वचित् ॥ ३३९ ॥

10.340

श्लोक

अहो आचरितं किं मे मङ्गलं मङ्गलायनाः । यस्य वो दर्शनं ह्य् आसीद् दुर्दर्शानां च योगिभिः ॥ ३४० ॥

10.341

श्लोक

अधना अपि ते धन्याः साधवो गृह-मेधिनः । यद्-गृहा ह्य् अर्ह-वर्याम्बु- तृण-भूमीश्वरावराः ॥ ३४१ ॥

10.342

श्लोक

कच्चिन् नः कुशलं नाथा इन्द्रियार्थार्थ-वेदिनाम् । व्यसनावाप एतस्मिन् पतितानां स्व-कर्मभिः ॥ ३४२ ॥

10.343

श्लोक

भवत्सु कुशल-प्रश्न आत्मारामेषु नेष्यते । कुशलाकुशला यत्र न सन्ति मति-वृत्तयः ॥ ३४३ ॥

10.344

श्लोक

सम्मुखं व्रजमानस्य वैष्णवानां नराधिप ।पदे पदे यज्ञ-फलं प्राहुः पौराणिका द्विजाः ॥ ३४४ ॥

10.345

श्लोक

प्रत्यक्षं वा परोक्षं वा यः प्रशंसति वैष्णवम् । ब्रह्म-हा मद्यपः स्तेयी गुरु-गामी सदा नॄणाम् । मुच्यते पातकात् सद्यो विष्णुर् आह नृपोत्तम ॥ ३४५ ॥

10.346

श्लोक

प्रत्यक्षं वा परोक्षं वा ये प्रशंसन्ति वैष्णवम् । प्रसादाद् वासुदेवस्य ते तरन्ति भवार्णवम् ॥ ३४६ ॥

10.347

श्लोक

श्रद्धया दत्तम् अन्नं च वैष्णवाग्निषु जीर्यति । तद्-अन्नं मेरुणा तुल्यं भवते च दिने दिने ॥ ३४७ ॥

10.348

श्लोक

दैवे पैत्रे च यो दद्याद् वारि-मात्रं तु वैष्णवे । सप्तोदधि-समं भूत्वा पितॄणाम् उपतिष्ठति ॥ ३४८ ॥

10.349

श्लोक

किं दानैः किं तपोभिर् वा यज्ञैश् च विविधैः कृतैः । सर्वं सम्पद्यते पुंसां विष्णु-भक्ताभिपूजनात् ॥ ३४९ ॥

10.350

श्लोक

पूजयेद् वैष्णवान् एतान् प्रयत्नेन विचक्षणः । स्व-शक्त्या वैष्णवेभ्यो यद् दत्तं स्याद् अक्षयं भवेत् ॥ ३५० ॥

10.351

श्लोक

हरि-भक्ति-रतान् यस् तु हरि-बुद्ध्या प्रपूजयेत् । तस्य तुष्यन्ति विप्रेन्द्र ब्रह्म-विष्णु-महेश्वराः ॥ ३५१ ॥

10.352

श्लोक

हरि-पूजा-पराणां च हरि-नाम-रतात्मनाम् । शुश्रूषा-निरता यान्ति पापिनोऽपि परां गतिम् ॥ ३५२ ॥

10.353

श्लोक

संसार-सागरं तर्तुं य इच्छेन् मुनिपुङ्गव । स भजेद् धरि-भक्तानां भक्तान् वै पाप-हारिणः ॥ ३५३ ॥

10.354

श्लोक

यो विष्णु-भक्तान् निष्कामान् भोजयेत् श्रद्धयान्वितः । त्रिः-सप्त-कुल-संयुक्तास् ते यान्ति हरि-मन्दिरम् ॥ ३५४ ॥

10.355

श्लोक

विष्णु-भक्ताय यो दद्यान् निष्कामाय महात्मने । पानीयं वा फलं वापि स एव भगवत्-प्रियः ॥ ३५५ ॥

10.356

श्लोक

विष्णु-भक्ति-पराणां तु शुश्रूषां कुर्वते तु ये । ते यान्ति विष्णु-भवनं यावद्-आभूत-सम्प्लवम् ॥ ३५६ ॥

10.357

श्लोक

देव-पूजा-परो यस्य गृहे वसति सर्वदा । तत्रैव सर्व-देवाश् च तिष्ठन्ति श्री-हरिस् तथा ॥ ३५७ ॥

10.358

श्लोक

नारायण-परो विद्वान् यस्यान्नं प्रीत-मानसः । अश्नाति तद्-धरेर् आस्यं गतम् अन्नं न संशयः ॥ ३५८ ॥

10.359

श्लोक

सर्वार्चनाद् अपि विश्वात्मा प्रीतो भवति माधवः । दृष्ट्वा भागवतस्यान्नं स भुङ्क्ते भक्त-वत्सलः ॥ ३५९ ॥

10.360

श्लोक

नैवेद्यं पुरतो न्यस्तं दृष्ट्वैव स्वीकृतं मया । भक्तस्य रसनाग्रेण रसम् अश्नामि पद्मज ॥ ३६० ॥

10.361

श्लोक

आराधनानां सर्वेषां विष्णोर् आराधनं परम् । तस्मात् परतरं देवि तदीयानां समर्चनम् ॥ ३६१ ॥

10.362

श्लोक

अर्चयित्वापि गोविन्दं तदीयान् नार्चयेत् पुनः । न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः ॥ ३६२ ॥

10.363

श्लोक

पुमांस् तस्मात् प्रयत्नेन वैष्णवान् पूजयेत् सदा । सर्वं तरति दुःखौघं महा-भागवतार्चनात् ॥ ३६३ ॥

10.364

श्लोक

वैष्णवे बन्धु-सत्-कृत्या ॥ ३६४ ॥

10.365

श्लोक

मद्-भक्त-पूजाभ्यधिका ॥ ३६५ ॥

10.366

श्लोक

कर्मणा मनसा वाचा येऽर्चयन्ति सदा हरिम् । तेषां वाक्यं नरैः कार्यं ते हि विष्णु-समा नराः ॥ ३६६ ॥

10.367

श्लोक

इत्य् आदृतोऽनुशृणुयाद् भक्ति-शास्त्राणि तत्र च । श्री-भागवतम् अत्रापि कृष्ण-लीला-कथां मुहुः ॥ ३६७ ॥

10.368

श्लोक

वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च । धन्यास् ते मानवा लोके तेसां कृष्णः प्रसीदति ॥ ३६८ ॥

10.369

श्लोक

वैष्णवानि तु शास्त्राणी ये ऽर्चयन्ति गृहे नराः । सर्व-पाप-विनिर्मुक्ता भवन्ति सुर-वन्दिताः ॥ ३६९ ॥

10.370

श्लोक

सर्वस्वेनापि विप्रेन्द्र कर्तव्यः शास्त्र-सङ्ग्रहः । वैष्णवैस् तु महा-भक्त्या तुष्ट्य्-अर्थं चक्र-पाणिनः ॥ ३७० ॥

10.371

श्लोक

तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे । तत्र नारायणो देवः स्वयं वसति नारद ॥ ३७१ ॥

10.372

श्लोक

पौराणं वैष्णवं श्लोकं श्लोकार्धम् अथवापि च । श्लोक-पादं पठेद् यस् तु गो-सहस्र-फलं लभेत् ॥ ३७२ ॥

10.373

श्लोक

देवतानाम् ऋषीणां च योगिनाम् अपि दुर्लभम् । विप्रेन्द्र वैष्णवं शास्त्रं मनुष्याणां च का कथा ॥ ३७३ ॥

10.374

श्लोक

मम शास्त्राणि ये नित्यं पूजयन्ति पठन्ति च । ते नराः कुरु-शार्दूल ममातिथ्यं गताः सदा ॥ ३७४ ॥

10.375

श्लोक

मम शाख्य-प्रवक्तारं मम शास्त्रानुचिन्तकम् । चिन्तयामि न सन्देहो नरं तं चात्मवत् सदा ॥ ३७५ ॥

10.376

श्लोक

जीविताद् अधिकं येषां शास्त्रं भागवतं कलौ । न तेषां भवति क्लेशो याम्यः कल्प-शतैर् अपि ॥ ३७६ ॥

10.377

श्लोक

धारयन्ति गृहे नित्यं शास्त्रं भागवतं हि ये । आस्फोटयन्ति वल्गन्ति तेषां प्रीताः पितामहाः ॥ ३७७ ॥

10.378

श्लोक

यावद् दिनानि विप्रर्षे शास्त्रं भागवतं गृहे । तावत् पिबन्ति पितरः क्षीरं सर्पिर् मधूदकम् ॥ ३७८ ॥

10.379

श्लोक

येऽर्चयन्ति सदा गेहे शास्त्रं भागवतं नराः । प्रीणितास् तैश् च विबुधा यावद् आहूत-सम्प्लवम् ॥ ३७९ ॥

10.380

श्लोक

यच्चन्ति वैष्णवे भक्त्या शास्त्रं भागवतं हि ये । कल्प-कोटि-सहस्राणि विष्णु-लोके वसन्ति ते ॥ ३८० ॥

10.381

श्लोक

श्लोकार्धं श्लोक-पादं वा वरं भागवतं गृहे । शतशोऽथ सहस्रैश् च किम् अन्यैः शास्त्र-सङ्ग्रहैः ॥ ३८१ ॥

10.382

श्लोक

न यस्य तिष्ठते गेहे शास्त्रं भागवतं कलौ । न तस्य पुनर् आवृत्तिर् याम्यात् पाशात् कदाचन ॥ ३८२ ॥

10.383

श्लोक

कथं स वैष्णवो ज्ञेयः शास्त्रं भागवतं कलौ । गृहे न तिष्ठते यस्य स विप्रः श्वपचाधमः ॥ ३८३ ॥

10.384

श्लोक

यत्र यत्र भवेद् विप्र शास्त्रं भागवतं कलौ । तत्र तत्र हरिर् याति त्रिदशैः सह नारद ॥ ३८४ ॥

10.385

श्लोक

तत्र सर्वाणि तीर्थानि नदीनद-सरांसि च । यत्र भागवतं शास्त्रं तिष्ठते मुनि-सत्तम ॥ ३८५ ॥

10.386

श्लोक

तत्र सर्वाणि तीर्थानि सर्वे यज्ञाः सुदक्षिणाः । यत्र भागवतं शास्त्रं पूजितं तिष्ठते गृहे ॥ ३८६ ॥

10.387

श्लोक

नित्यं भागवतं यस् तु पुराणं पठते नरः । प्रत्यक्षरं भवेत् तस्य कपिला-दानजं फलम् ॥ ३८७ ॥

10.388

श्लोक

श्लोकार्धं श्लोक-पादं वा नित्यं भागवतोद्भवम् । पठेत् शृणोति वा भक्त्या गो-सहस्रं फलं लभेत् ॥ ३८८ ॥

10.389

श्लोक

यः पठेत् प्रयतो नित्यं श्लोकं भागवतं मुने । अष्टादश-पुराणानां फलं प्राप्नोति मानवः ॥ ३८९ ॥

10.390

श्लोक

यो हि भागवते शास्त्रे विघ्नम् आचरते पुमान् । नाभिनन्दति दुष्टात्मा कुलानां पातयेच् छतम् ॥ ३९० ॥

10.391

श्लोक

अम्बरीष शुक-प्रोक्तं नित्यं भागवतं शृणु । पठस्व स्व-मुखेनापि यदीच्छसि भव-क्षयम् ॥ ३९१ ॥

10.392

श्लोक

श्लोकं भागवतं वापि श्लोकर्ध-पादम् एव वा । लिखितं तिष्ठते यस्य गृहे तस्य सदा हरिः । वसते नात्र सन्देहो देव-देवो जनार्दनः ॥ ३९२ ॥

10.393

श्लोक

श्रीमद्-भागवतं शास्त्रं पठते कृष्ण-सन्निधौ । कुल-कोटि-शतैर् युक्तः क्रीडते योगिभिः सह ॥ ३९३ ॥

10.394

श्लोक

अर्थोऽयं ब्रह्म-सूत्राणां भारतार्थ-विनिर्णयः । गायत्री-भाष्य-रूपोऽसौ वेदार्थ-परिबृंहितः ॥ ३९४ ॥

10.395

श्लोक

पुराणानां साम-रूपः साक्षाद्-भगवतोदितः । द्वादश-स्कन्ध-युक्तोऽयं शतविच्-छेद-संयुतः । ग्रन्थोऽष्टादश-साहस्रः श्रीमद्-भागवताभिधः ॥ ३९५ ॥

10.396

श्लोक

सद्यो हृद्य् अवरुध्यते ऽत्र कृतिभिः शुश्रूषुभिस् तत्-क्षणात् ॥ ३९६ ॥

10.397

श्लोक

इदं भागवतं नाम पुराणं ब्रह्म-सम्मितम् । उत्तम-श्लोक-चरितं चकार भगवान् ऋषिः ॥ ३९७ ॥

10.398

श्लोक

निःश्रेयसाय लोकस्य धन्यं स्वस्त्य्-अयनं महत् । तद् इदं ग्राहयाम् आससुतम् आत्मवतां वरम् । सर्व-वेदेतिहासानां सारं सारं समुद्धृतम् ॥ ३९८ ॥

10.399

श्लोक

कृष्णे स्व-धामोपगते धर्म-ज्ञानादिभिः सह । कलौ नष्ट-दृशाम् एष पुराणार्को ऽधुनोदितः ॥ ३९९ ॥

10.400

श्लोक

अनर्थोपशमं साक्षाद् भक्ति-योगम् अधोक्षजे । लोकस्याजानतो विद्वांश् चक्रे सात्वत-संहिताम् ॥ ४०० ॥