Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १०

दशम-विलासः

10.501

श्लोक

श्रद्धां भागवते शास्त्रे ऽनिन्दाम् अन्यत्र चापि हि । मनो-वाक्-कर्म-दण्डं च सत्यं शम-दमाव् अपि ॥ ५०१ ॥

10.502

श्लोक

श्रवणं कीर्तनं ध्यानं हरेर् अद्भुत-कर्मणः । जन्म-कर्म-गुणानां च तद्-अर्थे ऽखिल-चेष्टितम् ॥ ५०२ ॥

10.503

श्लोक

इष्टं दत्तं तपो जप्तं वृत्तं यच् चात्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ ५०३ ॥

10.504

श्लोक

एवं कृष्णात्म-नाथेषु मनुष्येषु च सौहृदम् । परिचर्यां चोभयत्र महत्सु नृषु साधुषु ॥ ५०४ ॥

10.505

श्लोक

मिथो रतिर् मिथस् तुष्टिर् निवृत्तिर् मिथ आत्मनः ॥ ५०५ ॥

10.506

श्लोक

मल्-लिङ्ग-मद्-भक्त-जन- दर्शन-स्पर्शनार्चनम् । परिचर्या स्तुतिः प्रह्व- गुण-कर्मानुकीर्तनम् ॥ ५०६ ॥

10.507

श्लोक

मत्-कथा-श्रवणे श्रद्धा मद्-अनुध्यानम् उद्धव । सर्व-लाभोपहरणं दास्येनात्म-निवेदनम् ॥ ५०७ ॥

10.508

श्लोक

मज्-जन्म-कर्म-कथनं मम पर्वानुमोदनम् । गीत-ताण्डव-वादित्र- गोष्ठीभिर् मद्-गृहोत्सवः ॥ ५०८ ॥

10.509

श्लोक

यात्रा बलि-विधानं च सर्व-वार्षिक-पर्वसु । वैदिकी तान्त्रिकी दीक्षा मदीय-व्रत-धारणम् ॥ ५०९ ॥

10.510

श्लोक

ममार्चा-स्थापने श्रद्धा स्वतः संहत्य चोद्यमः । उद्यानोपवनाक्रीड- पुर-मन्दिर-कर्मणि ॥ ५१० ॥

10.511

श्लोक

सम्मार्जनोपलेपाभ्यां सेक-मण्डल-वर्तनैः । गृह-शुश्रूषणं मह्यं दास-वद् यद् अमायया ॥ ५११ ॥

10.512

श्लोक

अमानित्वम् अदम्भित्वं कृतस्यापरिकीर्तनम् । अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥ ५१२ ॥

10.513

श्लोक

यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः । तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ ५१३ ॥

10.514

श्लोक

श्रद्धामृत-कथायां मे शश्वन् मद्-अनुकीर्तनम् । परिनिष्ठा च पूजायां स्तुतिभिः स्तवनं मम ॥ ५१४ ॥

10.515

श्लोक

आदरः परिचर्यायां सर्वाङ्गैर् अभिवन्दनम् । मद्-भक्त-पूजाभ्यधिका सर्व-भूतेषु मन्-मतिः ॥ ५१५ ॥

10.516

श्लोक

मद्-अर्थेष्व् अङ्ग-चेष्टा च वचसा मद्-गुणेरणम् । मय्य् अर्पणं च मनसः सर्व-काम-विवर्जनम् ॥ ५१६ ॥

10.517

श्लोक

मद्-अर्थे ऽर्थ-परित्यागो भोगस्य च सुखस्य च । इष्टं दत्तं हुतं जप्तं मद्-अर्थं यद् व्रतं तपः ॥ ५१७ ॥

10.518

श्लोक

कुर्यात् सर्वाणि कर्माणि मद्-अर्थं शनकैः स्मरन् । मय्य् अर्पित-मनश्-चित्तो मद्-धर्मात्म-मनो-रतिः ॥ ५१८ ॥

10.519

श्लोक

देशान् पुण्यान् आश्रयेत मद्-भक्तैः साधुभिः श्रितान् । देवासुर-मनुष्येषु मद्-भक्ताचरितानि च ॥ ५१९ ॥

10.520

श्लोक

पृथक् सत्रेण वा मह्यं पर्व-यात्रा-महोत्सवान् । कारयेद् गीत-नृत्याद्यैर् महाराज-विभूतिभिः ॥ ५२० ॥

10.521

श्लोक

माम् एव सर्व-भूतेषु बहिर् अन्तर् अपावृतम् । ईक्षेतात्मनि चात्मानं यथा खम् अमलाशयः ॥ ५२१ ॥

10.522

श्लोक

एवं निर्जित-षड्-वर्गैः क्रियते भक्तिर् ईश्वरे । वासुदेवे भगवति यया संलभ्यते रतिः ॥ ५२२ ॥

10.523

श्लोक

सद्यः पुनाति सद्-धर्मो देव-विश्व-द्रुहो ऽपि हि ॥ ५२३ ॥

10.524

श्लोक

यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ ५२४ ॥

10.525

श्लोक

नारायण-परो मायाम् अञ्जस् तरति दुस्तराम् ॥ ५२५ ॥

10.526

श्लोक

एवं धर्मैर् मनुष्याणाम् उद्धवात्म-निवेदिनाम् । मयि सञ्जायते भक्तिः को ऽन्यो ऽर्थो ऽस्यावशिष्यते ॥ ५२६ ॥

10.527

श्लोक

मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ ५२७ ॥

10.528

श्लोक

अलाभे सत्-सभायास् तु शुश्रूषुं च निजालये । देवालये वा शास्त्रज्ञः कीर्तयेद् भगवत्-कथाम् ॥ ५२८ ॥

10.529

श्लोक

मत्-कथा कुरुते यस् तु वैष्णवानां सदाग्रतः । इह भोगान् अवाप्नोति तथा मोक्षं न संशयः ॥ ५२९ ॥

10.530

श्लोक

यद्-उत्तमश्लोक-गुणानुवर्णनम् ॥ ५३० ॥

10.531

श्लोक

एतद् ध्य् आतुर-चित्तानां मात्रा-स्पर्शेच्छया मुहुः । भव-सिन्धु-प्लवो दृष्टो हरि-चर्यानुवर्णनम् ॥ ५३१ ॥

10.532

श्लोक

भक्तिं परां परमहंस-गतौ लभेत ॥ ५३२ ॥

10.533

श्लोक

दुर्गाणि ते पद-युगालय-हंस-सङ्गः ॥ ५३३ ॥

10.534

श्लोक

भुवि ग्र्णन्ति ते भुरिदा जनाः ॥ ५३४ ॥

10.535

श्लोक

किर्तनेऽप्य् अत्र तज् ज्ञेयं माहात्म्यं श्रवणेऽस्य यत् ।सिध्यति श्रवणम् नूनं कीर्तनात् स्वयम् एव हि ॥ ५३५ ॥

10.536

श्लोक

शास्त्राभ्यासस्य चाभावे पूर्वेषां लोक-विश्रुताम् । सताम् आधुनिकानां च कथां बन्धुषु कीर्तयेत् ॥ ५३६ ॥