Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १०

दशम-विलासः

10.201

श्लोक

विनायकानीकप-मूर्धसु प्रभो ॥ २०१ ॥

10.202

श्लोक

नायं सुखापो भगवान् देहिनां गोपिका-सुतः । ज्ञानिनां चात्म-भूतानां यथा भक्तिमताम् इह ॥ २०२ ॥

10.203

श्लोक

साधूनां सम-चित्तानां मुकुन्द-चरणैषिणाम् । उपेक्ष्यैः किं धन-स्तम्भैर् असद्भिर् असद्-आश्रयैः ॥ २०३ ॥

10.204

श्लोक

न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः । ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥ २०४ ॥

10.205

श्लोक

विपश्चितो घ्नन्ति मुहूर्त-सेवया ॥ २०५ ॥

10.206

श्लोक

जनेष्व् अभिज्ञेषु स एव गो-खरः ॥ २०६ ॥

10.207

श्लोक

त्वयि कृत-सौहृदाः खलु पुनन्ति न ये विमुखाः ॥ २०७ ॥

10.208

श्लोक

भूतानां देव-चरितं दुःखाय च सुखाय च । सुखायैव हि साधूनां त्वादृशाम् अच्युतात्मनाम् ॥ २०८ ॥

10.209

श्लोक

भजन्ति ये यथा देवान् देवा अपि तथैव तान् । छायेव कर्म-सचिवाः साधवो दीन-वत्सलाः ॥ २०९ ॥

10.210

श्लोक

न मय्य् एकान्त-भक्तानां गुण-दोषोद्भवा गुणाः । साधूनां सम-चित्तानां बुद्धेः परम् उपेयुषाम् ॥ २१० ॥

10.211

श्लोक

क्षेमं विन्दन्ति मत्-स्थानं यद् ब्रह्म परमं विदुः ॥ २११ ॥

10.212

श्लोक

सन्तो ब्रह्म-विदः शान्ता नोर् दृढेवाप्सु मज्जताम् ॥ २१२ ॥

10.213

श्लोक

अन्नं हि प्राणिनां प्राणा आर्तानां शरणं त्व् अहम् । धर्मा वित्तं नॄणां प्रेत्य सन्तोऽर्वाग्-बिभ्यतोऽरणम् ॥ २१३ ॥

10.214

श्लोक

सन्तो दिशन्ति चक्षूंषि बहिर् अर्कः समुत्थितः । देवता बान्धवाः सन्तः सन्त आत्माहम् एव च ॥ २१४ ॥

10.215

श्लोक

न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ २१५ ॥

10.216

श्लोक

नात्य्-अद्भुतम् अहं मन्ये महताम् अच्युतात्मनाम् । अज्ञेषु ताप-तप्तेषु भूतेषु यद् अनुग्रहः ॥ २१६ ॥

10.217

श्लोक

श्रवणाद् दर्शनाद् वापि महा-पातकिनो ऽपि वः । शुध्येरन्न् अन्त्यजाश् चापि किम् उ सम्भाषणादिभिः ॥ २१७ ॥

10.218

श्लोक

नैषां वयं न च वयः प्रभवाम दण्डे ॥ २१८ ॥

10.219

श्लोक

व्रज भट दूरतरेण मानवानाम् ॥ २१९ ॥

10.220

श्लोक

हृदय-गते व्रज तान् विहाय दूरात् ॥ २२० ॥

10.221

श्लोक

त्यज भट दूरतरेण तान् अपापान् ॥ २२१ ॥

10.222

श्लोक

प्रतिहत-वीर्य-बलस्य सोऽन्य-लोक्यः ॥ २२२ ॥

10.223

श्लोक

प्रभवति संयमने ममापि विष्णुः ॥ २२३ ॥

10.224

श्लोक

प्रभवति संयमने ममापि कृष्णः ॥ २२४ ॥

10.225

श्लोक

भृश-मलिनोऽपि विराजते मनुष्यः ॥ २२५ ॥

10.226

श्लोक

प्राहास्मान् यमुना भ्राता सदैव हि पुनः पुनः । भवद्भिर् वैष्णवास् त्याज्या न ते स्युर् मम गोचराः ॥ २२६ ॥

10.227

श्लोक

दुराचारो दुष्कृतोऽपि सदाचार-रतोऽपि यः । भवद्भिः स सदा त्याज्यो विष्णुं च भजते नरः ॥ २२७ ॥

10.228

श्लोक

वैष्णवो यद्-गृहे भुङ्क्ते येषां वैष्णव-सङ्गतिः । तेऽपि वः परिवार्याः स्युस् तत्-सङ्ग-हत-किल्बिषाः ॥ २२८ ॥

10.229

श्लोक

एकादश्याम् अभुञ्जाना युक्ताः पाप-शतैर् अपि । भवद्भिः परिहर्तव्या हिता मे यदि सर्वदा ॥ २२९ ॥

10.230

श्लोक

ये स्मरन्ति जगन्नाथं मृत्यु-काले जनार्दनम् । पाप-कोटि-शतैर् युक्ता न ते ग्राह्या ममाज्ञया ॥ २३० ॥

10.231

श्लोक

न ब्रह्मा न शिवाग्नीन्द्रा नाहं नान्ये दिवौकसः । शक्ता न निग्रहं कर्तुं वैष्णवानां महात्मनाम् ॥ २३१ ॥

10.232

श्लोक

अतोऽहं सर्व-कालं च वैष्णवानां बिभेमि वै । भवद्भिः परिहर्तव्या वैष्णवा ये सदैव हि ॥ २३२ ॥

10.233

श्लोक

वैष्णवा विष्णुवत् पूज्या मम मान्या विशेषतः । तेषां कृतेऽपमानेऽपि विनाशो जायते ध्रुवम् ॥ २३३ ॥

10.234

श्लोक

येषां स्मरण-मात्रेण पाप-लक्ष-शतानि च । दह्यन्ते नात्र सन्देहो वैष्णवानां महात्मनाम् ॥ २३४ ॥

10.235

श्लोक

येषां पाद-रजेनैव प्राप्यते जाह्नवी-जलम् । नार्मदं यामुनं चैव किं पुनः पादयोर् जलम् ॥ २३५ ॥

10.236

श्लोक

येषां वाक्य-जलौघेन विना गङ्गा-जलैर् अपि । विना तीर्थ-सहस्रेण स्नातो भवति मानवः ॥ २३६ ॥

10.237

श्लोक

ब्रह्म-लोके न मे वासो न मे वासो हरालये ।नालये लोक-पालानां वैष्णवानां पराभवे ॥ २३७ ॥

10.238

श्लोक

न देवा न च गन्धर्वा न यक्षोरग-राक्षसाः । त्रातुं समर्था ऋषयो वैष्णवानां पराभवे ॥ २३८ ॥

10.239

श्लोक

करोमि कर्मणा वाचा मनसापि न विप्रियम् । वैष्णवानां महाभागाः सुदर्शन-भयाद् अपि ॥ २३९ ॥

10.240

श्लोक

एकतो धावते चक्रम् एकतो हरि-वाहनम् । एकतो विष्णु-दूताश् च वैष्णवे चार्दिते मया ॥ २४० ॥

10.241

श्लोक

शान्ता वदन्ति सततं तरसा त्यजध्वम् ॥ २४१ ॥

10.242

श्लोक

दूतास् त्यजध्वम् अनिशं हरि-नाम-सक्तान् ॥ २४२ ॥

10.243

श्लोक

दूतास् त्यजध्वम् उपकार-पराञ् नराणाम् ॥ २४३ ॥

10.244

श्लोक

तान् पापिनोऽपि च भटा सततं त्यजध्वम् ॥ २४४ ॥

10.245

श्लोक

कथम् अमुम् उद्विसृजेत् पुमान् कृत-ज्ञः ॥ २४५ ॥

10.246

श्लोक

अतएव प्रार्थनम् । नारायण-व्यूह-स्तवे – नाहं ब्रह्मापि भुयासं त्वद्-भक्ति-रहितो हरे । त्वयि भक्तस् तु कीटोऽपि भूयासं जन्म-जन्मसु ॥ २४६ ॥

10.247

श्लोक

भूत्वा निषेवे तव पाद-पल्लवम् ॥ २४७ ॥

10.248

श्लोक

ये त्यक्त-लोक-धर्मार्था विष्णु-भक्ति-वशं गताः । भजन्ति परमात्मानं तेभ्यो नित्यं नमो नमः ॥ २४८ ॥

10.249

श्लोक

एवं श्री-भगवद्-भक्त-माहात्म्यामृत-वारिधेः । विचित्र-भङ्ग-लेखार्हो लोभ-लोलं विनास्ति कः ॥ २४९ ॥

10.250

श्लोक

अतः श्री-भगवद्-भक्त-जनानां सङ्गतिः सदा । कार्या सर्व-प्रयत्नेन द्वौ लोकौ विजिगीषुभिः ॥ २५० ॥

10.251

श्लोक

भगवद्-भक्त-पादाब्ज-पादुकाभ्यो नमोऽस्तु मे । यत्-सङ्गमः साधनं च साध्यं चाखिलम् उत्तमम् ॥ २५१ ॥

10.252

श्लोक

बृहन्-नारदीये [नार्प् १.३६.६०] यज्ञ-माल्य्-उपाख्यानान्ते । हरि-भक्ति-पराणां तु सङ्गिनां सङ्ग-मात्रतः । मुच्यते सर्व-पापेभ्यो महा-पातकवान् अपि ॥ २५२ ॥

10.253

श्लोक

विनाशयत्य् अपयशो बुद्धिं विशदयत्य् अपि । प्रतिष्ठापयति प्रायो नृणां वैष्णव-दर्शनम् ॥ २५३ ॥

10.254

श्लोक

यथा प्रपद्यमानस्य भगवन्तं विभावसुम् । शीतं भयं तमोऽप्य् एति साधून् संसेवतः सदा ॥ २५४ ॥

10.255

श्लोक

अपाकरोति दुरितं श्रेयः संयोजयत्य् अपि । यशो विस्तारयत्य् आशु नॄणां वैष्णव-सङ्गमः ॥ २५५ ॥

10.256

श्लोक

गङ्गादि-पुण्य-तीर्थेषु यो नरः स्नातुम् इच्छति । यः करोति सतां सङ्गां तयोः सत्-सङ्गमो वरः ॥ २५६ ॥

10.257

श्लोक

यः स्नातः शान्ति-सितया साधु-सङ्गति-गङ्गया । किं तस्य दानैः किं तीर्थैः किं तपोभिः किम् अध्वरैः ॥ २५७ ॥

10.258

श्लोक

यानि यानि दुरापाणि वाञ्छितानि मही-तले । प्राप्यन्ते तानि तान्य् एव साधूनाम् एव सङ्गमात् ॥ २५८ ॥

10.259

श्लोक

शून्यम् आपूर्णताम् एति मृतिर् अप्य् अमृतायते । आपत् सम्पद् इव भाति विद्वज्-जन-समागमे ॥ २५९ ॥

10.260

श्लोक

सङ्गो यः संसृतेर् हेतुर् असत्सु विहितो ऽधिया । स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ २६० ॥

10.261

श्लोक

प्रसङ्गम् अजरं पाशम् आत्मनः कवयो विदुः । स एव साधुषु कृतो मोक्ष-द्वारम् अपावृतम् ॥ २६१ ॥

10.262

श्लोक

अरिर् मित्रं विषं पथ्यम् अधर्मो धर्मतां व्रजेत् । प्रसन्ने पुण्डरीकाक्षे विपरीते विपर्ययः ॥ २६२ ॥

10.263

श्लोक

मन्-निमित्तं कृतं पापम् अपि धर्माय कल्पते । माम् अनादृत्य धर्मोऽपि पापं स्यान् मत्-प्रभावतः ॥ २६३ ॥

10.264

श्लोक

सौगन्ध्य-लुब्ध-हृदयेषु कृत-प्रसङ्गाः ॥ २६४ ॥

10.265

श्लोक

रसायन-मयी शीता परमानन्द-दायिनी । नानन्दयति कं नाम वैष्णवाश्रय-चन्द्रिका ॥ २६५ ॥

10.266

श्लोक

परावरेशे त्वयि जायते मतिः ॥ २६६ ॥

10.267

श्लोक

यत्रेड्यन्ते कथा मृष्टास् तृष्णायाः प्रशमो यतः । निर्वैरं यत्र भूतेषु नोद्वेगो यत्र कश्चन ॥ २६७ ॥

10.268

श्लोक

यत्र नारायणः साक्षाद् भगवान् न्यासिनां गतिः । संस्तूयते सत्-कथासु मुक्त-सङ्गैः पुनः पुनः ॥ २६८ ॥

10.269

श्लोक

तेषां विचरतां पद्भ्यां तीर्थानां पावनेच्छया । भीतस्य किं न रोचेत तावकानां समागमः ॥ २६९ ॥

10.270

श्लोक

अथ सर्व-सारता । बृहन्-नारदीये श्री-नारद-सनत्कुमार-संवादे [नार्प् १.४.१३] – असार-भूते संसारे सारम् एतद् अजात्मज । भगवद्-भक्त-सङ्गश् च हरि-भक्तिस् तितिक्षुता ॥ २७० ॥

10.271

श्लोक

असागरोत्थं पीयूषम् अद्रव्यं व्यसनौषधम् । हर्षश् चालोक-पर्यन्तः सतां किल समागमः ॥ २७१ ॥

10.272

श्लोक

अथ भगवत्-कथामृत-पानैक-हेतुता । पाद्मे वैशाख-माहात्म्ये श्री-नारदोक्तौ [पद्मप् ५.८४.३७] प्रसङ्गेन सताम् आत्म-मनः श्रुति-रसायनाः । भवन्ति कीर्तनीयस्य कथाः कृष्णस्य निर्मलाः ॥ २७२ ॥

10.273

श्लोक

श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ २७३ ॥

10.274

श्लोक

यत्र भागवता राजन् साधवो विशदाशयाः । भगवद्-गुणानुकथन- श्रवण-व्यग्र-चेतसः ॥ २७४ ॥

10.275

श्लोक

तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥ २७५ ॥

10.276

श्लोक

मतिं सतीं यच्छति वासुदेवे ॥ २७६ ॥

10.277

श्लोक

तेषु नित्यं महा-भाग महा-भागेषु मत्-कथाः । सम्भवन्ति हि ता न्.णां जुषतां प्रपुनन्त्य् अघम् ॥ २७७ ॥

10.278

श्लोक

ता ये शृण्वन्ति गायन्ति ह्य् अनुमोदन्ति चादृताः । मत्-पराः श्रद्दधानाश् च भक्तिं विन्दन्ति ते मयि ॥ २७८ ॥

10.279

श्लोक

भक्तिस् तु भगवद्-भक्त-सङ्गेन परिजायते । सत्-सङ्गः प्राप्यते पुम्भिः सुकृतैः पूर्व-सञ्चितैः ॥ २७९ ॥

10.280

श्लोक

सु-गोप्यम् अपि वक्ष्यामि त्वं मे भृत्यः सुहृत् सखा ॥ २८० ॥

10.281

श्लोक

न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥ २८१ ॥

10.282

श्लोक

व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥ २८२ ॥

10.283

श्लोक

यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः । रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ २८३ ॥

10.284

श्लोक

तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ २८४ ॥

10.285

श्लोक

क्षणार्धेनापि तुलये न स्वर्गं नापुनर्-भवम् । भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किम् उताशिषः ॥ २८५ ॥

10.286

श्लोक

अयं हि परमो लाभो नृणां साधु-समागमः ॥ २८६ ॥

10.287

श्लोक

सुदुर्लभा भागवता हि लोके ॥ २८७ ॥

10.288

श्लोक

दुरापा ह्य् अल्प-तपसः सेवा वैकुण्ठ-वर्त्मसु । यत्रोपगीयते नित्यं देव-देवो जनार्दनः ॥ २८८ ॥

10.289

श्लोक

दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः । तत्रापि दुर्लभं मन्ये वैकुण्ठ-प्रिय-दर्शनम् ॥ २८९ ॥

10.290

श्लोक

नेष्ये भवद्-गुण-कथामृत-पान-मत्तः ॥ २९० ॥

10.291

श्लोक

स्यात् सङ्गमो ऽनुग्रह एष नस् तव ॥ २९१ ॥

10.292

श्लोक

यावत् ते मायया स्पृष्टा भ्रमाम इह कर्मभिः । तावद् भवत्-प्रसङ्गानां सङ्गः स्यान् नो भवे भवे ॥ २९२ ॥

10.293

श्लोक

कालात्मनोपनय मां निज-भृत्य-पार्श्वम् ॥ २९३ ॥

10.294

श्लोक

अथासत्-सङ्ग-दोषाः । असद्भिः सह सङ्गस्तु न कर्तव्यः कदाचन । यस्मात् सर्वार्थहानिः स्यादधःपातश्च जायते ॥ २९४ ॥

10.295

श्लोक

वरं हुत-वह-ज्वाला-पञ्जरान्तर्-व्यवस्थितिः । न शौरि-चिन्ता-विमुख-जन-संवास-वैशसम् ॥ २९५ ॥

10.296

श्लोक

अवैष्णवास् तु ये विप्राश् चाण्डालाद् अधमाः स्मृताः । तेषां सम्भाषणं स्पर्शं सोम-पानादि वर्जयेत् ॥ २९६ ॥

10.297

श्लोक

सत्यं शौचं दया मौनं बुद्धिः श्रीर् ह्रीर् यशः क्षमा । शमो दमो भगश् चेति यत्-सङ्गाद् याति सङ्क्षयम् ॥ २९७ ॥

10.298

श्लोक

तेष्व् अशान्तेषु मूढेषु खण्डितात्मस्व् असाधुषु । सङ्गं न कुर्याच् छोच्येषु योषित्-क्रीडा-मृगेषु च ॥ २९८ ॥

10.299

श्लोक

न तथास्य भवेन् मोहो बन्धश् चान्य-प्रसङ्गतः । योषित्-सङ्गाद् यथा पुंसो यथा तत्-सङ्गि-सङ्गतः ॥ २९९ ॥

10.300

श्लोक

सङ्गं न कुर्याद् असतां शिश्नोदर-तृपां क्वचित् । तस्यानुगस् तमस्य् अन्धे पतत्य् अन्धानुगान्ध-वत् ॥ ३०० ॥