Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १०

दशम-विलासः

10.101

श्लोक

येषां वाक्य-जलौघेन विना गङ्गा-जलैर् अपि । विना तीर्थ-सहस्रेण स्नातो भवति मानवः ॥ १०१ ॥

10.102

श्लोक

तावद् भ्रमन्ति संसारे पितरः पिण्ड-तत्-परः । यावत् कुले भक्ति-युक्तः सुतो नैव प्रजायते ॥ १०२ ॥

10.103

श्लोक

स एव ज्ञानवान् लोके योगिनां प्रथमो हि सः । महा-क्रतूनाम् आहर्ता हरि-भक्ति-युतो हि यः ॥ १०३ ॥

10.104

श्लोक

न च्यवन्ते हि यद्-भक्त्या महत्यां प्रलयापदि । अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥ १०४ ॥

10.105

श्लोक

न तस्माद् भगवद्-भक्ताद् भेतव्यं केनचित् क्वचित् । नियतं विष्णु-भक्ता येन ते स्युः पर-तापिनः ॥ १०५ ॥

10.106

श्लोक

ब्राह्मणः क्षत्रियः वैश्यः शूद्रो वा यदि वेतरः । विष्णु-भक्ति-समायुक्तो ज्ञेयः सर्वोत्तमोत्तमः ॥ १०६ ॥

10.107

श्लोक

शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः । गोपी-चन्दन-लिप्ताङ्गो दृष्टश् चेद् तद्-अघं कुतः ॥ १०७ ॥

10.108

श्लोक

ईश्वरं सर्व-भूतानां जगतः प्रभवाप्ययम् । भक्ता नारायणं देवं दुर्गाण्य् अतितरन्ति ते ॥ १०८ ॥

10.109

श्लोक

शयनाद् उत्थितो यस् तु कीर्तयेन् मधुसूदनम् । कीर्तनात् तस्य पापानि नाशम् आयान्त्य् अशेषतः ॥ १०९ ॥

10.110

श्लोक

भक्तिः परा यादव-देव-देवे ।तस्मात् परं नापरम् अस्ति किञ्चित् पात्रं त्रिलोके पुरुष-प्रवीर ॥ ११० ॥

10.111

श्लोक

नित्यं ये प्रातर् उत्थाय वैष्णवानां तु कीर्तनम् । कुर्वन्ति ते भागवताः कृष्ण-तुल्याः कलौ बले ॥ १११ ॥

10.112

श्लोक

स्वार्थं परं लोक-हिताय दीपवत् ॥ ११२ ॥

10.113

श्लोक

ये भजन्ति जगद्-योनिं वासुदेवं सनातनम् । न तेभ्यो विद्यते तीर्थम् अधिकं राज-सत्तम ॥ ११३ ॥

10.114

श्लोक

यत्र भागवताः स्नानं कुर्वन्ति विमलाश्रयाः । तत्-तीर्थम् अधिकं विद्धि सर्व-पाप-विशोधनम् ॥ ११४ ॥

10.115

श्लोक

यत्र रागादि-रहिता वासुदेव-परायणाः । तत्र सन्निहितो विष्णुर् नृपते नात्र संशयः ॥ ११५ ॥

10.116

श्लोक

न गन्धैर् न तथा तोयैर् न पुष्पैश् च मनोहरैः । सान्निध्यं कुरुते देवो यत्र सन्ति न वैष्णवाः ॥ ११६ ॥

10.117

श्लोक

बलिभिश् चोपवासैश् च नृत्य-गीतादिभिस् तथा । नित्यम् आराध्यमानोऽपि तत्र विष्णुर् न तृप्यति ॥ ११७ ॥

10.118

श्लोक

तस्माद् एते महाभागा वैष्णवा वीत-कल्मषाः । पुनन्ति सकलान् लोकांस् तत् तीर्थम् अधिकं ततः ॥ ११८ ॥

10.119

श्लोक

शूद्रं वा भगवद्-भक्तं निषादं श्वपचं तथा । वीक्षतं जाति-सामान्यात् स याति नरकं ध्रुवम् ॥ ११९ ॥

10.120

श्लोक

तस्माद् विष्णु-प्रसादाय वैष्णवान् परितोषयेत् । प्रसाद-सुमुखो विष्णुस् तेनैव स्यान् न संशयः ॥ १२० ॥

10.121

श्लोक

ये नृशंसा दुरात्मानः पापाचार-रताः सदा । तेऽपि यान्ति परं धाम नारायण-पराश्रयाः ॥ १२१ ॥

10.122

श्लोक

लिप्यन्ते न च पापेन वैष्णवा विष्णु-तत्-पराः । पुनन्ति सकलान् लोकान् सहस्रांशुर् इवोदितः ॥ १२२ ॥

10.123

श्लोक

जन्मान्तर-सहस्रेषु यस्य स्याद् बुद्धिर् ईदृशी । दासोऽहं वासुदेवस्य सर्वान् लोकान् समुद्धरेत् ॥ १२३ ॥

10.124

श्लोक

स याति विष्णु-सालोक्यं पुरुषो नात्र संशयः । किं पुनस् तद्-गत-प्राणाः पुरुषाः संयतेन्द्रियाः ॥ १२४ ॥

10.125

श्लोक

स्मृतः सम्भाषितो वापि पूजितो वा द्विजोत्तमाः । पुनाति भगवद्-भक्तश् चाण्डालोऽपि यदृच्छया ॥ १२५ ॥

10.126

श्लोक

जन्मान्तर-सहस्रेषु विष्णु-भक्तो न लिप्यते । यस्य सन्दर्शनाद् एव भस्मीभवति पातकम् ॥ १२६ ॥

10.127

श्लोक

न मे प्रियश् चतुर्वेदी मद्-भक्तः श्वपचः प्रियः । तस्मै देयं ततो ग्राह्यं स च पूज्यो यथा ह्य् अहम् ॥ १२७ ॥

10.128

श्लोक

सभर्तृका वा विधवा विष्णु-भक्तिं करोति या । समुद्धरति चात्मानं कुलम् एकोत्तरं शतम् ॥ १२८ ॥

10.129

श्लोक

सङ्कीर्ण-योनयः पूता ये भक्ता मधुसूदने । म्लेच्छ-तुल्याः कुलीनास् ते ये न भक्ता जनार्दने ॥ १२९ ॥

10.130

श्लोक

वैष्णवान् भज कौन्तेय मा भजस्वान्य-देवताः । पुनन्ति वैष्णवाः सर्वे सर्व-देवम् इदं जगत् । मद्-भक्तो दुर्लभो यस्य स एव मम दुर्लभः ॥ १३० ॥

10.131

श्लोक

तत्-परो दुर्लभो नास्ति सत्यं सत्यं धनञ्जय । जगतां गुरवो भक्ता भक्तानां गुरवो वयम् ॥ सर्वत्र गुरवो भक्ता वयं च गुरवो यथा । अस्माकं बान्धवा भक्ता भक्तानां बान्धवा वयम् ॥ १३१ ॥

10.132

श्लोक

अस्माकं गुरवो भक्ता भक्तानां गुरवो वयम् । मद्-भक्ता यत्र गच्छन्ति तत्र गच्छामि पार्थिव । भक्तानाम् अनुगच्छन्ति मुक्तयः श्रुतिभिः सह ॥ १३२ ॥

10.133

श्लोक

ये मे भक्त-जनाः पार्थ न मे भक्ताश् च ते जनाः । मद्-भक्तानां च ये भक्तास् ते मे भक्ततमा मताः ॥ १३३ ॥

10.134

श्लोक

ये केचित् प्राणिनो भक्ता मद्-अर्थे त्यक्त-बान्धवाः । तेषाम् अहं परिक्रीतो नान्य-क्रीतो धनञ्जय ॥ १३४ ॥

10.135

श्लोक

एषां भक्ष्यं सुनिर्णीतं श्रूयतां निश्चितं मम । उच्छिष्टम् अवशिष्टं च भक्तानां भोजन-द्वयम् ॥ १३५ ॥

10.136

श्लोक

नाम-युक्त-जनाः केचिज् जात्य्-अन्तर-समन्विताः । कुर्वन्ति मे यथा प्रीतिं न तथा वेद-पारगाः ॥ १३६ ॥

10.137

श्लोक

विष्णुर् भक्त-कुटुम्बीति वदन्ति विबुधाः सदा । तद् एव पालयिष्यामि मज्जनो नानृतं वदेत् ॥ १३७ ॥

10.138

श्लोक

मम जन्म कुले यस्य तत् कुलं मोक्षगामि वै । मयि तुष्टे मुनि-श्रेष्ठ किम् असाध्यं जगत्-त्रये ॥ १३८ ॥

10.139

श्लोक

मयि भक्ति-परो यस् तु मद्-याजी मत्-कथा-परः । मद्-ध्यानी स्व-कुलं सर्वं नयत्य् अच्युत-रूपताम् ॥ १३९ ॥

10.140

श्लोक

मद्-अर्थं कर्म कुर्वाणो मत्-प्रणाम-परो नरः । मन्-मनाः स्व-कुलं सर्वं नयत्य् अच्युत-रूपताम् ॥ १४० ॥

10.141

श्लोक

अहम् एव द्विज-श्रेष्ठ नित्यं प्रच्छन्न-विग्रहः । भगवद्-भक्त-रूपेण लोकान् रक्षामि सर्वदा ॥ १४१ ॥

10.142

श्लोक

विप्राः शृणुध्वं माहात्म्यं हरि-भक्ति-रतात्मनाम् । हरि-ध्यान-पराणां तु कः समर्थः प्रबाधितुम् ॥ १४२ ॥

10.143

श्लोक

हरि-भक्ति-परो यत्र तत्र ब्रह्मा हरिः शिवः । तत्र देवाश् च सिद्धाद्या नित्यं तिष्ठन्ति सत्तमाः ॥ १४३ ॥

10.144

श्लोक

निमिषं निम्षार्धं वा यत्र तिष्ठन्ति सत्तमाः । तत्रैव सर्व-श्रेयांसि तत् तीर्थं तत् तपो-वनम् ॥ १४४ ॥

10.145

श्लोक

राग-द्वेष-विहीना ये मद्-भक्ता मत्-परायणाः । वदन्ति सततं ते मां गतासूया अदाम्भिकाः ॥ १४५ ॥

10.146

श्लोक

परोपताप-विमुखाः शिव-भक्ति-परायणाः । मत्-कथा-श्रवणासक्ता वहन्ति सततं हि माम् ॥ १४६ ॥

10.147

श्लोक

यतीनां विष्णु-भक्तानां परिचर्या-परायणाः । ईक्षिता अपि गच्छन्ति पापिनोऽपि परां गतिम् ॥ १४७ ॥

10.148

श्लोक

रिपवस् तं न हिंसन्ति न बाधन्ते ग्रहाश् च तम् । राक्षसाश् च न चेक्षन्ते नरं विष्णु-परायणम् ॥ १४८ ॥

10.149

श्लोक

भक्तिर् दृढा भवेद् यस्य देव-देवे जनार्दने । श्रेयांसि तस्य सिध्यन्ति भक्तिमन्तोऽधिकास् ततः ॥ १४९ ॥

10.150

श्लोक

अद्यापि च मुनि-श्रेष्ठ ब्रह्माद्या अपि देवताः । प्रभावं न विजानन्ति विष्णु-भक्ति-रतात्मनाम् ॥ १५० ॥

10.151

श्लोक

धर्मार्थ-काम-मोक्षाख्याः पुरुषार्था द्विजोत्तमाः । हरि-भक्ति-पराणां वै सम्पद्यन्ते न संशयः ॥ १५१ ॥

10.152

श्लोक

ये विष्णु-निरताः शान्ता लोकानुग्रह-तत्-पराः । सर्व-भूत-दया-युक्ता विष्णु-रूपाः परिकीर्तिताः ॥ १५२ ॥

10.153

श्लोक

विष्णु-भक्ति-विहीना ये चण्डालाः परिकीर्तिताः । चण्डाला अपि वै श्रेष्ठा हरि-भक्ति-परायणाः ॥ १५३ ॥

10.154

श्लोक

हरि-भक्ति-रसास्वाद-मुदिता ये नरोत्तमाः । नमस्करोम्य् अहं तेभ्यो यत्-सङ्गान् मुक्ति-भाग् नरः ॥ १५४ ॥

10.155

श्लोक

हरि-भक्ति-परा ये तु हरि-नाम-परायणाः । दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमो नमः ॥ १५५ ॥

10.156

श्लोक

अहो भाग्यम् अहो भाग्यं विष्णु-भक्ति-रतात्मनाम् । यस्मान् मुक्तिः करस्थैव योगिनाम् अपि दुर्लभा ॥ १५६ ॥

10.157

श्लोक

घोरे कलि-युगे प्राप्ते सर्व-धर्म-विवर्जिते । वासुदेव-परा मर्त्याः कृतार्था नात्र संशयः ॥ १५७ ॥

10.158

श्लोक

अस्त्य् अन्तर् दुर्लभा प्रोक्ता हरि-भक्तिः कलौ युगे । हरि-भक्ति-रतानां वै पाप-बन्धो न जायते ॥ १५८ ॥

10.159

श्लोक

वेद-वाद-रताः सर्वे तथा तीर्थ-निषेविणः । हरि-भक्ति-रतैः सार्धं कलां नार्हन्ति षोडशीम् ॥ १५९ ॥

10.160

श्लोक

हरि-कीर्तन-शीलो वा तद्-भक्तानां प्रियोऽपि वा । शुश्रूषुर् वापि महतां स वन्द्योऽस्माभिर् उत्तमः ॥ १६० ॥

10.161

श्लोक

दर्शन-ध्यान-संस्पर्शैर् मर्त्य-कूर्म-विहङ्गमाः । पुष्णन्ति स्वान्य् अपत्यानि तथाहम् अपि पद्मज ॥ १६१ ॥

10.162

श्लोक

मुहूर्तेनापि संहर्तुं शक्तौ यद्यपि दानवात् । मद्-भक्तानां विनोदार्थं करोमि विविधाः क्रियाः ॥ १६२ ॥

10.163

श्लोक

न वयं यमं यम-लोकं न न दूतान् घोर-दर्शनात् । पश्यन्ति वैष्णवा नूनं सत्यं सत्यं मयोदितम् ॥ १६३ ॥

10.164

श्लोक

श्वपाकम् इव नेक्षेत लोके विप्रम् अवैष्णवम् । वैष्णवो वर्ण-बाह्योऽपि पुनाति भुवन-त्रयम् ॥ १६४ ॥

10.165

श्लोक

न शूद्रा भगवद्-भक्तास् ते तु भावना मताः । सर्व-वर्णेषु ते शूद्रा ये न भक्ता जनार्दन ॥ १६५ ॥

10.166

श्लोक

विष्णु-भक्तस्य ये दासा वैष्णवान्न-भुजश् च ये । तेऽपि क्रतु-भुजां ग्वैश्य गतिं यान्ति निराकुलाः ॥ १६६ ॥

10.167

श्लोक

परोपकाराय चरन्ति विश्वम् ॥ १६७ ॥

10.168

श्लोक

सन्तः प्रतिष्ठा दीनानां दैवाद् उद्भूत-पाप्मनाम् । आर्तानाम् आर्तिहन्तारो दर्शनाद् एव साधवः ॥ १६८ ॥

10.169

श्लोक

न कर्म-बन्धनं जन्म वैष्णवानां च विद्यते । विष्णोर् अनुचरत्वं हि मोक्षयाहुर् मनीषिणः ॥ १६९ ॥

10.170

श्लोक

न दास्यम् अमरेशस्य बन्धनं परिकीर्तितम् । सर्व-बन्धन-निर्मुक्ता हरि-दासा निरामयाः ॥ १७० ॥

10.171

श्लोक

दर्शन-स्पर्शनालाप-सहवासादिभिः क्षणात् । भक्ताः पुनन्ति कृष्णस्य साक्षाद् अपि च पुक्कशम् ॥ १७१ ॥

10.172

श्लोक

त्यक्त-सर्व-कुलाचारो महा-पातकवान् अपि । विष्णोर् भक्तं समाश्रित्य नरो नार्हति यातनाम् ॥ १७२ ॥

10.173

श्लोक

यस्मिन् देशे मरौ तज्-ज्ञो नास्ति सज्जन-पादपः । सफलः शीतलच्-छायो न तत्र दिवसं वसेत् ॥ १७३ ॥

10.174

श्लोक

सदा सन्तोऽभिगन्तव्या यद्यप्य् उपदिशन्ति न । या हि स्वैर-कथास् तेषाम् उपदेशा भवन्ति ते ॥ १७४ ॥

10.175

श्लोक

सत्रयाजि-सहस्रेभ्यः सर्व-वेदान्त-पारगः । सर्व-वेदान्त-वित्-कोट्या विष्णु-भक्तो विशिष्यते ॥ १७५ ॥

10.176

श्लोक

वैष्णवानां सहस्रेभ्य एकान्त्य् एको विशिष्यते । एकान्तिनस् तु पुरुषा गच्छन्ति परमं पदम् ॥ १७६ ॥

10.177

श्लोक

अपि चेत् सुदुराचारो भजते माम् अनन्यभाक् । साधुर् एव स मन्तव्यः सम्यग् व्यवसितो हि सः ॥ १७७ ॥

10.178

श्लोक

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ १७८ ॥

10.179

श्लोक

मां हि पार्थ व्यपाश्रित्य ये ऽपि स्युः पापयोनयः । स्त्रियो वैश्यास् तथा शूद्रास् ते ऽपि यान्ति परां गतिम् । किं पुनर् ब्राह्मणाः पुण्या भक्ता राजर्षयस् तथा ॥ १७९ ॥

10.180

श्लोक

योगिनाम् अपि सर्वेषां मद्-गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ १८० ॥

10.181

श्लोक

येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः । किं पुनर् दर्शन-स्पर्श- पाद-शौचासनादिभिः ॥ १८१ ॥

10.182

श्लोक

पादारविन्दं हृदयेषु येषाम् ॥ १८२ ॥

10.183

श्लोक

सखा गुरुः सुहृदो दैवम् इष्टम् ॥ १८३ ॥

10.184

श्लोक

किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ १८४ ॥

10.185

श्लोक

पदं यथाहं विबुधाः कलात्यये ॥ १८५ ॥

10.186

श्लोक

विना महत्-पाद-रजो-ऽभिषेकम् ॥ १८६ ॥

10.187

श्लोक

रजोभिः सम-सङ्ख्याताः पार्थिवैर् इह जन्तवः । तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः ॥ १८७ ॥

10.188

श्लोक

प्रायो मुमुक्षवस् तेषां केचनैव द्विजोत्तम । मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति ॥ १८८ ॥

10.189

श्लोक

मुक्तानाम् अपि सिद्धानां नारायण-परायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ १८९ ॥

10.190

श्लोक

नारायण-पराः सर्वे न कुतश्चन बिभ्यति । स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ १९० ॥

10.191

श्लोक

निष्किञ्चनानां न वृणीत यावत् ॥ १९१ ॥

10.192

श्लोक

प्राणं पुनाति स कुलं न तु भूरिमानः ॥ १९२ ॥

10.193

श्लोक

गायन्त आनन्द-समुद्र-मग्नाः ॥ १९३ ॥

10.194

श्लोक

अहं भक्त-पराधीनो ह्य् अस्वतन्त्र इव द्विज । साधुभिर् ग्रस्त-हृदयो भक्तैर् भक्त-जन-प्रियः ॥ १९४ ॥

10.195

श्लोक

नाहम् आत्मानम् आशासे मद्-भक्तैः साधुभिर् विना । श्रियं चात्यन्तिकीं ब्रह्मन् येषां गतिर् अहं परा ॥ १९५ ॥

10.196

श्लोक

ये दारागार-पुत्राप्त- प्राणान् वित्तम् इमं परम् । हित्वा मां शरणं याताः कथं तांस् त्यक्तुम् उत्सहे ॥ १९६ ॥

10.197

श्लोक

मयि निर्बद्ध-हृदयाः साधवः सम-दर्शनाः । वशे कुर्वन्ति मां भक्त्या सत्-स्त्रियः सत्-पतिं यथा ॥ १९७ ॥

10.198

श्लोक

साधवो हृदयं मह्यं साधूनां हृदयं त्व् अहम् । मद्-अन्यत् ते न जानन्ति नाहं तेभ्यो मनाग् अपि ॥ १९८ ॥

10.199

श्लोक

दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् । यैः सङ्गृहीतो भगवान् सात्वताम् ऋषभो हरिः ॥ १९९ ॥

10.200

श्लोक

यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः । तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते ॥ २०० ॥