Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ६

स्नापनिकः

6.101

श्लोक

यव-गोधूमैश् चूर्णैर् उद्वर्त्योष्णेन वारिणा । प्रक्षाल्य देव-देवेशं वारुणं लोकम् आप्नुयात् ॥ १०१ ॥

6.102

श्लोक

गो-धूम-यव-चूर्णैस् तु तम् उत्साद्य जनार्दनम् । लोध्र-चूर्णक-सङ्कीर्णैर् बल-रूपं तथाप्नुयात् ॥ १०२ ॥

6.103

श्लोक

मसूर-मास-चूर्णं च कुङ्कुम-क्षोद-संयुतम् । निवेद्य देव-देवाय गन्धर्वैः सह मोदते ॥ १०३ ॥

6.104

श्लोक

कलायकस्य चूर्णेन पिष्ट-चूर्णेन वा पुनः । तेनैवोद्वर्तनं कुर्याद् गन्ध-पुष्पैश् च संयुतम् । यदीच्छेत् परमां सिद्धिं मम कर्म-परायणः ॥ १०४ ॥

6.105

श्लोक

ततः समर्पयेत् कूर्चम् उषीरादि-विनिर्मितम् । मलापकर्षणाद्य्-अर्थं श्रीमन्-मूर्त्य्-अङ्ग-सन्धितः ॥ १०५ ॥

6.106

श्लोक

उषीर-कूर्चकं दत्त्वा सर्व-पापैः प्रमुच्यते । दत्त्वा गो-बाल-जं कूर्चं सर्वांस् तापान् व्यपोहति । दत्त्वा चामरकं कूर्चं श्रियम् आप्नोत्य् अनुत्तमम् ॥ १०६ ॥

6.107

श्लोक

ततः कोष्णेन संस्नाप्य संस्कृतेन सुगन्धिना । शीतलेनाम्बुना शङ्ख-भृतेन स्नापयेत् पुनः ॥ १०७ ॥

6.108

श्लोक

चन्दनोशीर-कर्पूर- कुङ्कुमागुरु-वासितैः । सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति ॥ १०८ ॥

6.109

श्लोक

स्नाने पल-शतं देयम् अभ्यङ्गे पञ्च-विंशतिः । पलानां द्वे सहस्रे तु महा-स्नानं प्रकीर्तितम् ॥ १०९ ॥

6.110

श्लोक

न नक्तोदक-पुष्पाद्यैर् अर्चनं स्नानम् अर्हति ॥ ११० ॥

6.111

श्लोक

न नक्तं गृहीतोदकेन दैव-कर्म कुर्यात् ॥ १११ ॥

6.112

श्लोक

तस्मान् न रात्रौ गृह्णीयात् ॥ ११२ ॥

6.113

श्लोक

निर्मालय्म् अपनीयाथ तोयेन स्नाप्य केशवम् । नरसिंहाकृतिं राजन् सर्व-पापैः प्रमुच्यते ॥ ११३ ॥

6.114

श्लोक

गो-दान-जं फलं प्राप्य यानेनाम्बर-शोभिना । नरसिंह-पुरं प्राप्य मोदते कालम् अक्षयम् ॥ ११४ ॥

6.115

श्लोक

स्नाप्य तोयेन भक्त्या तु नरसिंहं नराधिप । सर्व-पाप-विनिर्मुक्तो विष्णु-लोकं महीयते ॥ ११५ ॥

6.116

श्लोक

नरसिंहं तु संस्नाप्य कर्पूरागुरु-वारिणा । चन्द्द्र-लोके स मोदित्वा पश्चाद् विष्णु-पुरं वसेत् ॥ ११६ ॥

6.117

श्लोक

कुश-पुष्पोदकेनापि विष्णु-लोकम् अवाप्नुयात् । रत्नोदकेन सावित्रं कौवेरं हेम-वारिणा ॥ ११७ ॥

6.118

श्लोक

रत्नोदक-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् । बीजोदक-प्रदानेन क्रिया-साफल्यम् आप्नुयात् ॥ ११८ ॥

6.119

श्लोक

पुष्प-तोय-प्रदानेन श्रीमान् भवति मानवः । फल-तोय-प्रदानेन सफलां विन्दते क्रियाम् ॥ ११९ ॥

6.120

श्लोक

सुगन्धिना यस् तोयेन स्नापयेज् जल-शायिनम् । ब्रह्म-लोकम् अवाप्नोति यावद् इन्द्राश् चतुर्दश ॥ १२० ॥

6.121

श्लोक

तुलसी-मिश्र-तोयेन स्नापयन्ति जनार्दनम् । पूजयन्ति च भावेन धन्यास् ते भुवि मानवाः ॥ १२१ ॥

6.122

श्लोक

महा-स्नानेन गोविन्दं सम्यक् संस्नाप्य मानवः । यं यं प्रार्थयते कामं तं तं प्राप्नोत्य् असंशयः ॥ १२२ ॥

6.123

श्लोक

स्नानम् अभ्यर्चनं यस् तु कुरुते केशवे सदा । तस्य पुण्यस्य या सङ्ख्या नास्ति सा ज्ञाने गोचरा ॥ १२३ ॥

6.124

श्लोक

स्नानार्थं देवदेवस्य यस् तु गन्धं प्रयच्छति । भवन्ति वशगास् तस्य नार्यः सर्वत्र सर्वदा ॥ १२४ ॥

6.125

श्लोक

पुष्प-दानात् तथा लोके भवतीह फलान्वितः । दत्त्वा मृगमद-स्नानं सर्वान् कामान् अवाप्नुयात् ॥ १२५ ॥

6.126

श्लोक

सर्वौषधि-प्रदानेन वाजिमेध-फलं लभेत् । दत्त्वा जाती-फलं मुख्यं सफलां विन्दति क्रियाम् ॥ १२६ ॥

6.127

श्लोक

मुरा मासी वचा कुष्ठं शैलेयं रजनी-द्वयम् । शटी चम्पक-मुस्तं च सर्वौषधि-गणः स्मृतः ॥ १२७ ॥

6.128

श्लोक

गन्धश् चन्दन-कर्पूर-कालागुरुभिर् ईरितः ॥ १२८ ॥

6.129

श्लोक

शङ्ख-स्थितेन तोयेन यः स्नापयति केशवम् । कपिला-शत-दानस्य फलं प्राप्नोति मानवः ॥ १२९ ॥

6.130

श्लोक

शङ्के तीर्थोदकं कृत्वा यः स्नापयति माधवम् । द्वादश्यां बिन्दु-मात्रेण कुलानां तारयेच् छतम् ॥ १३० ॥

6.131

श्लोक

कपिला-क्षीरम् आदाय शङ्खे कृत्वा जनार्दनम् । यः स्नापयति धर्मात्मा यज्ञायुत-फलं लभेत् ॥ १३१ ॥

6.132

श्लोक

अन्य-गो-सम्भवं क्षीरं शङ्खे कृत्वा तु नारद । यः स्नापयति देवेशं राजसूय-फलं लभेएत् ॥ १३२ ॥

6.133

श्लोक

शङ्खे कृत्वा च पानीयं साक्षतं कुसुमान्वितम् । स्नापयेद् देवदेवेशं हन्यात् पापं चिरार्जितम् ॥ १३३ ॥

6.134

श्लोक

साक्षतं कुसुमोपेतं शङ्खे तोयं स-चन्दनम् । यः कृत्वा स्नापयेद् देवं मम लोके वसेच् चिरम् ॥ १३४ ॥

6.135

श्लोक

क्षिप्त्वा गन्धोदकं शङ्खे यः स्नापयति केशवम् । नमो नारायणायेति मुच्यते योनि-सङ्कटान् ॥ १३५ ॥

6.136

श्लोक

नाद्यं तडागजं वारि वापी-कूप-ह्रदादिजम् । गाङ्गेयं च भवेत् सर्वं कृतं शङ्खे कलि-प्रिय ॥ १३६ ॥

6.137

श्लोक

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शङ्खे तिष्ठन्ति विप्रेन्द्र तस्मात् शङ्खं सदार्चयेत् ॥ १३७ ॥

6.138

श्लोक

शङ्खे कृत्वा तु पानीयं स-पुष्पं सतिलाक्षतम् । अर्घ्यं ददाति देवस्य स-सागर-धरा-फलम् ॥ १३८ ॥

6.139

श्लोक

अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्षिणम् । प्रदक्षिणी-कृता तेन सप्त-द्वीपा वसुन्धरा ॥ १३९ ॥

6.140

श्लोक

दर्शनेनापि शङ्खस्य किं पुनः स्पर्शने कृते । विलयं यान्ति पापानि हिमं सूर्योदये यथा ॥ १४० ॥

6.141

श्लोक

नित्ये नैमित्तिके काम्ये स्नानार्चन-विलेपने । शङ्खम् उद्वहते यस् तु श्वेतद्वीपे वसेच् चिरम् ॥ १४१ ॥

6.142

श्लोक

नत्वा शङ्खं करे धृत्वा मन्त्रेणानेन वैष्णवः । यः स्नापयति गोविन्दं तस्य पुण्यम् अनन्तकम् ॥ १४२ ॥

6.143

श्लोक

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । मानितः सर्व-देवैश् च पाञ्चजन्य नमोऽस्तु ते ॥ १४३ ॥

6.144

श्लोक

तव नादेन जीमूता वित्रस्यन्ति सुरासुराः । शशाङ्कायुत-दीप्ताभ पाञ्चजन्य नमोऽस्तु ते ॥ १४४ ॥

6.145

श्लोक

गर्भा देवारि-नारीणां विलीयन्ते सहस्रधा । तव नादेन पाताले पाञ्चजन्य नमोऽस्तु ते ॥ १४५ ॥

6.146

श्लोक

दक्षिणावर्त-शङ्खेन तिल-मिश्रोदकेन च । उदके नाभिमात्रे तु यः कुर्याद् अभिषेचनम् ॥ १४६ ॥

6.147

श्लोक

प्राक् स्रोतसि च नद्यां वै नरस् त्व् एकाग्र-मानसः । यावज् जीव-कृतं पापं तत्-क्षणाद् एव नश्यति ॥ १४७ ॥

6.148

श्लोक

दक्षिणावर्त-शङ्खेन पात्रे औडुम्बरे स्थितम् । उदकं यः प्रतीच्छेत शिरसा कृष्ण-मानसः । तस्य जन्म-कृतं पापं तत्-क्षणाद् एव नश्यति ॥ १४८ ॥

6.149

श्लोक

बृहत्त्वं स्निग्धताच्छत्वं शङ्खस्येति गुण-त्रयम् ॥ १४९ ॥

6.150

श्लोक

आवर्त-भङ्ग-दोषस् तु हेम-योगान् न जायते । नालिकायां स्वभावेन यदि छिद्रं भवेन् नहि ॥ १५० ॥

6.151

श्लोक

घण्टावाद्यं च नितरां स्नान-काले प्रशस्यते । यतो भगवतो विष्णोस् तत् सदा परमं प्रियम् ॥ १५१ ॥

6.152

श्लोक

आवाहनार्घ्ये धूपे च पुष्प-नैवेद्य-योजने । नित्यम् एतां प्रयुञ्जीत तन्-मन्त्रेणाभिमन्त्रिताम् ॥ १५२ ॥

6.153

श्लोक

जय-ध्वनिं ततो मन्त्रमातः स्वाहेत्य् उदीर्य च । अभ्यर्च्य वादयन् घण्टां धूपं नीचैः प्रदापयेत् ॥ १५३ ॥

6.154

श्लोक

पूजा-कालं विनान्यत्र हितं नास्याः प्रचालनम् । न तया च विना कुर्यात् पूजनं सिद्धि-लालसः ॥ १५४ ॥

6.155

श्लोक

स्नानार्चन-क्रिया-काले घण्टा-नादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्य-फलं शृणु ॥ १५५ ॥

6.156

श्लोक

वर्ष-कोटि-सहस्राणि वर्ष-कोटि-शतानि च । वसते देव-लोके तु अप्सरो-गण-सेवितः ॥ १५६ ॥

6.157

श्लोक

सर्व-वाद्य-मयी घण्टा केशवस्य सदा प्रिया । वादनाल् लभते पुण्यं यज्ञ-कोटि-समुद्भवम् ॥ १५७ ॥

6.158

श्लोक

वादित्र-निनदैस् तूर्य-गीत-मङ्गल-निस्वनैः । यः स्नापयति गोविन्दं जीवन्-मुक्तो भवेद् धि सः ॥ १५८ ॥

6.159

श्लोक

वादित्राणाम् अभावे तु पूजा-काले हि सर्वदा । घण्टा-शब्दो नरैः कार्यः सर्व-वाद्य-मयी यतः ॥ १५९ ॥

6.160

श्लोक

सर्व-वाद्य-मयी घण्टा देवदेवस्य वल्लभा । तस्मात् सर्व-प्रयत्नेन घण्टा-नादं तु कारयेत् ॥ १६० ॥

6.161

श्लोक

मन्वन्तर-सहस्राणि मन्वन्तर-शतानि च । घण्टा-नादेन देवेशः प्रीतो भवति केशवः ॥ १६१ ॥

6.162

श्लोक

शृणु दैत्येन्द्र वक्ष्यामि घण्टा-माहात्म्यम् उत्तमम् । प्रह्लाद त्वत्-समो नास्ति मद्-भक्तो भुवन-त्रये ॥ १६२ ॥

6.163

श्लोक

मम नामाङ्किता घण्टा पुरतो मम तिष्ठति । अर्चिता वैष्णव-गृहे तत्र मां विद्धि दैत्यज ॥ १६३ ॥

6.164

श्लोक

वैनतेयाङ्कितां घण्टां सुदर्शन-युतां यदि । ममाग्रे स्थापयेद् यस् तु देहे तस्य वसाम्य् अहम् ॥ १६४ ॥

6.165

श्लोक

यस् तु वादयते घण्टा वैनतेयेन चिह्निताम् । धूपे नीराजनए स्नाने पूजा-काले विलेपने ॥ १६५ ॥

6.166

श्लोक

ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् । ममायुतं गो-युतं च चान्द्रायण-शतोद्भवम् ॥ १६६ ॥

6.167

श्लोक

विधि-बाह्य-कृता पूजा सफला जायते नॄणाम् । घण्टा-नादेन तुस्टोऽहं प्रयच्छामि स्वकं पदम् ॥ १६७ ॥

6.168

श्लोक

नागारि-चिह्निता घण्टा रथाङ्गेन समन्विता । वादनात् कुरुते नाशं जन्म-मृत्यु-भयस्य च ॥ १६८ ॥

6.169

श्लोक

गरुडेनाङ्क्तां घण्टां दृष्ट्वाहं प्रत्यहं सदा । प्रीतिं करोति दैत्येन्द्र लक्ष्मीं प्राप्य यथाधनः ॥ १६९ ॥

6.170

श्लोक

दृष्ट्वामृतं यथा देवाः प्रीतिं कुर्वन्त्य् अहर्निशम् । सुपर्णे च तथा प्रीतिं घण्टा-शिखर-संस्थिते ॥ १७० ॥

6.171

श्लोक

स्व-करेण प्रकुर्वन्ति घण्टा-नादं स्व-भक्तितः । मदीयार्चन-काले तु फलं कोट्य्-ऐन्दवं कलौ ॥ १७१ ॥

6.172

श्लोक

घण्टा-दण्डस्य शिखरे स-चक्रं स्थापयेत् तु यः । गरुडं वै प्रियं विष्णोः स्थापितं भुवन-त्रयम् ॥ १७२ ॥

6.173

श्लोक

स-चक्र- घण्टा-नादं तु मृत्यु-काले शृणोति यः । पाप-कोटि-युतस्यापि नश्यन्ति यम-किङ्कराः ॥ १७३ ॥

6.174

श्लोक

सर्वे दोषाः प्रलीयन्ते घण्टा-नादे कृते हरौ । देवतानां मुनीन्द्राणां पितॄणाम् उत्सवो भवेत् ॥ १७४ ॥

6.175

श्लोक

अभावे वैनतेयस्य चक्रस्यापि न संशयः । घण्टा-नादेन भक्तानां प्रसादं कुरुते हरिः ॥ १७५ ॥

6.176

श्लोक

गृहे यस्मिन् भवेन् नित्यं घण्टा नागारि-संयुता । न सर्पाणां भयं तत्र नाग्नि-विद्युत्-समुद्भवम् ॥ १७६ ॥

6.177

श्लोक

यस्य घण्टा गृहे नास्ति शङ्खश् च पुरतो हरेः । कथं भागवतं नाम गीयते तस्य देहिनः ॥ १७७ ॥

6.178

श्लोक

अतो भगवतः प्रीत्यै घण्टा श्री-गरुडान्विता । सङ्गृह्या वैष्णवैर् यत्नाच् चक्रेणोपरि मण्डिता ॥ १७८ ॥

6.179

श्लोक

स्नाने शङ्खादि-वाद्यां तु नाम-सङ्कीर्तनं हरेः । गीतं नृत्यं पुराणादि-पठनं च प्रशस्यते ॥ १७९ ॥

6.180

श्लोक

स्नान-काले तु कृष्णस्य शङ्खादीनां तु वादनम् । कुरुते ब्रह्म-लोके तु वसते ब्रह्म-वासरम् ॥ १८० ॥

6.181

श्लोक

स्नान-काले तु सम्प्राप्ते कृष्णस्याग्रे तु नर्तनम् । गीतं चैव पुनात्य् अत्र ऋचोक्तं वदनेन हि ॥ १८१ ॥

6.182

श्लोक

मृदङ्ग-वाद्येन युतं पणवेन समन्वितम् । अर्चनं वासुदेवस्य स-नृत्यं मोक्षदं नॄणाम् ॥ १८२ ॥

6.183

श्लोक

गीतं वाद्यं च नृत्यं च तथा पुस्तक-वाचनम् । पूजा-काले तु कृष्णस्य सर्वदा केशव-प्रियम् ॥ १८३ ॥

6.184

श्लोक

नृत्य-वाद्याद्य्-अभावे तु कुर्यात् पुस्तक-वाचनम् । पूजा-काले त्व् इदं पुत्र सर्वदा प्रीति-दायकम् ॥ १८४ ॥

6.185

श्लोक

पुस्तकस्याप्य् अभावे तु विष्णु-नाम-सहस्रकम् । स्तव-राजं मिनि-श्रेष्ठ गजेन्द्रस्य च मोक्षणम् ॥ १८५ ॥

6.186

श्लोक

पूजा-काले तु देवस्य गीता-स्तोत्रम् अनुस्मृतिः । पञ्च-स्तअवा महा-भाग महा-प्रीति-करा हरेः ॥ १८६ ॥

6.187

श्लोक

विहाय गीत-वाद्यानि पूजा-काले सदा हरेः । पठनीयं महा-भक्त्या विष्णोर् नाम-सहस्रकम् ॥ १८७ ॥

6.188

श्लोक

स्नान-काले तु कृष्णस्य जय-शब्दं करोति यः । कर-ताडन-संयुक्तं गीतं नृत्यं प्रकुर्वते ॥ १८८ ॥

6.189

श्लोक

उन्मत्त-चेष्टां कुर्वाणो हसन् जल्पन् यथेच्छया । नोत्तान-शायी भवति मातुर् अङ्के नरेश्वर ॥ १८९ ॥

6.190

श्लोक

स्नान-काले तु देवस्य पठेन् नाम-सहस्रकम् । प्रत्यक्सरं लभेत् पुण्यं कपिला-गो-शतोद्भवम् ॥ १९० ॥

6.191

श्लोक

कृत्वा नाम-सहस्रेण स्तुतिं तस्य महात्मनः । वियोगम् आप्नोति नरः सर्वानर्थैर् न संशयः ॥ १९१ ॥

6.192

श्लोक

विष्णोर् नाम-सहस्रं तु पूजा-काले पठन्ति ये । वेदानां चैव पुण्यानां फलम् आप्नोति मानवः ॥ १९२ ॥

6.193

श्लोक

श्लोकेनैकेन देवर्षे सहस्र-नामकस्य यत् । पठितेन फलं प्रोक्तं न तत् क्रतु-शतैर् अपि ॥ १९३ ॥

6.194

श्लोक

मन्त्र-हीनं क्रिया-हीनं यत् कृतं पूजनं हरेः । परिपूर्णं भवेत् सर्वं सहस्र-नाम-कीर्तनात् ॥ १९४ ॥

6.195

श्लोक

ज्ञानाज्ञान-कृतं पापं पठित्वा विष्णु-सन्निधौ । नाम्नां सहस्रं विष्णोस् तु प्रजहाति महा-रुजम् ॥ १९५ ॥

6.196

श्लोक

ब्रह्म-हत्यादि-पापानि काम-चार-कृतान्य् अपि । विलयं यान्ति वै नूनम् अन्य-पापे तु का कथा ॥ १९६ ॥

6.197

श्लोक

सिद्ध्यन्ति सर्व-कार्याणि मनसा चिन्तितानि च । यः पठेत् प्रातर् उत्थाय विष्णोर् नाम-सहस्रकम् ॥ १९७ ॥

6.198

श्लोक

अधीतास् तेन वै वेदाः सुराः सर्व-समर्चिताः । नाम्नां सहस्रं योऽधीते मुक्तिस् तस्य करे स्थिता ॥ १९८ ॥

6.199

श्लोक

कुर्वत् पाप-सहस्राणि भुञ्जानोऽपि यतस् ततः । पठेन् नाम-सहस्रस् तु दुर्गन्धं न स पश्यति ॥ १९९ ॥

6.200

श्लोक

मुक्त्वा नाम-सहस्रस् तु नान्यो धर्मोऽस्ति कश्चन । कलौ प्राप्ते गुडाकेश सत्यम् एतन् मयेरितम् ॥ २०० ॥