Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास २

दैक्षिकः

2.201

श्लोक

गुरुश् च मण्डलं भूमौ कल्प्तायां तु वर्तयेत् । लक्षणैर् विविधैर् भूमिं लक्षयित्वा विधानतः ॥ २०१ ॥

2.202

श्लोक

षोडशारं लिखेच् चक्रं नव-नाभम् अथापि वा । अष्ट-पत्रम् अथो वापि लिखित्वा दर्शयेद् बुधः ॥ २०२ ॥

2.203

श्लोक

नेत्र-बन्धं प्रकुर्वीत सित-वस्त्रेण यत्नतः । वर्णानुक्रमतः शिष्यान् पुर्ष्प-हस्तान् प्रवेशयेत् ॥ २०३ ॥

2.204

श्लोक

नव-नाभं यदा कुर्यान् मण्डलं वर्णकैर् बुधः । तदानीं पूर्वतो देवम् इन्द्रम् ऐन्द्र्यां तु पूजयेत् ॥ २०४ ॥

2.205

श्लोक

लोक-पालम् अथाग्नेय्याम् अग्निं सम्पूजयेद् द्विजः । यमं तद् अनु याम्यायां नैरृत्यां निरृतिं न्यसेत् । वारुण्यां वरुणं चैव वायव्यां पवनं यजेत् ॥ २०५ ॥

2.206

श्लोक

धनदं चोत्तरे न्यस्य रुद्रम् ऐशान-गोचरे । सम्पूज्यैवं विधानेन दिक्-पत्रेषु विशेषतः । अधः-पत्रे तथा विष्णुम् अर्चयेत् परमेश्वरम् ॥ २०६ ॥

2.207

श्लोक

पूर्व-पत्रे बलं पूज्य प्रद्युम्नं दक्षिणे तथा । अनिरुद्धं तथा पूज्य पश्चिमे चोत्तरे तथा । पूजयेद् वासुदेवं तु सर्व-पातक-शान्तिदम् ॥ २०७ ॥

2.208

श्लोक

ऐशान्यां विन्यसेच् छङ्खम् आग्नेय्यां चक्रम् एव च । सौम्यायां तु गदा पूज्या वायव्यां पद्मम् एव च ॥ २०८ ॥

2.209

श्लोक

नैरृत्यां मुषलं पूज्यं दक्षिणे गरुडं तथा । वामतो विन्यसेल् लक्ष्मीं देवदेवस्य बुद्धिमान् ॥ २०९ ॥

2.210

श्लोक

धनुश् चैव च खड्गं च देवस्य पुरतो न्यसेत् । श्रीवत्सं कौस्तुभं चैव देवस्य पुरतोऽर्चयेत् ॥ २१० ॥

2.211

श्लोक

एवं पूज्य यथा-न्यायं देवदेवं जनार्दनम् । दिङ्-मण्डले च विन्यस्य चाष्टौ कुम्भान् विधानतः । वैष्णवं कलसं चैव नवमं तत्र कल्पयेत् ॥ २११ ॥

2.212

श्लोक

स्नापयेन् मुक्ति-कामांस् तु वैष्णवेन घटेन तु । श्री-कामान् स्नापयेत् तद्वद् ऐन्द्रेणाथ घटेन तु ॥ २१२ ॥

2.213

श्लोक

जय-प्रताप-कामांस् तु आग्नेयेनाभिषेचयेत् । मृत्युञ्जय-विधानेन याम्येन स्नापनं तथा ॥ २१३ ॥

2.214

श्लोक

दुष्ट-प्रध्वंस्नायालं नैरृतेन विधीयते । शान्तये वारुण्येनाथ पाप-नाशाय वायवम् ॥ २१४ ॥

2.215

श्लोक

द्रव्य-सम्पत्ति-कामस्य कौवरेण विधीयते । रौद्रेण ज्ञान-हेतुस् तु लोक-पाल-घटास् त्व् इमे ॥ २१५ ॥

2.216

श्लोक

एकैकेन नरः स्नातः सर्व-पाप-वर्जितः । भवेद् अव्याहत-ज्ञानः श्रीमांश् च पुरुषः सदा ॥ २१६ ॥

2.217

श्लोक

किं पुनर् नवभिः स्नातो नरः पातक-वर्जितः । जायते विष्णु-सदृशः सद्यो राजाथवा पुनः ॥ २१७ ॥

2.218

श्लोक

अथवा दिक्षु सर्वासु यथा-सङ्ख्येन लोकपान् । पूजयेत् स्व-स्व-नाम्ना तु षड्-भिन्नेन विधानतः ॥ २१८ ॥

2.219

श्लोक

एवं सम्पूज्य देवांस् तु लोक-पालान् प्रसन्न-धीः । पश्चात् परीक्षितान् शिष्यान् बद्ध-नेत्रान् प्रवेशयेत् ॥ २१९ ॥

2.220

श्लोक

आग्नेय-धारणा-दग्धान् वायुना विधूतांस् ततः । सोमेनाप्य् आयितान् पश्चाच् छ्रावयेन् नियमान् बुधः ॥ २२० ॥

2.221

श्लोक

न निन्देद् अब्राह्मणान् देवान् विष्णुं ब्राह्मणम् एव च । रुद्रम् आदियम् अग्निं च लोक-पालान् ग्रहांस् तथा । वन्देत वैष्णवं चापि पुरुषं पूर्व-दीक्षितम् ॥ २२१ ॥

2.222

श्लोक

एवं तु समयान् श्राव्य पश्चाद् धोमं तु कारयेत् । तत्त्वानि शिष्य-देहेषु विन्यस्य च विशोधयेत् ॥ २२२ ॥

2.223

श्लोक

ॐ नमो भगवते विष्णवे सर्व-रूपिणे हुं स्वाहा ॥ २२३ ॥

2.224

श्लोक

षोडशाक्षर-मन्त्रेण होमयेज् ज्वलितानलः । गर्भाधानादिकाश् चैव क्रियाः सर्वाश् च कारयेत् ॥ २२४ ॥

2.225

श्लोक

त्रिभिस् त्रिभिर् आहुतिभिर् देवदेवस्य सन्निधौ । ततोऽपनीय दृग्-बन्धं पुरः शिष्यं निवेश्य च । प्रायः पूर्वोक्त-विधिना मन्त्रं तस्मै गुरुर् दिशेत् ॥ २२५ ॥

2.226

श्लोक

होमान्ते दीक्षितः पश्चाद् दापयेद् गुरु-दक्षिणाम् । हस्त्य्-अश्व-रत्न-कटकं हेम-ग्रामादिकं नृपः ॥ २२६ ॥

2.227

श्लोक

दापयेद् गुरवे प्राज्ञो मध्यमो मध्यमां तथा । दापयेद् इतरो युग्मं सहिरण्यं यथा-विधि ॥ २२७ ॥

2.228

श्लोक

एवं कृते तु यत् पुण्यं माहात्म्यं जायते धरे । तद् अशक्यं तु गदितुम् अपि वर्ष-शतैर् अपि ॥ २२८ ॥

2.229

श्लोक

दीक्षितात्मा गुरोर् भूत्वा वाराहं शृणुयाद् यदि । तेन वेदाः पुराणानि सर्वे मन्त्राः सुसङ्ग्रहाः ॥ २२९ ॥

2.230

श्लोक

जप्ताः स्युः पुष्करे तीर्थे प्रयागे सिन्धु-सागरे । देवहूते कुरुक्षेत्रे वाराणस्यां विशेषतः ॥ २३० ॥

2.231

श्लोक

ग्रहेण विषुवे चैव यत् फलं जपतां भवेत् । तत् फलं द्विगुणं तस्य दीक्षितो यः शृणोति च ॥ २३१ ॥

2.232

श्लोक

देवा अपि तपः कृत्वा ध्यायन्ति च वदन्ति च । कदा मे भारते वर्षे जन्म स्याद् भूत-धारिणि ॥ २३२ ॥

2.233

श्लोक

दीक्षिताश् च भविष्यामो वाराहं शृणुमः कदा । वाराहं षोडशात्मानं युक्ता देहे कदाचन । पश्यामः परमं स्थानं यद् गत्वा न पुनर् भवेत् ॥ २३३ ॥

2.234

श्लोक

एवं जल्पन्ति विबुधा मनसा चिन्तयन्ति च । वाराह-यागं कार्त्तिक्यां कदा द्रक्ष्यामहे धरे ॥ २३४ ॥

2.235

श्लोक

एष ते विधिर् उद्दिष्टो मया ते भूत-धारिणि । देव-गन्धर्व-यक्षाणां सर्वथा दुर्लभो ह्य् असौ ॥ २३५ ॥

2.236

श्लोक

एवं यो वेत्ति तत्त्वेन यश् च पश्यति मण्डलम् । यश् चेमं शृणुयाद् देवि सर्वे मुक्ता इति श्रुतिः ॥ २३६ ॥

2.237

श्लोक

सङ्क्षिप्तश् चाथ दीक्षाया विधिर् एष विलिख्यते । मुख्य-कल्पे ह्य् अशक्तस्य जनस्य स्याद् धिताय च ॥ २३७ ॥

2.238

श्लोक

सु-मुहूर्तेऽथ सम्प्राप्ते सर्वतोभद्र-मण्डले । नूतनं गन्ध-पुष्पादि-मण्डितं कलसं न्यसेत् ॥ २३८ ॥

2.239

श्लोक

वस्त्रावृतं पयः पूर्णं पञ्च-पल्लव-संयुतम् । सर्वौषधि-पञ्च-रत्न-मृत्स्ना-सप्तक-गर्भितम् ॥ २३९ ॥

2.240

श्लोक

अश्व-स्थानाद् गज-स्थानाद् वल्मीकाच् च चतुष्पथात् । राज-द्वाराच् च गोष्ठाच् च नद्याः कूलान् मृदः स्मृताः ॥ २४० ॥

2.241

श्लोक

कृष्णम् अभ्यर्च्य तं कुम्भं कुश-कूर्चेन देशिकः । देय-मन्त्रेण साष्टं तु सहस्रम् अभिमन्त्रयेत् ॥ २४१ ॥

2.242

श्लोक

तद्-अद्भिः पूर्ववच् छिष्यम् अभिषिच्य दिशेन् मनुम् । शिष्योऽर्चयेद् गुरुं भक्त्या यथा-शक्ति द्विजान् अपि ॥ २४२ ॥

2.243

श्लोक

अत्राप्य् अशक्तः कश्चिच् चेद् अब्जम् अभ्यर्च्य साक्षतम् । तद्-अम्भसाभिषिच्याष्ट वारान् मूलेन के करम् ॥ २४३ ॥

2.244

श्लोक

निधायामुं जपेत् कर्णे उपदेशेष्व् अयं विधिः । चन्द्र-सूर्य-ग्रहे तीर्थे सिद्ध-क्षेत्रे शिवालये । मन्त्र-मात्र-प्रकथनम् उपदेशः स उच्यते ॥ २४४ ॥

2.245

श्लोक

वित्त-लोभाद् विमुक्तस्य स्वल्प-वित्तस्य देहिनः । संसार-भय-भीतस्य विष्णु-भक्तस्य तत्त्वतः ॥ २४५ ॥

2.246

श्लोक

अग्नाव् आज्यान्विते बीजैः सलिलैः केवलैश् च वा । द्रव्य-हीनस्य कुर्वीत वचसानुग्रहं गुरुः ॥ २४६ ॥

2.247

श्लोक

यः समः सर्व-भूतेषु विरागो वीत-मत्सरः । जितेन्द्रियः शुचिर् दक्षः सर्वाङ्गावयवान्वितः ॥ २४७ ॥

2.248

श्लोक

कर्मणा मनसा वाचा भीते चाभयदः सदा । सम-बुद्धि-पदं प्राप्तस् तत्रापि भगवन्-मयः ॥ २४८ ॥

2.249

श्लोक

पञ्च-काल-परश् चैव पञ्चरात्रार्थवित् तथा । विष्णु-तत्त्वं परिज्ञाय एकं चानेक-भेदगम् । वीक्षयेन् मेदिनीं सर्वां किं पुनश् चोपसन्नतान् ॥ २४९ ॥

2.250

श्लोक

इह कीर्तिं वदान्यत्वं प्रजा-वृद्धिं धनं सुखम् । विद्या-दानेन लभते सात्त्विको नात्र संशयः ॥ २५० ॥

2.251

श्लोक

यथा सुराणां सर्वेषां परमः परमेश्वरः । तथैव सर्व-दानानां विद्या-दानं परं स्मृतम् ॥ २५१ ॥

2.252

श्लोक

यावच् च पातकं तेन कृतं जन्म-शतैर् अपि । तत् सर्वं नाशम् आप्नोति विद्या-दानेन देहिनाम् ॥ २५२ ॥

2.253

श्लोक

विद्या-दानात् परं दानं न भूतं न भविष्यति । येन दत्तेन चाप्नोति शिवं परम-कारणम् ॥ २५३ ॥