Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास २

दैक्षिकः

2.101

श्लोक

तत्-समं मधु-दुग्धान्नम् अक्ष-मात्रम् उदाहृतम् । दधि प्रसृति-मात्रं स्यात् लाजाः स्युः मुष्टि-संमिताः ॥ १०१ ॥

2.102

श्लोक

आत्मार्पणान्तम् अभ्यर्च्य लेख्येन विधिनाचरेत् ॥ १०२ ॥

2.103

श्लोक

व्रत-स्थं वाग्-यतं शिष्यं प्रवेश्याथ यथा-विधि । तद्-देहे मातृकां साङ्गां न्यस्याथोपदिशेच् च ताम् ॥ १०३ ॥

2.104

श्लोक

देवं सावरणं कुम्भ-गतं चानुस्मरन् गुरुः । जप्त्वाष्टोत्तर-साहस्रं शयीत प्राश्य किंचन ॥ १०४ ॥

2.105

श्लोक

दर्भोपर्यजिने त्वैणे निविष्टो मातृकां स्मरन् । गुरुं च शिष्यो निद्राणं तां शयीत जपन् व्रती ॥ १०५ ॥

2.106

श्लोक

प्रातः-कृत्यं गुरुः कृत्वा कुम्भं चाभ्यर्च्य पूर्ववत् । हुत्वा दत्त्वा बलिं कर्मान्यत् कुर्यात् स्वार्पणावधि ॥ १०६ ॥

2.107

श्लोक

संहार-मुद्रया कृष्णे संयोज्यावृत्ति-देवताः । तम् चामृत-मयं ध्यात्वा स्वस्मिंश् चाग्निं विलापयेत् ॥ १०७ ॥

2.108

श्लोक

ध्वज-तोरण-दिक्-कुम्भ-मण्डपाद्य्-अधिदेवताः । सर्वा विभाव्य चिद्-रूपाः कुम्भे संयोज्य पूजयेत् ॥ १०८ ॥

2.109

श्लोक

अतो गुरुं गणेशं च विष्वक्सेनं च पूजयेत् । उद्वास्य कलसं स्पृष्ट्वा शतम् अष्टोत्तरं जपेत् ॥ १०९ ॥

2.110

श्लोक

कृतोपवासः शिष्योऽथ प्रातः-कृत्यं विधाय सः । शुक्ल-वस्त्रः सुवेशः सन् विप्रान् द्रव्येण तोषयेत् ॥ ११० ॥

2.111

श्लोक

गुरुं च भगवद्-दृष्ट्या परिक्रम्य प्रणम्य च । दत्त्वोक्तां दक्षिणां तस्मै स्व-शरीरं समर्पयेत् ॥ १११ ॥

2.112

श्लोक

इयद् एव हि सच्-छिष्यैः कर्तव्यं गुरु-निष्कृतम् । यद् वै विशुद्ध-भावेन सर्वार्थात्मार्पणं गुरौ ॥ ११२ ॥

2.113

श्लोक

यागालयाद् उत्तरस्याम् आशायां स्नान-मण्डपे । पीठे निवेश्य तं शिष्यं कारयेच् छोषणादिकम् ॥ ११३ ॥

2.114

श्लोक

पीठ-न्यासान्तम् अखिलं मातृकान्यास-पूर्वकम् । न्यासं शिष्य-तनौ कृत्वा पीठ-मन्त्रेण पूजयेत् ॥ ११४ ॥

2.115

श्लोक

स-दूर्वाक्षत-पुष्पां च मूर्ध्नि शिष्यस्य रोचनाम् । निधाय कलसं तस्यान्तिके वाद्यादिना नयेत् ॥ ११५ ॥

2.116

श्लोक

श्री-कृष्णम् अथ सम्प्रार्थ्य गुरुः कुम्भस्य वाससा । नीराज्य शिष्यं तन्-मूर्ध्नि न्यसेत् तत्-पल्लवादिकम् ॥ ११६ ॥

2.117

श्लोक

विधिवत् कुम्भम् उद्धृत्य तन्-मुखस्थान् सुर-द्रुमान् । शिशोः शिरसि विन्यस्य मातृकां मनसा जपेत् ॥ ११७ ॥

2.118

श्लोक

ततः कुम्भाम्भसा शिष्यं प्रोक्ष्य त्रिर् मूल-मन्त्रतः । विप्राशीर् मङ्गलोद्घोषैर् अभिषिञ्चेन् मनून् पठन् ॥ ११८ ॥

2.119

श्लोक

सुरास् त्वाम् अभिषिञ्च्यं तु ब्रह्म-विष्णु-महेश्वराः । वासुदेवो जगन्नाथस् तथा सङ्कर्षणो विभुः ॥ ११९ ॥

2.120

श्लोक

प्रद्युम्नश् चानिरुद्धश् च भवन्तु विभवाय ते । आखण्डलोऽग्निर् भगवान् यमो वै निरृतिस् तथा ॥ १२० ॥

2.121

श्लोक

वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः । ब्रह्मणा सहिता ह्य् एते दिक्-पालाः पान्तु वः सदा ॥ १२१ ॥

2.122

श्लोक

कीर्तिर् लक्ष्मीर् धृतिर् मेधा पुष्टिः श्रद्धा क्रिया गतिः । बुद्धिर् लज्जा वपुः शान्तिर् माया निद्रा च भावना ॥ १२२ ॥

2.123

श्लोक

एतास् त्वाम् अभिषिञ्चन्तु राहुः केतुश् च पूजिताः । देव-दानव-गन्धर्वा यक्ष-राक्षस-पन्नगाः ॥ १२३ ॥

2.124

श्लोक

ऋषयो मुनयो गावो देव-मातर एव च । देव-पत्न्यो ध्रुवा नागा दैत्या अप्सरसां गणाः ॥ १२४ ॥

2.125

श्लोक

अस्त्राणि सर्व-शस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्यावयवाश् च ये ॥ १२५ ॥

2.126

श्लोक

सरितः सागराः शैलास् तीर्थानि जलदा नदाः । एते त्वाम् अभिषिञ्चन्तु धर्म-कामार्थ-सिद्धये ॥ १२६ ॥

2.127

श्लोक

परिधायांशुके शिष्य आचान्तो याग-मण्डपे । गत्वा भक्त्या गुरुं नत्वा गुरोर् आसीत दक्षिणे ॥ १२७ ॥

2.128

श्लोक

गुरुः समर्प्य गन्धादीन् पुरुषाहार-संमितम् । निवेद्य पायसं कृष्णे कुर्यात् पुष्पाञ्जलिं ततः ॥ १२८ ॥

2.129

श्लोक

साम्प्रदायिक-मुद्रादि-भूषितं तं कृताञ्जलिम् । पञ्चाङ्ग-प्रमुखैर् न्यासैः कुर्यात् श्री-कृष्ण-साच्-छिशुम् ॥ १२९ ॥

2.130

श्लोक

न्यस्य पाणि-तलं मूर्ध्नि तस्य कर्णे च दक्षिणे । ऋष्य्-आदि-युक्तं विधिवन् मन्त्रं वार-त्रयं वदेत् ॥ १३० ॥

2.131

श्लोक

दीर्घ-मन्त्रं च शिष्यस्य यावद् आग्रहणं पठेत् । गुरु-दैवत-मन्त्रैक्यं शिष्यस् तं भावयन् पठेत् ॥ १३१ ॥

2.132

श्लोक

साक्षतं गुरुर् आदाय वारि शिष्यस्य दक्षिणे । करेऽर्पयेद् वदन् मन्त्रोऽयं समोऽस्त्व् आवयोर् इति ॥ १३२ ॥

2.133

श्लोक

स्वस्माज् ज्योतिर्मयीं विद्यां गच्छन्तीं भावयेद् गुरुः । आगतां भावयेच् छिष्यो धन्योऽस्मीति विशेषतः ॥ १३३ ॥

2.134

श्लोक

महा-प्रसादं शिष्याय दत्त्वा तत्-पायसं गुरुः । निदध्याद् अक्षतान् मूर्ध्नि तस्य यच्छन् शुभाशिषम् ॥ १३४ ॥

2.135

श्लोक

गुरुणा कृपया दत्तं शिष्यश् चावाप्य तं मनुम् । अष्टोत्तर-शतं जप्त्वा समयान् शृणुयात् ततः ॥ १३५ ॥

2.136

श्लोक

स्व-मन्त्रो नोपदेष्टव्यो वक्तव्यश् च न संसदि । गोपनीयं तथा शास्त्रं रक्षणीयं शरीरवत् ॥ १३६ ॥

2.137

श्लोक

वैष्णवानां परा भक्तिर् आचार्याणां विशेषतः । पूजनं च यथा-शक्ति तान् आपन्नांश् च पालयेत् ॥ १३७ ॥

2.138

श्लोक

प्राप्तम् आयतनाद् विष्णोः शिरसां प्रणतो वहेत् । निक्षिपेद् अम्भसि ततो न पतेद् अवनौ यथा ॥ १३८ ॥

2.139

श्लोक

सोम-सूर्यान्तर-स्थं च गवाश्वत्थाग्नि-मध्यगम् । भावयेद् दैवतं विष्णुं गुरु-विप्र-शरीरगम् ॥ १३९ ॥

2.140

श्लोक

यत्र यत्र परिवादो मात्सर्याच् छ्रूयते गुरोः । तत्र तत्र न वस्तव्यं निर्यायात् संस्मरन् हरिम् ॥ १४० ॥

2.141

श्लोक

यैः कृता च गुरोर् निन्दा विभोः शास्त्रस्य नारद । नापि तैः सह वस्तव्यं वक्तव्यं वा कथञ्चन ॥ १४१ ॥

2.142

श्लोक

प्रदक्षिणे प्रयाणे च प्रदाने च विशेषतः । प्रभाते च प्रवासे च स्व-मन्त्रं बहुशः स्मरेत् ॥ १४२ ॥

2.143

श्लोक

स्वप्ने वाक्षि-समक्षं वा आश्चर्यम् अतिहर्षदम् । अकस्माद् यदि जायेत न ख्यातव्यं गुरोर् विना ॥ १४३ ॥

2.144

श्लोक

समयांश् च प्रवक्ष्यामि संक्षेपात् पञ्चरात्रकात् । न भक्षयेन् मत्स्य-मांसं कूर्म-शूकरकांस् तथा ॥ १४४ ॥

2.145

श्लोक

कांस्य-पात्रे न भुञ्जीत न प्लक्ष-बट-पत्रयोः । देवागारे न निष्ठीवेत् क्षुतं चात्र विवर्जयेत् । न सोपानत्क-चरणः प्रविशेद् अन्तरं क्वचित् ॥ १४५ ॥

2.146

श्लोक

एकादश्यां न चाश्नीयात् पक्षयोर् उभयोर् अपि । जागरं निशि कुर्वीत विशेषाच् चार्चयेद् विभुम् ॥ १४६ ॥

2.147

श्लोक

गोपयेद् देवताम् इष्टां गोपयेद् गुरुम् आत्मनः । गोपयेच् च निजं मन्त्रं गोपयेन् निज-मालिकाम् ॥ १४७ ॥

2.148

श्लोक

चतुर्-युक्-शत-सङ्ख्येषु प्राग् गुरोः समयेषु च । शिष्येणाङ्गीकृतेष्व् एव दीक्षा कैश्चन मन्यते ॥ १४८ ॥

2.149

श्लोक

गुरुः परीक्षयेच् छिष्यं संवत्सरम् अतन्द्रितः । नियमान् विहितान् वर्ज्यान् श्रावयेच् च चतुःशतम् ॥ १४९ ॥

2.150

श्लोक

ब्राह्मे मुहूर्त उत्थानं महा-विष्णोः प्रबोधनम् । नीराजनं च वाद्येन प्रातः-स्नानं विधानतः ॥ १५० ॥

2.151

श्लोक

विशुद्धाहत-युग्-वस्त्र-धारणं देवतार्चनम् । गोपी-चन्दन-मृत्स्नायाः सर्वदा चोर्द्ध्व-पुण्ड्रकम् ॥ १५१ ॥

2.152

श्लोक

पञ्चायुधानां विधृतिश् चरणामृत-सेवनम् । तुलसी-मणि-मालादि-भूषा-धारणम् अन्वहम् ॥ १५२ ॥

2.153

श्लोक

शालग्राम-शिला-पूजा प्रतिमासु च भक्तितः । निर्माल्य-तुलसी-भक्षस् तुलस्य-वचयो विधेः ॥ १५३ ॥

2.154

श्लोक

विधिना तान्त्रिकी सन्ध्या शिखा-बन्धो हि कर्मणि । विष्णु-पादोदकेनैव पितॄणां तर्पण-क्रिया । महाराजोपचारैश् च शक्त्यां सम्पूजनं हरेः ॥ १५४ ॥

2.155

श्लोक

विष्णु-भक्त्य्-अविरोधेन नित्य-नैमित्तिकी क्रिया । भूत-शुद्ध्य्-आदि-करणं न्यासाः सर्वे यथा-विधि ॥ १५५ ॥

2.156

श्लोक

नवीन-फल-पुष्पादेर् भक्तितः संनिवेदनम् । तुलसी-पूजनं नित्यं श्री-भागवत-पूजनम् ॥ १५६ ॥

2.157

श्लोक

त्रि-कालं विष्णु-पूजा च पुराण-श्रुतिर् अन्वहम् । विष्णोर् निवेदितानां वै वस्त्रादीनां च धारणम् ॥ १५७ ॥

2.158

श्लोक

सर्वेषां पुण्य-कार्याणां स्वामि-दृष्ट्या प्रवर्तनम् । गुर्व्-आज्ञा-ग्रहणं तत्र विश्वासो गुरुणोदिते ॥ १५८ ॥

2.159

श्लोक

यथा-स्व-मुद्रा-रचनं गीत-नृत्यादि भक्तितः । शङ्खादि-ध्वनि-माङ्गल्य-लीलाद्य्-अभिनयो हरेः । नित्य-होम-विधानं च बलि-दानं यथा-विधि ॥ १५९ ॥

2.160

श्लोक

साधूनां स्वागतं पूजा शेष-नैवेद्य-भोजनम् । ताम्बूल-शेष-ग्रहणं वैष्णवैः सह सङ्गमः ॥ १६० ॥

2.161

श्लोक

विशिष्ट-धर्म-जिज्ञासा दशम्यादि-दिन-त्रये । व्रते नियमतः स्वास्थ्यं सन्तोषो येन केन वै ॥ १६१ ॥

2.162

श्लोक

पर्वयात्रादि-करणं वासराष्टक-सद्-विधिः । विष्णोः सर्वर्तु-चर्या च महाराजोपचारतः ॥ १६२ ॥

2.163

श्लोक

सर्वेषां वैष्णवानां च व्रतानां परिपालनम् । गुराव् ईश्वर-भावश् च तुलसी-सङ्ग्रहः सदा ॥ १६३ ॥

2.164

श्लोक

शयनाद्य्-उपचारश् च रामादीनां च चिन्तनम् ॥ १६४ ॥

2.165

श्लोक

सन्ध्ययोः शयनं नैव न शौचं मृत्तिकां विना । तिष्ठताचमनं नैव तथा गुर्वासनासनम् ॥ १६५ ॥

2.166

श्लोक

गुर्व्-अग्रे पाद-विस्तार-च्छायाया लङ्घनं गुरोः । शक्तौ स्नान-क्रिया-हानिर् देवतार्चन-लोपनम् ॥ १६६ ॥

2.167

श्लोक

देवतानां गुरूणां च प्रत्युत्थानाद्य-भावनम् । गुरोः पुरस्तात् पाण्डित्यं प्रौढ-पाद-क्रिया तथा ॥ १६७ ॥

2.168

श्लोक

अमन्त्र-तिलकाचामो नीली-वस्त्र-विधारणम् । अभक्तैः सह मैत्र्य्-आदि असच्-छास्त्र-परिग्रहः । तुच्छ-सङ्ग-सुखासक्तिर् मद्य-मांस-निषेवणम् ॥ १६८ ॥

2.169

श्लोक

मादकौषध-सेवा च मसुराद्य्-अन्न-भोजनम् । शाकं तुम्बी कलञ्जादि तथाभक्तान्न-सङ्ग्रहः । अवैष्णव-व्रतारम्भस् तथा जप्यम् अवैष्णवम् ॥ १६९ ॥

2.170

श्लोक

अभिचारादि-करणं शक्त्या गौणोपचारकम् । शोकादि-पारवश्यं च दिग्-विद्धैकादशी-व्रतम् ॥ १७० ॥

2.171

श्लोक

शुक्ला-कृष्णाविभेदश् चासद्-व्यापारो व्रते तथा । शक्तौ फलादि-भुक्तिश् च श्राद्धं चैकादशी-दिने ॥ १७१ ॥

2.172

श्लोक

द्वादश्यां च दिवा-स्वापस् तुलस्यावचयस् तथा । तत्र विष्णोर् दिवा-स्नानं श्राद्धं हर्य्-अनिवेदितैः ॥ १७२ ॥

2.173

श्लोक

वृद्धाव् अतुलसी-श्राद्धं तथा श्राद्धम् अवैष्णवम् । चरणामृत-पानेऽपि शुद्ध्य्-अर्थाचमन-क्रिया ॥ १७३ ॥

2.174

श्लोक

काष्ठासनोपविष्टेन वासुदेवस्य पूजनम् । पूजा-कालेऽसद्-आलापः कर-वीरादि-पूजनम् ॥ १७४ ॥

2.175

श्लोक

आयसं धूप-पात्रादि तिर्यक्-पुण्ड्रं प्रमादतः । पूजा चासंस्कृतैर् द्रव्यैस् तथा चञ्चल-चित्ततः ॥ १७५ ॥

2.176

श्लोक

एक-हस्त-प्रणामादि अकाले स्वामि-दर्शनम् । पर्युषितादि-दुष्टानाम् अन्नादीनां निवेदनम् ॥ १७६ ॥

2.177

श्लोक

सङ्ख्यां विना मन्त्र-जपस् तथा मन्त्र-प्रकाशनम् । सदा शक्त्यां मुख्य-लोपो गौण-काल-परिग्रहः ॥ १७७ ॥

2.178

श्लोक

प्रसादाग्रहणं विष्णोर् वर्जयेद् वैष्णवः सदा । चतुः-शतं विधीन् एतान् निषेधान् श्रावयेद् गुरुः ॥ १७८ ॥

2.179

श्लोक

अङ्गीकारे कृते बाढं तन्-नीराजन-पूर्वकम् । देव-पूजां कारयित्वा दक्ष-कर्णे मन्त्रं जपेत् ॥ १७९ ॥

2.180

श्लोक

ततश् चोत्थाय पूर्णात्मा दण्डवत् प्रणमेद् गुरुम् । तत्-पाद-पङ्कजं शिष्यः प्रतिष्ठाप्य स्व-मूर्धनि ॥ १८० ॥

2.181

श्लोक

साष्टं सहस्रं तन्-मन्त्रं स्व-शक्त्य्-अक्षतये जपेत् ॥ १८१ ॥

2.182

श्लोक

शिष्यः कुम्भादि तत् सर्वं द्रवम् अन्यच् च शक्तितः । दत्त्वाभ्यर्च्य गुरुं नत्वा विप्रान् संपूज्य भोजयेत् ॥ १८२ ॥

2.183

श्लोक

श्री-गुरोर् ब्राह्मणानां च शुभाशीर्भिः समेधितः । तान् अनुज्ञाप्य गुर्वादीन् भुञ्जीत सह बन्धुभिः ॥ १८३ ॥

2.184

श्लोक

स भाग्यवान् चिरञ्जीवी कृत-कृत्यश् च जायते ॥ १८४ ॥

2.185

श्लोक

एवं यः कुरुते मर्त्यः करे तस्य विभूतयः । अतः परं महा-भागे नान्यत् कर्मास्ति भूतले । यस्याचरण-मात्रेण साक्षात् कृष्णः प्रसीदति ॥ १८५ ॥

2.186

श्लोक

प्रायः प्रपञ्च-सारादाव् उक्तोऽयं तान्त्रिको विधिः । दीक्षाया लिख्यते दिव्यो विधिः पौराणिकोऽधुना ॥ १८६ ॥

2.187

श्लोक

इदानीं शृणु मे देवि पञ्च-पातक-नाशनम् । यजनं देव-देवस्य विष्णोः पुत्र-वसु-प्रदम् ॥ १८७ ॥

2.188

श्लोक

इह जन्मनि दारिद्र्य-व्याधि-कुष्ठादि-पीडितः । अलक्ष्मीवान् अपुत्रस् तु यो भवेत् पुरुषो भुवि । तस्य सद्यो भवेल् लक्ष्मीर् आयुर् वित्तं सुताः सुखम् ॥ १८८ ॥

2.189

श्लोक

दृष्ट्वा तु मण्डले देवि देवं देव्या समन्वितम् । नारायणं परं देवं यः पश्यति विधानतः ॥ १८९ ॥

2.190

श्लोक

पूजितं नव-नाभे तु षोडशाब्ज-दले तथा । आचार्य-दर्शितं देवं मन्त्र-मूर्तिम् अयोनिजम् ॥ १९० ॥

2.191

श्लोक

कार्त्तिके मासि शुद्धायां द्वादश्यां तु विशेषतः । सर्वासु च यजेद् देवं द्वादशीषु विधानतः ॥ १९१ ॥

2.192

श्लोक

सङ्क्रान्तौ च महाभागे चन्द्र-सूर्य-ग्रहेऽपि वा । यः पश्यति हरिं देवं पूजितं गुरुणा शुभे । तस्य सद्यो भवेत् तुष्टिः पाप-ध्वंसोऽप्य् अशेषतः ॥ १९२ ॥

2.193

श्लोक

स सामान्यो हि देवानां भवतीति न संशयः ॥ १९३ ॥

2.194

श्लोक

ब्राह्मण-क्षत्रिय-विशां शूद्राणां च परीक्षणम् । संवत्सरं गुरुः कुर्याज् जाति-शौच-क्रियादिभिः ॥ १९४ ॥

2.195

श्लोक

उपसन्नांस् ततो ज्ञात्वा हृदयेनावधारयेत् । तेऽपि भक्तिमतो ज्ञात्वा आत्मनः परमेश्वरम् । संवत्सरं गुरोर् भक्तिं कुर्युर् विष्णाव् इवाचलाम् ॥ १९५ ॥

2.196

श्लोक

संवत्सरं ततः पूर्णे गुरुं चैव प्रसादयेत् ॥ १९६ ॥

2.197

श्लोक

भगवंस् त्वत्-प्रसादेन संसारार्णव-तारणम् । इच्छामस् त्व् ऐहिकीं लक्ष्मीं विशेषेण तपोधन ॥ १९७ ॥

2.198

श्लोक

एवम् अभ्यर्थ्य मेधावी गुरुं विष्णुम् इवाग्रतः । अभ्यर्च्य तद्-अनुज्ञातो दशम्यां कार्त्तिकस्य तु ॥ १९८ ॥

2.199

श्लोक

क्षीर-वृक्ष-समुद्भूतं मन्त्रितं परमेष्ठिना । भक्षयित्वा शयीतोर्व्यां देवदेवस्य सन्निधौ ॥ १९९ ॥

2.200

श्लोक

स्वप्नान् दृष्ट्वा गुरोर् अग्रे श्रावयेत विचक्षणः । ततः शुभाशुभं तद्वद् आलपेत् परमो गुरुः । एकादश्याम् उपोष्याथ स्नात्वा देवालयं व्रजेत् ॥ २०० ॥