Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १

गौरवः

1.201

श्लोक

प्राक् प्रत्यग् अग्रा रेखाः स्युः पञ्च याम्योत्तराग्रगाः । तावत्यश् च चतुष्कोष्ठ-चतुष्कं मण्डलं भवेत् ॥ २०१ ॥

1.202

श्लोक

इन्द्व्-अग्नि-रुद्र-नव-नेत्र-युगेन दिक्षु ऋत्व्-अष्ट-षडश-चतुर्दश-भौतिकेषु । पाताल-पञ्चदश-वह्नि-हिमांशु-कोष्ठे वर्णांल् लिखेल् लिपि-भवान् क्रमशस् तु धीमान् ॥ २०२ ॥

1.203

श्लोक

जन्म-र्क्षाक्ष-रतौ यावन्-मन्त्रादिमाक्षरम् । चतुर्भिः कोष्ठकैस् त्व् एकम् इति कोष्ठ-चतुष्टये ॥ २०३ ॥

1.204

श्लोक

पुनः कोष्ठक-कोष्ठेषु सव्यतो जन्मभाक्षरात् ।सिद्ध-साध्य-सुसिद्धारिक्रमाज् ज्ञेया विचक्ष्णैः ॥ २०४ ॥

1.205

श्लोक

सिद्धः सिध्यति कालेन साध्यस् तु जप-होमतः । सुसिद्धो ग्रह-मात्रेण अरिर् मूल-निकृन्तनः ॥ २०५ ॥

1.206

श्लोक

सिद्ध-सिद्धो यथोक्तेन द्वि-गुणात् सिद्ध-साधकः । सिद्ध-सुसिद्धोऽर्ध-जपात् सिद्धारिर् हन्ति बान्धवान् ॥ २०६ ॥

1.207

श्लोक

साध्य-सिद्धो द्विगुणिकः साध्य-साध्यो ह्य् अनर्थकः । तत्-सुसिद्धस् त्रिगुणितात् साध्यारिर् हन्ति गोत्रजान् ॥ २०७ ॥

1.208

श्लोक

सुसिद्ध-सिद्धोर्ध-जपात् तत्-साध्यस् तु गुणाधिकात् । तत्-सुसिद्धो ग्रहाद् एव सुसिद्धारिः स्व-गोत्रहा ॥ २०८ ॥

1.209

श्लोक

अरि-सिद्धः सुतान् हन्याद् अरि-साध्यस् तु कन्यकाः । तत्-सुसिद्धस् तु पत्नी-घ्नस् तद्-अरिर् हन्ति साधकम् ॥ २०९ ॥

1.210

श्लोक

नृसिंहार्क-वराहाणां प्रासाद-प्रणवस्य च । वैदिकस्य च मन्त्रस्य सिद्धादीन् नैव शोधयेत् ॥ २१० ॥

1.211

श्लोक

स्वप्न-लब्धे स्त्रिया दत्ते माला-मन्त्रे च त्र्य्-अक्षरे । एकाक्षरे तथा मन्त्रे सिद्धादीन् नैव शोधयेत् ॥ २११ ॥

1.212

श्लोक

स्व-कुलान्य् अकुलत्वादि विज्ञेयं चागमान्तरात् । न विस्तर-भयाद् अत्र व्यर्थत्वाद् अपि लिख्यते ॥ २१२ ॥

1.213

श्लोक

श्रीमद्-गोपाल-देवस्य सर्वैश्वर्य-प्रदर्शिनः । तादृक्-शक्तिषु मन्त्रेषु नहि किञ्चिद् विचार्यते ॥ २१३ ॥

1.214

श्लोक

सर्वेषु वर्णेषु तथाश्रमेषु नारीषु नानाह्वय-जन्मभेषु दाता फलानाम् अभिवाञ्छितानां द्राग् एव गोपालक-मन्त्र एषः ॥ २१४ ॥

1.215

श्लोक

न चात्र शात्रवा दोषा नर्णस्वादि-विचारणा । ऋक्ष-राशि-विचारो वा न कर्तव्यो मनौ प्रिये ॥ २१५ ॥

1.216

श्लोक

केचिच् छिन्नाश् च रुद्धाश् च केचिन् मद-समुद्धताः । मलिनाः स्तम्भिताः केचित् कीलिता दूषिता अपि । एतैर् दोषैर् युतो नायं यतस् त्रिभुवनोत्तमः ॥ २१६ ॥

1.217

श्लोक

यान् वै विज्ञाय मुनयो लेभिरे मुक्तिम् अञ्जसा ॥ २१७ ॥

1.218

श्लोक

गृहस्था वनगाश् चैव यतयो ब्रह्मचारिणः । स्त्रियः शूद्रादयश् चैव सर्वे यत्राधिकारिणः ॥ २१८ ॥

1.219

श्लोक

नात्र चिन्त्योऽरि-शुद्ध्यादिर् नारि-मित्रादि-लक्षणम् । न वा प्रयास-बाहुल्यं साधने न परिश्रमः ॥ २१९ ॥

1.220

श्लोक

अज्ञान-तूल-राशेश् च अनलः क्षण-मात्रतः । सिद्ध-साध्य-सुसिद्धारि-रूपा नात्र विचारणा ॥ २२० ॥

1.221

श्लोक

सर्वेषां सिद्ध-मन्त्राणां यतो ब्रह्माक्षरो मनुः । प्रजापतिर् अवापाग्र्यं देव-राज्यं शचीपतिः । अवापुस् त्रिदशाः स्वर्गं वागीशत्वं बृहस्पतिः ॥ २२१ ॥

1.222

श्लोक

विष्णु-भक्त्या विशेषेण किं न सिध्यति भूतले । कीटादि-ब्रह्म-पर्यन्तं गोविन्दानुग्रहान् मुने ॥ २२२ ॥

1.223

श्लोक

सर्व-सम्पत्ति-निलयाः सर्वत्राप्य् अकुतोभयाः । इत्य् आदि कथितं किञ्चिन् माहात्म्यं वो मुनीश्वराः ॥ २२३ ॥

1.224

श्लोक

आकाशे तारका यद्वत् सिन्धोः सैकत-सृष्टिवत् । एतद्-विज्ञान-मात्रेण लभेन् मुक्तिं चतुर्विधाम् ॥ २२४ ॥

1.225

श्लोक

एतद्-अन्येषु मन्त्रेषु दोषाः सन्ति परे च ये । तद्-अर्थं मन्त्र-संस्कारा लिप्यन्ते तन्त्रतो दश ॥ २२५ ॥

1.226

श्लोक

जननं जीवनं चेति ताडनं रोधनं तथा । अथाभिषेको विमलीकरणाप्यायने पुनः । तर्पणं दीपनं गुप्तिर् दशैता मन्त्र-संस्क्रियाः ॥ २२६ ॥

1.227

श्लोक

मन्त्राणां मातृका-मध्याद् उद्धारो जननं स्मृतम् । प्रणवान्तरितान् कृत्वा मन्त्र-वर्णान् जपेत् सुधीः ॥ २२७ ॥

1.228

श्लोक

एतज् जीवनम् इत्य् आहुर् मन्त्र-तन्त्र-विशारदाः । मनोर् वर्णान् समालिख्य ताडयेच् चन्दनाम्भसा ॥ २२८ ॥

1.229

श्लोक

प्रत्येकं वायुना मन्त्री ताडनं तद् उदाहृतम् । विलिख्य मन्त्रं तं मन्त्री प्रसूनैः कर-वीरजैः ॥ २२९ ॥

1.230

श्लोक

तन्-मन्त्राक्षर-सङ्ख्यातैर् हन्याद् यत् तेन रोधनम् । स्वतन्त्रोक्त-विधानेन मन्त्री मन्त्रार्ण-सङ्ख्यया ॥ २३० ॥

1.231

श्लोक

अश्वत्थ-पल्लवैर् मन्त्रम् अभिषिञ्चेद् विशुद्धये । संचिन्त्य मनसा मन्त्रं योतिर् मन्त्रेण निर्दहेत् ॥ २३१ ॥

1.232

श्लोक

मन्त्रे मूल-त्रयं मन्त्री विमलीकरणं त्व् इदम् । तार-व्योमाग्नि-मनु-युग-दण्डी ज्योतिर् मनुर् मतः । कुशोदकेन जप्तेन प्रत्यर्णं प्रोक्षणं मनोः ॥ २३२ ॥

1.233

श्लोक

तेन मन्त्रेण विधिवद् एतद् आप्यायनं स्मृतम् । मन्त्रेण वारिणा यन्त्रे तर्पणं तर्पणं स्मृतम् ॥ २३३ ॥

1.234

श्लोक

तार-माया-रमा-योगो मनोर् दीपनम् उच्यते । जप्यमानस्य मन्त्रस्य गोपनं त्व् अप्रकाशनम् ॥ २३४ ॥

1.235

श्लोक

बलित्वात् कृष्ण-मन्त्राणां संस्कारापेक्षणं नहि । सामान्योद्देश-मात्रेण तथाप्य् एतद् उदीरितम् ॥ २३५ ॥