Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १

गौरवः

1.101

श्लोक

यो वक्ति न्याय-रहितम् अन्यायेन शृणोति यः । ताव् उभौ नरकं घोरं व्रजतः कालम् अक्षयम् ॥ १०१ ॥

1.102

श्लोक

त्रायस्व भो जगन्नाथ गुरो संसार-वह्निना । दग्धं मां काल-दष्टं च त्वाम् अहं शरणं गतः ॥ १०२ ॥

1.103

श्लोक

तत्र श्री-वासुदेवस्य सर्व-देव-शिरोमणेः । पादाम्बुजैक-भाग् एव दीक्षा ग्राह्या मनीषिभिः ॥ १०३ ॥

1.104

श्लोक

सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर् युक्तः परम-पुरुष एक इहास्य धत्ते । स्थित्य्-आदये हरि-विरिञ्चि-हरेति संज्ञाः श्रेयांसि तत्र खलु सत्त्व-तनोर् नॄणां स्युः ॥ १०४ ॥

1.105

श्लोक

अथापि यत्-पाद-नखावसृष्टं जगद् विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्य् अन्यतमो मुकुन्दात् को नाम लोके भगवत्-पदार्थः ॥ १०५ ॥

1.106

श्लोक

तन् निशम्याथ मुनयो विस्मिता मुक्त-संशयाः । भूयांसं श्रद्दधुर् विष्णुं यतः शान्तिर् यतोऽभयम् ॥ १०६ ॥

1.107

श्लोक

व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास् तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि । सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम- व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते ॥ १०७ ॥

1.108

श्लोक

सत्यं सत्यं पुनः सत्यम् उत्क्षिप्य भुजम् उच्यते । वेदाच् छास्त्रं परं नास्ति न देवः केशवात् परः ॥ १०८ ॥

1.109

श्लोक

अरिर् मित्रं विषं पथ्यम् अधर्मो धर्मतां व्रजेत् । सुप्रसन्ने हृषीकेशे विपरीते विपर्ययः ॥ १०९ ॥

1.110

श्लोक

मन्-निमित्तं कृतं पापम् अपि धर्माय कल्पते । माम् अनादृत्य धर्मोऽपि पापं स्यान् मत्-प्रभावतः ॥ ११० ॥

1.111

श्लोक

वासुदेवं परित्यज्य योऽन्यं देवम् उपासते । स्व-मातरं परित्यज्य श्वपचीं वन्दते हि सः ॥ १११ ॥

1.112

श्लोक

वासुदेवं परित्यज्य योऽन्यं देवम् उपासते । त्यक्त्वामृतं स मूढात्मा भुङ्क्ते हलाहलं विषम् ॥ ११२ ॥

1.113

श्लोक

यस् तु विष्णुं परित्यज्य मोहाद् अन्यम् उपासते । स हेम-राशिम् उत्सृज्य पांशु-राशिं जिघृक्षति ॥ ११३ ॥

1.114

श्लोक

अनादृत्य तु यो विष्णुम् अन्य-देवं समाश्रयेत् । गङ्गाम्भसः स तृष्णार्तो मृग-तृष्णां प्रधावति ॥ ११४ ॥

1.115

श्लोक

यो मोहाद् विष्णुम् अन्येन हीन-देवेन दुर्मतिः । साधारणं सकृद् ब्रूते सोऽन्त्यजो नान्त्यजोऽन्त्यजः ॥ ११५ ॥

1.116

श्लोक

न लभेयुः पुनर् भक्तिं हरेर् ऐकान्तिकीं जङाः । एकाग्र-मनसश् चापि विष्णु-सामान्य-दर्शिनः ॥ ११६ ॥

1.117

श्लोक

यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः । समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ ११७ ॥

1.118

श्लोक

सहस्र-नाम-स्तोत्रादौ श्लोकौघाः सन्ति चेदृशाः । विशेषतः सत्त्व-निष्ठैः सेव्यो विष्णुर् न चापरः ॥ ११८ ॥

1.119

श्लोक

हरिर् एव सदाराध्यो भवद्भिः सत्त्व-संस्थितैः । विष्णु-मन्त्रं सदा विप्राः पठध्वं ध्यात केशवम् ॥ ११९ ॥

1.120

श्लोक

ईदृङ्-माहात्म्य-वाक्येषु सङ्गृहीतेषु सर्वतः । ग्रन्थ-बाहुल्य-दोषः स्याल् लिख्यन्तेऽपेक्षितानि तत् ॥ १२० ॥

1.121

श्लोक

मन्त्रान् श्री-मन्त्र-राजादीन् वैष्णवान् गुर्व्-अनुग्रहात् । सर्वैश्वर्यं जपन् प्राप्य याति विष्णोः परं पदम् ॥ १२१ ॥

1.122

श्लोक

पुण्यं वर्ष-सहस्रैर् यैः कृतं सुविपुलं तपः । जपन्ति वैष्णवान् मन्त्रान् नरास् ते लोक-पावनाः ॥ १२२ ॥

1.123

श्लोक

प्रजपन् वैष्णवान् मन्त्रान् यं यं पश्यति चक्षुषा । पदा वा संस्पृशेत् सद्यो मुच्यतेऽसौ महा-भयात् ॥ १२३ ॥

1.124

श्लोक

लिख्यते विष्णु-मन्त्राणां महिमाथ विशेषतः । तात्पर्यतः श्री-गोपाल-मन्त्र-माहात्म्य-पुष्टये ॥ १२४ ॥

1.125

श्लोक

साङ्गं स-मुद्रं स-न्यासं स-ऋषि-दैवतम् । स-दीक्षा-विधि स-ध्यानं स-यन्त्रं द्वादशाक्षरम् ॥ १२५ ॥

1.126

श्लोक

अष्टाक्षरं च मन्त्रेशं ये जपन्ति नरोत्तमाः । तान् दृष्ट्वा ब्रह्महा शुध्येते यतो विष्णवः स्वयम् ॥ १२६ ॥

1.127

श्लोक

शङ्खिनश् चक्रिणो भूत्वा ब्रह्मायुर् वन-मालिनः । वसन्ति वैष्णवे लोके विष्णु-रूपेण ते नराः ॥ १२७ ॥

1.128

श्लोक

जपश् च परमो गुह्यः श्रूयतां मे नृपात्मज । यं सप्त-रात्रं प्रपठन् पुमान् पश्यति खेचरान् ॥ १२८ ॥

1.129

श्लोक

गत्वा गत्वा निवर्तन्ते चन्द्र-सूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते द्वादशाक्षर-चिन्तकाः ॥ १२९ ॥

1.130

श्लोक

त्रयो वेदाः षड्-अङ्गानि छन्दांसि विविधाः सुराः । सर्वम् अष्टाक्षरान्तःस्थं यच् चान्यद् अपि वाङ्-मयम् ॥ १३० ॥

1.131

श्लोक

सर्व-वेदान्त-सारार्थं संसारार्णव-तारणः । गतिर् अष्टाक्षरो नॄणां न पुनर् भव-काङ्क्षिणाम् ॥ १३१ ॥

1.132

श्लोक

यत्राष्टाक्षर-संसिद्धो महा-भागो महीयते । न तत्र सञ्चरिष्यन्ति व्याधि-दुर्भिक्ष-तस्कराः ॥ १३२ ॥

1.133

श्लोक

देव-दानव-गन्धर्वाः सिद्ध-विद्याधरादयः । प्रणमन्ति महात्मानम् अष्टाक्षर-विदं नरम् ॥ १३३ ॥

1.134

श्लोक

व्यक्तं हि भगवान् एव साक्षान् नारायणः स्वयम् । अष्टाक्षर-स्वरूपेण मुखेषु परिवर्तते ॥ १३४ ॥

1.135

श्लोक

एवम् अष्टाक्षरो मन्त्रो ज्ञेयः सर्वार्थ-साधकः । सर्व-दुःख-हरः श्रीमान् सर्व-मन्त्रात्मकः शुभः ॥ १३५ ॥

1.136

श्लोक

किम् अन्यैर् बहुभिर् मन्त्रैः किम् अन्यैर् बहुभिर् व्रतैः । नमो नारायणेति मन्त्रः सर्वार्थ-साधकः ॥ १३६ ॥

1.137

श्लोक

तस्मात् सर्वेषु कालेषु नमो नारायणेति यः । जपेत् स याति विप्रेन्द्र विष्णु-लोकं स-बान्धवः ॥ १३७ ॥

1.138

श्लोक

अष्टाक्षरो महा-मन्त्रः सर्व-पाप-हरः परः । सर्वेषां विष्णु-मन्त्राणां राजत्वे परिकीर्तितः ॥ १३८ ॥

1.139

श्लोक

नमो नारायणायेति मन्त्रः सर्वार्थ-साधकः । भक्तानां जपतां तात स्वर्ग-मोक्ष-फल-प्रदः ॥ १३९ ॥

1.140

श्लोक

एष एव परो मोक्ष एष स्वर्ग उदाहृतः । सर्व-वेद-रहस्येभ्यः सार एष समुद्धृतः ॥ १४० ॥

1.141

श्लोक

विष्णुना वैष्णवानां तु हिताय मनुना पुरा । कीर्तितः सर्व-पापघ्नः सर्व-काम-प्रदायकः ॥ १४१ ॥

1.142

श्लोक

नारायणाय नम इत्य् अयम् एव सत्यं संसार-घोर-विष-संहरणाय मन्त्रः । शृण्वन्तु सत्य-मतयो मुदितास् तरागा उच्चैस्तराम् उपदिशाम्य् अहम् ऊर्ध्व-बाहुः ॥ १४२ ॥

1.143

श्लोक

भूत्वोर्ध्व-बाहुर् अद्याहं सत्य-पूर्वं ब्रवीमि वः । हे पुत्र-शिष्याः शृणुत न मन्त्रोऽष्टाक्षरात् परः ॥ १४३ ॥

1.144

श्लोक

आसीनो वा शयानो वा तिष्ठानो यत्र तत्र वा । नमो नारायणेति मन्त्रैक-शरणो भवेत् ॥ १४४ ॥

1.145

श्लोक

देवा ह वै प्रजापतिम् अब्रुवन्न् आनुष्टुभस्य मन्त्र-राजस्य नारसिंहस्य फलं नो ब्रूहि भगव इति स होवाच प्रजापतिर्य एतं मन्त्र-राजं नारसिंहम् आनुष्टुभं नित्यम् अधीते सोऽग्नि-पूतो भवति स वायु-पूतो भवति स आदित्य-पूतो भवति स सोम-पूतो भवति स सत्य-पूतो भवति स ब्रह्म-पूतो भवति स विष्णु-पूतो भवति स रुद्र-पूतो भवति स सर्व-पूतो भवति स सर्व-पूतो भवति ॥ १४५ ॥

1.146

श्लोक

अनुपनीत-शतम् एकम् एकेनोपनीतेन तत्-समम् । उपनीत-शतम् एकम् एकेन गृहस्थेन तत्-समम् । गृहस्थ-शतम् एकम् एकेन वानप्रस्थेन तत् समं । वानप्रस्थ-शतम् एकम् एकेन यतिना तत् समं । यतीनां तु शतं पूर्णम् एकम् एकेन रुद्र-जापकेन तत्-समम् । रुद्र-जापक-शतम् एकम् एकेन अथर्व-शिरः-शिखाध्यापकेन तत्-समम् । तद् वा एतत् परमं धाम मन्त्र-राजाध्यापकस्य यत्र न सूर्यस् तपति यत्र न वायुर् वाति यत्र न चन्द्रमा भाति यत्र न नक्षत्राणि भान्ति यत्र नाग्निर् दहति यत्र न मृत्युः प्रविशति यत्र न दुःखं सदानन्दं परमानन्दं शान्तं शाश्वतं सदा-शिवं ब्रह्मादि-वन्दितं योगि-ध्येयं परमं पदं यत्र गत्वा न निवर्तन्ते योगिनः । तद् एतद् ऋचाभ्युक्तम् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् । तद् विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर् यत् परमं पदम् ॥ १४६ ॥

1.147

श्लोक

सर्वेषु मन्त्र-वर्गेषु श्रेष्ठं वैष्णवम् उच्यते । गाणपत्येषु शैवेषु शाक्त-सौरेष्व् अभीष्टदम् ॥ १४७ ॥

1.148

श्लोक

वैष्णवेष्व् अपि मन्त्रेषु राम-मन्त्राः फलाधिकाः । गाणपत्य्-आदि-मन्त्रेभ्यः कोटि-कोटि-गुणाधिकाः ॥ १४८ ॥

1.149

श्लोक

विनैव दीक्षां विप्रेन्द्र पुरश्चर्यां विनैव हि । विनैव न्यास-विधिना जप-मात्रेण सिद्धिदाः ॥ १४९ ॥

1.150

श्लोक

मन्त्रेष्व् अष्टस्व् अनायास-फलदोऽयं षड्-अक्षरः । षड्-अक्षरोऽयं मन्त्रस् तु महाघौघ-निवारणः ॥ १५० ॥

1.151

श्लोक

मन्त्र-राज इति प्रोक्तः सर्वेषाम् उत्तमोत्तमः । दैनन्दिनं तु दुरितं पक्ष-मास-र्तु-वर्षजम् ॥ १५१ ॥

1.152

श्लोक

सर्वं दहति निःशेषं तूलाचलम् इवानलः । ब्रह्म-हत्या-सहस्राणि ज्ञानाज्ञान-कृतानि च ॥ १५२ ॥

1.153

श्लोक

स्वर्ण-स्तेय-सुरापान-गुरु-तल्प-युतानि च । कोटि-कोटि-सहस्राणि ह्य् उपपापानि यान्य् अपि । सर्वाण्य् अपि प्रणश्यन्ति राम-मन्त्रानुकीर्तनात् ॥ १५३ ॥

1.154

श्लोक

य एतत् तारकं ब्राह्मणो नित्यम् अधीते, स पाप्मानं तरति, स मृत्युं तरति, स भ्रू-हत्यां तरति, स सर्व-हत्यां तरति, स संसारं तरति, स सर्वं तरति, स विमुक्ताश्रितो भवति, सोऽमृतत्वं च गच्छति ॥ १५४ ॥

1.155

श्लोक

मन्त्रास् तु कृष्ण-देवस्य साक्षाद् भगवतो हरेः । सर्वावतार-बीजस्य सर्वतो वीर्यवत्तमाः ॥ १५५ ॥

1.156

श्लोक

सर्वेषां मन्त्र-वर्याणां श्रेष्ठो वैष्णव उच्यते । विशेषात् कृष्ण-मनवो भोग-मोक्षैक-साधनम् ॥ १५६ ॥

1.157

श्लोक

यस्य यस्य च मन्त्रस्य यो यो देवस् तथा पुनः । अभेदात् तन्-मनूनां च देवता सैव भाष्यते ॥ १५७ ॥

1.158

श्लोक

कृष्ण एव परं ब्रह्म सच्चिदानन्द-विग्रहः । स्मृति-मात्रेण तेषां वै भुक्ति-मुक्ति-फल-प्रदः ॥ १५८ ॥

1.159

श्लोक

तत्रापि भगवत्तां स्वां तन्वतो गोप-लीलया । तस्य श्रेष्ठतमा मन्त्रास् तेष्व् अप्य् अष्टादशाक्षरः ॥ १५९ ॥

1.160

श्लोक

कुतो मृत्युर् बिभेति ? कस्य विज्ञानेनाखिलं विज्ञातं भाति ? केनेदं विश्वं संसरतीति । तान् उ होवाच ब्राह्मणः— कृष्णो वै परमं दैवतम् । गोविन्दान् मृत्युर् बिभेति । गोपी-जन-वल्लभ-ज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरतीति । तम् उ होचुः—कः कृष्णो ? गोविन्दः कोऽसौ ? गोपी-जन-वल्लभः कः ? का स्वाहा ? इति । तान् उवाच ब्राह्मणः पाप-कर्षणो गो-भूमि-वेद-विदितो वेदिता गोपी-जनाविद्या-कला-प्रेरकस् तन्-माया चेति । सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति सोऽमृतो भवति सोऽमृतो भवतीति । ते होचुः— किं तद्-रूपं किं रसनं कथं वाहो तद्-भजनं । तत् सर्वं विविदिषताम् आख्याहीति । तद् उ होवाच हैरण्यः— गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम् ॥ १६० ॥

1.161

श्लोक

भक्तिर् अस्य भजनम् । तद् इहामुत्रोपाधि-नैरास्येनैवामुष्मिन् मनः-कल्पनम् । एतद् एव च नैष्कर्म्यम् । कृष्णं तं विप्रा बहुधा यजन्ति गोविन्दं सन्तं बहुधाराधयन्ति । गोपीजन-वल्लभो भुवनानि दध्रे स्वाहाश्रितो जगद् एजयत् स्व-रेताः ॥ १६१ ॥

1.162

श्लोक

वायुर् यथैको भुवनं प्रविष्टो जन्ये जन्ये पञ्च-रूपो बभूव । कृष्णस् तथैकोऽपि जगद्-धितार्थं शब्देनासौ पञ्च-पदो विभाति ॥ १६२ ॥

1.163

श्लोक

एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन् बहुधा यो विभाति । तं पीठस्थं येऽनुभजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥ १६३ ॥

1.164

श्लोक

नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तं पीठगं येऽनुभजन्ति धीरास् तेषां सिद्धिः शाश्वती नेतरेषाम् ॥ १६४ ॥

1.165

श्लोक

एतद् विष्णोः परमं पदं ये नित्य-मुक्ताः संयजन्ते न कामान् । तेषाम् असौ गोप-रूपः प्रयत्नात् प्रकाशयेद् आत्म-पदं तदैव ॥ १६५ ॥

1.166

श्लोक

यो ब्रह्माणं विदधाति पूर्वं यो विद्यास् तस्मै गोपायति स्म कृष्णः । तं ह दैवम् आत्म-बुद्धि-प्रकाशं मुमुक्षुर् वै शरणम् अनुव्रजेत ॥ १६६ ॥

1.167

श्लोक

गोविन्दस्य पञ्चपदं मनुम् । तेषाम् असौ दर्शयेद् आत्म-रूपं तस्मान् मुमुक्षुर् अभ्यसेन् नित्य-शान्त्यै ॥ १६७ ॥

1.168

श्लोक

तस्माद् अन्ये पञ्चपदाद् अभूवन् गोविन्दस्य मनवो मानवानाम् । दशार्णाद्यास् तेऽपि सङ्क्रन्दनाद्यैर् अभ्यस्यन्ते भूति-कामैर् यथावत् ॥ १६८ ॥

1.169

श्लोक

तद् उ होवाच ब्राह्मणोऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन हृदा मह्यम् अष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे प्रादुरभूत् । तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयत् । तद् इह काद् आपो । लात् पृथिवी । ईतोऽग्निः । बिन्दोर् इन्दुः । तन्-नादाद् अर्क इति क्लीं-काराद् असृजम् । कृष्णाद् आकाशं यद् वायुर् इत्य् उत्तरात् सुरभिं विद्यां प्रादुरकार्षम् । तद्-उत्तरात् तद्-उत्तरात् स्त्री-पुमादि चेदं सकलम् इदं इति ॥ १६९ ॥

1.170

श्लोक

क्लीं-काराद् असृजद् विश्वम् इति प्राह श्रुतेः शिरः । ल-कारात् पृथिवी जाता क-काराज् जल-सम्भवः ॥ १७० ॥

1.171

श्लोक

ई-काराद् वह्निर् उत्पन्नो नादाद् वायुर् अजायत । बिन्दोर् आकाश-सम्भूतिर् इति भूतात्मको मनुः ॥ स्वा-शब्देन च क्षेत्रज्ञो हेति चित्-प्रकृतिः परा । तयोर् ऐक्य-समुद्भूतिर् मुख-वेष्टन-वर्णकः ॥ अतएव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥ १७१ ॥

1.172

श्लोक

एतस्यैव यजनेन चन्द्र-ध्वजो गत-मोहम् आत्मानं वेदयित्वा ओंकारान्तरालकं मनुम् आवर्तयत् सङ्ग-रहितोऽभ्यानयत् । तद् विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् । तस्माद् एनं नित्यम् अभ्यसेत् ॥ १७२ ॥

1.173

श्लोक

यस्य पूर्व-पदाद् भूमिर् द्वितीयात् सलिलोद्भवः । तृतीयात् तेज उद्भूतं चतुर्थाद् गन्ध-वाहनः ॥ १७३ ॥

1.174

श्लोक

पञ्चमाद् अम्बरोत्पत्तिस् तम् एवैकं समभ्यसेत् । चन्द्र-ध्वजोऽगमद् विष्णुः परमं पदम् अव्ययम् ॥ १७४ ॥

1.175

श्लोक

ततो विशुद्धं विमलं विशोकम् अशेष-लोभादि-निरस्त-सङ्गम् । यत् तत् पदं पञ्च-पदं तद् एव स वासुदेवो न यतोऽन्यद् अस्ति ॥ १७५ ॥

1.176

श्लोक

तम् एकं गोविन्दं सच्-चिद्-आनन्द-विग्रहम् पञ्च-पदं वृन्दावन-सुर-भूरुह-तलासीनं सततं स-मरुद्-गणोऽहं परमया स्तुत्या तोषयामि ॥ १७६ ॥

1.177

श्लोक

अमुं पञ्चपदं मन्त्रम् आवर्तयेद् यः स यात्य् अनायासतः केवलं तत् पदं तत् । अनेजद् एकं मनसो जवीयो नैतद् देवा आप्नुवन् पूर्वम् अर्शात् ॥ १७७ ॥

1.178

श्लोक

तस्मात् कृष्ण एव परो देवस् तं ध्यायेत् तं रसेत् तं यजेद् इति ॐ तत् सद् इति ॥ १७८ ॥

1.179

श्लोक

धर्मार्थ-काम-मोक्षाणाम् ईश्वरो जगद्-ईश्वरः । सन्ति तस्य महाभागा अवताराः सहस्रशः ॥ १७९ ॥

1.180

श्लोक

तेषां मध्येऽवताराणां बालत्वम् अतिदुर्लभम् । अमानुषाणि कर्माणि तानि तानि कृतानि च ॥ १८० ॥

1.181

श्लोक

शापानुग्रह-कर्तृत्वे येन सर्वं प्रतिष्ठितम् । तस्य मत्न्रं प्रवक्ष्यामि साङ्गोपाङ्गम् अनुत्तमम् ॥ १८१ ॥

1.182

श्लोक

यस्य विज्ञान-मात्रेण नरः सर्वज्ञताम् इयात् । पुत्रार्थी पुत्रम् आप्नोति धर्मार्थी लभते धनम् ॥ १८२ ॥

1.183

श्लोक

सर्व-शास्त्रार्थ-पारज्ञो भवत्य् एव न संशयः । त्रैलोक्यं च वशीकुर्यात् व्याकुलीकुरुते जगत् ॥ १८३ ॥

1.184

श्लोक

मोहयेत् सकलं सोऽपि मारयेत् सकलान् रिपून् । बहुना किम् इहोक्तेन मुमुक्षुर् मोक्षम् आप्नुयात् ॥ १८४ ॥

1.185

श्लोक

यथा चिन्तामणिः श्रेष्ठो यथा गौश् च यथा सती । यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः ॥ १८५ ॥

1.186

श्लोक

यथावद् अखिल-श्रेष्ठं यथा शास्त्रं तु वैष्णवम् । यथा सुसंस्कृता वाणी तथासौ मन्त्र उत्तमः ॥ १८६ ॥

1.187

श्लोक

अतो मया सुरेशानि प्रत्यहं जप्यते मनुः । नैतेन सदृशः कश्चिद् जगत्य् अस्मिन् चरचरे ॥ १८७ ॥

1.188

श्लोक

गोपाल-विषया मन्त्रास् त्रयस्त्रिंशत् प्रभेदतः । तेषु सर्वेषु मन्त्रेषु मन्त्र-राजम् इमं शृणु ॥ १८८ ॥

1.189

श्लोक

सुप्रसन्नम् इमं मन्त्रं तन्त्रे सम्मोहनाह्वये । गोपनीयस् त्वया मन्त्रो यत्नेन मुनि-पुङ्गव ॥ १८९ ॥

1.190

श्लोक

अनेन मन्त्र-राजेन महेन्द्रत्वं पुरन्दरः । जगाम देव-देवेशो विष्णुना दत्तम् अञ्जसा ॥ १९० ॥

1.191

श्लोक

दुर्वाससः पुरा शापाद् असौभाग्येन पीडितः । स एव सुभगवत्वं वै तेनैव पुनर् आप्तवान् ॥ १९१ ॥

1.192

श्लोक

बहुना किम् इहोक्तेन पुरश्चरण-साधनैः । विनापि जप-मात्रेण लभते सर्वम् ईप्सितम् ॥ १९२ ॥

1.193

श्लोक

प्रभुं श्री-कृष्ण-चैतन्यं तं नतोऽस्मि गुरूत्तमम् । कथञ्चिद् आश्रयाद् यस्य प्राकृतोऽप्य् उत्तमो भवेत् ॥ १९३ ॥

1.194

श्लोक

तान्त्रिकेषु च मन्त्रेषु दीक्षायां योषिताम् अपि । साध्वीनाम् अधिकारोऽस्ति शूद्रादीनां च सद्-धियाम् ॥ १९४ ॥

1.195

श्लोक

आगमोक्तेन मार्गेण स्त्री-शूद्रैर् अपि पूजनम् । कर्तव्यं श्रद्धया विष्णोश् चिन्तयित्वा पतिं हृदि ॥ १९५ ॥

1.196

श्लोक

शूद्राणां चैव भवति नाम्ना वै देवतार्चनम् । सर्वेऽप्य् आगम-मार्गेण कुर्युर् वेदानुकारिणा ॥ १९६ ॥

1.197

श्लोक

स्त्रीणाम् अप्य् अधिकारोऽस्ति विष्णोर् आराधनादिषु । पति-प्रिय-रतानां च श्रुतिर् एषा सनातनी ॥ १९७ ॥

1.198

श्लोक

शुचिव्रततमाः शूद्रा धार्मिका द्विज-सेवकाः । स्त्रियः पति-व्रताश् चान्ये प्रतिलोमानुलोमजाः ॥ लोकाश् चाण्डाल-पर्यन्ताः सर्वेऽप्य् अत्राधिकारिणः ॥ १९८ ॥

1.199

श्लोक

गुरुश् च सिद्ध-साध्यादि-मन्त्र-दाने विचारयेत् । स्व-कुलान्य् अकुलत्वं च बाल-प्रौढत्वम् एव च ॥ १९९ ॥

1.200

श्लोक

स्त्री-पुं-नपुंसकत्वं च राशि-नक्षत्र-मेलनम् । सुप्त-प्रबोध-कालं च तथा ऋण-धनादिकम् ॥ २०० ॥