Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १९

प्रातिष्ठिकः

19.301

श्लोक

मग्त्रोऽयं सर्वदेवानां नेत्रज्योतिःस्वपि स्मृतः । एवमामन्त्र्य देवेशं काञ्चनेन विलेखयेत् ॥ ३०१ ॥

19.302

श्लोक

मङ्गलानि निवेद्यानि ब्रह्मघोषञ्च गीतकम् । ऋद्ध्यर्थं कारयेद्विद्वानमाङ्गल्यनिवारणम् ॥ ३०२ ॥

19.303

श्लोक

हस्तमात्रमिते भद्रपीठे क्षीरितरूद्भवे । विन्यस्य स्नापयेद्देवं पञ्चगव्यादिभिस्ततः ॥ ३०३ ॥

19.304

श्लोक

गजाश्वरथ्यावल्मीकवराहोत्खातमण्डलात् । अग्न्यागारात्तथा तीर्थाध्रदाद्गोमण्डलादपि । कुम्भेषु मृत्तिकां दद्यादुद्धृतासीति मन्त्रवित् ॥ ३०४ ॥

19.305

श्लोक

शन्नो देवीत्यपां मन्त्र आपो हिष्ठेति या ऋचः । सावित्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् ॥ ३०५ ॥

19.306

श्लोक

आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । तेजोऽसीति घृतं तद्वद्देवस्य त्वेति चोदकम् । कुशमिश्रं जपेद्विद्वान पञ्चगव्यं भवेत्ततः ॥ ३०६ ॥

19.307

श्लोक

स्नाप्याथ पञ्चगव्येन दध्ना शुद्धेन वै ततः । दधिक्राव्णेति मन्त्रेण कर्तव्यमभिमन्त्रणम् ॥ ३०७ ॥

19.308

श्लोक

आप्यायस्वेति पयसा तेजोऽसीति घृतेन च । मधुवातेति मधुना ततः पुष्पोदकेन च । सरस्वत्यै भैषज्येन कार्यं तस्याभिमन्त्रणम् ॥ ३०८ ॥

19.309

श्लोक

हिरण्याक्षेति मन्त्रेण स्नापयेद्रत्नवारिणा । कूशाम्भसा ततः स्नानं देवस्य त्वेति कारयेत् ॥ ३०९ ॥

19.310

श्लोक

फलोदकेन च स्नानमग्न आयाहि कारयेत् । ततस्तु गन्धतोयेन सावित्र्या चाभिमन्त्रयेत् ॥ ३१० ॥

19.311

श्लोक

ततो घटसहस्रेण सहस्रार्द्धेन वा पुन । तस्याप्यर्द्धेन वा कुर्यादथवाष्टशतेन वा ॥ ३११ ॥

19.312

श्लोक

चतुःषष्ट्या तदर्द्धेन तदर्द्धेनाथवा पुनः । चतुर्भिरथवा कुर्याद्घट नामपि वित्तवान् ॥ ३१२ ॥

19.313

श्लोक

सौवर्णै राजतैर्वापि ताम्रैर्वा रीतिकोद्भवैः । कांस्यैर्वा पार्थिवैर्वापि स्नपनं शक्तितो भवेत् ॥ ३१३ ॥

19.314

श्लोक

सहदेवी वचा व्याघ्री बला चातिबला तथा । शङ्खपुष्पी तथा सिंही अष्टमी च सुवर्चला । महौषध्यष्टकं ह्येतन्महास्नानेषु योजयेत् ॥ ३१४ ॥

19.315

श्लोक

यवगोधूमनीवारतिलश्यामाक्शाटयः । प्रियङ्गवो ब्रीहयश्च स्नानेषु परिकल्पयेत् ॥ ३१५ ॥

19.316

श्लोक

पञ्चगव्यं दधि क्षीरं तथा मधु धृतं नृप । रत्नवारि कुशाम्भश्च फलगन्धादिकं तथा ॥ ३१६ ॥

19.317

श्लोक

उपस्नानैः कषायैश्च दिव्यौषधिभिरेव च । वल्मीकात् पर्वत ग्राच्च सरस्तीर्थाद्घ्रदाद्गजात् । अग्न्यागारात्तु गृह्णीयादष्टमीञ्च चतुष्पथात् ॥ ३१७ ॥

19.318

श्लोक

उद्धृतासीत मत्रेण मर्दयेत्तु समालभेत् । उपमानिकेति प्रथमं मन्त्रोणानेन लेपयेत् ॥ ३१८ ॥

19.319

श्लोक

स्नानमन्त्रांस्ततश्चान्यान् वक्ष्यामि ते महीपते । गायत्र्या चैव गोमूत्रं गन्धद्वारेति गोमयम् ॥ ३१९ ॥

19.320

श्लोक

आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि । तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् ॥ ३२० ॥

19.321

श्लोक

एभिस्तु पञ्चभिर्मन्त्रैः प्रथमं स्नापयेद्धरिम् । द्वितीये दधिक्राव्णेति दध्ना च स्नानमाचरेत् ॥ ३२१ ॥

19.322

श्लोक

आप्यायस्वेतिमन्त्रेण क्षीरेण स्नापयेद्बुधः । तेजोऽसीति ततः पश्चाद्धृतेन स्नानमाचरेत् ॥ ३२२ ॥

19.323

श्लोक

तदन्ते मधुना स्नानं मधुवाता ऋतायते । रत्नवारि ततः पश्चाद्धरिण्याक्षेति मन्त्रयेत् ॥ ३२३ ॥

19.324

श्लोक

कुशाम्भसा ततः स्नानं देवस्य त्वेति मन्त्रयेत् । फलोदकैस्ततः स्नानं अग्न आयाहि वीतये ॥ ३२४ ॥

19.325

श्लोक

दद्यातु गन्धतोयानि सावित्र्या त्वभिमन्त्रयेत् । कारयेच्च महास्नानं ततः स्नानादनन्तरम् ॥ ३२५ ॥

19.326

श्लोक

कलसानां सहस्रेण कुर्यात् पञ्चशतेन वा । अथवा तस्य सार्द्धेन तथा चाष्टशतेन वा ॥ ३२६ ॥

19.327

श्लोक

चतुःषष्ट्या तदर्द्धेन षोडशैरष्टभिस्तथा । यथालाभं यथाकालं यथाविभवमात्मनः ॥ ३२७ ॥

19.328

श्लोक

अकालमूलैः कलसैः सुपक्वैः सुदृढैर्नवः । राजतैस्ताम्रसौवर्णैः कांस्यरैतिकपार्थिवैः ॥ ३२८ ॥

19.329

श्लोक

बला चातिबला चैव शङ्खपुष्पी सुवर्चला । सहदेवी च सिंही व वचा व्याघ्री तथैव च । ओषधीनां गणेनैवं स्नापयेद्देवमच्युतम् ॥ ३२९ ॥

19.330

श्लोक

फलोदस्नपनात् पश्चात् चूर्णैरुद्वर्त्य शोभनैः । स्नापयित्वा कदुष्णाद्भिः स्नापयेत् शीतवारिणा ॥ ३३० ॥

19.331

श्लोक

चन्दनाद्यैर्विलिप्याथ शुक्लमाल्याम्बरादिना । भूषयित्वोपवीतं च दन्तकाष्ठं तथार्पयेत् ॥ ३३१ ॥

19.332

श्लोक

ततश्च कारयेत् स्नान सुगन्धिसलिलादिना । इत्येवमत्र विज्ञेयो विशेषः शिष्टसम्मतः ॥ ३३२ ॥

19.333

श्लोक

घृतेनाभ्यञ्जयेत् पश्चात् पठन् घृतवतीं बुधः । मसूरचूर्णनोद्वर्तेदतो देवेति कीर्तयत् ॥ ३३३ ॥

19.334

श्लोक

क्षालयेदुष्णतोयेन सप्त ते अग्नेति देशिकः । चन्दनेनानुलिप्येत द्रुपदादिव इतृयचा ॥ ३३४ ॥

19.335

श्लोक

नादेयैः स्नापयेत्तोयैरापो हिष्ठेति देशिकः । स्नापयेद्रत्नतोयेन पावमानीभिरेव च ॥ ३३५ ॥

19.336

श्लोक

समुद्रं गच्छ मन्त्रेण स्नापयेच्चन्दनोदकैः । नागकेशरतोयेन श्रीश्च तेत्यभिषेचयेत् ॥ ३३६ ॥

19.337

श्लोक

गायत्त्र्या पद्मतोयेन पञ्चमृत्तिकया ततः । हिरण्यवर्णाः शुचय इति मन्त्रेण सेचयेत् ॥ ३३७ ॥

19.338

श्लोक

इमं मेति च मन्त्रेण स्नापयेत् सिकताजलैः । वल्मीकतोयन हरिं तद्विष्णोरिति स्नापयेत् ॥ ३३८ ॥

19.339

श्लोक

या ओषधीति मन्त्रेण स्नानमोषधिमङ्गलम् । यज्ञयज्ञेति मन्त्रेण दद्यात् काषायजं जलम् ॥ ३३९ ॥

19.340

श्लोक

पयः पृथिव्या मन्त्रेण पञ्चगव्येन स्नापयेत् । याः फलिनीरिति हरिं फलतोयेन सेचयेत् ॥ ३४० ॥

19.341

श्लोक

विश्वतश्चक्षुरित्युक्त्वोत्तरकुम्भेन सेचयेन् । मूर्धानं दिवमन्त्रेण कुर्यादुद्वर्तनं हरेः ॥ ३४१ ॥

19.342

श्लोक

धात्रीफलं मुरामांसीयुतं शिरसि स्नापयेत् । मानस्तोकेति मन्त्रेण ततो गन्धोदकै पुनः ॥ ३४२ ॥

19.343

श्लोक

गन्धद्वारेति-मन्त्रेण ततः स्नपनमाचरेत् । एकाशीति-पदन्यरतैर्घटैर्मलयभूषितैः । इदमापेति मन्त्रेण सर्वैरेवाभिषेचयेत् ॥ ३४३ ॥

19.344

श्लोक

अथवा पञ्चकाषाय-जलादिस्नपनं सकृत् । कार्यमन्यच्च सकलं तथा लिखितमेव तत् ॥ ३४४ ॥

19.345

श्लोक

एष साधारणः प्रोक्तः स्नपनस्य विधिर्मया । य एवं विधिवत् कुर्यात्तस्य पुण्यफलं शृणु ॥ ३४५ ॥

19.346

श्लोक

यावन्ति जलबिन्दूनि मम गात्रो निवेशयेत् । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ ३४६ ॥

19.347

श्लोक

ततश्च विधिवद्विद्वान् सम्पूज्य वाहनादिभिः । औत्थापनिक-मन्त्रेण देवमुत्थापयेच्छनैः ॥ ३४७ ॥

19.348

श्लोक

एवं स्नाप्य ततो देवं पूज्य गन्धानुलेपनैः । प्रच्छाद्य वस्त्रयुग्मेन अभिवस्त्रेत्युदोहरन् । उत्थापयेत्ततो देवमुत्तिष्ठ ब्रह्मणस्पते ॥ ३४८ ॥

19.349

श्लोक

आवाहयेत्ततो विष्णुं शुक्लस्फटिकसन्निभम् । एह्येहि भगवन् विष्णो लोकानुग्रहकारक । यज्ञभागं गृहाणेमं वासुदेव नमो नमः ॥ ३४९ ॥

19.350

श्लोक

अनेनावाह्य देवेशं कुर्यात् कौतुकमोचनम् । मुञ्चामि त्वेति मन्त्रेण देशिकस्यापि मोचयेत् ॥ ३५० ॥

19.351

श्लोक

हिरण्मयेति मन्त्रेण अर्घ्यं देवाय दापयेत् । अतो देवेति-सूक्तेन पाद्यं कृष्णाय मन्त्रितम् । मधूवातेति मन्त्रेण मधुपर्कं निवेदयेत् ॥ ३५१ ॥

19.352

श्लोक

मयि गृह्णाति मन्त्रेण दद्यादाचमनं बुधः । अक्षन्नमीमदन्तेति किरेद्दूर्वाक्षितं बुधः ॥ ३५२ ॥

19.353

श्लोक

निम्मञ्छनं ततः कुर्यात् काण्डात् काण्डेति देशिकः । गन्धं गन्धवतीत्येवमुन्नयामीति माल्यकम् ॥ ३५३ ॥

19.354

श्लोक

इदं विष्ण्विति मन्त्रेण दद्याद्यज्ञोपवीतकम् । बृहस्पतेति-मन्त्रेण वस्त्रयुग्मे प्रदापयेत् ॥ ३५४ ॥

19.355

श्लोक

वेदाहमेकं पुरुषमुत्तरीयं निवेदयेत् । सकलीकरणं कुर्यात् पठन् व्रतमहाव्रतम् ॥ ३५५ ॥

19.356

श्लोक

ओषधयः संवदन्ते सपुष्पकरणं ततः । धूरसीति पठन् भक्त्या धूपं दद्यात् सगुग्गुलम् ॥ ३५६ ॥

19.357

श्लोक

विभ्राडिति सूक्तेन अञ्जनं तु प्रदापयेत् । युञ्जन्तीति च मन्त्रेण रोचनातिलकं तथा ॥ ३५७ ॥

19.358

श्लोक

दद्यात् पुष्पाणि माल्यानि दीर्घायुष्ट्वेति मन्त्रवित् । इन्द्रच्छत्रेति मन्त्रेण श्वेतं छत्रं प्रदापयेत् ॥ ३५८ ॥

19.359

श्लोक

आदर्शं तु विराजेन विकर्णेन तु चामरम् । रथान्तरेणाभरणं व्यजनं वायुदैवतैः ॥ ३५९ ॥

19.360

श्लोक

मुञ्चामि त्वेति सूक्तेन पुष्पमालार्चनं ततः । ततः स्तुवीत गोविन्दं मन्त्रैर्वेदादिभिर्विभुम् ॥ ३६० ॥

19.361

श्लोक

तथा पुरुषसूक्तेन बृहत्साम्ना सुरोत्तम । शशिकर्णीति नवभिः सूक्तैः सुरगणार्चितम् ॥ ३६१ ॥

19.362

श्लोक

शान्तातीयेन च स्तूयाद्गुह्योपनिषदैस्तथा । सर्वमेतत् समं कुर्यात् पिण्डिकायामपि द्विज ॥ ३६२ ॥

19.363

श्लोक

देवस्योत्थानसमये सौपर्णं सर्वमुच्चरेत् ॥ ३६३ ॥

19.364

श्लोक

महतानेकवाद्येन पताकादिविभूषितम् । यानमारोहयेद्देवमारोहणिक-मन्त्रतः ॥ ३६४ ॥

19.365

श्लोक

आनीय तोरणाभ्यासमधिवासनमण्डपम् । प्रावेशनिक-मन्त्रेण सुख देवं प्रवेशयेत् ॥ ३६५ ॥

19.366

श्लोक

उत्तिष्ठेति समुत्थाप्य कुर्याद्ब्रह्मरथेशुभे । शाकुनेन तु सूक्तेन मण्डपे सन्निधापयेत् ॥ ३६६ ॥

19.367

श्लोक

रथे तिष्ठेति मन्त्रेण रथमारोहयेत् प्रभुम् । शङ्खन्दुन्दुभिनिर्घोषैः पताकाभिरलङ्कृतम् ॥ ३६७ ॥

19.368

श्लोक

आरोप्य सदृशे याने आनयेत्तोरणान्तिकम् । प्रवेशयेत्ततो देवं स्थापकः शंसितव्रतः ॥ ३६८ ॥

19.369

श्लोक

रथे ब्रह्मरथे वापि धृतं शिल्पिगणेन च । आरोप्य चालयेद्विद्वानाकृष्टेन प्रवेशयेत् ॥ ३६९ ॥

19.370

श्लोक

कृत्वा प्राग्लिखितैर्दर्भैः प्रागग्नेर्वंशपल्लवैः । पुष्पैर्वास्तरणं कृत्वा वस्त्रेणाच्छादयेद्गुरुः ॥ ३७० ॥

19.371

श्लोक

प्राङ्मुखं स्थापयित्वास्मिन् देवं कुर्यात् प्रदक्षिणम् । निद्राकुम्भं शिरोदेशे न्यसेद्दत्वोपधानकम् ॥ ३७१ ॥

19.372

श्लोक

मध्वाज्याक्तांश्च सिद्धार्थान् दत्त्वा गात्राणि संस्पृशन् । गन्धपुष्पैः समभ्यर्च्य दद्यात् प्रतिसरं सितम् ॥ ३७२ ॥

19.373

श्लोक

देवं चाच्छाद्य सद्वस्त्रैश्छत्रादीनि निधाय च । प्रज्वाल्य चतुरो दीपान् न्यसेत् कुम्भांश्च पादयोः ॥ ३७३ ॥

19.374

श्लोक

क्षीरादिकं निवेद्याथ भक्ष्यपेयादिभिः शुभैः । मण्डपं तत् प्रपूर्याथ सर्वतो वितरेद्बलिम् ॥ ३७४ ॥

19.375

श्लोक

पुष्पोपशोभिते स्थाने चन्द्रातपविभूषिते । मुक्ताहारैर्लम्बमाने दीपमालोपशोभिते ॥ ३७५ ॥

19.376

श्लोक

भक्ष्यभोज्यैरनेकैश्च सान्द्रपल्लवशोभिते । दिव्यपर्यङ्कन्यस्तायां तूलिकायां सुरोत्तम । अतो देवेति मन्त्रेण शय्यायां स्थापयेद्धरिम् ॥ ३७६ ॥

19.377

श्लोक

तथाविधे परे स्नाने पिण्डिकां सन्निवेशयेत् । श्रायन्तीयेन सूक्तेन श्रीसूक्तेन निवेशयेत् ॥ ३७७ ॥

19.378

श्लोक

निद्राख्यं कलसं रत्नगर्भवस्त्रयुगान्वितम् । खण्डकाद्यैरनेकैश्च पूरयेच्च समन्ततः ॥ ३७८ ॥

19.379

श्लोक

प्रागग्रैर्दर्भवंशैश्च राजन् दिव्यदलैः शुभैः । पुष्पैश्च रचयेच्छयां कोमलैर्दिव्यपल्लवैः ॥ ३७९ ॥

19.380

श्लोक

उपरिष्टाच्च शय्याया देयं प्रस्तरणं शुभम् । दुकूलं पट्टसंछन्नकार्पासं चाप्यसम्भवे ॥ ३८० ॥

19.381

श्लोक

प्रदक्षिणं ततः कुर्यात् स्थापकः प्रयतः शुचिः ॥ ३८१ ॥

19.382

श्लोक

प्राङ्मुखन्तु ततः कृत्वा भद्रपीठे सुसंस्थिते । पूरयित्वाम्भसा स्वप्नकलसं चाप्यलङ्कृतम् ॥ ३८२ ॥

19.383

श्लोक

सपुष्पं साक्षतं कृत्वा शिरोदेशे तु दापयेत् । शिरोदेवीति मन्त्रेण मातरः शुद्धयन्तु च ॥ ३८३ ॥

19.384

श्लोक

ततः शिरोन्नते भूय उपधानसमन्विते । शयने कारयेद्देवं विधिदृष्टेन कर्मणा ॥ ३८४ ॥

19.385

श्लोक

मधुना सर्पिषाभ्यज्य दद्यात् सिद्धार्थकान् शुभान् । स्थित्वा च दक्षिणे पार्श्व मन्त्रं च समुदाहरेत् ॥ ३८५ ॥

19.386

श्लोक

आप्यायस्वेति मन्त्रेण याते रुद्रे शिवेति च । सर्वाङ्गञ्च समालभ्य दद्यात् पुष्पं नराधिप । श्वेतान् प्रतिसरान् दद्यान्मन्त्रेणैव नराधिप ॥ ३८६ ॥

19.387

श्लोक

बृहस्पतये त्वा मह्यं मन्त्रेण परिवेष्टयेत् । दुकूलपट्टकार्पासैस्तथा वल्कजरोमजैः । चित्रपट्टैर्विचित्रैश्च छादयेत समन्ततः ॥ ३८७ ॥

19.388

श्लोक

चामरं व्यजनं छत्रं वितानञ्च सुशोभनम् । दर्पणं पार्श्वतः स्थाप्य रत्नान्योषधयस्तथा । गृहोपकरणेश्चान्यैः समन्तात् परिवारयेत् ॥ ३८८ ॥

19.389

श्लोक

भक्ष्यभोज्यान्नपानैश्च षड्विधैश्च विशेषतः । समन्तात् कारयैत्तत्र मण्डपञ्च सुशोभनम् ॥ ३८९ ॥

19.390

श्लोक

प्रकीर्णश्चाप्रकीर्णश्च दातव्यो देवसन्निधौ । त्र्यम्बकं यजामहेति सर्वमेतद्धि कारयेत् ॥ ३९० ॥

19.391

श्लोक

ततः प्रास्तीर्यं शय्यायां स्थापयेच्छनकैर्भुवि । कुशेष्वास्तीर्य पुष्पाणि दापयेत् प्राङ्मुखं ततः ॥ ३९१ ॥

19.392

श्लोक

ततस्तु निद्राकलसं वस्त्रकाञ्चनसंयुतम् । शिरोभागे तु देवस्य जपन्नेव निधापयेत् । आपो देवीति-मन्त्रेण आपोऽस्मान्मातरोऽपि च ॥ ३९२ ॥

19.393

श्लोक

ततो दुकूलपट्टैश्चाच्छाद्य नेत्रोपधानकम् । दद्याच्छिरसि देवस्य कौशेयं वा विचक्षणः ॥ ३९३ ॥

19.394

श्लोक

मधुना सर्पिषाभ्यज्य देवं सिद्धार्थकैस्ततः । आप्यायरवेति मन्त्रेण यात रुद्रे शिवेति च ॥ ३९४ ॥

19.395

श्लोक

उपविश्यार्चयेद्देवं गन्धपुष्पैः समन्ततः । सितं प्रतिसरं दद्याद्वार्हस्पत्येति मन्त्रतः ॥ ३९५ ॥

19.396

श्लोक

दुकूलपट्टैः कार्पासैर्नानाचित्रैरथापि वा । आच्छाद्य देवं सर्वत्र छत्रं चामरदर्पणम् । पार्श्वं तु स्थापयेत्तत्र वितानं पुष्पसंयुतम् ॥ ३९६ ॥

19.397

श्लोक

रत्नान्योषधयस्तद्वद्गृहोपकरणानि च । भाजनानि विचित्राणि शयनान्यासनानि च । अभि त्वा शूर मन्त्रेण यथा विभवतो न्यसेत् ॥ ३९७ ॥

19.398

श्लोक

क्षीरं क्षौद्रं घृतं तद्वद्भक्ष्य भोज्यञ्च पायसम् । षड्विधैश्च रसैस्तद्वत् समन्तात् परिपूरयेत् ॥ ३९८ ॥

19.399

श्लोक

बलिं दद्यात् प्रयत्नेन मन्त्रेणानेन भूरिशः । त्र्यम्बकं यजामह इति सर्वतः शनकैर्भुवि ॥ ३९९ ॥

19.400

श्लोक

भूतशुद्धिं ततः कृत्वा न्यासजातं विधाय च । ध्यात्वा तत्त्वं परं कुर्यात् सजीवकरणं बुधः ॥ ४०० ॥