Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १९

प्रातिष्ठिकः

19.201

श्लोक

श्वेतवस्त्रपरीधानः सोडणीषश्चन्दनोक्षितः । अङ्गुलीयकहस्तश्च सर्वालङ्कारभूषितः ॥ २०१ ॥

19.202

श्लोक

आत्मानं विष्णुवत् पूज्य गन्धपुष्पादिभिर्गुरुः । ध्यात्वा देवं विष्णुरूपं मन्त्रात्मकमयो शुचिः ॥ २०२ ॥

19.203

श्लोक

हरिआप्रणम्य विज्ञाप्य मूर्तिपानपि पूजयेत् । सितैः पुष्पैर्वस्त्रयुग्मैरङ्गुलीयैरथाङ्गदैः ॥ २०३ ॥

19.204

श्लोक

निपुणैः शिल्पिभिः सार्द्धं ततः कर्म समाचरेत् । पञ्चगव्येन सत्कृत्य शोध्य कुम्भान् विचक्षणः । स्नापयेन्मूर्तिपान् पश्चात् कुम्भे कुम्भे तु देशिकः ॥ २०४ ॥

19.205

श्लोक

व्रीहीनाहृत्य देवेशं वासुदेवेन चार्चयेत् । क्षिपेच्च नारसिंहेन पातालमुषलेन तु ॥ २०५ ॥

19.206

श्लोक

सिद्धार्थकान् क्षिपेध्यायन् सिंहमन्त्रेण मन्त्रयेत् । रक्षोघ्नान् पञ्चगव्येन प्रोक्षयेद्भूमिमादरात् ॥ २०६ ॥

19.207

श्लोक

ततस्ताम्रमयं कुम्भं मृण्मयं वा नवं दृढम् । जलपूर्णं स्थापयित्वा सरङ्गकरकायुतम् । ऐशान्यामर्चयेत्तस्मिन् साङ्गं गन्धादिना हरिम् ॥ २०७ ॥

19.208

श्लोक

अस्त्रमन्त्रेण करकां शतवारांस्तमर्चयेत् । तद्धाराच्छिन्नया सिञ्चेन्मण्डपं तं प्रदक्षिणम् ॥ २०८ ॥

19.209

श्लोक

कुम्भं तं पृष्ठतो नीत्वा कुम्भमन्त्रेण देशिकः । व्रीहीन् संस्कृत्य सर्वांस्तु कुम्भं तत्रोपरि न्यसेत् ॥ २०९ ॥

19.210

श्लोक

पुनः सम्पूजयेद्विष्णुं कलसेषु समाहितः । वस्त्रयुग्मेन कलसमेकेन करकां बुधः । छादयित्वा ततो गृह्य करणीं मण्डलीं नयेत् ॥ २१० ॥

19.211

श्लोक

चतुरस्रं चतुर्द्वारं चक्राब्जं षोडशारकम् । पञ्चवर्णेन चूर्णेन द्वादशारमथापि वा ॥ २११ ॥

19.212

श्लोक

वेद्यामेवं लिखित्वा च मण्डपे पूर्वदक्षिणे । चतुर्हस्तं चतुष्कोणं मध्ये पङ्कजभूषितम् । चतुर्द्वारं तु चूर्णेन स्वस्तिकं मण्डलं लिखेत् ॥ २१२ ॥

19.213

श्लोक

तस्योर्द्ध्वं न्यस्य पर्यङ्कं कुशान् संस्तारयेत्ततः । योगे योगेति मन्त्रेण गन्धतोयेन प्रोक्षयेत् ॥ २१३ ॥

19.214

श्लोक

तूलिकां विन्यसेत्तत्र दिव्यपट्टांशुकान्विताम् । उपाधानद्वयं कृत्वा पार्श्वे गेण्डुकमेव च । कपोलधारणं कृत्वा कुर्यादूर्द्ध्वं वितानकम् ॥ २१४ ॥

19.215

श्लोक

पुष्पमालापरिक्षिप्तं मुक्ताहारोपशोभितम् । कुर्यात् पुष्पगृहं हृद्यं मलयागुरुधूपितम् ॥ २१५ ॥

19.216

श्लोक

विद्याधिपास्तु सम्पूज्याः शक्त्या दिक्षु विदिक्षु च । विष्णुर्मधुनिहा चैव तथैव च त्रिविक्रमः । वामनश्चापि दिक्ष्वेते पूर्वाद्यासु व्यवस्थिताः ॥ २१६ ॥

19.217

श्लोक

श्रीधरः श्रीहृषीकेशः पद्मनाभस्तथैव च । दामोदरश्च सम्पूज्य आग्नेयादिव्यवस्थिताः ॥ २१७ ॥

19.218

श्लोक

एवमर्च्य ततः पश्चादैशान्यां स्नानमण्डपे । चतुःस्तम्भयुते रम्ये तन्मध्ये वेदिका शुभा ॥ २१८ ॥

19.219

श्लोक

चतुरस्रा चतुर्दिक्षु जलनिर्गमनान्विता । क्षीरिवृक्षोद्भवं पीठं मध्ये तत्र निवेशयेत् ॥ २१९ ॥

19.220

श्लोक

स्नानद्रव्याणि सर्वाणि समानीय विचक्षणः । निक्षिप्य स्नानकुम्भेषु कुम्भांस्तानधिवासयेत् ॥ २२० ॥

19.221

श्लोक

रत्नानि च चतुर्दिक्षु सिद्धद्रव्यान्विताः शुभाः । कलसाः स्थापनीयास्तु अभिषेकार्थमादरात् ॥ २२१ ॥

19.222

श्लोक

वटोडुम्बरकाश्वत्थ-चम्पकाशोक-श्रीद्रुमान् । पलाशार्जुनप्लक्षांश्च कदम्बकुलाम्रजान् । पल्लवांस्तु समानीय पूर्वंकुम्भे विनिक्षिपेत् ॥ २२२ ॥

19.223

श्लोक

पद्मकं रोचनां दूर्वांई दर्भपिञ्जलमेव च । जातिपुष्पं कुन्दपुष्पं चन्दनं रक्तचन्दनं । तमालं तगरं चैव वञ्जुलं दक्षिणे न्यसेत् ॥ २२३ ॥

19.224

श्लोक

सुवर्णं रजतं चैव कूलद्वयमृदं तथा । नद्याः समुद्रगामिन्या विशेषाज्जाह्नवीजलम् । गोमयञ्च यवान् शालीन् तिलांश्चैव परे न्यसेत् ॥ २२४ ॥

19.225

श्लोक

विष्णुपर्णीं श्यामलतां भृङ्गराजं शतावरीम् । गुडुचीं सहदेवीञ्च विन्यसेच्च महौषधीः ॥ २२५ ॥

19.226

श्लोक

फलान्युदकयुक्तानि आग्नेय्यां विन्यसेद्घटे । पञ्चगव्यन्तु नैरृत्यां कुम्भे कृत्वाभिमन्त्रितम् ॥ २२६ ॥

19.227

श्लोक

वटाश्वत्थपलाशानां बिल्वस्योडुम्बरस्य च । कषायोदकसंयुक्तं वायव्यां कलसं न्यसेत् ॥ २२७ ॥

19.228

श्लोक

कुमारीममृताञ्चैव शतमूलीं शतावरीम् । सहदेवीं वचां सिंहीं बलां ब्राह्मीं सुलक्षणाम् । ऐशान्यामपरे कुम्भे मङ्गलाख्ये निवेशयेत् ॥ २२८ ॥

19.229

श्लोक

वल्मीकमृत्तिकां सप्तस्थानोत्थामपरे न्यसेत् । जाह्नवीबालुकातोयं विन्यसेदपरे घटे ॥ २२९ ॥

19.230

श्लोक

वराह-वृषनागेन्द्र-विषाणोद्धृतमृत्तिकाम् । कूलद्वयमृदं नद्यां विन्यसेदपरे घटे ॥ २३० ॥

19.231

श्लोक

मृत्तिकां पद्ममूलस्य कुशस्याप्यपरे घटे । तीर्थपर्वतमृद्भिस्तु युक्तमप्यपरे घटे ॥ २३१ ॥

19.232

श्लोक

नागकेशरपुष्पञ्च काश्मीरमपरे घटे । चन्दनागुरुकर्पूरैः पूरितं चापरं न्यसेत् ॥ २३२ ॥

19.233

श्लोक

वैदूर्यं विद्रुमं मुक्तां स्फाटिकं वज्रमेव च । एतान्येकत्र निक्षिप्त्वा स्थापयेद्देवसत्तम ॥ २३३ ॥

19.234

श्लोक

नदीनदतडागानां सलिलैरपरं न्यसेत् । एकाशीतिपदे चान्यान् मण्डपे कलसान्न्यसेत् ॥ २३४ ॥

19.235

श्लोक

पूरितान् गन्धतोयेन धान्यस्थांस्तास्तु मन्त्रयेत् । श्रीसूक्तेन समस्तेन सर्वानेव सकृत् सकृत् ॥ २३५ ॥

19.236

श्लोक

कलसानधिवास्यैवमर्घ्यादीन् विनिवेशयेत् ॥ २३६ ॥

19.237

श्लोक

यवं सिद्धार्थकं गन्धं कुशाग्रं चाक्षतं तथा । तिलान् फलं तथा पुष्पमर्घ्यार्थं पूर्वतो न्यसेत् ॥ २३७ ॥

19.238

श्लोक

पद्मं श्यामलतां दूर्वां विष्णुपणीं तथा कुशान् । पाद्यार्थं दक्षिणे भागे स्थापयेद्देशिकोत्तमः ॥ २३८ ॥

19.239

श्लोक

स्थापयेत् पश्चिमे भागे मधुपर्कं सुसंवृतम् । कक्कोलकं लवङ्गञ्च तथा जातीफलं शुभम् । उत्तरे स्थापयेद्भागे द्रव्यमाचमनाय तु ॥ २३९ ॥

19.240

श्लोक

आग्नेय्यां स्थापयेत् पात्रं पूर्णं दूर्वाक्षितैर्बुधः । नीराजनाथं देवेश देवदेवस्य सर्वदा ॥ २४० ॥

19.241

श्लोक

नैरृत्यामुदकं गन्धयुक्तं स्नानाय विन्यसेत् । उद्वर्तनाय वायव्यां गन्धपिष्टं निवेशयेत् ॥ २४१ ॥

19.242

श्लोक

न्यसेदामलकं पात्रे मुरामांसीयुतं शुभम् । सहदेवीं सदाभद्रां कुशाग्रां रजनीं तथा ॥ २४२ ॥

19.243

श्लोक

ऐशान्यां विन्यसेत् पात्रे शिरीषं सूर्यवणिनीम् । निर्मञ्छनाय देवस्य स्थापकः सुसमाहितः ॥ २४३ ॥

19.244

श्लोक

अष्टौ दिक्षु न्यसेद्विद्वान् लौहयष्टिप्रदीपकान् ॥ २४४ ॥

19.245

श्लोक

शङ्खैचक्रञ्च श्रीवत्सं कौस्तुभं पङ्कजादिकम् । हेमाद्रिपात्रे कृत्वाथ गोमयेनाथ वा पुनः ॥ २४५ ॥

19.246

श्लोक

नीराजनाय देवस्य तथा वै पुष्पजातयः । स्थापनीयास्तथा चान्ये माङ्गल्याः स्नानचोदिताः ॥ २४६ ॥

19.247

श्लोक

शिल्पिशालां ततो गत्वा गीतवाद्यादिनिस्वनैः । आनयेद्भगवन्मूर्ति सह पिण्डिकया ततः ॥ २४७ ॥

19.248

श्लोक

स्नापयित्वा परीक्षेत श्रीमूर्ति तां विचक्षणः ॥ २४८ ॥

19.249

श्लोक

अथवा शिल्पिशालायां स्नापयित्वा यथाविधि । प्रवेशयेत् पिण्डिकायां तां विप्रैः स्नानमण्डपम् ॥ २४९ ॥

19.250

श्लोक

आचार्यो मूर्तिपैश्चैव ऋत्विग्भिः सह संयुतैः । विष्णुव्रतधरैः शान्तैः विष्णुशास्त्रानुरञ्जितैः ॥ २५० ॥

19.251

श्लोक

अलोलुपैरहीनाङ्गैरार्यदेशसमुद्भवः । विष्णुभक्तिपरैर्धीरैर्विप्रैर्भागवतैः सह ॥ २५१ ॥

19.252

श्लोक

द्वात्रिंशद्भिः षोडशभिः अष्टाभिस्तु क्रमेण तु । आनयित्वा तु देवेशं स्थापयेत् स्नानमण्डपे ॥ २५२ ॥

19.253

श्लोक

अत्र संज्वालयेद्वह्निं वैष्णवं विधिना गुरुः । ऐशान्यां गुरुकुण्डे तु प्राङ्मुखोदङ्मुखोऽपि वा ॥ २५३ ॥

19.254

श्लोक

तत्रैव होमयेद्विष्णुं गायत्र्या धृतमादरात् । अष्टोत्तरशतं हुत्वा सम्पातविधिना सुधीः ॥ २५४ ॥

19.255

श्लोक

सम्पाताज्येन कलसान् प्रोक्ष्य देशिकसत्तमः । लिप्तायां कारुशालायामुपतिष्ठेत सयतः ॥ २५५ ॥

19.256

श्लोक

ब्राह्मणवैष्णवैः सार्द्धं मूर्तिपैः शिल्पिभिः सह । महता ब्रह्मघोषेण सहायैर्बलवत्तरैः ॥ २५६ ॥

19.257

श्लोक

। काहलशङ्खशब्दैश्च भेरीमुरजनिस्वनैः । वीणावेणुस्वनैर्हृद्यदिव्ययन्त्रस्वनैस्तथा । आचार्यः प्राङ्मुखो भूत्वा कुर्यात् कौतुकबन्धनम् ॥ २५७ ॥

19.258

श्लोक

वैष्णवे सिपिविष्टेति गौरसिद्धार्थकेन तु । ऊर्णामयेन सूत्रेण निम्बादूर्वान्वितेन च । दुकूलवस्त्रैर्बद्ध्वा तु दक्षिणे बध्नीयात् करे ॥ २५८ ॥

19.259

श्लोक

देशिकस्यापि कर्तव्यं करे कौतुकबन्धनम् ॥ २५९ ॥

19.260

श्लोक

ततो विकल्प्य देवास्त्रं तण्डुलैः पञ्चरङ्गकैः । तन्मध्ये प्रतिमां स्थाप्य स्नाप्य चैव यथाविधि ॥ २६० ॥

19.261

श्लोक

वस्त्रयुग्मेन संछाद्य पूज्य गन्धादिना तु ताम् । चामरैस्तालवृत्तैश्च वीजयेन्मङ्गलान्विताम् ॥ २६१ ॥

19.262

श्लोक

एरकायां निवेश्याथ प्रतिमां संस्तवेत्ततः ॥ २६२ ॥

19.263

श्लोक

नमस्तेऽर्चे सुरेशानि प्रणीते विश्वकर्मणा । प्रभाविताशेषजगद्धात्रि तुभ्यं नमो नमः ॥ २६३ ॥

19.264

श्लोक

त्वयि सम्पूजयामीशं नारायणमनामयम् । रहिता शिल्पिदोषैस्त्वमृद्धियुक्ता सदा भव । एवं विज्ञाप्य प्रतिमां नयेत्तां स्नानमण्डपम् ॥ २६४ ॥

19.265

श्लोक

ततः सपरिवारांश्च श्रीमूर्त्याविर्विधायिनः । शिल्पिनोऽभ्यर्च्य विविधैर्द्रव्यैर्वावयैश्च तोषयेत् ॥ २६५ ॥

19.266

श्लोक

ततो विष्णुं समानीय सुधौतं सुपरीक्षितम् । शिल्पिनः पूजयेत् पश्चाद्वस्त्रालङ्करणादिभिः । अन्ये च पूजनीयाश्च ये चात्र परिचारकाः ॥ २६६ ॥

19.267

श्लोक

आनीय लिङ्गमर्चां वा शिल्पिनः पूजयेद्बुधः । वस्त्राभरणरत्नैश्च ये च तत्परिचारकाः । क्षमध्वमिति तान् ब्रूयाद्यजमानो ह्यतःपरम् ॥ २६७ ॥

19.268

श्लोक

पूजयित्वा तु प्रतिमां शिल्पिनं तोषयेत्ततः । गन्धपुष्पादिभिर्विप्रंतोषयेत् कटकादिभिः ॥ २६८ ॥

19.269

श्लोक

सर्वेऽथ कर्मिणस्तस्यास्तस्मिन् काले पृथक् पृथक् । क्षमापयोत तान् सर्वान् प्रियप्रश्नेन सर्वथा ॥ २६९ ॥

19.270

श्लोक

कुशाद्यास्तरणे न्यस्य पीठे वा स्नापयेत्ततः । दिव्यवाद्यादिना पञ्चकाषायसलिलादिभिः ॥ २७० ॥

19.271

श्लोक

स्नपनं तु ततः कार्यं दिव्यमङ्गलनादितम् । यथानुरूपैर्विविधैर्वादत्रानिनदैः शुभैः । काषायैः पञ्चगव्यैश्च तीर्थवल्मीकमृज्जलैः ॥ २७१ ॥

19.272

श्लोक

समुद्रज्येष्ठा सलिलस्य मध्याद्-या आपो दिव्या उत वा श्रवन्ति । यासां राजा वरुणो याति मध्ये यासु राजा वरुणो यासु सोमः ॥ २७२ ॥

19.273

श्लोक

ततो लिङ्गमथार्चां वा नीत्वा स्नपनमण्डपम् । गीतमङ्गलशब्देन स्नपनं तत्र कारयेत् ॥ २७३ ॥

19.274

श्लोक

पञ्चगव्यैः कषायेण मृद्भिर्भस्मोदकेन च । शौचं तत्र प्रकुर्वीत वेदमन्त्रचतुष्टयात् ॥ २७४ ॥

19.275

श्लोक

ध्रियमाण-वितानेन ब्रह्मघोषेण तां बुधः । तत्र पीठे समारोप्य भद्रं कर्णेति कीर्तयन् । स्नापयेच्छुद्धतोयेन शुद्धवत्या तु देशिकः ॥ २७५ ॥

19.276

श्लोक

स्नापिता गन्धतोयेन शिल्पिदोपैर्विमुच्यते । मन्त्रैर्गन्धादिनाभ्यर्च च्छादयेच्छुद्धवाससा ॥ २७६ ॥

19.277

श्लोक

ततश्वोन्मीलयेन्नेत्रे तन्मन्त्रेण विचक्षणः । तयोश्च ज्योतिरुत्कीर्य शुभां दृष्टिं प्रकल्पयेत् ॥ २७७ ॥

19.278

श्लोक

देवं प्रस्तरणे कृत्वा नेत्रे ज्योतिः प्रकल्पयेत् ॥ २७८ ॥

19.279

श्लोक

यजमानस्ततो भक्त्या देशिकं परितोषयेत् । कांस्यदोहां वस्त्रकण्ठां ताम्रपृष्ठां पयस्विनीम् ॥ २७९ ॥

19.280

श्लोक

रौप्याङ्घ्रिं स्वर्णशृङ्गीं तां सुशीलां तरुणीं शुभाम् । प्रणम्य विधिना धेनुं दद्याद्वाग्भिः क्षमापयेत् ॥ २८० ॥

19.281

श्लोक

अवधार्य जगच्छान्तिं नेत्रे चोन्मीलयेद्बुधः । चित्रं देवेति मन्त्रेण ज्योतिर्देवस्य चोत्किरेत् ॥ २८१ ॥

19.282

श्लोक

अग्निज्योतीतिमन्त्रेण ज्ञात्वा दृष्टिं प्रकल्पयेत् । दृष्टिभेदांस्तु सकलान् वर्णयिष्ये तवोपरि ॥ २८२ ॥

19.283

श्लोक

चित्रं देवेति-मन्त्रेण सोम्यां दृष्टिं तु कारयेत् ॥ २८३ ॥

19.284

श्लोक

दृष्टयो बहुधा नाट्यशास्त्रेषु परिकीर्तिताः । किं त्वत्रोद्देशतो वक्ष्ये दृष्टीनां लक्षणं द्विज ॥ २८४ ॥

19.285

श्लोक

हसिता घूर्णिता क्षिप्ता तथान्तर्वेदनातुरा । विदिष्ट लज्जिता क्रूरा प्रसन्ना मदनातुरा ॥ २८५ ॥

19.286

श्लोक

लज्जिता कम्पिता तृप्ता दीनान्तर्निहिता तथा । विशालान्तरविक्षिप्ता ऊर्द्ध्वक्षिप्ता सुवर्णिता ॥ २८६ ॥

19.287

श्लोक

पार्श्वावलोकिनी चाधःक्षिप्ता नासाग्रगोचरा । समावलोकिनी क्रान्ता योगदृष्टिस्तथा शुभा ॥ २८७ ॥

19.288

श्लोक

वीभत्सा करुणालोका ईषत्क्षिप्ता च केकरा । विभ्रान्ता लूलिता चान्तःकोपहर्षसमन्विता । एवं ज्ञात्वा दृष्टिभेदेन् प्रतिमासु प्रयोजयेत् ॥ २८८ ॥

19.289

श्लोक

ततः शुक्लानि पुष्पाणि घृतसिद्धार्थकं तथा । दूर्वा कुशाग्रं देवस्य दद्याच्छिरसि देशिकः । पठन् रक्षोहनं सर्वमन्त्रमाथर्वणं तथा ॥ २८९ ॥

19.290

श्लोक

रौप्यं भाजनमादाय मधुरत्रयसंयुतम् । मधुवातेति मन्त्रेण मन्त्रयित्वाष्टधा पुनः ॥ २९० ॥

19.291

श्लोक

शलाकया सुवर्णस्य नेत्रे चाभ्यञ्जयेद्गुरुः । हिरण्यगर्भमन्त्रेण इमं मे इति कीर्तयेत् ॥ २९१ ॥

19.292

श्लोक

समर्प्य चार्घ्यं देवाय या दिव्या आप इत्यतः । इन्द्रादिभ्यो बलिं दद्यात् सिद्धार्थघृतपायसैः ॥ २९२ ॥

19.293

श्लोक

दध्यक्षतकुशाग्राणि क्षीरं दूर्वां तथा मधु । यवाः सिद्धार्थकास्तद्वदष्टाङ्गोऽर्घ्यः फलैः सह ॥ २९३ ॥

19.294

श्लोक

देवं पुष्पैरलङ्कृत्य धूपयित्वा प्रणम्य च । परिधाप्य च वस्त्रे द्वे ब्राह्मणान् स्वस्ति वाचयेत् ॥ २९४ ॥

19.295

श्लोक

तेभ्योऽथ दक्षिणां दत्त्वा होमाचार्याय गामपि । आवाह्य मन्त्रयेद्देवं नमो भगवते इति ॥ २९५ ॥

19.296

श्लोक

विलिखन् काच्चनेनाथ श्रीमूर्तिं मङ्गलानि तु । कारयेद्गीतवाद्यादौन्यमाङ्गल्यञ्च वारयेत् ॥ २९६ ॥

19.297

श्लोक

अर्घ्यं दत्त्वा नमस्कृत्य आर्चयित्वा यथाक्रमम् । दत्त्वा सगुग्गुलं धूपं देवदेवस्य धीमतः । प्रच्छाद्य वस्त्रयुग्मेन ततः कार्यं तु लक्षणम् ॥ २९७ ॥

19.298

श्लोक

सर्वतस्तु बलिं दत्त्वा सिद्धार्थघृतपायसम् । शुक्लपुष्पैरलङ्कृत्य घृतगुग्गुलधूषितम् । विप्रेण वाचनं कुर्यात् दत्त्वा शक्त्या च दक्षिणाम् ॥ २९८ ॥

19.299

श्लोक

गामेकां कनकं तद्वत् स्थापकाय निवेदयेत् । लक्षणं कारयेद्भक्त्या मन्त्रेणानेन वै द्विजः ॥ २९९ ॥

19.300

श्लोक

ॐ नमो भगवते तुभ्यं शिवाय हरये नमः । हिरण्यरेतसे विष्णो विष्णुरूपाय ते नमः ॥ ३०० ॥