Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १७

पौरश्चरणिकः

17.201

श्लोक

होमे च कुण्ड-निर्माणादिकस्य लिखितो विधिः । पूर्वं दीक्षा-विधाव् अत्र विशेषः कोऽपि लिख्यते ॥ २०१ ॥

17.202

श्लोक

कुर्याद् रक्ताम्बुजैर् होमं गुडाज्य-मधु-सम्प्लुतैः । तद्-अलाभे पायसेन सितासर्पिर् युतेन हि ॥ २०२ ॥

17.203

श्लोक

होमाशक्तौ जपं होम-सङ्ख्यास् तु चतुर्गुणम् । षड्-गुणं चाष्ट-गुणितं यथा-सङ्ख्यं द्विजातयः ॥ २०३ ॥

17.204

श्लोक

होम-कर्मण्य् अशक्तानां विप्राणां द्विगुणो जपः । इतरेषां तु वर्णानां त्रिगुणो हि विधीयते ॥ २०४ ॥

17.205

श्लोक

स-होमस् तु त्रिवर्णानां तुल्य एव जपः स्मृतः । जपो यो होम-रहितस् तेषां तद्-योषितां हि सः ॥ २०५ ॥

17.206

श्लोक

स्वामि-स्त्रिया जपो यश् च शूद्रस्य विहितः स हि । एवम् अष्टादशार्णस् तु मन्त्रो जप्योऽयुत-द्वयम् ॥ २०६ ॥

17.207

श्लोक

मन्त्रम् एतं यथा-न्यायम् अयुत-द्वितयं पठेत् । जुहुयाद् अरुणाम्भोजैस् तद्-दशांशं समाहितः ॥ २०७ ॥

17.208

श्लोक

जपः स्याद् असमर्थस्य अयुत-द्वितयावधिः ॥ २०८ ॥

17.209

श्लोक

श्रीमत्-सनत्-कुमारादि-प्रोक्तस्य त्व् अनुसारतः । मन्त्रं फल-विशेषाय जपेल् लक्ष-चतुष्टयम् ॥ २०९ ॥

17.210

श्लोक

उक्तं लक्षं कृत-युगे त्रेतायां तु द्वयं स्मृतम् । लक्ष-त्रयं द्वापरे च चतुर्लक्षं कलौ युगे ॥ २१० ॥

17.211

श्लोक

वेद-लक्षं जपेन् मनुम् ॥ २११ ॥

17.212

श्लोक

यस्मिंश् च निगदेनैव जप-सङ्ख्या विधीयते । तत्र सर्वत्र मन्त्राणां सङ्क्या-वृद्धिर् युग-क्रमात् ॥ २१२ ॥

17.213

श्लोक

कल्पोक्तैव कृते सङ्ख्या त्रेतायां द्विगुणा स्मृता । द्वापरे त्रिगुणा ज्ञेया कलौ सङ्ख्या चतुर्गुणा ॥ २१३ ॥

17.214

श्लोक

सद्यः फल-विशेषार्थं जपेद् वा लक्ष-पञ्चकम् । होमं कुर्यात् तद्-दशांशं विधिना लिखितेन हि ॥ २१४ ॥

17.215

श्लोक

केचिच् च पूर्व-सेवाख्यं शुद्ध्य्-अर्थं तज्-जपं पुरः । अयुत-द्वयम् अन्ते च मन्यन्ते लक्ष-पञ्चिअकम् ॥ २१५ ॥

17.216

श्लोक

अन्ते महोत्सवं कुर्वन् कृष्णं भक्त्यार्चयेन् महत् । गुरुं सन्तोषयेद् विप्रान् भोजयेत् प्रीणयेत् परान् ॥ २१६ ॥

17.217

श्लोक

पुरश्चरणम् एवं हि सिध्येद् इति मतं बुधैः । तथापि कुर्यात् पूर्वेषां सम्मतं तर्पणादिकम् ॥ २१७ ॥

17.218

श्लोक

अखण्डैर् अरुणाम्भोजैर् मधुरोक्तैर् दशांशतः । पायसेन घृताक्तेन तिलैर् आरप्यकैश् च वा ॥ २१८ ॥

17.219

श्लोक

जुहुयात् तद्-दशांशेन तर्पयेच् छुद्ध-वारिणा । विप्रांश् च भोजयेत् पश्चाद् गुरुं सन्तोषयेत् ततः ॥ २१९ ॥

17.220

श्लोक

होमाद् दशांशतः कुर्यात् तर्पणं देवता-मुखे । तर्पणस्य दशांशेन मार्जयेद् आत्म-मूर्धनि ।मार्जनस्य दशांशेन कुर्याद् ब्राह्मण-भोजनम् ॥ २२० ॥

17.221

श्लोक

तर्पयेच् च विधानेन श्री-कृष्णं शुद्ध-वारिणा । पुष्पाक्षतादि-युक्तेन जले संजप्य पूर्ववत् ॥ २२१ ॥

17.222

श्लोक

तोयैर् अञ्जलिना शुद्धैर् अभिषिञ्चेत् स्व-मूर्धनि । दशांशं देवता-बुद्ध्या तर्पणस्य ततः परम् ॥ २२२ ॥

17.223

श्लोक

पाद्यार्घ्यैर् अर्चयेद् इष्ट-देव-बुद्ध्या हि भूसुरान् । भक्ष्यैर् नाना-रसोपेतैर् भोजयेद् भक्ति-भावितः ॥ २२३ ॥

17.224

श्लोक

एवं प्रतिदिनं कुर्याद् यावत् सङ्ख्या प्रपूर्यते । तद्-अन्ते महतीं पूजां कुर्याद् विप्रांश् च तोषयेत् ॥ २२४ ॥

17.225

श्लोक

गन्ध-माल्याम्बरैश् चैव भक्ष्य-भोज्यैः सदक्षिणैः । दीनान्ध-कृपणा-नाथान् प्रीणयेद् भोजनादिना ॥ २२५ ॥

17.226

श्लोक

गो-भू-हिरण्य-वस्त्राद्यैः सम्पूज्य गुरुम् आत्मनः । मिष्टान्नं बन्धुभिः सार्धं भुञ्जीतोत्साह-पूर्वकम् ॥ २२६ ॥

17.227

श्लोक

केचिज् जपाद् दशांशं हि मन्यन्ते तर्पणं बुधाः । अपेक्ष्योऽन्यो विशेषोऽत्र ज्ञेयोऽन्य-ग्रन्थतः स च ॥ २२७ ॥

17.228

श्लोक

यद् यद् अङ्गं विहीयेत तत्-सङ्ख्याद् द्विगुणो जपः । साङ्गता-सिद्ध्यै कर्तव्यस् तच् चाशक्त्या न भक्तितः ॥ २२८ ॥

17.229

श्लोक

सर्वथा भोजयेद् विप्रान् क्षत-साङ्गत्व-हेतवे । विप्राराधन-मात्रेण व्यङ्गं साङ्गत्वम् आप्नुयात् ॥ २२९ ॥

17.230

श्लोक

यद् यद् अङ्गं विहीयेत जपस् तद् द्विगुणो मतः । तावत् पुष्प-प्रदानं वा तावती वा नमस्क्रिया ॥ २३० ॥

17.231

श्लोक

पूजां विस्तरतः कर्तुं यो न शक्नोति साधकः । स विनाङ्गेन्द्र-वज्राद्यैः पूजयेद् इष्ट-दैवतम् ॥ २३१ ॥

17.232

श्लोक

अथवा देवता-मात्रं ध्यात्वा सम्यक् प्रपूजयेत् । अथवा मानसीं कुर्यात् पूजाम् आत्मार्पणावधि ॥ २३२ ॥

17.233

श्लोक

अथवा केवलां पूजां बाह्यं कुर्याद् विचक्षणः । सम्पूज्यैवं जपं कुर्यान् न मन्त्रं केवलं जपेत् ॥ २३३ ॥

17.234

श्लोक

पूर्व-पूर्वस्य चाशक्ताव् उत्तरोत्तरम् आचरेत् । प्रभुः प्रथम-कल्पस्य योऽनुकल्पेन वर्तयेत् । न साम्परायिकं तस्य दुर्मतेर् जायते फलम् ॥ २३४ ॥

17.235

श्लोक

अथवान्य-प्रकारेण पुरश्चरणम् इष्यते । ग्रहणेऽर्कस्य चेन्दोर् वा शुचिः पूर्वम् उपोषितः ॥ २३५ ॥

17.236

श्लोक

नद्यां समुद्र-गामिन्यां नाभिमात्रोदके स्थितः । ग्रहणादि-विमुक्त्य्-अन्तं जपेन् मन्त्रं समाहितः ॥ २३६ ॥

17.237

श्लोक

अनन्तरं दशांशेन क्रमाद् धोमादिकं चरेत् । तद्-अन्ते महतीं पूजां कुर्याद् ब्राह्मण-भोजनम् ॥ २३७ ॥

17.238

श्लोक

ततो मन्त्र-प्रसिद्ध्य्-अर्थं गुरुं सम्पूज्य तोषयेत् । एवं च मन्त्र-सिद्धिः स्यात् देवता च प्रसीदति ॥ २३८ ॥

17.239

श्लोक

अथवान्य-प्रकारोऽयं पौरश्चरणिके विधौ । चन्द्र-सूर्योपरागे तु स्नात्वा प्रयत-मानसः ॥ २३९ ॥

17.240

श्लोक

स्पर्शाद् विमुक्त-पर्यन्तं जपेन् मन्त्रं समाहितः । सर्वं पूर्ववद् एवाथ कुर्याद् धोमादिकं कृती ॥ २४० ॥

17.241

श्लोक

अथवा देवता-रूपं गुरुं ध्यात्वा प्रतोषयेत् । तस्य च्छायानुसारी स्याद् भक्ति-युक्तेन चेतसा ॥ २४१ ॥

17.242

श्लोक

गुरु-मूलम् इदं सर्वं तस्मान् नित्यं गुरुं भजेत् । पुरश्चरण-हीनोऽपि मन्त्री सिद्ध्येन् न संशयः ॥ २४२ ॥

17.243

श्लोक

यथा सिद्ध-रस-स्पर्शात् ताम्रं भवति काञ्चनम् । सन्निधानाद् गुरोर् एव शिष्यो विष्णुमयो भवेत् ॥ २४३ ॥

17.244

श्लोक

गवानुगमनं कार्यं गो-ग्रासं गो-प्रदक्षिणम् । नित्यं तासु प्रसन्नासु गोपालोऽपि प्रसीदति ॥ २४४ ॥

17.245

श्लोक

सिद्धस्य त्रीणि चिह्नानि दाता भोक्ताप्य् अयाचकः । सिद्ध-मन्त्रस्य तन्त्रोक्ताः प्रवर्तन्तेऽत्र सिद्धयः ॥ २४५ ॥

17.246

श्लोक

मन्त्राराधन-शक्तस्य प्रथमं वत्सर-त्रयम् । जायन्ते बहवो विघ्ना नियमस् तस्य नारद ॥ २४६ ॥

17.247

श्लोक

नोद्वेगं साधको याति कर्मणा मनसा यदि । तृतीयाद् वत्सराद् ऊर्ध्वं राजानश् च मही-भृतः ॥ २४७ ॥

17.248

श्लोक

प्रार्थयन्तेऽनुरोधेन गर्विता अपि मानिनः । प्रसादः क्रियतां नाथ ममोद्धरण-कारणम् ॥ २४८ ॥

17.249

श्लोक

प्रज्वलन्तं प्रपश्यन्ति तेजसा विभवेन च । अतस् ते मुनि-शार्दूल निष्ठुरं वक्तुम् अक्षमाः ॥ २४९ ॥

17.250

श्लोक

नवमाद् वत्सराद् ऊर्ध्वं नानाश्चर्याणि पश्यति । आत्मानन्द-प्रदान्य् आशु प्रत्यक्षेण बहिस् तथा ॥ २५० ॥

17.251

श्लोक

बलेन परिपूर्णश् च तेजसा भास्करोपमः । पूर्नेन्दु-सदृशः कान्त्या गमने विअह्गोपमः ॥ २५१ ॥

17.252

श्लोक

स्वल्पाशनेऽप्य् अकृशता बहुना न च खिद्यते । विण्-मूत्रयोर् अथाल्पत्वं भवेन् निद्रा-जयस् तथा ॥ २५२ ॥

17.253

श्लोक

जप-ध्यान-रतो मौनी न खेदम् अधिगच्छति । विना भोजन-पानाभ्यां पक्ष-मासादिकं मुने ॥ २५३ ॥

17.254

श्लोक

इत्य् एवम् आदिभिश् चिह्नैर् महा-विस्मय-कारिभिः । प्रवृत्तैः सम्प्रबोद्धव्यं प्रसन्नो मन्त्र-राड् इति ॥ २५४ ॥

17.255

श्लोक

मन्त्र-प्रसाद-जनितं लिङ्गं च न गुरोर् विना । प्रकाशनीयं विप्रेन्द्र कस्यचित् सिद्धिम् इच्छता ॥ २५५ ॥

17.256

श्लोक

सिद्ध-मन्त्रोऽपि नित्यं हि त्रिसन्ध्यं कृष्णम् अर्चयेत् । नियमेनैक-सन्ध्यं वा जपेद् अष्टोत्तरं शतम् ॥ २५६ ॥

17.257

श्लोक

अनुष्ठितो यथान्यायं यदि मन्त्रो न सिध्यति । पुनस् तावत् प्रजप्तव्यस् ततः सिद्धो भवेद् ध्रुवम् ॥ २५७ ॥

17.258

श्लोक

पुनः सोऽनुष्ठितो मन्त्रो यदि सिद्धो न जायते । उपायास् तत्र कर्तव्याः सप्त शङ्कर-भाषिताः ॥ २५८ ॥

17.259

श्लोक

रुद्रेण दहनान्तं ये कथिता मन्त्र-सिद्धये । सप्तोपाया बुधैर् ज्ञेयास् तेऽन्य-मन्त्रेष् सिद्धिदाः ॥ २५९ ॥

17.260

श्लोक

श्रीमद्-गोपाल-मन्त्रोऽयं नैव किञ्चिद् अपेक्षते । हृन्-मात्र-स्पृक् फलत्य् एव स्पृष्टो हि दहनो यथा ॥ २६० ॥

17.261

श्लोक

अर्चनार्थे मुने वक्ष्ये यन्त्रं श्री-करम् उत्तमम् । स्व-गृहे वा वने चाथ विष्णोर् आयतनेऽथवा ॥ २६१ ॥

17.262

श्लोक

स्थानम् एकान्तम् आश्रित्य शोधयेद् गोमयाम्भसा । तत्र संस्थापयेत् पीठं क्षालितं शुद्ध-वैरिणा ॥ २६२ ॥

17.263

श्लोक

विलिख्य गन्ध-पङ्केन लिखेद् अष्ट-दलाम्बुजम् । कर्णिकायां लिखेद् वह्नि-पुटितं मण्डल-द्वयम् ॥ २६३ ॥

17.264

श्लोक

तस्य मध्ये लिखेद् बीजं साध्याख्यं कर्म-संयुतम् । ततः शिष्टैर् मनोर् वर्णैस् तं कामं वेष्टयेत् सुधीः ॥ २६४ ॥

17.265

श्लोक

श्रियं षट्-कोण-कोणेष्व् ऐन्द्र-नैरृत-वायुषु । आलिख्य च लिखेन् मायां वह्नि-वारुण-शूलिषु ॥ २६५ ॥

17.266

श्लोक

मन्त्रं षड्-अक्षरं तत्र विलिखेत् षट्सु सन्धिषु । अक्षरैः काम-गायत्र्या वेष्टयेत् केशरे सुधीः ॥ २६६ ॥

17.267

श्लोक

काम-माला-मनोर् वर्णैर् दलेष्व् अष्टसु मन्त्र-वित् । लिखेद् गुहाननैर् भक्तैर् मान्त्रिकांस् तद्-बहिर् लिखेत् ॥ २६७ ॥

17.268

श्लोक

भू-बिम्बं च लिखेद् बाह्ये श्री-मायां दिग्-विदिक्सु च । एवं यन्त्रं समालिख्य जात-रूप-मये पटे ॥ २६८ ॥

17.269

श्लोक

राजते ताम्र-पट्टे वा भूर्जे क्षौम-मयेऽपि वा । सूक्ष्म-तन्तु-पटे वापि प्रतिष्ठाप्य समीरणम् ॥ २६९ ॥

17.270

श्लोक

हुत्वा सहस्रम् आज्येन यन्त्रे सम्पातपूर्वकम् । अर्चयित्वायुतं जप्त्वा धारयेद् यन्त्रम् उत्तमम् ॥ २७० ॥

17.271

श्लोक

त्रैलोक्यैश्वर्यम् आप्नोति देवैर् अपि सुपूजितः । आकर्षणं सुर-स्त्रीणां नाग-लोक-निवासिनाम् ॥ २७१ ॥

17.272

श्लोक

पिशाचयक्ष-रक्षांसि क्रूर-भूत-गणाश् च ये । दुष्ट-सर्पादयः सत्त्वा ह्य् अपसर्पन्ति दूरतः ॥ २७२ ॥

17.273

श्लोक

अन्त्र-राज-धरं दृष्ट्वा विद्रवन्ति च बिभ्यति । बहुना किम् इहोक्तेन सर्व-लोक-सुखावहम् ॥ २७३ ॥

17.274

श्लोक

स्त्रीणाम् आकर्षणं सद्यो राज्ञां वश्यकरं भुवि । योग-सिद्धि-करं पुंसां भव-सागर-तारकम् । भुक्ति-मुक्ति-प्रदं दिव्यम् इति प्रोक्तं च वेधसा ॥ २७४ ॥