Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १७

पौरश्चरणिकः

17.101

श्लोक

क्षालयेत् सद्यो-जातेन वाम-देवेन घर्षयेत् । धूपयेद् अप्य् अघोरेण लेपयेत् पुरुषेण तु ॥ १०१ ॥

17.102

श्लोक

मन्त्रयेत् पञ्चमेनैव प्रत्येकं तु शतं शतम् । मेरुं च पञ्चमेनैव तथाघोरेण मन्त्रयेत् ॥ १०२ ॥

17.103

श्लोक

मुद्राष्टकं दर्शयित्वा प्रत्येकं पूजयेत् क्रमात् । ग्रथितं पञ्चभिः पूज्य पूर्ववच् च यथा-शिरः ॥ १०३ ॥

17.104

श्लोक

कुश-पत्रैर् जपेद् विप्रः सुवर्ण-मणिभिर् नृपः । पुत्त्र-जीव-फलैर् वैश्यः पद्माक्षैः सर्व एव च ॥ १०४ ॥

17.105

श्लोक

मोक्षार्थी पञ्चविंशत्या धनार्थी त्रिंशता जपेत् । पुष्ट्य्-अर्थी स्पतविंशत्या न पञ्चदशभिः क्वचित् ॥ १०५ ॥

17.106

श्लोक

जपस्य गणनां चाहुः पद्माक्षैर् भक्ति-वर्धनैः । अथाङ्गुलीभिर् एवापि जपम् अन्वहम् आचरेत् ॥ १०६ ॥

17.107

श्लोक

रुद्राक्ष-मालिका-सूत्रे जपेन स्व-मनोरथान् । पद्माक्षैर् विहिता माला शत्रूणां नाशिनी मता ॥ १०७ ॥

17.108

श्लोक

कुश-ग्रन्थ-मयी माला सर्व-पाप-विनाशिनी । पुत्त्रजीव-फलैः कॢप्ता कुरुते पुत्त्र-सम्पदः ॥ १०८ ॥

17.109

श्लोक

निर्मिता रूप्य-मणिभिर् जप-मालेप्सित-प्रदा । हिरण्मयैर् विरचिता माला कामान् प्रयच्छति ॥ १०९ ॥

17.110

श्लोक

प्रवालैर् विहिता माला प्रयच्चेत् पुष्कलं धनम् । सौभाग्यं स्फाटिकी माला मौक्तिकैर् विहिता श्रियम् ॥ ११० ॥

17.111

श्लोक

निर्मिता शङ्ख-मणिभिः कुरुते कीर्तिम् अक्षयाम् । सर्वैर् एतैर् विरचिता माला स्यान् मुक्तये नॄणाम् ॥ १११ ॥

17.112

श्लोक

तुलसी-काष्ठ-घटितैर् मणिभिर् जप-मालिका । सर्व-कर्माणि सर्वेषाम् ईप्सितार्थ-फल-प्रदा ॥ ११२ ॥

17.113

श्लोक

पुण्डरीक-भवा माला गोपाल-मनु-सिद्धिदा । आमलक्या भवा माला सर्व-सिद्धि-फल-प्रदा । तुलसी-सम्भवा या तु सा मोक्षं तनुतेऽचिरात् ॥ ११३ ॥

17.114

श्लोक

अनामा-मध्यमाक्रम्य जपं कुर्यात् तु मानसम् । मध्यमामध्यमाक्रम्य जपं कुर्याद् उपांशुकम् । तर्जनीं तु समाक्रम्य जपं नैव तु कारयेत् ॥ ११४ ॥

17.115

श्लोक

एकैक-मणिम् अङ्गुष्ठेनाकर्षन् प्रजपेन् मनुम् । मेरौ तु लङ्घिते देवि न मन्त्र-फल-भाग् भवेत् ॥ ११५ ॥

17.116

श्लोक

तत्राङ्गुलि-जपं कुर्वन् साङ्गुष्ठाङ्गुलिभिर् जपेत् । अङ्गुष्ठेन विना कर्म कृतस् तद् अफलं भवेत् ॥ ११६ ॥

17.117

श्लोक

कनिष्ठानामिका मध्या चतुर्थी तर्जनी मता । तिस्रो ऽङ्गुल्यस् त्रि-पर्वा स्युर् मध्यमा चैक-पर्विका ॥ ११७ ॥

17.118

श्लोक

पर्व-द्वयं मध्यमाया जप-काले विवर्जयेत् । एवं मेरुं विजानीयाद् ब्रह्मणा दूषितं स्वयम् ॥ ११८ ॥

17.119

श्लोक

आरभ्यानामिका-मध्यात् प्रदक्षिणम् अनुक्रमात् । तर्जनी-मूल-पर्यन्तं क्रमाद् दशसु पर्वसु ॥ ११९ ॥

17.120

श्लोक

अङ्गुलिर् न वियुञ्जीत किञ्चित् सङ्कोचयेत् तलम् । अङ्गुलीनां वियोगे तु छिद्रेषु स्रवते जपः ॥ १२० ॥

17.121

श्लोक

आरभ्यानामिकामूलात् प्रादक्षिण्य्न वै क्रमात् । मध्यमामूल-पर्यन्तं जपेद् दशसु पर्वसु ॥ १२१ ॥

17.122

श्लोक

आरभ्यानामिका-मूलात् परिवर्तेत वै क्रमात् । तर्जनी-मध्य-पर्यन्तं जपेद् दशसु पर्वसु ॥ १२२ ॥

17.123

श्लोक

तर्जन्या न स्पृशेत् सूत्रं कमप्येन् न विधूनयेत् । अङ्गुष्ठ-पर्व-मध्यस्थं परिवर्तं समाचरेत् ॥ १२३ ॥

17.124

श्लोक

न स्पृशेद् वाम-हस्तेन कर-भ्रष्टां न कारयेत् ॥ १२४ ॥

17.125

श्लोक

अशुचिर् न स्पृशेद् एनां कर-भ्रष्टां न कारयेत् । अङ्गुष्ठ-स्थाम् अक्ष-मालां चालयेन् मध्यम् अग्रतः ॥ १२५ ॥

17.126

श्लोक

तर्जन्या न स्पृशेत् सोऽयं मुक्तिदो गणन-क्रमात् । भुक्तौ मुक्तौ तथा कृष्टो मध्यमायां जपेत् सुधीः ॥ १२६ ॥

17.127

श्लोक

अङ्गुष्ठानामिकभ्यां तु जपेद् उत्तम-कर्मणि । तर्जनयङ्गुष्ठ-संयोगाद् विद्वेषोच्चाटने जपेत् । कनिष्ठाङ्गुष्ठ-संयोगाज् जपेन् मारण-कर्मणि ॥ १२७ ॥

17.128

श्लोक

अङ्गुष्ठं मोक्षदं विद्यात् तर्जनीं शत्रु-नाशिनीम् । मध्यमा धन-सिद्ध्यै स्याच् छान्ति-कर्मण्य् अनामिका । कनिष्ठा-कर्षणे ज्ञेया जप-कर्मणि सिद्धिदा ॥ १२८ ॥

17.129

श्लोक

मनः-संहरणं शौचं मौनं मन्त्रार्थ-चिन्तनम् । अव्यग्रत्वम् अनिर्वेदो जप-सम्पत्ति-हेतवः ॥ १२९ ॥

17.130

श्लोक

जपान्य-काले मालां तु पूजयित्वा सुगोपयेत् । गुरुं प्रकाशयेद् विद्वान् मन्त्रं नैव प्रकाशयेत् ॥ १३० ॥

17.131

श्लोक

अक्ष-मालां च मुद्रां च गुरोर् अपि न वर्शयेत् । भूत-राक्षस-वेतालाः सिद्ध-गन्धर्व-चारणाः । हरन्ति प्रकटं यस्मात् तस्माद् गुप्तं जपेत् सुधीः ॥ १३१ ॥

17.132

श्लोक

अपवित्र-करो नग्नः शिरसि प्रावृतोऽपि वा । प्रलपन् वा जपेद् यावत् तावन् निष्फलम् उच्यते ॥ १३२ ॥

17.133

श्लोक

वदन् न गच्छन् न स्वपन् नान्यत् किम् अपि संस्मरन् । न क्षुज्-जृम्भण-हिक्कादि-विकलीकृत-मानसः । मन्त्र-सिद्धिम् अवाप्नोति तस्माद् यत्न-परो भवेत् ॥ १३३ ॥

17.134

श्लोक

स्त्री-शूद्राभ्यां न भाषेत रात्रौ जप-परो न च ॥ १३४ ॥

17.135

श्लोक

अङ्गुल्य्-अग्रेषु यज् जप्तं यज् जप्तं मेरु-लङ्घने । असङ्ख्यातं च यज् जप्तं तत् सर्वं निष्फलं भवेत् ॥ १३५ ॥

17.136

श्लोक

नैकवासा जपेन् मन्त्रं बहु-वस्त्राकुलो न च । उपर्य् अधो बहिर् वस्त्रे पुरश्चरण-कृत् त्यजेत् ॥ १३६ ॥

17.137

श्लोक

उष्णीषी कञ्चुकी नग्नो मुक्त-केशो गलावृतः । अपवित्र-करोऽशुद्धः प्रलपन् न जपेत् क्वचित् ॥ १३७ ॥

17.138

श्लोक

अप्रावृत-करो भूत्वा शिरसि प्रावृतोऽपि च । चिन्ता-व्याकुल-चित्तो वा क्रुद्धो भ्रान्तः क्षुधान्वितः ॥ १३८ ॥

17.139

श्लोक

अनाशनः शयानो वा गच्छन्न् उत्थित एव वा । रथ्यायाम् अशिवे स्थाने न जपेत् तिमिरान्तरे ॥ १३९ ॥

17.140

श्लोक

उपानद्-गूढ-पादो वा यान-शय्या-गतस् तथा । प्रसार्य न जपेत् पादाव् उत्कटासन एव वा ॥ १४० ॥

17.141

श्लोक

न चङ्क्रमन् न च हसन् न पार्श्वम् अवलोकयन् । नापाश्रितो न जल्पंश् च न प्रावृत-शिरास् तथा ॥ १४१ ॥

17.142

श्लोक

न पदा पदम् आक्रम्य न चैव हि तथा करौ । न चासमाहितमना न च संशयानो जपेत् ॥ १४२ ॥

17.143

श्लोक

ध्यायेत मनसा मन्त्रं जिह्वोष्ठौ न तु चालयेत् । न कम्पयेच् छिरो ग्रीवां दन्तान् नैव प्रकाशयेत् ॥ १४३ ॥

17.144

श्लोक

यक्ष-राक्षस-भूतानि सिद्ध-विद्याधरा गणाः । हरन्ति प्रसभं यस्मात् तस्माद् गुप्तं समाचरेत् ॥ १४४ ॥

17.145

श्लोक

स्त्री-शूद्र-पतितांश् चैव रासभं च रजस्वलाम् । जप-काले न भाषेत व्रत-होमादिकेषु च ॥ १४५ ॥

17.146

श्लोक

न च्छायाम् आक्रमेद् विद्वान् विभीतक-करञ्जयोः । न दद्यात् कस्यचित् किञ्चिन् न गृह्णीयाज् जपान्तरे ॥ १४६ ॥

17.147

श्लोक

तूष्णीम् आसीत संजल्पश् चाण्डाल-पतितादिकान् । दृष्ट्वा तान् वार्य्-उपस्पृश्याभाष्य स्नात्वा पुनर् जपेत् । आचम्य पयतो नित्यं जपेद् अशुचि-दर्शने ॥ १४७ ॥

17.148

श्लोक

यदि वा यम-लोपः स्याज् जपादिषु कथञ्चन । व्याहरेद् वैष्णवं मन्त्रं स्मरेद् वा विष्णुम् अव्ययम् ॥ १४८ ॥

17.149

श्लोक

पतितानाम् अन्त्यजानां दर्शने भाषणे श्रुते । क्षुतेऽधो-वायु-गमने जृम्भणे जपम् उत्सृजेत् ॥ १४९ ॥

17.150

श्लोक

प्राप्ताव् आचम्य चैतेषां प्राणायमं षड्-अङ्गकम् । कृत्वा सम्यग् जपेच् छेयं यद् वा सूर्यादि-दर्शनम् ॥ १५० ॥

17.151

श्लोक

मार्जारं कुक्कुटं क्रौञ्चं श्वानं शूद्रं खरं कपिम् । दृष्ट्वाचम्याचरेत् कर्म स्पृष्ट्वा स्नानं विधीयते ॥ १५१ ॥

17.152

श्लोक

सकृद्-उच्चारिते शब्दे प्रणवं समुदीरयेत् । प्रोक्ते चाचम्य वाण्यापि प्राणायामं सकृद् उच्चरेत् ॥ १५२ ॥

17.153

श्लोक

बहु-प्रलापे चाचम्य न्यस्याङ्गानि ततो जपेत् । क्षुतेऽप्य् एवं तथास्पृश्य-स्थानानां स्पर्शने भवेत् ॥ १५३ ॥

17.154

श्लोक

जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वा शतं जपेत् । प्रमादात् पतिते हस्ताच् छतम् अष्टोत्तरं जपेत् । तावान् निषिद्ध-संस्पर्शे क्षालयित्वा यथोदितम् ॥ १५४ ॥

17.155

श्लोक

त्रिविधो जप-यज्ञः स्यात् तस्य भेदान् निबोधत । वाचिकश् च उपांशुश् च मानसश् च त्रिधा मतः । त्रयाणां जप-यज्ञानां श्रेयान् स्याद् उत्तरोत्तरः ॥ १५५ ॥

17.156

श्लोक

यद् उच्च-नीच-स्वरितैः स्पष्ट-शब्दवद्-अक्षरैः । मन्त्रम् उच्चारयेद् व्यक्तं जप-यज्ञः स वाचिकः ॥ १५६ ॥

17.157

श्लोक

शनैर् उच्चारयेन् मन्त्रम् ईषद् औष्ठौ प्रचालयेत् । किञ्चिच् छब्दं स्वयं विद्याद् उपांशुः स जपः स्मृतः ॥ १५७ ॥

17.158

श्लोक

धिया यद् अक्षर-श्रेण्या वर्णाद् वर्णं पदात् पदम् । शब्दार्थ-चिन्तनाभ्यासः स उक्तो मानसो जपः ॥ १५८ ॥

17.159

श्लोक

उपांशु-जप-युक्तस्य तस्माच्-छत-गुणो भवेत् । सहस्रो मानसः प्रोक्तो यस्माद् ध्यान-समो हि सः ॥ १५९ ॥

17.160

श्लोक

पशु-भावे स्थिता मन्त्राः केवलं वर्ण-रूपिणः । सौषुम्णाध्वन्य् उच्चरिताः प्रभुत्वं प्राप्नुवन्ति हि ॥ १६० ॥

17.161

श्लोक

न दोषो मानसे जप्ये सव-देशेऽपि सर्वदा । जप-निष्ठो द्विज-श्रेष्ठाः सर्व-यज्ञ-फलं लभेत् ॥ १६१ ॥

17.162

श्लोक

अशुचिर् वा शुचिर् वापि गच्छंस् तिष्ठन् स्वपन्न् अपि । मन्त्रैक-शरणो विद्वान् मनसैव सदाभ्यसेत् ॥ १६२ ॥

17.163

श्लोक

मानसः सिद्धि-कामैस् तु पुष्टि-कामैर् उपांशुकः । वाचिको मारणोच्चाटे प्रशस्तो जप ईरितः ॥ १६३ ॥

17.164

श्लोक

पाक-यज्ञाश् च चत्वारो विधि-यज्ञ-समन्विताः । सर्वे ते जप-यज्ञस्य कलां नार्हन्ति षोडशीम् ॥ १६४ ॥

17.165

श्लोक

यावन्तः कर्म-यज्ञाश् च प्रदीप्तानि तपांसि च । सर्वे ते जप-यज्ञस्य कलां नार्हन्ति षोडशीम् ॥ १६५ ॥

17.166

श्लोक

जपेन देवता नित्यं स्तूयमाना प्रसीदति । प्रसन्ना विपुलान् भोगान् दद्यान् मुक्तिं च शाश्वतीम् ॥ १६६ ॥

17.167

श्लोक

अथेदानीं प्रवक्ष्यामि मन्त्र-जप्य-विधिं प्रिये । केवलं जप-मात्रेण यस्य सिध्यन्ति सिद्धयः ॥ १६७ ॥

17.168

श्लोक

श्री-बीज-पुटितं मन्त्रं यदि जप्येत मन्त्रवित् । कमला तद्-वशे तिष्ठेद् यथा कृष्णे रमेत सा ॥ १६८ ॥

17.169

श्लोक

कामेन पुटितं मन्त्रं प्रजपेद् यदि भामिनि । मोहयत्य् एव सकलं जगद् एव न संशयः ॥ १६९ ॥

17.170

श्लोक

माया-बीजेन पुटितं मन्त्रं यदि जप्येद् महा-मनुम् । अष्टैश्वर्याणि सम्भूय तस्य पादे गतानि वै ॥ १७० ॥

17.171

श्लोक

वाग्-भवेनापि पुटितं यदि जप्येत् स मोहितः । वेद-वेदाङ्ग-पारज्ञः सर्वज्ञो भवति ध्रुवम् ॥ १७१ ॥

17.172

श्लोक

ध्रुवेण पुटितं मन्त्रं यदि जप्येन् महेश्वरि । बीजं कूटं विच्छिद्य मुक्ति-भागी भवेन् नरः ॥ १७२ ॥

17.173

श्लोक

इदानीं शृणु देवि त्वं केवलस्य मनोर् विधिम् । दश-कृत्वो जपेन् मन्त्रम् आपत्-कल्पेन मुच्यते ॥ १७३ ॥

17.174

श्लोक

विंशत्या जप-मात्रेण रक्षयेन् मन्त्र एव हि । शत-जप्तेन मन्त्रेण दिन-पापैः प्रमुच्यते ॥ १७४ ॥

17.175

श्लोक

सहस्र-जप्तेन तथा मुच्यते महतैनसा । अयुतस्य जपेनैव महा-पातक-नाशनम् ॥ १७५ ॥

17.176

श्लोक

कोटि-जप्तेन मन्त्रेण मुक्ति-भागी भवेन् नरः ॥ १७६ ॥

17.177

श्लोक

अहर्-निशं जपेद् यस् तु मन्त्री नियत-मानसः । स पश्यति न सन्देहो गोप-वेश-धरं हरिम् ॥ १७७ ॥

17.178

श्लोक

अथवा यानि मन्त्रस्य पदानि कथितानि ते । तेषाम् अन्यतमं जप्याद् यत्र वै रोचते मनः ॥ १७८ ॥

17.179

श्लोक

बीजं जप्त्वा विशालाक्षि भौमैश्वर्येण युज्यते । द्वितीयेन सुखास्वादं कुरुते मन्त्रि-सत्तमः ॥ १७९ ॥

17.180

श्लोक

ज्ञानवान् स्यात् तृतीयेन तुरीयेण जगद्-गुरुः । भवेत् पञ्चम-जप्येन मुक्ति-भागी न संशयः ॥ १८० ॥

17.181

श्लोक

अज्ञानी च जपेद् वापि निज-रुच्य्-अनुसारतः । प्रथमं ज्ञान-सिद्धिं तु द्वितीयं त्व् अणिमादिकम् ॥ १८१ ॥

17.182

श्लोक

तृतीयं सर्व-सौख्यं च चतुर्थं देवतात्मताम् । पञ्चमं वैष्णवं लोकं षष्ठं मुक्तिं प्रयच्छति ॥ १८२ ॥

17.183

श्लोक

गुरुं सम्पूज्य विप्रांश् च सन्तर्प्यान्न-रसादिभिः । मारभेत जपं काले मङ्गलेऽनुज्ञया गुरोः ॥ १८३ ॥

17.184

श्लोक

प्रातः स्नानादिकं कृत्वा दत्त्वा चार्घ्यं विवस्वते । आचम्य जप-सङ्कल्पं विदधीत यथा-विधि ॥ १८४ ॥

17.185

श्लोक

विधाय विधिना पूर्वं लिखितेनार्चनं प्रभोः । आत्मार्पणान्त्रं शक्त्याथ जपं पूराङ्गम् आचरेत् ॥ १८५ ॥

17.186

श्लोक

समर्प्य तं च दत्त्वार्घ्यं कृत्वा पुष्पाञ्जलिं पुनः । स्तुत्वा कृष्णं प्रणम्याथ प्राश्नायाच् चरणामृतम् ॥ १८६ ॥

17.187

श्लोक

क्षमस्वेति वदन् प्रार्थ्य चेद् उद्वास्यं हृद्-अम्बुजे । उद्वास्य विधिवन् मानसोपचारैर् यजेत् पुनः ॥ १८७ ॥

17.188

श्लोक

कृष्णे समर्य चात्मानम् ऋष्य्-आदि-न्यास-पूर्वकम् । निजं मन्त्रं जपेद् भक्त्या सम्प्रदायानुसारतः ॥ १८८ ॥

17.189

श्लोक

दर्भ-हस्तस् तथासीनो दर्भेषूदक-पाणिना । प्राङ्-मुखोद्वर्तयेन् मालां सहस्रं शतम् एव वा ॥ १८९ ॥

17.190

श्लोक

सूर्यस्याग्रे गुरोर् इन्दोर् दीपस्य च जलस्य च । विप्राणां च गवां चैव सन्निधौ सम्मुखे जपेत् ॥ १९० ॥

17.191

श्लोक

शनैः शनैः सुविस्पष्टं न द्रुतं न विलम्बितम् । न न्यूनं नाधिकं वापि जपं कुर्याद् दिने दिने ॥ १९१ ॥

17.192

श्लोक

समूज्याथ जपं कुर्याद् वावद् वै प्रहर-द्वयम् । तद् ऊर्ध्वं पूर्ववत् स्नात्वा विशेषेण विधान-वित् ॥ १९२ ॥

17.193

श्लोक

न्यासावसानम् अखिलं सर्वं कुर्यात् पुरोदितम् । पूजाग्नि-होम-पर्यन्तं ततश् च जपम् आचरेत् ॥ १९३ ॥

17.194

श्लोक

यावद् दिनावसानं तु भूयः स्नायात् ततो द्विज । उपास्य विधिवत् सन्ध्यां देवेशं पूजयेत् पुनः ॥ १९४ ॥

17.195

श्लोक

विसर्ज्य भोजनं कुर्यात् सततं तारकोदये । भुक्त्वा शयीत शयने मृत्-स्निग्धे वाथ भूतले ॥ १९५ ॥

17.196

श्लोक

अर्ध-रात्रे समुत्थाप्य पाद-शौचं चरेद् द्विज । आचम्य देवं संस्मृत्य शीघ्रं सम्पूज्य पूर्ववत् । जपं कुर्याद् यथा-शत्कि अर्पयेच् च तथेश्वरे ॥ १९६ ॥

17.197

श्लोक

नैरन्तर्य-विधिः प्रोक्तस् तद्-दिनं नातिलङ्घयेत् । दिवसातिक्रमात् तेषां सिद्धि-रोधः प्रजायते ॥ १९७ ॥

17.198

श्लोक

अनन्य-मानसः प्रातः कालान् मध्यन्दिनावधि ॥ १९८ ॥

17.199

श्लोक

अतः कुर्याज् जपं नित्यं शक्त्या नियत-सङ्ख्यया । सङ्ख्या-पूर्तौ च कुर्वीत प्राणायामं पुनः कृती ॥ १९९ ॥

17.200

श्लोक

जपस्य तु दशांशेन होमः कार्यो दिने दिने । अथवा लक्ष-पर्यन्तं होमः कार्यो विपश्चिता ॥ २०० ॥