Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १६

श्री-दामोदर-प्रियः

16.405

श्लोक

तस्मात् प्रबोधनीं कृत्वा रात्रौ कृत्वा च जागरम् । सुप्तोत्थितं हरिं दृष्ट्वा का भीः संसारजा द्विजाः ॥ ४०५ ॥

16.406

श्लोक

मथुरायां तु किं वाच्यं जागरे हरि-सन्निधौ । कार्त्तिके बोधनीं प्राप्य ततः श्रेयः परं न हि ॥ ४०६ ॥

16.407

श्लोक

मथुरायां प्रबोधन्यां कृत-जागरणस्य हि । क्षणार्धाद् अन्यतो वैश्योऽमोचयद् ब्रह्म-राक्षसम् ॥ ४०७ ॥

16.408

श्लोक

जागरस्य च माहात्म्यं गीत-वादित्र-कीर्तनम् । हरेः प्रीति-करं रात्रौ वक्तुं मे नैव शक्यते ॥ ४०८ ॥

16.409

श्लोक

यस् तु गायति कृष्णाग्रे कौमुदीं द्वादशीं क्षणम् । सर्व-लोकान् परित्यज्य विष्णु-लोकं स गच्छति ॥ ४०९ ॥

16.410

श्लोक

राज्यम् अन्यत्र सन्त्यज्य स्फीतं निहत-कण्टकम् । कार्त्तिके मथुरायां वै कौमुद्यां जागरं चरेत् ॥ ४१० ॥

16.411

श्लोक

पारणं कार्त्तिके शुक्ले द्वादश्यां तु ततश् चरेत् । कृष्णस्याग्रे निवेद्याथ व्रतं कृच्छ्राग्र्यम् उत्तमम् । विष्णु-लोकम् अवाप्नोति भक्त्याभ्यर्च्य जनार्दनम् ॥ ४११ ॥

16.412

श्लोक

चतुर्धा गृह्य वै चीर्णं चातुर्मास्य-व्रतं नरः । कार्त्तिके शुक्ल-पक्षे तु द्वादश्यां तत् समाचरेत् ॥ ४१२ ॥

16.413

श्लोक

प्रातर् नित्य-क्रियां कृत्वा शक्त्या सम्भोज्य भूसुरान् । गृह्णन् कृत-व्रताच् छैद्र्यं प्रदद्यात् दक्षिणादिकम् ॥ ४१३ ॥

16.414

श्लोक

दानं यथा-व्रतं तेभ्यो दत्त्वा पारणम् आचरेत् । प्रवर्तयेच् च सन्त्यक्त-चातुर्मास्य-व्रतेषु यत् ॥ ४१४ ॥

16.415

श्लोक

प्रभाते विमले स्नात्वा भोजयेद् अन्न-विस्तरैः । घृत-क्षीर-दधि-क्षौद्र-कासार-गुड-मोदकैः । अर्चयेच् चन्दनैश् चूर्णैः पुष्प-गन्धैर् द्विजोत्तमान् ॥ ४१५ ॥

16.416

श्लोक

आचान्तेभ्यस् ततो दद्यात् त्यक्तं यत् किञ्चिद् एव हि । सुवाचा सुमनोऽभीष्ट-पत्र-पुष्प-फलादिकम् ॥ ४१६ ॥

16.417

श्लोक

चतुरो वार्षिकान् मासान् नियमं यस्य यत् कृतम् । कथयित्वा द्विजेभ्यस् तद् दद्याद् भक्त्या सुदक्षिणाम् ॥ ४१७ ॥

16.418

श्लोक

चातुर्मास्य-व्रते विप्राः पश्चद् अच्छिद्र-वाचनम् ॥ ४१८ ॥

16.419

श्लोक

कृच्छ्र-युग्मे तु गो-युग्मं दद्याद् विप्रांश् च भोजयेत् । त्रि-रात्रे मणिकं छत्रम् अजां चोपानहौ तथा ॥ ४१९ ॥

16.420

श्लोक

एकान्तरोपवासे च दद्याद् गां समलङ्कृताम् । विभवे च हलान्य् अष्टौ बलीवर्द-युतानि तु ॥ ४२० ॥

16.421

श्लोक

भोजयेद् एक-भक्ते तु विप्रान् नक्ते तु षड्-रसान् । वस्त्रे चायाचिते दद्या वृषं स-स्वर्ण-चन्दनम् ॥ ४२१ ॥

16.422

श्लोक

शालीन् दद्यात् फलाहारे गां च दद्यात् पयो-व्रते । शाकाहारे तु वितरेद् घृतं राजत-भाजनैः ॥ ४२२ ॥

16.423

श्लोक

तैले त्यक्ते घृतं दद्याद् घृते तु वितरेत् पयः । वर्जिते दध्नि तु स्वर्णं क्षीरे च रजतं बुधः ॥ ४२३ ॥

16.424

श्लोक

अपूपे स्वर्ण-गोधूम-वस्त्राणि व्रीहिषु प्रियान् । शालीन् स्वर्णं च धान्ये तु शालीन् वा धान्यम् एव च ॥ ४२४ ॥

16.425

श्लोक

लवणे लावणीं धेनुं स्वर्णं चाभ्यञ्जने त्व् अथ । तैल-पूर्णं घटं किं च साज्य-पायस-भोजनम् ॥ ४२५ ॥

16.426

श्लोक

पादाभ्यङ्गे तु सम्पूज्य विप्रान् सम्बाह्य तत्-पदौ । दक्षिणाम् अथ ताम्बूलैर् वितरेद् अम्बर-द्वयम् ॥ ४२६ ॥

16.427

श्लोक

पुष्पे च पुष्पं सौवर्णम् उपानहम् उपानहि । खट्टायां शयनं कांस्ये स-घृतं कांस्य-भाजनम् ॥ ४२७ ॥

16.428

श्लोक

त्यक्ते मधुनि सन्दद्यात् पायसं स-सिता-घृतम् । मौनी च घण्टां स-तिलां दद्यात् कनक-संयुताम् ॥ ४२८ ॥

16.429

श्लोक

भूमि-भोजी कांस्य-पात्रं गां च दीपस्य दानतः । स-घृतं ताम्र-पात्रं चादर्शं केशादि-रक्षणे ॥ ४२९ ॥

16.430

श्लोक

दद्यात् सुवर्ण-प्रतिमां दम्पत्योर् ब्रह्म-चर्यतः । सर्वाभावे च सन्तोष्याच् छैद्रं विप्रांस् तु वाचयेत् ॥ ४३० ॥

16.431

श्लोक

सर्वेषाम् अप्य् अभावे तु यथोपकरणं विना । विप्र-वाक्यं स्मृतं सम्यक् व्रतस्य परिपूर्तये ॥ ४३१ ॥

16.432

श्लोक

वृथा विप्र-वचो यस् तु गृह्णाति मनुजोऽबुधः । अदत्त्वा दक्षिणां पापो यात्य् असौ नरकं ध्रुवम् । व्रत-वैफल्यम् आसाद्य कुष्ठी अन्धश् च जायते ॥ ४३२ ॥

16.433

श्लोक

एवं य आचरेत् पार्थ शोभनं धर्मम् आप्नुयात् । अवसाने तु राजेन्द्र वासुदेव-पुरं व्रजेत् ॥ ४३३ ॥

16.434

श्लोक

आरभ्यैकादशीं पञ्च दिनानि व्रतम् आचरेत् । भगवत्-प्रीतये भीष्म-पञ्चकं यदि शक्नुयात् ॥ ४३४ ॥

16.435

श्लोक

तथा धात्री-व्रतं पौर्णमास्यां कुर्वीत कार्त्तिके । तथा नवम्यां शुक्लायाम् अक्षयं नवमी-व्रतम् ॥ ४३५ ॥

16.436

श्लोक

पैतामहादि-कृच्छ्राणि मासोपोषणम् एव च । समर्थः कार्त्तिके कुर्यात् ज्ञावा पाद्मादितो विधिम् ॥ ४३६ ॥

16.437

श्लोक

अधिमासे तु सम्प्राप्ते स्मृत्वा गोपी-प्रियं हरिम् । सुवर्णं चाज्य-संयुक्तं त्रयस्त्रिंशद्-अपूपकम् ॥ ४३७ ॥

16.438

श्लोक

दद्याच् च वेद-विदुषे श्रोत्रियाय कुटुम्बिने । नश्यत्य् अकरणे शीघ्रं पुण्यं द्वादशम् आसजम् ॥ ४३८ ॥