Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १६

श्री-दामोदर-प्रियः

16.301

श्लोक

या सा विष्णोः परा मूर्तिर् अव्यक्तानेक-रूपिणी । सा क्षिप्ता मानुषे लोके द्वादशी मुनि-पुङ्गव ॥ ३०१ ॥

16.302

श्लोक

तावद् गर्जन्ति तीर्थानि वाजिमेधादयो मखाः । मथुरायां प्रिया विष्णोर् यावन् नायाति बोधनी ॥ ३०२ ॥

16.303

श्लोक

संसार-दाव-तप्तानां काम-सौख्ये पिपासिनाम् । श्री-कृष्ण-पाद-पद्मस्य सान्निध्यं शीतलं गृहम् ॥ ३०३ ॥

16.304

श्लोक

भव-पान्थ-जनानां वै प्राप्तिकेयं प्रबोधनी । कथं न सेव्यते मूढ मथुरायां किम् अन्यतः ॥ ३०४ ॥

16.305

श्लोक

येऽर्चयन्ति नरास् तस्यां भक्त्या देवं तु माधवम् । समुपोष्य प्रमुच्यन्ते पापैस् ते समुपार्जितैः ॥ ३०५ ॥

16.306

श्लोक

बाल्ये यच् चार्जितं वत्स यौवने वार्धके च यत् । सप्त-जन्म-कृतं पापं स्वल्पं वा यदि वा बहु ॥ ३०६ ॥

16.307

श्लोक

शुष्कार्द्रं मुनि-शार्दूल सुगुह्यम् अपि नारद । तत् क्षालयति गोविन्द-स्थितौ तस्यां सुपूजितः ॥ ३०७ ॥

16.308

श्लोक

प्रबोध-वासरे विष्णोः कुरुते च हरेः कथाम् । सप्त-दीपावनी-दाने यत् फलं तद् भवेन् मुने ॥ ३०८ ॥

16.309

श्लोक

कौमुदस्य तु मासस्य या सिता द्वादशी भवेत् । अर्चयेद् यस् तु मां तत्र तस्य पुण्य-फलं शृणु ॥ ३०९ ॥

16.310

श्लोक

यावल् लोका हि वर्तन्ते यावत् त्वं चैव माधवि । मद्-भक्तो जायते तावद् अन्य-भक्तो न जायते ॥ ३१० ॥

16.311

श्लोक

आ-भा-का-सित-पक्षेषु मैत्री-प्रवण-रेवती । आदि-मध्यावसानेषु प्रस्वापावर्तनादिकम् ॥ ३११ ॥

16.312

श्लोक

पौष-शेष-पदेनाह्नि मैत्राद्यम् अपि नो निशि । द्वादश्याम् अपि तत् कुर्याद् उत्थानं शयनं हरेः ॥ ३१२ ॥

16.313

श्लोक

निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्तनम् । अन्यत्र पाद-योगेऽपि द्वादश्याम् एव कारयेत् ॥ ३१३ ॥

16.314

श्लोक

अपाद-नियमस् तत्र स्वापो वा परिवर्तते । पाद-योगो यदा न स्याद् ऋक्षेणापि तदा भवेत् ॥ ३१४ ॥

16.315

श्लोक

रेवत्य्-अन्तो यदा रात्रौ द्वादश्या च समन्वितः । तदा विबुध्यते विष्णुर् दिनान्ते प्राप्य रेवतीम् ॥ ३१५ ॥

16.316

श्लोक

रेवत्य्-आदि-रथान्तो वा द्वादश्या च विना भवेत् । उभयोर् अप्य् अभावे तु सन्ध्यायां च महोत्सवः ॥ ३१६ ॥

16.317

श्लोक

द्वादश्यां सन्धि-समये नक्सात्राणाम् असम्भवे । आ-भा-का-सित-पक्षे तु शयनावर्तनादिकम् ॥ ३१७ ॥

16.318

श्लोक

यस्य यस्य तु देवस्य यन् नक्षत्रं तिथिश् च या । तस्य देवस्य तस्मिंश् च शयनावर्तनादिकम् ॥ ३१८ ॥

16.319

श्लोक

शयन्याम् इव निष्पाद्य महा-पूजां जलाशये । कृष्णं नीत्वाथ सङ्कल्पं कृत्वा तं च प्रबोधयेत् ॥ ३१९ ॥

16.320

श्लोक

ब्रह्मेन्द्र-रुद्राग्नि-कुवेर-सूर्य- सोमादिभिर् वन्दित-पाद-पद्म । बुध्यस्व देवेश जगन्-निवास मन्त्र-प्रभावेण सुखेन देव ॥ ३२० ॥

16.321

श्लोक

इयं तु द्वादशी देव प्रबोधार्थं विनिर्मिता । त्वयैव सर्व-लोकानां हितार्थं शेष-शायिना ॥ ३२१ ॥

16.322

श्लोक

उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्-पते ॥ ३२२ ॥

16.323

श्लोक

त्वयि सुप्ते जगन्नाथे जगत् सुप्तं भवेद् इदम् । उत्थिते चेष्टते सर्वम् उत्तिष्ठोत्तिष्ठ माधव ॥ ३२३ ॥

16.324

श्लोक

ब्रह्म-रुद्रैर् वितर्क्य-भावो भवान् ऋषिर् वन्दिताङ्घ्रिः । प्राप्ता तवेयं द्वादशी कौमुदाख्या जागृष्व जागृष्व च लोकनाथ ॥ ३२४ ॥

16.325

श्लोक

मेघा गता निर्मल-पूर्ण-चन्द्रः शारद्य-पुष्पाणि च लोकनाथ । अहं ददानीति च भक्ति-हेतोर् जागृष्व जागृष्व च लोकनाथ ॥ ३२५ ॥

16.326

श्लोक

इदं विष्णुर् विचक्रमे त्रेधा निदधे पदं समूढम् अस्य पांशुलेत्य् आदि ॥ ३२६ ॥

16.327

श्लोक

ततस् तल्पात् समुत्थाप्य कृष्णं घण्टादि-निस्वनैः । तीरे सुखं निवेश्याथ प्रार्थयेत् तद्-अनुग्रहम् ॥ ३२७ ॥

16.328

श्लोक

सोऽसाव् अदभ्र-करुणो भगवान् विवृद्ध- प्रेम-स्मितेन नयनाम्बुरुहं विजृम्भन् । उत्थाय विश्व-विजयाय च नो विषादं माध्व्या गिरापनयतात् पुरुषः पुराणः ॥ ३२८ ॥

16.329

श्लोक

ततः पुष्पाञ्जलिं दत्त्वा संस्थाप्य विधिवत् प्रभुम् । निराज्य न्यास-पूर्वं च वस्त्रादीनि समर्पयेत् ॥ ३२९ ॥

16.330

श्लोक

एकादश्यां तु शुक्लायां कार्त्तिके मासि केशवम् । प्रसुप्तं बोधयेद् रात्रौ श्रद्धा-भक्ति-समन्वितः ॥ ३३० ॥

16.331

३३१–३३५

श्लोक

नृत्यैर् गीतैस् तथा वाद्य्यैर् ऋग्-यजुः-साम-मङ्गलैः । वीणा-पणव-शब्दैश् च पुराण-श्रवणेन च । वासुदेव-कथाभिश् च स्तोत्रैर् अन्यैश् च वैष्णवैः । सुभाषितैर् इन्द्रजालैर् भूमि-शोभाभिर् एव च । पुष्पैर् धूपैश् च नैवेद्यैर् दीप-वृक्षैः सुसोभनैः । होमैर् भक्ष्यैर् अपूपैश् च फलैः शाकैश् च पायसैः । इक्षोर् विकारैर् मधुना द्राक्षा-क्षौद्रैः स-दाडिमैः । कुचेरकस्य मञ्जर्य्या मालत्या नवनेन च । हृद्याभ्यां श्वेत-रक्ताभ्यां चन्दनाभ्यां च सर्वदा । कुङ्कुमालक्तकाभ्यां च रक्त-सूत्रैः स-कुङ्कुमैः । तथा नाना-विधैः पुष्पैर् द्रव्यैर् वीर क्रयाहृतैः ॥ ३३१–३३५ ॥

16.336

श्लोक

बहु-पुष्पैर् बहु-फलैः कर्पूरागुरु-कुङ्कुमैः । हरेः पूजा विधातव्या कार्त्तिके बोधवासरे ॥ ३३६ ॥

16.337

श्लोक

इत्थं कृत्वा महापूजां महानिराजनं तथा । स्वव्रतान्य् अर्पयेत् कृष्णे स-पुष्पाक्षत-वारिणा ॥ ३३७ ॥

16.338

श्लोक

वेदस्तुत्य्-आदिना स्तुत्वा स्वस्त्यस्त्व् इत्य् आदिना प्रभुम् । सम्प्रार्थ्य गीत-वाद्यादि-घोषैर् आरोहयेद् रथम् ॥ ३३८ ॥

16.339

श्लोक

महा-तुर्य्य-रवै रात्रौ भ्रामयेत् स्यन्दने स्थितम् । उत्थितं देव-देवेशं नगरे पार्थिवः स्वयम् । दीपोद्द्योत-करे मार्गे नृत्य-गीत-समाकुले ॥ ३३९ ॥

16.340

श्लोक

यं यं दामोदरः पश्येद् उत्थितो धरणीधरः । तं तं प्रदेशं राजेन्द्र सर्वं स्वर्गाय कल्पयेत् ॥ ३४० ॥

16.341

श्लोक

यावत् पदानि कृष्णस्य रथस्याकर्षणं नरः । करोति क्रतुभिस् तानि तुल्यानि नर-नायक ॥ ३४१ ॥

16.342

श्लोक

रथस्थं ये निरीक्षन्ते कौतुकेनापि केशवम् । देवतानां गणाः सर्वे भवन्ति श्वपचादयः ॥ ३४२ ॥

16.343

श्लोक

स्त्रियोऽपि मुक्तिम् आयान्ति रथयात्रा-परायणाः । पितृ-मातृ-भर्तृ-कुलं नयन्ति हरि-मन्दिरम् ॥ ३४३ ॥

16.344

श्लोक

कुर्वन्ति नार्तकी-रूपं रथाग्रे कौतुकान्वितम् । अप्सरोभिः सह क्रीडां कुर्वन्तीन्द्राश् चतुर्दश ॥ ३४४ ॥

16.345

श्लोक

ये रथाग्रे प्रकुर्वन्ति गीत-वाद्यादि मानवाः । देव-लोकात् परिभ्रष्टा जायन्ते मण्डलेश्वराः ॥ ३४५ ॥

16.346

श्लोक

मौल्येन स्यन्दनस्याग्रे गायमानाश् च गायकाः । वादकैः सह राजेन्द्र प्रयान्ति हरि-मन्दिरम् ॥ ३४६ ॥

16.347

श्लोक

रथोत्सवे मुकुन्दस्य येषां हर्षोऽपि जायते । तेषां न नारकी पीडा यावद् इन्द्राश् चतुर्दश ॥ ३४७ ॥

16.348

श्लोक

रथोत्सवस्य माहात्म्यं कलौ वितनुते हि यः । पुण्य-बुद्ध्या विशेषेण लोभेनाप्य् अथवा नरः ॥ ३४८ ॥

16.349

श्लोक

सप्त-द्वीप-समुद्रान्ता रत्न-धान्य-समन्विता । स-शैल-वन-पुष्पाढ्या तेन दत्ता मही भवेत् ॥ ३४९ ॥

16.350

श्लोक

बोधनी जागराधारा कार्त्तिके शुक्ल-पक्षतः । रथस्थो यत्र भगवांस् तुष्टा यच्छति वाञ्छितम् ॥ ३५० ॥

16.351

श्लोक

भजन्ते ये रथारूढं देवं सर्वेश्वरेश्वरम् । तेषां यात्रा-कृतां नॄणां कामान् इष्टान् प्रयच्छति ॥ ३५१ ॥

16.352

श्लोक

श्री-कृष्ण-रथ-शोभां ये प्रकुर्वन्ति प्रहर्षिताः । तेषां मनोरथावाप्तिं यच्छते पुरुषोत्तमः ॥ ३५२ ॥

16.353

श्लोक

श्री-कृष्ण-रथ-शोभां यः करोति स्व-शक्तितः । वाञ्छितं तस्य यच्छन्ति नित्यं सूर्यादयो ग्रहाः ॥ ३५३ ॥

16.354

श्लोक

कृष्णस्य रथ-शोभां यः पताकादि-समन्वितम् । करोति वर-नारीणां भोत्का मन्वन्तराणि षट् ॥ ३५४ ॥

16.355

श्लोक

कृष्णस्य रथ-शोभां ये प्रकुर्वन्ति प्रहर्षिताः । पदे पदे तथा पुत्र तेषां पुण्यं प्रयागजम् ॥ ३५५ ॥

16.356

श्लोक

रथयात्रा-स्थिते कृष्णे जयेति प्रवदन्ति ये । जयेति च पुनर् ये वै शृणु पुण्यं वदाम्य् अहम् ॥ ३५६ ॥

16.357

श्लोक

गङ्गा-द्वारे प्रयागे च गङ्गा-सागर-सङ्गमे । वाराणस्यादि-तीर्थेषु देवानां चैव दर्शने ॥ ३५७ ॥

16.358

श्लोक

यत् फलं कविभिः प्रोक्तं कार्त्स्न्येन च नरेश्वर । जय-शब्दे कृते विष्णौ रथ-स्थे तत् फलं स्मृतम् ॥ ३५८ ॥

16.359

श्लोक

रथ-स्थितो नरैर् यैस् तु पूजितो धरणी-धरः । यथा-लाभोपपन्नैश् च पुष्पैर् भक्त्या समर्चितः । ददाति वाञ्छितान् कामान् अन्ते च परमं पदम् ॥ ३५९ ॥

16.360

श्लोक

मङ्गलं ये प्रकुर्वन्ति धूप-दीपांस् तथा स्तवम् । नैवेद्यं वस्तु-पूजां च भक्त्या नीराजनं हरेः ॥ ३६० ॥

16.361

श्लोक

रथारूढस्य कृष्णस्य सम्प्राप्ते हरि-वासरे । फलं न तन् मया ज्ञातं जानाति यदि केशवः ॥ ३६१ ॥

16.362

श्लोक

ब्रह्मस्व-हारी गोघ्नश् च भ्रूणहा ब्रह्म-निन्दकः । महा-पातक-युक्तोऽपि ब्रह्महा गुरु-तल्पगः ॥ ३६२ ॥

16.363

श्लोक

मद्यपः सर्व-पापोऽपि कलि-कालेन मोहितः । रथाग्रतः पदैकेन मुच्यते सर्व-पातकैः ॥ ३६३ ॥

16.364

श्लोक

रथारूढे महा-विष्णौ ये कुर्वन्ति जय-स्वनम् । पूजां चाखिल-पापेभ्यो मुक्ता यान्ति हरेः पदम् ॥ ३६४ ॥

16.365

श्लोक

रथस्याकर्षणं पूर्वं कुरुते दैत्य-नायकः । तपः सुराः सिद्ध-सङ्घाः यक्ष-गन्धर्व-मानवाः ॥ ३६५ ॥

16.366

श्लोक

इत्थं च रथयात्राया विधिर् व्यक्तः स्वतोऽभवत् । तथापि कश्चित् तत्रान्यो विशेषोऽपि वितन्यते ॥ ३६६ ॥

16.367

श्लोक

श्री-कृष्णे तु रथारूढे कृत्वाजय-जय-ध्वनिम् ।निष्पाद्य च महा-पूजाम् आशीर्वाक्यानि कीर्तयेत् ॥ ३६७ ॥

16.368

श्लोक

वक्त्रं नीलोत्पल-रुचिं लसत्-कुण्डलाभ्यां प्रमृष्टं चन्द्राकारं रचित-तिलकं चन्दनेनाक्षतैश् च । गत्या लीलाञ्जन-सुख-करीं प्रेक्षणेनामृतौघं पद्मावासां सततम् उरसा धारयन् पातु विष्णुः ॥ ३६८ ॥

16.369

श्लोक

युक्तः शैव्यादि-वाहैर् मधुरतर-रणत्-किङ्किणी-जाल-मालै रत्नौघैर् मौक्तिकानाम् अविरत-मणिभिः संभृतैश् चैव हारैः । हैमैः कुम्भैः पताका-शिव-तनु-रुचिभिर् भूषितः केतु-मुख्यैश् छत्रैर् ब्रह्मेश-वन्द्यो दुरतिहर-हरेः पातु जैत्रो रथो वः ॥ ३६९ ॥

16.370

श्लोक

मोदन्तां सुजना ह्य् अनिन्दित-धियः स्रस्ताखिलोपद्रवाः स्वस्थाः सुस्थिर-बुद्धयः प्रतिहता-मित्रा रमन्तां सुखम् । रे दैत्या गिरि-गह्वराणि गहनान्य् आशु व्रजध्वं भयाद् दैत्यारिर् भगवान् अयं यदुपतिर् यानं समारोहति ॥ ३७० ॥

16.371

श्लोक

पलायध्वं पलायध्वं रे रे दितिज-दानवाः । संरक्षणाय लोकानां संरूढो नृ-केशरी ॥ ३७१ ॥

16.372

श्लोक

इति ॥ ततो विचित्र-गद्यानि पठित्वाथ महाप्रभोः । महा-प्रसाद-मालां च स्वीकुर्यात् परया मुदा ॥ ३७२ ॥

16.373

श्लोक

भक्त्या गृह्णाति यो मालां वैष्णवीं मङ्गलाश्रयाम् । न तेषां दुर्लभं किञ्चिद् इह लोके परत्र च ॥ ३७३ ॥

16.374

श्लोक

तस्मात् सर्व-प्रयत्नेन सर्व-काम-समृद्धये । मालाम् एतां प्रगृह्णीयात् सौख्य-मोक्ष-प्रदायिनीम् ॥ ३७४ ॥

16.375

श्लोक

सञ्चिन्त्याकृष्यमाणं च श्री-प्रह्लादादिभी रथम् । आकर्षयेद् राज-पुर्या भ्रामयेद् वैष्णवैः समम् ॥ ३७५ ॥

16.376

श्लोक

नृत्यमानैर् भागवतैर् गीत-वादित्र-निस्वनैः । भ्रामयेत् स्यन्दनं विष्णोः पुर-मध्ये समन्ततः ॥ ३७६ ॥

16.377

श्लोक

प्रबोध-वासरे प्राप्ते कार्त्तिके पाण्डु-नन्दन । देवालयेषु सर्वेषु पुर-मध्ये समन्ततः । भ्रामयेत् तुर्य-निर्घोषै रथस्थं धरणी-धरम् ॥ ३७७ ॥

16.378

श्लोक

रथागमे मुकुन्दस्य पुर-शोभां तु कारयेत् । सर्वतो रमणीयं तु पताकैर् उपशोभितम् ॥ ३७८ ॥

16.379

श्लोक

तोरणैर् बहुभिर् युक्तं रम्भा-स्तम्भैः सुशोभितम् । स्थाने स्थाने महीपाल कर्तव्यं पुण्य-संयुतम् । विचित्र-रथ-शोभा च कर्तव्या भावितैर् नरैः ॥ ३७९ ॥

16.380

श्लोक

रथेन गच्छन् भगवान् अनुगम्योऽखिलैर् जनैः । स्व-स्व-गेहाग्रतश् चार्च्योऽन्यथा दोषो महान् भवेत् ॥ ३८० ॥

16.381

श्लोक

रथेन सह गच्छन्ति पुरतः पृष्ट्ःअतोऽग्रतः । विष्णुनैव समाः सर्वे भवन्ति श्वपचादयः ॥ ३८१ ॥

16.382

श्लोक

रथस्थं ये न गच्छन्ति भ्रममाणं जनार्दनम् । विप्राध्ययन-सम्पन्ना भवन्ति श्वपचाधमाः ॥ ३८२ ॥

16.383

श्लोक

येषां गृहाग्रतो याति रथस्थो मधुसूदनः । पूजा तैस् तैः प्रकर्तव्या वित्त-शाठ्य-विवर्जितैः ॥ ३८३ ॥

16.384

श्लोक

अनर्चितो यदा याति गृहाद् यस्य महीधरः । पितरस् तस्य विमुखा वर्षाणां दश पञ्च च ॥ ३८४ ॥

16.385

श्लोक

यः पुनः कुरुते पूजां गृहायाते तु माधवे । वसते श्वेतद्वीपे तु यावद् इन्द्राश् चतुर्दश ॥ ३८५ ॥

16.386

श्लोक

नानुव्रजति यो मोहाद् व्रजन्तं पूर्वेश्वरम् । ज्ञानाग्नि-दग्ध-कर्मापि स भवेद् ब्रह्म-राक्षसः ॥ ३८६ ॥

16.387

श्लोक

रात्रौ जागरणं कुर्याद् विधिवद् वैष्णवैः समम् ॥ ३८७ ॥

16.388

श्लोक

पूर्वजन्म-सहस्रेषु पापं यत् समुपार्जितम् । जागरणे प्रबोधिन्यां दहते तूल-राशिवत् ॥ ३८८ ॥

16.389

श्लोक

कृत्वापि पातकं घोरं ब्रह्म-हत्यादिकं नरः । कृत्वा जागरणं विष्णोर् धूत-पापो भवेन् मुने ॥ ३८९ ॥

16.390

श्लोक

कर्मणा मनसा वाचा पापं यत् समुपार्जितम् । क्षालयेत् तच् च गोविन्दः प्रबोधन्यां तु जागरे ॥ ३९० ॥

16.391

श्लोक

दुष्प्राप्यं यत् फलं विप्रैर् अश्वमेधादिभिर् मखैः । प्राप्यते तत् सुखेनैव प्रबोधन्यां तु जागरे ॥ ३९१ ॥

16.392

श्लोक

आप्लूत्य सर्व-तीर्थानि दत्त्वा च काञ्चनं महीम् । न तत् फलम् अवाप्नोति यत् कृत्वा जागरं हरेः ॥ ३९२ ॥

16.393

श्लोक

चन्द्र-सूर्योपरागे तु यत् फलं परिकीर्तितम् । तत्-सहस्र-गुणं पुण्यं प्रबोधन्यां तु जागरे ॥ ३९३ ॥

16.394

श्लोक

स्नानं दानं तपो होमः स्वाध्यायश् चार्चनं हरेः । तत् सर्वं कोटि-गुणितं प्रबोधन्यां तु जागरे ॥ ३९४ ॥

16.395

श्लोक

समतीतं भविष्यं च वर्तमानं कुलायुतम् । विष्णु-लोकं नयत्य् आशु जागरेण प्रबोधनी ॥ ३९५ ॥

16.396

श्लोक

चलन्ति पितरो हृष्टा विष्णु-लोकम् अलङ्कृताः । विमुक्ता नारकैर् दुःखैः कर्तुः कृष्ण-प्रजागरम् ॥ ३९६ ॥

16.397

श्लोक

भार्या-पक्षे तु ये जाता मातृतः पितृतस् तथा । तारयेन् नात्र सन्देहः प्रबोधन्यां तु जागरे ॥ ३९७ ॥

16.398

श्लोक

फलैर् नाना-विधैर् द्रव्यैः प्रबोधन्यां तु जागरे । शङ्खे तोयं समादाय अर्घ्यं दद्याज् जनार्दने ॥ ३९८ ॥

16.399

श्लोक

यत् फलं सर्व-दानेषु सर्व-तीर्थेषु यत् फलम् । तत् सर्वं कोटि-गुणितं दत्त्वार्घ्यं बोध-वासरे ॥ ३९९ ॥

16.400

श्लोक

अन्यत्रापि प्रिया विष्णोर् जागरे स्यात् प्रबोधनी । किं पुनर् मथुरायां सा ततो वै जन्म-सद्मनि ॥ ४०० ॥

16.401

श्लोक

एकैवैकादशी कृष्ण-जन्म-गेहे कृता नरैः । ततोऽधिकं न कर्तव्यं लोके किं च न विद्यते ॥ ४०१ ॥

16.402

श्लोक

रात्रौ जागरणं तत्र प्रीत्या कुर्वन्ति ये नराः । संसार-मोह-स्वप्नान्ते सदा जाग्रति जाग्रति ॥ ४०२ ॥

16.403

श्लोक

प्रबोधनी-जागर-पुण्य-वैभवात् प्रसन्न ईशो विधि-वाक्य-सत्य-कृत् । चकार रासोत्सव-नर्तनं सह वृन्दावनेऽन्याभिर् अपीह राधया ॥ ४०३ ॥

16.404

श्लोक

सा नृत्यमानाद्भुत-गोप-रूपिणा कृष्णेन जन्मान्तर-वाञ्छितेन । राधा महा-प्रेम-जवाकुलेन्द्रियः निन्येऽन्य-लोकं कथया कृतार्थताम् ॥ ४०४ ॥