Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १३

विष्णु-व्रतोत्सवः

13.501

श्लोक

इत्यर्ध्यं पूर्ववत् कृत्वा धूपदीपौ समर्प्य च । घृतपक्वप्रधानानि नैवेद्यानि निवेदयेत् ॥ ५०१ ॥

13.502

श्लोक

ताम्बूलादीनि दत्त्वाथ कृत्वा जागरणं निशि । प्रातः स्नात्वार्चयित्वेशं पुष्पाञ्जलिमथार्पयेत् ॥ ५०२ ॥

13.503

श्लोक

नमस्ते अस्तु गोविन्द बुधश्रवणसंज्ञक । अघोरं चाक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ ५०३ ॥

13.504

श्लोक

भक्त्या विप्रान् भोजयित्वा सुखं पारणमाचरेत् ॥ ५०४ ॥

13.505

श्लोक

भाद्रे मासि बुधस्याह्नि यदि स्याद्विजयाव्रतम् । तदा सर्वव्रतेभ्योऽस्य माहात्म्यतिरिच्यते ॥ ५०५ ॥

13.506

श्लोक

यदा तु शुक्लद्वादश्यां प्राजापत्यं प्रजायते । जयन्ती नाम सा प्रोक्ता सर्वपापहरा तिथिः ॥ ५०६ ॥

13.507

श्लोक

सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु । तत् क्षयं याति गोविन्दं तस्यामभ्यर्च्य भक्तितः ॥ ५०७ ॥

13.508

श्लोक

सर्वपापप्रशमनं सर्वपुण्यफलप्रदम् । द्वादश्यां रोहिणीयोगे जयन्ती नाम सुव्रतम् ॥ ५०८ ॥

13.509

श्लोक

जीवतां याति यत्कालो जयन्तीवासरं विना । तत् खण्डमायूषो व्यर्थं नराणामुपजायते ॥ ५०९ ॥

13.510

श्लोक

गुरुं प्रणम्य सम्प्रार्थ्य गृह्णीयान्नियमं कृती । कृष्णस्तिलैश् च मध्याह्ने स्नायाद्धात्रीफलेन च ॥ ५१० ॥

13.511

श्लोक

जयन्त्यान्तु निराहारः श्वोभूते परमेश्वर । भोक्ष्यामि पुण्डरीकाक्ष शरणञ्चरणौ तव ॥ ५११ ॥

13.512

श्लोक

पूर्ववत् स्थापयेत् कुम्भं तस्योपरि च भाजनम् । हैर् अण्यं राजतं ताम्रं वैणवं वा तिलैर् भूतम् ॥ ५१२ ॥

13.513

श्लोक

तत्र च स्नापितं हैमं देवकीस्तनपायिनम् । मातृवक्त्रेक्षकं देवं निवेश्यावाहयेव्रती ॥ ५१३ ॥

13.514

श्लोक

एहि एहि जगन्नाथ वैकुण्ठ पुरुषोत्तम । परिवारगणोपेत लक्ष्म्या सह जगत्पते ॥ ५१४ ॥

13.515

श्लोक

प्रतिष्ठाप्य मनोज्योतिरिति मन्त्रेण वैष्णवः । पाद्यादीनुपकल्प्यानुलेपनैर् अनुलेपयेत् ॥ ५१५ ॥

13.516

श्लोक

वस्त्रयुग्मं सितं दत्त्वा पुष्पादीनि समर्पयेत् । दीपान् प्रज्वालयेच्छक्त्या कुर्यात् कुसुममण्डपम् ॥ ५१६ ॥

13.517

श्लोक

गीतवाद्यादिभिः शान्तिपाठैः स्तोत्रैश् च कीर्तनैः । आरभेताशठः पूजां गुरुं सम्पूज्य भक्तितः ॥ ५१७ ॥

13.518

श्लोक

अदिते देवमातस्त्वं सर्वपापप्रणाशिनि । अतस्त्वां पूजयिष्यामि भीतो भवभयस्य तु ॥ ५१८ ॥

13.519

श्लोक

पूजितासि यथा देवैः प्रसन्ना त्वं वरानने । पूजिता मे तथा भक्त्या प्रसादं कुरु सुव्रते ॥ ५१९ ॥

13.520

श्लोक

यथा पुत्रं हरिं लब्ध्वा प्राप्ता ते निर्वृति परा । तामेव निर्वृतिं देवि स्वपुत्रात् दर्शयस्व मे ॥ ५२० ॥

13.521

श्लोक

मन्त्रेणानेन सम्पूज्य देवकीं कृष्णमर्चयेत् । ततः समातृकायार्ध्यं तस्मै पूर्ववदर्पयेत् ॥ ५२१ ॥

13.522

श्लोक

अवतारसहस्राणि करोषि मधुसूदन । न ते संख्यावताराणां कश्चिज्जानाति वै भुवि ॥ ५२२ ॥

13.523

श्लोक

देवा ब्रह्मादयो वापि स्वरूपं न विदुस्तव । अतस्त्वां पूजयिष्यामि मातुरुत्सङ्ग संस्थितम् ॥ ५२३ ॥

13.524

श्लोक

वाञ्छितं कुरु मे देव दुष्कृतं चैव नाशय । कुरुष्व मे दयां देव संसारार्तिभयापह ॥ ५२४ ॥

13.525

श्लोक

जातः कंसबधार्थाय भूभारोत्तारणाय च । देवतानां हितार्थाय धर्मसंस्थापनाय च ॥ ५२५ ॥

13.526

श्लोक

कौरवाणां विनाशाय दैत्यानां निधनाय च । गृहाणार्ध्यं मया दत्तं देववया सहितो हरे ॥ ५२६ ॥

13.527

श्लोक

दत्त्वा च सकलामुर्वीं ससागरनगान्विताम् । अर्घ्यदानेन तत् पुण्यं लभते मानवो भुवि ॥ ५२७ ॥

13.528

श्लोक

धूपदीपौ समर्प्याथ नैवेद्यं विविधं शुभम् । फलानि च विचित्राणि ताम्बूलादीनि चार्पयेत् ॥ ५२८ ॥

13.529

श्लोक

कृत्वा नीराजनं गीतं नृत्याद्युत्सवमाचरन् । कुर्याज्जागरणं कृष्णबाल्यलीलाकथादिना ॥ ५२९ ॥

13.530

श्लोक

जागरे पद्मनाभस्य पुराणं पठते तु यः । जन्मकोटिकृतं पापं दहते तुलराशिवत् ॥ ५३० ॥

13.531

श्लोक

प्रातः कृत्वा कियां नित्यां तन्मुर्तिं गुरुवेऽर्पयेत् । वस्त्रादिकं दक्षिणां च दत्त्वा कुर्वीत पारणम् ॥ ५३१ ॥

13.532

श्लोक

विधिनानेन संयुक्तां जयन्तीं च करोति यः । नारी वोद्धरते भक्त्या पुरुषानेकर्विशतिम् ॥ ५३२ ॥

13.533

श्लोक

संक्षेपेण च यः कुर्याज्जयन्तीं हरिवल्लभाम् । मानसेष्टफलं प्राप्य विष्णुलोकं स गच्छति ॥ ५३३ ॥

13.534

श्लोक

यदा तु शुक्लद्वादश्यां पुष्या भवति कर्हिचित् । तदा सा तु महापुण्या कथिता पापनाशिनी ॥ ५३४ ॥

13.535

श्लोक

सगरेण ककुत्स्थेन धुन्धुमारेण गाधिना । तस्यामाराधितः कृष्णो दत्तवानखिलां भुवम् ॥ ५३५ ॥

13.536

श्लोक

वाचिकान्मानसात् पापात् कायिकाच्च विशेषतः । सप्तजन्मकृताद्घोरान्मुच्यते नात्र संशयः ॥ ५३६ ॥

13.537

श्लोक

इमामेकामुपौष्यैव पुष्यानक्षत्रसंयुताम् । एकादशीसहस्रस्य फलमाप्नोति मानवः ॥ ५३७ ॥

13.538

श्लोक

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् । यदस्यां क्रियते किञ्चित्तदनन्तगुणं भवेत् ॥ ५३८ ॥

13.539

श्लोक

तस्मादेषा प्रयत्नेन कर्तव्या फलकाङ्क्षिभिः ॥ ५३९ ॥

13.540

श्लोक

गुरुं प्रणम्य नियमं स्वीकुर्याद्व्रतहेतुकम् । कुम्भमामलकीमूले पूर्ववत् स्थापयेद्व्रती ॥ ५४० ॥

13.541

श्लोक

द्वादश्यान्तु निराहारः स्थित्वाऽहमपरेऽहनि । भोक्ष्यामि जामदग्न्येश शरणं मे भवाच्युत ॥ ५४१ ॥

13.542

श्लोक

वारिपूर्णं ततः पात्रं न्यसेत् कुम्भोपरि व्रत्तो । सुन्दरं ताम्ररचितं वेणुरचितमेव वा ॥ ५४२ ॥

13.543

श्लोक

माषकेण तदर्द्धेन तदर्द्धेनाथवा कृतम् । हैमं परशुरामं च स्नपितं स्थापयेत्ततः ॥ ५४३ ॥

13.544

श्लोक

दत्त्वा वस्त्रयुगच्छत्रपादुकाः श्वेतचन्दनैः । आलिप्य तुलसीपुष्पैर् अभ्यर्च्याङ्गानि पूजयेत् ॥ ५४४ ॥

13.545

श्लोक

विशोकायेति चरणौ जानुनी विश्वरूपिणे । हयग्रीवायेति चोरू कटिं दामोदराय च ॥ ५४५ ॥

13.546

श्लोक

कन्दर्पायेति वै गुह्यं नाभिं वै पद्ममालिने । अनन्तायेति जठरं श्रीकण्ठायेति वै गलम् ॥ ५४६ ॥

13.547

श्लोक

बाहू हैमाङ्गदायेति वैकुण्ठायेति मस्तकम् । ज्योतीरूपायेति नेत्रे नासाग्रं शोकनाशिने ॥ ५४७ ॥

13.548

श्लोक

ललाटं वामनायेति रामायेति श्रुवौ यजेत् । सर्वात्मने समस्ताङ्गं शस्त्राणि स्वस्वसंज्ञया ॥ ५४८ ॥

13.549

श्लोक

प्रदाय पूर्ववच्चार्ध्यं धूपदीपौ समर्प्य च । नैवेद्यादि प्रदायाथ देवं सम्प्रार्थयेच्च तम् ॥ ५४९ ॥

13.550

श्लोक

नमस्ते देवदेवेश जामदग्न्य नमोऽस्तु ते । गृहाणार्ध्यां मया दत्तमामल्या सहितो हरे ॥ ५५० ॥

13.551

श्लोक

जामदग्न्य नमस्तेऽस्तु क्षत्रियान्तकराय च । सर्वाणि यानि पापानि सप्तजन्मकृतान्यपि ॥ ५५१ ॥

13.552

श्लोक

क्षयं यान्तु ममैवाद्य त्वत्प्रसादाच्च भार्गव । वाचिकं मानसं पापं ज्ञानतोऽज्ञानतोऽपि वा ॥ ५५२ ॥

13.553

श्लोक

आयुर्यशस्तथारोग्यं धनं धान्यं च सम्पदम् । सौभाग्यं तव भक्तस्य सन्तानं विपुलं भवेत् ॥ ५५३ ॥

13.554

श्लोक

सर्वान् कामानाप्नुवानि दिव्यं सौख्यं निरन्तरम् । अन्तेऽप्यस्तु ममेशान भक्तिस्त्वच्चरणे प्रभो ॥ ५५४ ॥

13.555

श्लोक

जनार्दन हृषीकेश लक्ष्मीनाथ सुरार्चित । राम राम महाबाहो कार्तवीर्यविनाशन ॥ ५५५ ॥

13.556

श्लोक

एतत् सर्वं मया दत्तं ज्ञानं ज्ञेयं तवाच्युत । मामुद्धर जगन्नाथ दयां कृत्वा ममोपरि ॥ ५५६ ॥

13.557

श्लोक

पिता पितामहाश्चान्ये अपुत्रा ये च गोत्रिणः । वृक्षयोर्नि गता ये च ये च कीटत्वमागताः ॥ ५५७ ॥

13.558

श्लोक

रौरवे नरके ये च महारौरवसंज्ञके । वियोनिं च गता ये च ये च ब्रह्माण्डमध्यगाः ॥ ५५८ ॥

13.559

श्लोक

पिशाचत्वं गता ये च ये च प्रेतत्वमागताः । ते पिबन्तु मया दत्तं धात्रीमूले सदा पयः ॥ ५५९ ॥

13.560

श्लोक

ते सर्वे तृप्तिमायान्तु धात्रीमूलनिषेचनात् ॥ ५६० ॥

13.561

श्लोक

तां च प्रदक्षिणीकृत्य कुर्याज्जागरणं व्रती ॥ ५६१ ॥

13.562

श्लोक

प्रातश् च देवं नीराज्य नित्यं कर्म समाप्य च । मूर्त्यादि गुरवे दत्त्वा प्राम्वत् पारणमाचरेत् ॥ ५६२ ॥

13.563

श्लोक

फाल्गुने मासि यद्येषा द्वादशी पापनाशिनी । भवेत्तदा व्रतस्थास्य महिमा स्याद्विशेषतः ॥ ५६३ ॥

13.564

श्लोक

भविष्योत्तरस्कान्दाभ्यां श्रीब्रह्माण्डपुराणतः ॥ ५६४ ॥

13.565

श्लोक

अन्येऽपि द्वादशीभेदा बहवः सन्ति विश्रुताः । अग्रतो लेखनीयास्ते तत्तन्मासप्रसङ्गतः ॥ ५६५ ॥