Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १३

विष्णु-व्रतोत्सवः

13.401

श्लोक

धन्याः सर्वे मनुष्यास्ते वैशाखे मधुसूदनी । सम्प्राप्ता त्रिस्पृशा यैस्तु बुधवारेण संयुता ॥ ४०१ ॥

13.402

श्लोक

आदौ नन्दा जया चान्ते मध्ये भद्रा भवेद्यदि । उपवासार्चने गीते दुर्लभा कृष्णसन्निधौ ॥ ४०२ ॥

13.403

श्लोक

एकेनैवोपवासेन उपवासायुतं फलम् । जागरे शतसाहस्र्ंअ नृत्ये कोटिगुणं कलौ ॥ ४०३ ॥

13.404

श्लोक

गृहेऽपि कुर्वतामेतां किं पुनः कृष्णसन्निधौ ॥ ४०४ ॥

13.405

श्लोक

सर्वपापप्रशमनं महापातकनाशनम् । शृणु कृत्वाऽवधानं त्वं त्रिस्पृशाख्यं महाव्रतम् ॥ ४०५ ॥

13.406

श्लोक

कामदं सस्पृहाणां च निस्पृहाणान्तु मोक्षदम् । निस्पृशाख्यं व्रतं विष्णोः शृणुष्व गदतो मम ॥ ४०६ ॥

13.407

श्लोक

प्रत्यक्षमर्चितस्तेन कलिकालेऽपि केशवः । त्रिस्पृशाकीर्तनं नित्यं यः करोति महामुने ॥ ४०७ ॥

13.408

श्लोक

न पुरश्चरणे चीर्णे सर्वप पक्षयो भवेत् । त्रिस्पृशा-नाममात्रेण भवते नात्र संशयः ॥ ४०८ ॥

13.409

श्लोक

नागमैर् न पुराणश् च समस्तैस्तीर्थकोटिभिः । बहुभिर् व्रतसङ्कैश् च पूजितैस्त्रिदशर् अपि ॥ ४०९ ॥

13.410

श्लोक

मोक्षो भवति विप्रेन्द्र त्रिस्पृशा न कृता यदि । मोक्षार्थं देवदेवेन सृष्टा देवी तिथीश्वरी ॥ ४१० ॥

13.411

श्लोक

विषयैर् विप्र युक्तानां ध्यानधारणवर्जिनाम् । कामभोगप्रसक्तानां निस्पृशा मोक्षदा सदा ॥ ४११ ॥

13.412

श्लोक

शङ्करस्य पुरा प्रोक्ता चतुर्वक्त्रस्य सागरे । क्षीरोदे प्रणतानान्तु मत्समीये तु चक्रिणा ॥ ४१२ ॥

13.413

श्लोक

विस्पृशां ये करिष्यन्ति विषयैर् अपि निर्जिताः । तेषामपि मया दत्तं मोक्षं साङ्घ्यविवर्जितम् ॥ ४१३ ॥

13.414

श्लोक

कुरुष्व त्वं मुनिश्रेष्ठ त्रिस्पृशां मोक्षदायिनीम् । बहुभिर् मुनिसङ्घैस्तु त्यक्त्वा साङ्ख्यं महामुने ॥ ४१४ ॥

13.415

श्लोक

कार्त्तिके शुक्लपक्षे तु त्रिस्पृशा भवते यदा । सोमेन सोमजेनापि पापकोटविनाशिनी ॥ ४१५ ॥

13.416

श्लोक

यस्यामुपोषणं कृत्वा हत्यामुक्तो महेश्वरः ॥ ४१६ ॥

13.417

श्लोक

हस्ताद्ब्राह्मकपालन्तु तत्क्षणात् पतितं मुने । गत्वा भृगूपदेशेन निस्पृशा-समुपोषणात् ॥ ४१७ ॥

13.418

श्लोक

ब्रह्महत्या-सहस्राणि त्रिस्पृशासमुपोषणात् । हित्वाष्टौ बाहुवीर्यस्तु पूर्वजातो महामुने ॥ ४१८ ॥

13.419

श्लोक

कलिकल्मषपापात्तु मुक्ता देवी त्रिमार्गगा । उपदेशात्माधवरय त्रिस्पृशासमुपोषणात् ॥ ४१९ ॥

13.420

श्लोक

ब्रह्महत्यासहस्राणि त्रिस्पृशासमुपोषणात् । विलयं यान्ति विप्रेन्द्र पापेष्वन्येषु का कथा ॥ ४२० ॥

13.421

श्लोक

न प्रयागे न काश्यान्तु गोमत्यां कृष्णसन्निधौ । मोक्षो भवति विप्रेन्द्र त्रिस्पृशासमुपोषणात् ॥ ४२१ ॥

13.422

श्लोक

मरणेन प्रयागे तु मुक्तिः काश्यान्तथैव च । स्नानमात्रेण गोमत्यां मुक्तिर्भवति नान्यथा । गृहे चैव भवेन्मुक्तिः त्रिस्पृशायामुपोषणात् ॥ ४२२ ॥

13.423

श्लोक

विषये वर्तमानस्य कामभोगान्वितस्य च । निवृत्तविषयस्यापि मुक्तिः सांख्येन दुर्लभा । तस्मात् कुरुष्व विप्रेन्द्र त्रिस्पृशां मोक्षदायिनीम् ॥ ४२३ ॥

13.424

श्लोक

कीदृशी स्यान्मुनिवर त्रिस्पृशा द्वादशी वद । विमुक्तिदा या मर्त्यानां त्वया प्रोक्ता ममाधूना ॥ ४२४ ॥

13.425

श्लोक

जाह्नव्याः पुरतो विप्र त्रिस्पृशा माधवेन तु । प्राची-सरस्वती-तीरे कथिता सुमहाफला ॥ ४२५ ॥

13.426

श्लोक

कलिकल्मषपापौधैर् ब्रह्महत्यादिकैर् युताः । कलिकाले हृषीकेश स्नानं कुर्वन्ति मज्जले ॥ ४२६ ॥

13.427

श्लोक

तेषां पापशतैर् दग्धं मद्देहं कलुषीकृतम् । कथं यास्यति मे देव पातकं गरुडध्वज ॥ ४२७ ॥

13.428

श्लोक

कथयामि न सन्देहो मा पुत्रि रोदनं कुरु । श्रीस्थलं नाम मे स्थानं प्राचीदेवी ममाग्रतः ॥ ४२८ ॥

13.429

श्लोक

वहते ब्रह्मतनयः मद्दृष्ट्यग्रे सुरेश्वरि । स्नानं कुरुष्व नित्यं त्वं मन्त्रपूता भविष्यसि ॥ ४२९ ॥

13.430

श्लोक

यत्र प्राची ब्रह्मसुता तत्राहं नास्ति संशयः । तीर्थकोटिशतैर् युक्तः सुरैः सह वसाम्यहम् ॥ ४३० ॥

13.431

श्लोक

तत्र नश्यन्ति पापानि यत्र प्राची सरस्वती । विशेषतो ममाग्रे तु कलिकाले विशेषतः ॥ ४३१ ॥

13.432

श्लोक

नाहं शक्नोमि देवेश आगन्तुं नित्यमेव हि । कथं नश्यन्ति पापानि कथयस्वेह माधव ॥ ४३२ ॥

13.433

श्लोक

सरस्वत्यधिका या च तीर्थकोटिशताधिका । मखकोट्यधिका याऽपि व्रतदानाधिका च या ॥ ४३३ ॥

13.434

श्लोक

तपोजपाधिका नित्यं चतुर्वर्गफलप्रदा । सांख्ययोगाधिका या च त्रिस्पृशां कुरु तां शुभे ॥ ४३४ ॥

13.435

श्लोक

यस्मिन् मासे समायाति सिता चाप्यसिताथवा । कर्तव्या सा सरित्श्रेष्ठे तव पापं हरिष्यति ॥ ४३५ ॥

13.436

श्लोक

कीदृशी त्रिस्पृशा देव ममाचक्षस्व माधव । ईदृशी महिमा यस्यास्त्वया प्रोक्ता ममाधुना ॥ ४३६ ॥

13.437

श्लोक

दशम्येकादशी भद्रा दिनैकस्मिन् यदा भवेत् । त्रिस्पृशा सा भवेद्देव न वेद्मि वद मे प्रभो ॥ ४३७ ॥

13.438

श्लोक

आसुरी त्रिस्पृशा देवि या त्वया परिकीर्तिता । वर्जनीया प्रयत्नेन व्रतहीनो यथा यतिः ॥ ४३८ ॥

13.439

श्लोक

असुराणां राक्षसानामायूर्बलविवर्धिनी । वर्जनीया प्रयत्नेन यथा नारी रजस्वला ॥ ४३९ ॥

13.440

श्लोक

यथा रजस्वलासङ्गमन्याय्यं वर्जितं सदा । तथा दशमिसंयुक्तं मद्दिनं वैष्णवैर् नरैः ॥ ४४० ॥

13.441

श्लोक

हत्यायुतशतं हन्ति मत्प्रसादेन लभ्यते । मत्प्रसादविहीनानां निस्पृशा याति जाह्नवि ॥ ४४१ ॥

13.442

श्लोक

एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । निस्पृशा सा तु विज्ञेया दशमी-संयुता न हि ॥ ४४२ ॥

13.443

श्लोक

भुक्तं हलाहलं तेन श्वविष्ठाभक्षण कृतम् । दशमीमिश्रितं येन कृतमेकादशीव्रतम् ॥ ४४३ ॥

13.444

श्लोक

जन्मकोटिकृतं पुण्यं सन्तानं याति च क्षयम् ॥ ४४४ ॥

13.445

श्लोक

पक्षवृद्धौ विशेषेण सन्देहे समुपस्थिते । ममाज्ञया प्रकर्तव्या द्वादशी वल्लभा सदा ॥ ४४५ ॥

13.446

श्लोक

ममाज्ञया प्रकर्तव्यं मद्दिनं मत्परायणैः । मद्दिनं तद्विजानीयाद्दशमीवेधवर्जितम् ॥ ४४६ ॥

13.447

श्लोक

विधानं ब्रूहि मे ब्रह्मन् मुने येन करोम्यहम् ॥ ४४७ ॥

13.448

श्लोक

दामोदरं हेममयं कृत्वा विभवसारतः । पात्रं ताम्रमयं कार्यं तण्डुलैः परिपूरितम् ॥ ४४८ ॥

13.449

श्लोक

सजलन्तु घटं शुद्धं पञ्चरत्नसमन्वितम् । वेष्टितं पुष्पमालाभिः कर्पुरागुरुवासितम् ॥ ४४९ ॥

13.450

श्लोक

न्यसेत्ताम्रमयं देवं स्नापयित्वा विलेपितम् । परिधानं ततः कार्यं वस्त्र-युग्मेन भक्तितः ॥ ४५० ॥

13.451

श्लोक

मन्त्रैस्तु पूजनं कार्य गुरुणा समुदीरितैः । पुष्पैः कालोद्भवैः शुभ्रैस्तुलसीदलकोमलैः ॥ ४५१ ॥

13.452

श्लोक

छत्रन्तु वैणवं दद्यात् पादुकाऽम्बरसंयुतम् । नैवेद्यानि विचित्राणि फलानि सुबहून्यपि ॥ ४५२ ॥

13.453

श्लोक

उपवीतं तु दातव्यं सोत्तरीयं नरं दृढम् । वेणवं दापयेद्दण्डं सुरूपं सून्नतं शुभम् ॥ ४५३ ॥

13.454

श्लोक

दामोदराय पादौ तु जानुनी माधवाय तु । गुह्यन्तु कामपतये कटिं वामनमूर्तये ॥ ४५४ ॥

13.455

श्लोक

पद्मनाभाय नाभिन्तु उदरं विश्वमूर्तये । हृदयं ज्ञानगम्याय कण्ठं श्रीकण्ठसंज्ञके ॥ ४५५ ॥

13.456

श्लोक

सहस्राबाहवे बाहुं चक्षुषी योगनायके । ललाटमुरुगायेति सहस्रशिरसे शिरः ॥ ४५६ ॥

13.457

श्लोक

स्वनाम्ना चायुधादीनि सर्वाङ्गं चारुरूपिणे । सम्पूज्य विधिवद्भक्त्या अर्ध्यं दद्याद्विधानतः ॥ ४५७ ॥

13.458

श्लोक

शुभ्रेण नारिकेलेन शङ्खोपरि-स्थितेन हि । सूत्रेण वेष्टितेनैव उभाभ्यां पाणिसंस्थितम् ॥ ४५८ ॥

13.459

श्लोक

स्मृतो हरसि पापानि सत्यं यदि जनार्दन । दुःस्वप्नं दुर्निमित्तं च मनसो दुर्विचिन्तितम् ॥ ४५९ ॥

13.460

श्लोक

नारकं च भयं देव भयं दुर्गतिसम्भवम् । भयमन्यत् महादेव ऐहिकं पारलौकिकम् ॥ ४६० ॥

13.461

श्लोक

सर्वं नाशय मे विष्णो गृहाणार्ध्यं जनार्दन । मम भक्तिः सदैवास्तु दामोदर तवोपरि ॥ ४६१ ॥

13.462

श्लोक

धूपदीपन्तु नैवेद्यं कुर्यान्नीराजनं ततः ॥ ४६२ ॥

13.463

श्लोक

शिरोपरि मुनिश्रेष्ठ भ्रामयेज्जलजं हरेः । कृत्वा विधानमेतद्धि पूजयेत् स्वगुरुं ततः ॥ ४६३ ॥

13.464

श्लोक

दद्याद्वस्त्राणि शुभ्राणि गन्धमाल्यादिनार्चयेत् । उपानहौ च छत्रं च मुद्रिकां च कमण्डलुम् ॥ ४६४ ॥

13.465

श्लोक

भोजनञ्चैव ताम्बूलं सप्तधान्यं सुदक्षिणम् । सम्पूज्य देवदेवेशं कुर्याज्जागरणं हरेः ॥ ४६५ ॥

13.466

श्लोक

गोतनृत्यसमायुक्तं तथा शास्त्रसमन्वितम् । निशान्ते पुनरीशाय दत्त्वा चार्ध्यं विधानतः । स्नानादिकां क्रियां कृत्वा भुञ्जीयाद्ब्राह्मणैः सहः ॥ ४६६ ॥

13.467

श्लोक

अमा वा यदि वा पूर्णा सम्पूर्णा जायते यदा । भूत्वा च षष्टिघटिका दृश्यते प्रतिपद्दिने । अश्वमेधायुतैस्तुल्या सा भवेत् पक्षवर्धिनी ॥ ४६७ ॥

13.468

श्लोक

पूजाविधिन्तु विप्रेन्द्राः श्रोतुमर्हथ साम्प्रतम् ॥ ४६८ ॥

13.469

श्लोक

मन्त्रैः सम्पूजितो विष्णुरर्घ्यदानेन तुष्यति ॥ ४६९ ॥

13.470

श्लोक

जलपूर्णं नवं कुम्भं चन्दनेनैव चर्चितम् । पञ्चरत्नसमायुक्तं पुष्पमालाविभूषितम् । स्थाप्यं ताम्रमयं पात्रं सगोधूमं घटोपरि ॥ ४७० ॥

13.471

श्लोक

सौवर्णं कारयेद्देवं माससंज्ञाविधानकम् । पञ्चामृतेन स्नपनं कर्तव्यं माधवस्य च ॥ ४७१ ॥

13.472

श्लोक

विलेपनन्तु कर्तव्यं कुङ्कुमागुरुचन्दनैः । वस्त्रयुग्मन्तु दातव्यं छत्रोपानत्-सुसंयुतम् ॥ ४७२ ॥

13.473

श्लोक

पूजयेद्देवतामीशं कुम्भपात्रोपरि स्थितम् । पद्मनाभ य पादौ तु जानुनी योगमूर्तये ॥ ४७३ ॥

13.474

श्लोक

ऊरुयुग्मं नृसिंहाय कटिं ज्ञानप्रदाय च । उदरं विश्वनाथाय हृदयं श्रीधराय च ॥ ४७४ ॥

13.475

श्लोक

कण्ठं कौस्तुभकण्ठाय बाहू क्षत्रान्तकाय च । ललाटं व्योममूर्ताय शिरो वै सर्वरूपिणे । स्वनाम्ना चैव शास्त्राणि सर्वाङ्गं दिव्यरूपिणे ॥ ४७५ ॥

13.476

श्लोक

एवं सम्पूज्य विधिवत् ततोऽर्ध्यं सम्प्रदापयेत् । नारिकेलेन शुभ्रेण देवदेवस्य चक्रिणः ॥ ४७६ ॥

13.477

श्लोक

संसारार्णवपोताय पापकक्षामहानल । नरकाग्निप्रशमन जन्ममृत्युजरापह ॥ ४७७ ॥

13.478

श्लोक

मामुद्धर जगन्नाथ पतितं भवसागरे । गृहाणार्ध्यं मया दत्तं पद्मनाभ नमोऽस्तु ते ॥ ४७८ ॥

13.479

श्लोक

नैवेद्यानि प्रदेयानि घृतपक्वानि चक्रिणे । फलानि सुमनोज्ञानि स्वादूनि रसवन्ति च ॥ ४७९ ॥

13.480

श्लोक

सागुरुं च सकर्पूरं दद्याद्धूपन्तु माधवे । सघृतं गुग्गुलुञ्चापि दद्याद्वित्तानुसारतः ॥ ४८० ॥

13.481

श्लोक

ताम्बूलन्तु सकर्पूरं दद्याद्देवस्य भक्तितः । घृतेन दीपकं दद्यात्तिलतैलेन वा पुनः ॥ ४८१ ॥

13.482

श्लोक

कृत्वा सम्यग्विधानेन गुरुपूजान्तु कारयेत् । वस्त्राणि चैव सोष्णीषं कञ्चुकं च प्रदापयेत् ॥ ४८२ ॥

13.483

श्लोक

दक्षिणां च यथाशक्ति गुरवे सम्प्रदापयेत् । भोजनञ्चैव ताम्बूलं दत्त्वार्ध्यं सम्प्रतोषयेत् ॥ ४८३ ॥

13.484

श्लोक

स्ववृत्तैर् वर्तमानैस्तु यथाशक्त्या च निर्धनैः । कार्या सम्यक्प्रयत्नेन द्वादशी पक्षवर्धिनी । ततो जागरणं कुर्याद्गीतनृत्य-समन्वितम् ॥ ४८४ ॥

13.485

श्लोक

द्वादश्यान् तु सिते पक्षे ऋक्षं यदि पुनर्वसुः । नाम्ना सा तु जया ख्याता तिथीनाम् उत्तमा तिथिः ॥ ४८५ ॥

13.486

श्लोक

तम् उपोष्य नरो घोरे नरके नैव मज्जति । अग्निष्टोमादि-यज्ञानां फलम् आप्नोत्य् असंशयम् ॥ ४८६ ॥

13.487

श्लोक

जयाव्रतम् अनुष्ठेयं यथैवोन्मीलनी-व्रतम् ॥ ४८७ ॥

13.488

श्लोक

शालग्रामशिलावारि तुलसीजलमेव च । सममेवोद्धरेत्तत्र विजयाव्रतमाचरेत् ॥ ४८८ ॥

13.489

श्लोक

यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् । विजया सा तिथिः प्रोक्ता तिथीनामुत्तमा तिथिः ॥ ४८९ ॥

13.490

श्लोक

यदा तु शुक्लद्वादश्यां नक्षत्रं श्रवणं भवेत् । तदा सा तु महापुण्या द्वादशी विजया स्मृता ॥ ४९० ॥

13.491

श्लोक

तस्यां स्नातः सर्वतीर्थे स्नातो भवति मानवः । सम्पूज्ये वर्षपूजायाः सकलं फलमश्नुते ॥ ४९१ ॥

13.492

श्लोक

एकजप्यात् सहस्रस्य जप्तस्याप्नोति यत् फलम् । दानं सहस्रगुणितं तथा वै विप्रभोजनम् । होमस्तत्रोपवासश् च सहस्रगुणितो भवेत् ॥ ४९२ ॥

13.493

श्लोक

आदौ गुरुं नमस्कृत्य ततः सङ्कल्पमाचरेत् । शरशार्ङ्गधरं देवं सौवर्णं रचयेत्तथा ॥ ४९३ ॥

13.494

श्लोक

द्वादश्यान्त निराहारः स्थित्वाऽहमपरेऽहनि । भोक्ष्ये त्रिविक्रमानन्त शरणं मे भवाच्युत ॥ ४९४ ॥

13.495

श्लोक

सोपवीतन्तु कलसं पूर्ववत् स्थापयेद्व्रती । पात्रं तदुपरि न्यस्येत्ताम्रं वैणवमेव वा ॥ ४९५ ॥

13.496

श्लोक

तत्रोपवेश्य संस्थाप्य देवं विषदचन्दनैः । आलिप्य शुभ्रं वसनं दद्याच्छत्रं च पादुके ॥ ४९६ ॥

13.497

श्लोक

वासुदेवायेति शिरः श्रीधरायेति वै मुखम् । कृष्णायेति च कण्ठं वै वक्षः श्रीपतये इति ॥ ४९७ ॥

13.498

श्लोक

शस्त्रास्त्रधारिणे बाहुं कक्षे च व्यापकाय वै । गिरीशायोदरं मेढ्रं त्रैलोक्यजननाय च ॥ ४९८ ॥

13.499

श्लोक

जघनं चार्चयेद्विद्वान् सर्वाधिपतये इति । सर्वात्मने इति पदावेवमङ्गानि पूजयेत् ॥ ४९९ ॥

13.500

श्लोक

शङ्खचक्रगदापद्म-सारङ्गशरभूषित । गृहाणार्ध्यं मया दत्तं पाङ्गर्पाणे नमोऽस्तु ते ॥ ५०० ॥