Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १३

विष्णु-व्रतोत्सवः

13.201

श्लोक

पुरतो वासुदेवस्य रात्रौ जागरणे स्थितः । पठन् कृष्णचरित्राणि रञ्जयन् देवि वैष्णवान् ॥ २०१ ॥

13.202

श्लोक

मुखेन कुरुते वाद्यं संप्रहृष्टतनूरुहः । दर्शयन् विविधान् नृत्यान् स्वेच्छालापांश् च कुर्वति ॥ २०२ ॥

13.203

श्लोक

भावैर् एतैर् नरो यस्तु कुरुते जागरं हरेः । निमेषे निमेषे पुण्यं तीर्थकोटिसमं स्मृतम् ॥ २०३ ॥

13.204

श्लोक

अविग्नमनसा यस्तु धूपं नीराजनं हरेः । कुरुते जागरे रात्रौ सप्तद्वीपाधिपो भवेत ॥ २०४ ॥

13.205

श्लोक

अभावे कृष्णधिष्णस्य गत्वा मन्मन्दिरं शिवे । कार्यं जागरणं रात्रौ विद्धि मां माधवप्रियम् ॥ २०५ ॥

13.206

श्लोक

अभावे मम धिष्ण्यस्य गत्वा तु रवि-मन्दिरम् । कार्यं जागरणं रात्रौ यथा विष्णुस्तथा रविः ॥ २०६ ॥

13.207

श्लोक

तदभावे विना प्राममरण्यकादशी यदि । तदाकाशे सूरेशानि विष्णोस्त्रीणि पदानि वै । दृष्ट्वा देवि प्रकर्तव्यं जागरं चक्रपाणिनः ॥ २०७ ॥

13.208

श्लोक

अथवा प्रतिमा विष्णोः शालग्रामशिलाऽथवा । तिष्ठते यदि देवेशि कार्यस्तत्र प्रजागरः ॥ २०८ ॥

13.209

श्लोक

मेघसंछादिते व्योम्नि विष्णोस्त्रीणि पदानि च । अदृष्ट्वा बोधिमूले तु कार्यं जागरणं हरेः ॥ २०९ ॥

13.210

श्लोक

रात्रिमूलेऽथवा गौरि तुलसीवनपार्श्वतः । यत्र वा तत्र वा कार्यं तीर्थे वा निम्नगा-जले ॥ २१० ॥

13.211

श्लोक

सर्वाभावे महादेवि वैष्णवस्य च सन्निधौ । कर्तव्यं जागरं विष्णोर्मानसीं भक्तिमास्थितैः ॥ २११ ॥

13.212

श्लोक

विना जागरणं गौरि विष्णोर्दिनफलं न हि । नास्माकं भवति प्रीतिब्रह्मादीनां दिवौकसाम् ॥ २१२ ॥

13.213

श्लोक

यज्ञानामपि सर्वेषां महायज्ञः स कथ्यते । वासरे वासुदेवस्य यतो जागरसंज्ञकः ॥ २१३ ॥

13.214

श्लोक

तस्माज्जागरणं कार्यं त्यक्त्वा कार्यान्तराण्यपि ॥ २१४ ॥

13.215

श्लोक

रात्रौ जागरणं कृत्वा समुपास्य जनार्दनम् । दश वै पैतृके पक्षे मातृके दश पूर्वजाः । प्रियाया दश ये वैश्य तानुद्धरति निश्चितम् ॥ २१५ ॥

13.216

श्लोक

ध्यानध्येयविहीनस्य संज्ञातीतस्य भूपते । कर्मभ्रष्टस्य कथितो मोक्षस्तु हरिजागरे ॥ २१६ ॥

13.217

श्लोक

यानि कानि च पापानि ब्रह्महत्यादिकानि च । कृष्णजागरणे तानि विलयं यान्ति खण्डशः ॥ २१७ ॥

13.218

श्लोक

एकतः क्रतवः सर्व समाप्तवरदक्षिणाः । एकतो देवदेवस्य जागरः कृष्णवल्लभः । न समं कवयः प्राहुरधिकः कृष्णजागरः ॥ २१८ ॥

13.219

श्लोक

तत्र ब्रह्मा च रुद्रश् च शक्राद्या देवतागणाः । नित्यमेव समायान्ति जागरे कृष्णवाल्लभे ॥ २१९ ॥

13.220

श्लोक

ऋषयो नारदाद्यास्तु व्यासाद्या मुनयस्तथा । अहं च तत्र गच्छामि कृष्णपूजारतः सदा ॥ २२० ॥

13.221

श्लोक

शालग्राममहाक्षेत्रमर्वुदारण्यमेव च ॥ २२१ ॥

13.222

श्लोक

सुपुण्या मथुरा तत्र सर्वतीर्थानि चैव हि । यज्ञा वेदाश् च चत्वारो व्रजन्ति हरिजागरम् ॥ २२२ ॥

13.223

श्लोक

गङ्गा सरस्वती रेवा यमुना वै शतद्रुका । चन्द्रभागा वितस्ता च नद्यः सर्वास्तु तत्र वै ॥ २२३ ॥

13.224

श्लोक

सरांसि च ह्रदाः सर्वे समुदाः सर्व एव हि । एकादश्यां द्विजश्रेष्ठ गच्छन्ते कृष्णजागरम् ॥ २२४ ॥

13.225

श्लोक

स्पृहणीया हि देवानां ये नराः कृष्णजागरे । नृत्यन्ति गीतं कुर्वन्ति वीणावाद्यप्रहर्षिताः ॥ २२५ ॥

13.226

श्लोक

जन्माष्टमी-प्रबोधन्यादिकेऽन्यच्च महोत्सवे । माहात्म्यं जागरस्याग्रे लेख्यं तत्तत्प्रसङ्गतः ॥ २२६ ॥

13.227

श्लोक

ततः प्रभाते भगवद्रात्रिक्रीडारसात्मिकाम् । कौशिकीं प्रमुदा गायेच्छ्रीकृष्णपरितोषणीम् ॥ २२७ ॥

13.228

श्लोक

प्रभाते कौशिकीं यस्तु प्रगायेज्जागरे हरेः । स समुद्धरते सर्वान् श्वपचान् ब्राह्मणो यथा ॥ २२८ ॥

13.229

श्लोक

मङ्गलाररात्रिकं कृत्वाभ्यर्च्य प्रस्थाप्य वैष्णवान् । प्रातः पूजां च निष्पाद्य कृष्णे तत् सर्वमर्पयेत् ॥ २२९ ॥

13.230

श्लोक

प्रातः स्नात्वा हरिं पूज्य उपवासं समर्पयेत् । पारणन्तु ततः कुर्याद्व्रतसिद्धौ हरिं स्मरन् ॥ २३० ॥

13.231

श्लोक

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव । प्रसीद सुमुखो नाथ ज्ञानदृष्टिप्रदो भव ॥ २३१ ॥

13.232

श्लोक

तत्र स्नानोपचारन्तु प्रातैर् व समाचरेत् । प्रामाणिकानां केषाञ्चिद्वैष्णवानामिदं मतम् ॥ २३२ ॥

13.233

श्लोक

जन्मप्रभृति यत्किञ्चित् सुकृतं समुपार्जितम् । नश्यति द्वादशिदिने हरेर् निर्माल्यलङ्घनात् ॥ २३३ ॥

13.234

श्लोक

स्नानं न हरये दद्याद्द्वादश्यां वैष्णवो दिवा । पक्षपूजाफलं सर्वं वास्कलायोपगच्छति ॥ २३४ ॥

13.235

श्लोक

अतो दिवा निषिद्धत्वाद्रजन्यां स्नापयेत् प्रभुम् । पवित्रदमनद्वादश्युत्सवे तु न निश्यपि ॥ २३५ ॥

13.236

श्लोक

नित्यकृत्यं समाप्याथ शक्त्या विप्रांश् च भोजयेत् । कुर्वीत द्वादशीमध्ये तुलसीं प्राश्य पारणम् ॥ २३६ ॥

13.237

श्लोक

कृत्वा चैवोपवासन्तु योऽश्नाति द्वादशीदिने । नैवेद्यं तुलसीमिश्रं पापकोटिविनाशनम् ॥ २३७ ॥

13.238

श्लोक

महाहानिकरी ह्येषा द्वादशी लङ्घिता नृणाम् । करोति धर्महरणमस्नातेव सरस्वती ॥ २३८ ॥

13.239

श्लोक

पारणाहनि संप्राप्ते द्वादशीं यो व्यतिक्रमेत् । त्रयोदश्यान्तु भुञ्जानः शतजन्मानि नारकी ॥ २३९ ॥

13.240

श्लोक

यो हि भागवतो भूत्वा द्वादशीं न हि साधयेत् । कृतस्य पूर्वपुण्यस्य दत्तस्तेन विभावसुः ॥ २४० ॥

13.241

श्लोक

एकादश्यामुपोष्यैव द्वादश्यां पारणं स्मृतम् । त्रयोदश्यां न तत् कुर्याद्द्वादशद्वादशीक्षयात् ॥ २४१ ॥

13.242

श्लोक

कलाद्वयं त्रयं वापि द्वादशीं न त्वतिक्रमेत् । अतिक्रान्ता द्वादशी तु हन्ति पुण्यं पुराकृतम् ॥ २४२ ॥

13.243

श्लोक

यो द्वादशीमतिक्रम्य पारणं कुरुते नरः । द्वादशाब्दकृतं तस्य तत्क्षणादेव नश्यति ॥ २४३ ॥

13.244

श्लोक

द्वादशीं समतिक्रम्य पारणं यः करोति हि । स्नानदानादिकं सर्वं निष्फलं तस्य जायते ॥ २४४ ॥

13.245

श्लोक

अल्पा चेद्द्वादशी कुर्यान्नित्यकर्मारुणोदये । अत्यल्पा चेन्निशीथोर्द्धमामध्याह्निकमेव तत् ॥ २४५ ॥

13.246

श्लोक

स्वल्पायामथ भूपाल द्वादश्यामरुणोदये । स्नानार्चनक्रियाः कार्या दानहोमादि-संयुताः ॥ २४६ ॥

13.247

श्लोक

यदा भवति स्वल्पा हि द्वादशी पारणे दिने । ऊषःकाले द्वयं कुर्यात् प्रातर्माध्याह्निकं तथा ॥ २४७ ॥

13.248

श्लोक

अल्पायामथ विप्रेन्द्र द्वादश्यामरुणोदये । स्नानार्चनक्रियाः कार्या दानहोमादि-संयुताः ॥ २४८ ॥

13.249

श्लोक

दिनकर्मदिने सर्वं कत्तव्यं यदि तद्दिने । नैव सिद्धिमवाप्नोति तदा रात्रौ विधीयते ॥ २४९ ॥

13.250

श्लोक

कलार्द्धां द्वादशीं दृष्ट्वा निशीथादूर्ध्वमेव हि । आमध्याह्नाः क्रियाः सर्वाः कर्तव्याः शम्भुशासनात् ॥ २५० ॥

13.251

श्लोक

अशक्त्या सङ्कटे प्राप्ते पारणं वारिणा चरेत् । तद्धि नैवासितं नैवानशितं च विदुर्बुधाः ॥ २५१ ॥

13.252

श्लोक

कलाद्वयं त्रयं वापि द्वादशी यदि दृश्यते । स्नानार्चनादिकं कर्म तदा रात्रौ विधीयते ॥ २५२ ॥

13.253

श्लोक

स्वल्पैव द्वादशी यत्र स्नानदानादिकाः क्रियाः । रजन्यामेव कर्तव्या दानहोमादिसंयुताः ॥ २५३ ॥

13.254

श्लोक

सङ्कटे विषमे प्राप्ते द्वादश्यां पारयेत् कथम् । अद्भिस्तु पारणं कुर्यात् पुनर्भुक्तं न दोषकृत् ॥ २५४ ॥

13.255

श्लोक

मन्त्रं जपित्वा हरये निवेद्योपोषणं व्रती । अद्भिस्तु पारणं कुर्यात् सङ्कटे विषमे सति ॥ २५५ ॥

13.256

श्लोक

सन्ध्यादिकं भवेन्नित्यं पारणन्तु निमित्ततः । अद्भिस्तु पारयित्वा तु कुर्यात् सन्ध्यादिकं पुनः ॥ २५६ ॥

13.257

श्लोक

द्वादशीपूर्वपादीयस्तत्र चेद्धरिवासरः । द्वादश्याधिक्यतस्तिष्ठेत् पारणं तत्र नाचरेत् ॥ २५७ ॥

13.258

श्लोक

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञकः । तमतिक्रम्य कुर्वीत पारणं विष्णुं तत्परः ॥ २५८ ॥

13.259

श्लोक

द्वादश्येकादशीयोगे विख्यातो हरिवासरः । एकादश्यान्त्यपादश् च द्वादश्याः पूर्व एव हि । हरिवासर इत्याहुर्भोजनं न समाचरेत् ॥ २५९ ॥

13.260

श्लोक

क्षौद्रं मांसं सुरां तैलं व्यायामं क्रोधमैथुने । परान्नं कांस्य-ताम्बूले लोभ निर्माल्यलङ्घनम् । द्वादश्यां द्वादशैतानि वैष्णवः परिवर्जयेत् ॥ २६० ॥

13.261

श्लोक

कांस्यं मांसं सुरां क्षौद्रं लोभं वितथभाषणम् । व्यायामं च प्रवासं च दिवास्वप्नमथाञ्जनम् ॥ २६१ ॥

13.262

श्लोक

शिलापिष्टं मसूरं च द्वादशैतानि वैष्णवः । द्वादश्यां वर्जयेन्नित्यं सर्वपापैः प्रमुच्यते ॥ २६२ ॥

13.263

श्लोक

कांस्यं मांसं सुरां धृतं व्यायामं क्रोधमैथुनम् । हिंसामसत्यं लौल्यं च तैलं निर्माल्यलङ्घनम् । द्वादश्यां द्वादशैतानि वैष्णवः परिवर्जयेत् ॥ २६३ ॥

13.264

श्लोक

कांस्यं मांसं मसूरं च चणकं कोरदूषकम् । रत्यौषधपरान्नं च द्वादश्यामष्ट वर्जयेत् ॥ २६४ ॥

13.265

श्लोक

उन्मीलनी वञ्जुली च त्रिस्पृशा पक्षवर्द्धिनी । जया च विजया चैव जयन्ती पापनाशिनी ॥ २६५ ॥

13.266

श्लोक

द्वादश्योऽष्टौ महापुण्याः सर्वपापहरा द्विज । तिथियोगेन जायन्ते चतस्रश्चापरास्तथा । नक्षत्रयोगाच्च बलात् पापं प्रशमयन्ति ताः ॥ २६६ ॥

13.267

श्लोक

एकादशी तु सम्पूर्णा वर्द्धते पुनरेव सा । द्वादशी च न वर्धत कथितोन्मीलनीनि सा ॥ २६७ ॥

13.268

श्लोक

द्वादश्येव विवर्धेत न चैवैकादशी यदा । वञ्जुली तु भृगुश्रेष्ठ कथिता पापनाशिनी ॥ २६८ ॥

13.269

श्लोक

अरुणोदय आद्या स्याद्द्वादशी सकलं दिनम् । अन्ते त्रयोदशी प्रातस्त्रिस्पृशा सा हरेः प्रिया ॥ २६९ ॥

13.270

श्लोक

कुहूराके यदा वृद्धिं प्रयाते पक्षवर्धिनी । विहायैकादशीं तत्र द्वादशीं समुपोषयेत् ॥ २७० ॥

13.271

श्लोक

पुण्यश्रवणपुष्याद्यरोहिणीसंयुतास्तु ताः । उपोषिताः समफला द्वादश्योऽष्टौ पृथक् पृथक् ॥ २७१ ॥

13.272

श्लोक

ब्रह्मघ्नमपि सा पूर्वा विशोधयति भार्गव । वञ्जुलोति द्वितीया सा हत्यायुतविनाशिनी ॥ २७२ ॥

13.273

श्लोक

महापापानि चत्वारि शोधयेत् त्रिस्पृशा कृता । कुरुतेऽशेषकलुषविच्छेदं पक्षवर्धिनी ॥ २७३ ॥

13.274

श्लोक

जया जयन्ती विजया प्रेतमोक्षं तथापरा । जयन्ती नरकच्छेदमपि दुष्कृतकारिणाम् । अष्टमी तु भृगुश्रेष्ठ यथार्था पापनाशिनी ॥ २७४ ॥

13.275

श्लोक

अथेति महता पुण्यप्रमारेण हरेर्दिनम् । शुक्लपक्षे भृगुश्रेष्ठ विशेषव्रतसंयुतम् ॥ २७५ ॥

13.276

श्लोक

तदायतमपि त्यक्तं यदि पुण्यं वहिःश्रुतैः । तदेतदमृतं प्राप्तं कराद्विगलितं क्षणात् ॥ २७६ ॥

13.277

श्लोक

एकादशीस्वरूपेण धर्मः साक्षाज्जनार्दनः । तच्छरीरसमं प्राहुर्वञ्जुल्युन्मीलनीव्रतम् ॥ २७७ ॥

13.278

श्लोक

विहाय वञ्जुली पापाः कारयन्त्यवरां तिथिम् । हिंसितस्तैर् असौ कृष्णाक्षर इत्यवधारय ॥ २७८ ॥

13.279

श्लोक

ये कारयन्त्यविद्वांसः शास्त्रमुल्लङ्घ्य हैतुकाः । प्राणिनस्तत्कृतं पापं तेषां गच्छत्यसंशयम् ॥ २७९ ॥

13.280

श्लोक

तेषां निरभिमानैस्तु भूत्वा शास्त्रानुगामिभिः । यथावटुपदेष्टव्यं न भाव्यं कलुषाशयः ॥ २८० ॥

13.281

श्लोक

जया च विजया चैव जयन्ती पापनाशिनी । सर्वपापहरा ह्येताः कर्तव्याः फलकाङ्क्षिभिः ॥ २८१ ॥

13.282

श्लोक

द्वादश्योऽष्टौ समाख्याता याः पुराणविचक्षणैः । तासामेकापि च हता हन्ति पुण्यं पुराकृतम् ॥ २८२ ॥

13.283

श्लोक

न करिष्यन्ति ये लोके द्वादश्योऽष्टौ ममाज्ञया । तेषां यमपुरे वासो यावदाहूतसंप्लवम् ॥ २८३ ॥

13.284

श्लोक

उन्मीलनी परित्यक्ता वञ्जुली पक्षवर्धिनी । नरके वसते तावद्यावदिन्द्राश्चतुर्दश ॥ २८४ ॥

13.285

श्लोक

त्रिस्पृशा विष्णुदयिता ये न कुर्वन्ति भूतले । तावद्यमपुरे वासो यावन्नद्यः ससागराः ॥ २८५ ॥

13.286

श्लोक

जयादीनां चतसृणां तथा व्यक्तं निरूप्यते । भान्यर्कोदयमारभ्य प्रवृत्तान्यधिकानि चेत् । समा न्यूनानि वा सन्तु ततोऽमीषां व्रतौचित्ती ॥ २८६ ॥

13.287

श्लोक

किंवा सूर्योदयात् पूर्वं प्रवृत्तान्यधिकानि चेत् । समानि वा तदाप्येषा व्रताचरणयोग्यता ॥ २८७ ॥

13.288

श्लोक

श्रवणाव्यतिरिक्तेषु नक्षत्रेषु खलु त्रिषु । सूर्यास्तमनपर्यन्तं कार्यं द्वादश्यपेक्षणम् ॥ २८८ ॥

13.289

श्लोक

श्रवणे त्वस्तमनतः प्राग्द्वादश्यां समाप्तताम् । गतायामपि तत्रैव व्रतस्योचितता भवेत् ॥ २८९ ॥

13.290

श्लोक

वृद्धौ भतिथ्योरधिका तिथिश्चेत् पारणन्ततः । अन्ते स्याच्चेत्तिथिर्न्यूना तिथिमध्ये तु पारणम् ॥ २९० ॥

13.291

श्लोक

द्वादश्यननुवृत्तौ तु वृद्धौ ब्रह्माच्युतर्क्षयोः । तन्मध्ये पारणं वृद्धौ शेषयोस्तदतिक्रमे ॥ २९१ ॥

13.292

श्लोक

श्रीद्वादशीचतुष्कस्य महतोऽसौ विनिर्णयः । नृसिंहपरिचर्यादि ग्रन्थदृष्ट्या निरूपितः ॥ २९२ ॥

13.293

श्लोक

राज्यं प्रकुर्वतः पूर्वमम्बरीषस्य वेश्मनि । गौतमस्तपसा श्रेष्ठः समायातो महामुनिः ॥ २९३ ॥

13.294

श्लोक

दृष्ट्वा तमागतं राजा समुत्तस्थौ निजासनात् । दत्त्वार्ध्यं परया भक्त्या प्रोवाचासनसंस्थितम् ॥ २९४ ॥

13.295

श्लोक

स्वागत मुनिसार्दूल प्रसादं कर्तुमर्हसि । धन्यानामपि धन्योऽहं यत्त्वं मद्गृहमागतः ॥ २९५ ॥

13.296

श्लोक

तपसः कुशलं तेऽद्य भक्तिः श्रीकेशवापरि । निश्चला मुनिशार्दूल हृदयान्नापसर्पति ॥ २९६ ॥

13.297

श्लोक

तपसः कुशलं राजन् भक्तिः कृष्णे सुनिश्चला । कुशलं तव राजेन्द्र ब्राह्मणान् पासि सर्वदा ॥ २९७ ॥

13.298

श्लोक

भक्तिण् भागवतीं नित्यं किं करोषि नराधिप । शालग्राममयं बिम्बं किं त्वं पश्यसि प्रत्यहम् ॥ २९८ ॥

13.299

श्लोक

किं त्वं वन्दयसे नित्यं शालग्रामशिलाजलम् । गृहीत्वा स्नानतोयन्तु किं त्वं पिबसि प्रत्यहम् ॥ २९९ ॥

13.300

श्लोक

दत्त्वा वै वैष्णवानान्तु प्रोक्षणं कुरुषे गृहे । तद्विलेपनशेषेण अङ्गानि परिमार्जसि ॥ ३०० ॥