Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १३

विष्णु-व्रतोत्सवः

13.101

श्लोक

सकर्पूरं च ताम्बूलं योददाति हि जागरे । पद्मनाभप्रदानेन श्वेतद्वीपे वसेच्चिरम् ॥ १०१ ॥

13.102

श्लोक

जागरे पद्मनाभस्य यः कुर्यात् पुष्पमण्डपम् । स पुष्पक-विमानैस्तु कीडते ब्रह्मसद्मनि ॥ १०२ ॥

13.103

श्लोक

जागरे पद्मनाभस्त सकर्पूरं तथागुरुम् । दहतो दहते पापं जन्मलक्षसमुद्भवम् ॥ १०३ ॥

13.104

श्लोक

स्नानं ददाति कृष्णस्य दधिक्षीरघृतादिभिः । रात्रौ जागरणे विप्र मुक्तिभागी भवेद्धि सः ॥ १०४ ॥

13.105

श्लोक

दिव्याम्बराणि यो दद्याज्जागरे समुपस्थिते । मन्वन्तराणि वसते तन्तुसंख्यासमानि वै ॥ १०५ ॥

13.106

श्लोक

दद्यादाभरणं विष्णोर्हेमजं रत्नसम्भवम् । सप्त कल्पानि वसते सोत्सङ्गे मत्प्रियो हि सः ॥ १०६ ॥

13.107

श्लोक

श्रीचन्दनं सकर्पूरं सागुरुन्तु सकेशरम् । युक्तं मृगमदेनापि यच्छते हरिजागरे ॥ १०७ ॥

13.108

श्लोक

एकैकं मुनिशार्दूल अश्वमेधाधिकं फलम् । कलौ भवेन्न सन्देहो वासुदेवप्रसादतः ॥ १०८ ॥

13.109

श्लोक

घृतेन दीपकं विष्णोर्गव्येन च विशेषतः । ज्वालयेज्जागरे रात्रौ निमेषे गोऽयुतं फलम् ॥ १०९ ॥

13.110

श्लोक

जागरे वासुदेवस्य कर्पूरेण च दीपकम् । यो ज्वालयति कोटीनां कपिलानां लभेत् फलम् ॥ ११० ॥

13.111

श्लोक

आरात्रिकं हरेर्यस्तु सकर्परन्तु जागरे । कुरुते मोक्षमाप्नोति कुलायुतसमन्वितः ॥ १११ ॥

13.112

श्लोक

विनापि यो हि कर्पूरं कुर्यादारात्रिकं हरेः । निःस्वोऽपि जागरे विष्णोर्दाता भूरि फलं लभेत् ॥ ११२ ॥

13.113

श्लोक

वारिजं वारिणा पूर्णं शिरसि स्नापयेद्धरिम् । विभर्ति शिरसा सोऽयं गङ्गास्नानकृतं फलम् ॥ ११३ ॥

13.114

श्लोक

कृत्वा पूजां हरेर्यस्तु जागरे पुरतः शुचिः । पठेन्नामसहस्रं च गीतां नागविमोक्षणम् ॥ ११४ ॥

13.115

श्लोक

माङ्गल्यं स्नपनं पुण्यं स्तवराजमनुस्मरन् । वैदिकानि च जप्यामि भक्त्या रात्रौ मुहुर्मुहुः ॥ ११५ ॥

13.116

श्लोक

भवेत् प्रत्यक्षरं पुण्यं कपिलागोशतोद्भवम् । जागरे यज्ञरूपस्य पुरतः पठनं हरेः ॥ ११६ ॥

13.117

श्लोक

यः पुनः कुरुते गीतं सनृत्यं वाद्यसंयुतम् । न तत् क्रतुशतैः पुण्यं व्रतदानशतैर् अपि ॥ ११७ ॥

13.118

श्लोक

यः पुनः कुरुते गीतं विलजो नृत्यते यदि । लभते निमिषार्द्धेन चतुराश्रमज फलम् ॥ ११८ ॥

13.119

श्लोक

जागरे पद्मनाभस्य कुर्यात् पुस्तकवाचनम् । श्लोकसंख्यां वसेत् स्वर्गे युगानि हरिसन्निधौ ॥ ११९ ॥

13.120

श्लोक

कुर्याद्वन्दनमालां यो रम्भास्तम्भैः सुशोभनैः । चूतवृक्षोद्भवैः पत्रैर् जागरे चक्रपाणिनः ॥ १२० ॥

13.121

श्लोक

युगानि पत्रसंख्यानां स्वर्गे तस्योत्सवो भवेत् । पूज्यते वासवाद्यैश् च क्रीडते चाप्सरोवृतः ॥ १२१ ॥

13.122

श्लोक

नृत्यमानस्य मर्त्यस्य ये केचिन्निरयं गताः । विमुक्ता धर्मराजेन मुक्तिं यान्ति हरेः पदम् ॥ १२२ ॥

13.123

श्लोक

गीतध्वनिषु सन्तुष्टा जागरे तु रमापतिः । वासवस्याधिकं सौख्यं दद्यान्मन्वन्तरं शतम् ॥ १२३ ॥

13.124

श्लोक

नृत्येन मर्त्ये सौख्यन्तु स्वर्गे नृत्येन जागरे । रसातले तथा सौख्यं मुक्तिर्नृत्यादवाप्यते ॥ १२४ ॥

13.125

श्लोक

प्रेक्षणीयप्रदानेन यत् पुण्यं कथितं बुधैः । न तत् कोटिमखैः पुण्यं योगैः साङ्ख्यैर् अवाप्येते ॥ १२५ ॥

13.126

श्लोक

दीपमालां हरेरग्रे यः करोति प्रजागरे । विमानकोटि संयुक्तः कल्पान्तं वसते दिवि ॥ १२६ ॥

13.127

श्लोक

चरितं रामचन्द्रस्य यः शृणोति हरेर्दिने । रात्रौ वाल्मीकिना प्रोक्तं तत्समो न हि वैष्णवः ॥ १२७ ॥

13.128

श्लोक

यः पुनः पठते रात्रौ महाभारतसम्भवाम् । कथां जागरणे विष्णोः कुलकोटिं नयेद्दिवम् ॥ १२८ ॥

13.129

श्लोक

औत्तानपादेश्वरितं ध्रुवस्य च महात्मनः । कृष्णस्य बालचरितं जागरे पठते हि यः । युगकोटिसहस्रस्य क्षयः पापस्य जायते ॥ १२९ ॥

13.130

श्लोक

तस्माज्जागरणं कार्यं पक्षयोः शुक्लकृष्णयोः ॥ १३० ॥

13.131

श्लोक

श्रीमद्भागवतं भक्त्या पठते विष्णुसन्निधौ । जागरे तत्पदं याति कुलवृन्दसमन्वितः ॥ १३१ ॥

13.132

श्लोक

अष्टादश पुराणानि पुराणपुरुषस्य च । दयितानि सदा विष्णोर्विशेषेण तु जागरे ॥ १३२ ॥

13.133

श्लोक

यो गोतां पठते रात्रौ विष्णोर्नामसहस्रकम् । वेदोक्तानां पुराणानां जागरी पुण्यमाप्नुयात् ॥ १३३ ॥

13.134

श्लोक

धेनुदानन्तु यः कुर्यात् जागरे चक्रपाणिनः । लभते नात्र सन्देहः सप्तद्वीपावनीफलम् ॥ १३४ ॥

13.135

श्लोक

जागरे पद्मनाभस्य यः कुर्याच्छुभमण्डपम् । मण्डले ध्रुवलोकस्य यावत्तिष्ठति पद्मभूः ॥ १३५ ॥

13.136

श्लोक

सर्वेषामेव पुण्यानां महत् पुण्यं महीतले । द्वादश्यां जागरे विप्र प्रसिद्धं भुवनत्रये ॥ १३६ ॥

13.137

श्लोक

जागरं ये चिकीर्षन्ति कर्मणा मनसा गिरा । न तेषां पुनरावृत्तिविष्णुलोकात् कथञ्चन ॥ १३७ ॥

13.138

श्लोक

जागरे नृत्यमानन्तु दृष्ट्वा वै द्वादशी दिने । रात्रौ मार्जयते शौरिः पापं तस्य युगार्जितम् ॥ १३८ ॥

13.139

श्लोक

प्रोत्साहयित्वा लोकान् यः कुरुते जागरं निशि । प्राप्नोति चक्रवर्तित्वं भरतेन यथा पुरा ॥ १३९ ॥

13.140

श्लोक

श्वपचेन यथा विष्णुं तोषयित्वा तु जागरे । प्राप्ता मुक्तिः पुरा विप्र गान्धर्वात् श्रूयते ध्रुवम् ॥ १४० ॥

13.141

श्लोक

राज्यं प्राप्तं दिलीपेन नर्तनाद्वासरे हरेः । नहुषेण च संप्राप्तमर्यदानेन जागरे ॥ १४१ ॥

13.142

श्लोक

फलदानात् सृञ्जयेन प्राप्तं राज्यमकण्टकम् । वञ्जुलीवासरे रात्रौ कृत्वा जागरणं हरेः ॥ १४२ ॥

13.143

श्लोक

वस्त्रदानाद्दिने विष्णोर्नाभागेन तु जागरः । राज्यं प्राप्तं मुनिश्रेष्ठ प्रसादान्माधवस्य हि ॥ १४३ ॥

13.144

श्लोक

शैलूषी नर्तनात् सिद्धा विख्याता मेनका दिवि । त्रिस्पृशा जागरे विप्र सत्यं ते कथितं मया ॥ १४४ ॥

13.145

श्लोक

तुलसीजागरात् प्राप्तं जागरे चक्रपाणिनः । अलर्केन क्षितीशत्वं यशःकीर्ति-समन्वितम् ॥ १४५ ॥

13.146

श्लोक

षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । अलर्को नाम राजासौ बुभुजे मेदनीं पुरा ॥ १४६ ॥

13.147

श्लोक

शाण्डिली मार्जनात् सिद्धा एकादश्यान्तु मण्डलात् । पुरतो वासुदेवस्य पक्षयोः शुक्लकृष्णयोः ॥ १४७ ॥

13.148

श्लोक

उन्मीलनीदिने प्राप्ते परदीपप्रबोधनात् । इन्द्रद्युम्नेन संप्राप्तं राज्यं जागरणं हरेः ॥ १४८ ॥

13.149

श्लोक

दोलादिने च संप्राप्ते वीणावाद्यात् पुरूरवाः । चक्रवर्तित्वमायातो दुष्प्रापं यत् सुरैर् अपि ॥ १४९ ॥

13.150

श्लोक

सम्मानिताः ककुत्स्थेन रात्रौ जागरकारिणः । स्वशक्त्या चैव दानेन प्राप्तं राज्यं सूदुर्लभम् ॥ १५० ॥

13.151

श्लोक

श्वपाकी च मृगी नाम गानं कृत्वा हरेर्दिने । गान्धर्वलोकनारीणां जाता राज्ञी प्रजागरात् ॥ १५१ ॥

13.152

श्लोक

वेणुवाद्यादृचीकस्तु विजयावासरे निशि । जागरे पुरतो विष्णोः पुना राजा भविष्यति ॥ १५२ ॥

13.153

श्लोक

ये केचिद्गायका विप्र वादका नर्तका नराः । नर्तकी-सहिता यान्ति कृत्वा जागरणं दिवम् ॥ १५३ ॥

13.154

श्लोक

वियोनिमागतैः सर्वैः कृत्वा जागरणं हरेः । संप्राप्तं पृथिवीशत्वं सकामैर् मुनिसत्तम ॥ १५४ ॥

13.155

श्लोक

निष्कामैर् मुक्तिराप्ता च श्वपचाद्यैस्तु जागरात् । विवक्षा नास्ति वर्णानां हरेर्जागरकारिणाम् ॥ १५५ ॥

13.156

श्लोक

न कलौ पावनं ध्यानं न कलौ जाह्नवीजलम् । न कलौ पावनं जप्यं मुक्तै वकं जागरं हरेः ॥ १५६ ॥

13.157

श्लोक

आश्रमे वर्तमानानां न फलं हि द्विजन्मनाम् । संयष्टैर् अपि यज्ञैस्तु विना द्वादशि-जागरात् ॥ १५७ ॥

13.158

श्लोक

लक्ष्मीः पराङ्मुखी तेषां वासवाद्या दिवौकसः । पितरः कव्यपाल्याद्या मनुष्याः सनकादयः ॥ १५८ ॥

13.159

श्लोक

एकोऽपि हि कुलोत्पन्नः किञ्जातैर् बहुभिः सुतैः । द्वादशीजागरात् सर्वास्तारयिष्यति पूर्वजान् ॥ १५९ ॥

13.160

श्लोक

विशल्यवासरे विष्णोर्यः करोति सुजागरम् । स वै भागवतो लोके गीयते ब्रह्मवादिभिः ॥ १६० ॥

13.161

श्लोक

यस्य प्रसन्नो भगवान् शीलेनोत्पद्यते सुतः । एकोऽपि तारयेत् सर्वान् नरकस्थान पितामहान् ॥ १६१ ॥

13.162

श्लोक

न सौरो न च शैवो वा न ब्राह्मो नव शाक्तिकः । न चान्यदेवता-भक्तो भवेद्भागवतोपमः ॥ १६२ ॥

13.163

श्लोक

गृहेऽपि वर्तते यस्य नित्यं यस्य च चेतसि । द्वादशीचरितं पुण्यं चतुर्वर्गफलप्रदम् ॥ १६३ ॥

13.164

श्लोक

उपोषितैर् हरिदिनैः संवत्सरशतं फलम् । तत् फलं नित्यमाप्नोति पठन् जागरणं हरेः ॥ १६४ ॥

13.165

श्लोक

माहात्म्यं यः पठेद्भक्त्या मयोक्तं जागरोद्भवम् । द्वादशीसम्भवं पुत्र कुलानामुद्धरेच्जतम् ॥ १६५ ॥

13.166

श्लोक

चरितं बाललीलाया मथुरायां च यः पठेत् । द्वादश्यां देवकीसूनो रात्रौ जागरणे कलौ । अयुतानां वसेत् कोटिं पितृभिः परिवारितः ॥ १६६ ॥

13.167

श्लोक

वञ्जुलीसम्भवं यो वै माहात्म्यं जागरे हरेः । कीर्तयिष्यति नित्यं वा तस्य पुण्यं वदाम्यहम् ॥ १६७ ॥

13.168

श्लोक

दशभिर् वासरैर् विष्णोर्दशभिर् गणितैर् मुने । कृतैर् भवति यत् पुण्यं नित्यमाप्नोति तत् फलम् ॥ १६८ ॥

13.169

श्लोक

जन्मकोटिं मखैर् यष्टैर् न मुक्तिर्जायते नृणाम् । द्वादशी-जागरेणैव मुक्तिं गच्छति मानवः ॥ १६९ ॥

13.170

श्लोक

सर्वपापविशुद्धात्मा लभते वैष्णवं पदम् । सर्वे दुष्टाः समास्तस्य सौम्यास्तस्य सदा ग्रहाः । यः पठेज्जागरे विष्णोर्माहात्म्यं द्वादशीषु च ॥ १७० ॥

13.171

श्लोक

दष्टाः कलिभुजङ्गेन स्वपन्ति मधुहादिने । कुर्वन्ति जागरं नैव मायापाशविमोहिताः ॥ १७१ ॥

13.172

श्लोक

प्राप्ताप्येकादशी येषां कलौ जागरणं विना । ते विनष्टा न सन्देहस्तस्माज्जीवनमध्रुवम् ॥ १७२ ॥

13.173

श्लोक

अश्वमेधसहस्रस्य वाजपेयायुतस्य च । न पुण्यं कोटिगुणं गौरि विष्णोर्जागरणे कृते ॥ १७३ ॥

13.174

श्लोक

पितृपक्षे मातृपक्षे भार्यापक्षे च भामिनि । कुलमुद्धरते चैतत् कृते जागरणे हरेः ॥ १७४ ॥

13.175

श्लोक

अविद्धवासरे विष्णोर्ये कुर्वन्ति प्रजागरम् । तेषां मध्ये प्रहृष्टः सन् नृत्यं प्रकुरुते हरिः ॥ १७५ ॥

13.176

श्लोक

यावद्दिनानि कुरुते जागरं केशवाग्रतः । युगायुतानि तावन्ति वसते विष्णुवेश्मनि ॥ १७६ ॥

13.177

श्लोक

यावद्दिनानि वसते विना जागरणं हरेः । नृत्यन्त्युद्धृतशस्त्राश् च तद्गृहे यमकिङ्कराः ॥ १७७ ॥

13.178

श्लोक

जागरे वासुदेवस्य पुराणं पठतीह यः । प्राप्नोत्यभिमतान् कामान् प्रेतत्वं नैव जायते ॥ १७८ ॥

13.179

श्लोक

यः पुनः कुरुते गीतं नृत्यं जागरणे हरेः । ब्राह्म्यं पदं मदीयं च सत्यं वै तस्य वैष्णवम् ॥ १७९ ॥

13.180

श्लोक

यः प्रबोधयते लोकान् विष्णुजागरणे ततः । वसेच्चिरन्तु वैकुण्ठे पितृभिः सह वैष्णवः ॥ १८० ॥

13.181

श्लोक

मतिं प्रयक्छते यस्तु हरेर्जागरणं प्रति । षष्टिवर्षसहस्राणि श्वेतद्वीपे वसेन्नरः ॥ १८१ ॥

13.182

श्लोक

यत् किञ्चित् क्रियते पापं कोटिजन्मानि मानवैः । कृष्णस्य जागरे सर्वं रात्रौ दहति पार्वति ॥ १८२ ॥

13.183

श्लोक

शालग्रामशिलाग्रे तु ये कुर्वन्ति हि जागरम् । यामे यामे फलं प्रोक्तं कोट्यन्दवसमुद्भवम् ॥ १८३ ॥

13.184

श्लोक

का आर्थसम्पदः पुत्राः कीर्तिर्लोकश् च शाश्वतः । यज्ञायुतैर् न लभ्येत द्वादशीजागरं विना ॥ १८४ ॥

13.185

श्लोक

यावत् पदानि कुरुते केशवायतनं प्रति । अश्वमेधसमानि स्युर्जागरार्थं प्रगच्छतः ॥ १८५ ॥

13.186

श्लोक

पादयोः पतितं यावद्धरण्यां पांशु गच्छतः । तावद्वर्षसहस्राणि जागरी वसते दिवि ॥ १८६ ॥

13.187

श्लोक

तस्माद्गृहात् प्रगन्तव्यं जागरे माघवालयम् । कलौ मलविनाशाय द्वादशी-द्वादशीषु च ॥ १८७ ॥

13.188

श्लोक

किं व्रतर्बहुभिश्चीर्णैस्तीर्थवासेन तस्य किम् । द्वादशीवासरे प्राप्ते न कर्याजागरं यदि ॥ १८८ ॥

13.189

श्लोक

प्रवासे न त्यजेद्यस्तु पथि खिन्नोऽपि पार्वति । जागरं वासुदेवस्य स हि मेऽतिप्रियो नरः ॥ १८९ ॥

13.190

श्लोक

यः पुनः सुस्थचित्तोऽपि स्वस्थाने वसतेऽपि सन् । न हरेर्जागरं कुर्यात् तेन कार्यं न मे क्वचित् ॥ १९० ॥

13.191

श्लोक

मद्भक्तो न हरेः कुर्याज्जागरं पापमोहितः । व्यर्थं मत्पूजनं तस्य मत्पूज्यं यो न पूजयेत् ॥ १९१ ॥

13.192

श्लोक

सवाह्याभ्यन्तरं देहं वेष्टितं पापकोटिभिः । मुच्यते वासरे विष्णोर्जागरे नृत्यतां निशि ॥ १९२ ॥

13.193

श्लोक

प्राप्ते कलियुगे घोरे नरास्ते त्रिदशैः समाः । विशल्ये वासरे विष्णोर्ये कुर्वन्ति हि जागरम् ॥ १९३ ॥

13.194

श्लोक

कूर्परं यमदूतानां दत्तं तेन यमस्य च । कृत्वा जागरणं विष्णोरविद्धद्वादशीव्रतम् ॥ १९४ ॥

13.195

श्लोक

द्वादश्यां जागरे विष्णोर्यैः कृतं पुष्पमण्डपम् । प्रतिपुष्पफल तेषां वाजिमेधसमं प्रिये ॥ १९५ ॥

13.196

श्लोक

द्वादश्यां कृष्णभवनं कदलोस्तम्भशोभितम् । ये कुर्वन्ति हरिस्तेषां स्वकीयं यच्छते पदम् ॥ १९६ ॥

13.197

श्लोक

दीपदानं प्रकुर्वन्ति जागरे केशवस्य हि । ते ध्वस्ततिमिरा गौरि यान्ति विष्णोः परं पदम् ॥ १९७ ॥

13.198

श्लोक

ब्राह्मणाः क्षत्रिया वैश्याः स्त्रियः शूद्राश् च जागरे । हीनवर्णा अन्त्यजाश् च राक्षसा दैत्यदानवाः । प्राप्तास्ते परम स्थानं श्रीविष्णोर्जागरे कृते ॥ १९८ ॥

13.199

श्लोक

अप्रेरितः स्वयं भक्त्या गीतं नृत्यं करोति यः । जागरे पद्मनाभस्य स किं नाकृत मानवः ॥ १९९ ॥

13.200

श्लोक

यो नृत्यति प्रहृष्टात्मा कृत्वा वै करताडनम् । गीतं कुर्वन् मुखेनापि दर्शयन् कौतुकान् बहूः ॥ २०० ॥