Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ९

महा-प्रसादः

9.201

श्लोक

शत्रुघ्नं च सुपुण्यं च श्री-करं रोग-नाशनम् । कृत्वा धर्मम् अवाप्नोति शिरसा तुलसी-दलम् ॥ २०१ ॥

9.202

श्लोक

यः कश्चिद् वैष्णवो लोके मिथ्याचारोऽप्य् अनाश्रमी । पुनाति सकलान् लोकान् शिरसा तुलसीं वहन् ॥ २०२ ॥

9.203

श्लोक

कर्णेन धारयेद् यस् तु तुलसीं सततं नरः । तत्-काष्ठं वापि राजेन्द्र तस्य नास्त्य् उपपातकम् ॥ २०३ ॥

9.204

श्लोक

कस्माद् इति न जानीमस् तुलस्या हि प्रियो हरिः । गच्छन्तं तुलसी-हस्तम् रक्षण्न् एवनुगच्छति ॥ २०४ ॥

9.205

श्लोक

यः कृत्वा तुलसी-पत्रम् शिरसा विष्णु-तत्-परः । करोति धर्म-कार्याणि फलम् आप्नोति चाक्षयम् ॥ २०५ ॥

9.206

श्लोक

मुखे तु तुलसी-पत्रम् दृष्ट्वा शिरसि कर्णयोः । कुरुते भस्करिस् तस्य दुष्कृतस्य तु मार्जनम् ॥ २०६ ॥

9.207

श्लोक

त्रि-कालं विनता-पुत्र प्राशयेत् तुलसीं यदि विशिष्यते । काय-शुद्धिश् चान्द्रायण-शतं विना ॥ २०७ ॥

9.208

श्लोक

चान्द्रायणत् तप्त-कृच्छ्रात् ब्रह्म-कूर्चात् कुशोदकात् । विशिष्यते काय-शुद्धिस् तुलसी-पत्र-भक्षणात् ॥ २०८ ॥

9.209

श्लोक

तथा च तुलसी-पत्र-भक्षणाद् भाव-वर्जितः । पापोऽपि सद्-गतिं प्राप्त इत्य् एतद् अपि विश्रुतम् ॥ २०९ ॥

9.210

श्लोक

क्षीराब्धौ मथ्यमाने हि तुलसी काम-रूपिणी । उत्पादिता महा-भाग लोकोद्धारण-हेतवे ॥ २१० ॥

9.211

श्लोक

यस्याः स्मरण-मात्रेण दर्शनात् कीर्तनाद् अपि । विलयं यान्ति पापानि किं पुनर् विष्णु-पूजनात् ॥ २११ ॥

9.212

श्लोक

जात-रूप-मयं पुष्पम् पद्मराग-मयं शुभम् । हित्वा तु रत्न-जातानि गृह्णाति तुलसी-दलम् ॥ २१२ ॥

9.213

श्लोक

भक्षितं लुब्धकेनापि पत्रं तुलसी-सम्भवम् । पश्चाद् दिष्टान्तम् आपन्नो भस्मीभूतं कलेवरम् ॥ २१३ ॥

9.214

श्लोक

सितासितं यथा नीरं सर्व-पाप-क्षयावहम् । तथा च तुलसी-पत्रम् प्राशितं सर्व-काम-दम् ॥ २१४ ॥

9.215

श्लोक

यथा जात-बलो वह्निर् दहते काननादिकम् । प्राशितं तुलसी-पत्रं यथा दहति पातकम् ॥ २१५ ॥

9.216

श्लोक

यथा भक्ति-रतो नित्यं नरो दहति पातकम् । तुलसी-भक्षणात् तत् तद् दहते पाप-सञ्चयम् ॥ २१६ ॥

9.217

श्लोक

चान्द्रायण-सहस्रस्य परकाणां शतस्य च । न तुल्यं जायते पुण्यं तुलसी-पत्र-भक्षणात् ॥ २१७ ॥

9.218

श्लोक

कृत्वा पाप-सहस्राणि पूर्वे वयसि मानवः । तुलसी-भक्षणान् मुच्येत् श्रुतम् एतत् पुरा हरेः ॥ २१८ ॥

9.219

श्लोक

तावत् तिष्ठन्ति पापानि देहिनां यम-किङ्कराः । यावन् न तुलसी-पत्रं मुखे शिरसि तिष्ठति ॥ २१९ ॥

9.220

श्लोक

अमृताद् उत्थिता धात्री तुलसी विष्णु-वल्लभा । स्मृता सङ्कीर्तिता ध्याता प्राशिता सर्व-काम-दा ॥ २२० ॥

9.221

श्लोक

धात्री-फलं च तुलसी मृत्यु-काले भवेद् यदि । मुखे यस्य शिरे देहे दुर्गतिर् नास्ति तस्य वै ॥ २२१ ॥

9.222

श्लोक

युक्तो यदि महा-पापैः सुकृतं नार्जितं क्वचित् । तथापि दीयते मोक्षस् तुलसी भक्षिता यदि ॥ २२२ ॥

9.223

श्लोक

लुब्धकेनात्म-देहेन भक्षितं तुलसी-दलम् । सम्प्राप्तो मत्-पदं नूनं कृत्वा प्राणस्य संक्षयम् ॥ २२३ ॥

9.224

श्लोक

उपोष्य द्वादशीं शुद्धां पराणे तुलसी-दलम् । प्राशयेद् यदि विप्रेन्द्र अश्वमेधाष्टकं लभेत् ॥ २२४ ॥

9.225

श्लोक

तथैव तुलसी-स्पर्सत् कृष्ण-चक्रेण रक्षितः । ब्रह्म-बन्धुर् इति ख्यातो हरि-भक्ति-सुधोदये ॥ २२५ ॥

9.226

श्लोक

मृत्स्नापि कृत्स्नाघ-विनाशनाय ॥ २२६ ॥

9.227

श्लोक

श्रीमत्-तुलस्याः पत्रस्य माहात्म्यं यद्य् अपीदृशम् । तथापि वैष्णवैस् तन् न ग्राह्यं कृष्णार्पणं विना ॥ २२७ ॥

9.228

श्लोक

कृष्ण-प्रियत्वात् सर्वत्र श्री-तुलस्याः प्रसङ्गतः । सङ्कीर्त्यमानं धात्र्याश् च माहात्म्यं लिख्यते ऽधुना ॥ २२८ ॥

9.229

श्लोक

धात्री-च्छायां समाश्रित्य योऽर्चयेच् चक्र-पाणिनाम् । पुष्पे पुष्पे ऽश्वमेधस्य फलं प्राप्नोति मानवः ॥ २२९ ॥

9.230

श्लोक

धात्री-च्छायां तु संस्पृश्य कुर्यात् पिण्डं तु यो मुने । मुक्तिं प्रयान्ति पितरः प्रसादान् माधवस्य च ॥ २३० ॥

9.231

श्लोक

मूर्ध्नि घ्राणे मुखे चैव देहे च मुनि-सत्तम । धत्ते धात्री-फलं यस् तु स महात्मा सु-दुर्लभः ॥ २३१ ॥

9.232

श्लोक

धात्री-फल-विलिप्ताङ्गो धात्री-फल-विभूषितः । धात्री-फल-कृताहारो नरो नारायणो भवेत् ॥ २३२ ॥

9.233

श्लोक

यः कश्चिद् वैष्णवो लोके धत्ते धात्री-फलं मुने । प्रियो भवति देवानां मनुष्याणां तु का कथा ॥ २३३ ॥

9.234

श्लोक

यः कश्चिद् वैष्णवो लोके मिथ्याचारोऽपि दुष्ट-धीः । पुनाति सकलान् लोकान् धात्री-फल-दलान्वितः ॥ २३४ ॥

9.235

श्लोक

धात्री-फलानि यो नित्यं वहते कर-सम्पुटे । तस्य नारायणो देवो वरम् एकं प्रयच्छति ॥ २३५ ॥

9.236

श्लोक

धत्री-फलं च भोक्तव्यं कदाचित् कर-सम्पुटात् । यशः श्रियम् अवाप्नोति प्रसादाच् चक्र-पाणिनः ॥ २३६ ॥

9.237

श्लोक

धात्री-फलं च तुलसी मृत्तिका द्वारकोद्भवा । सफलं जीवितं तस्य त्रितयं यस्य वेश्मनि ॥ २३७ ॥

9.238

श्लोक

धात्री-फलैस् तु संमिश्रं तुलसी-दल-वासितम् । पिबते वहते यस् तु तीर्थ-कोटि-फलं लभेत् ॥ २३८ ॥

9.239

श्लोक

यस्मिन् गृहे भवेत् तोयं तुलसी-दल-वासितम् । धात्री-फलैश् च विप्रेन्द्र गाङ्गेयैः किं प्रयोजनम् ॥ २३९ ॥

9.240

श्लोक

तुलसी-दल-नैवेद्यं धात्र्या यस्य फलं गृहे । कवचं वैष्णवं तस्य सर्व-पाप-विनाशनम् ॥ २४० ॥

9.241

श्लोक

धात्री-फलानि तुलसी ह्य् अन्त-काले भवेद् यदि । मुखे चैव शिरस्य् अङ्गे पातकं नास्ति तस्य वै ॥ २४१ ॥

9.242

श्लोक

कृत्वा तु भगवत्-पूजां न तीर्थं स्नानम् आचरेत् । न च देवालयोपेतास्पृश्य-संस्पर्शनादिना ॥ २४२ ॥

9.243

श्लोक

न स्नायाद् उत्सवे तीर्थे माङ्गल्यं विनिवर्त्य च । अनुव्रज्य सुहृद्-बन्धून् अर्चयित्वेष्ट-देवताम् ॥ २४३ ॥

9.244

श्लोक

विष्ण्व्-आलय-समीप-स्थान् विष्णु-सेवार्थम् आगतान् । चाण्डालान् पतितान् वापि स्पृष्ट्वा न स्नानम् आचरेत् ॥ २४४ ॥

9.245

श्लोक

देव-यत्र-विवाहेषु यज्ञोपकरणेषु च । उत्सवेषु च सर्वेषु स्पृष्टास्पृष्टिर् न विद्यते ॥ २४५ ॥

9.246

श्लोक

एवं प्रातः समभ्यर्च्य श्री-कृष्णं तद्-अनन्तरम् । शास्त्राभ्यासं द्विजः शक्त्या कुर्याद् विप्रो विशेषतः ॥ २४६ ॥

9.247

श्लोक

श्रुति-स्मृती उभे नेत्रे विप्राणं परिकीर्तिते । एकेन विकलः काणो द्वाभ्याम् अन्धः प्रकीर्तितः ॥ २४७ ॥

9.248

श्लोक

योऽन्यत्र कुरुते यत्नं अनाधीत्य श्रुतिं द्विजः । स समूढो न सम्भाष्यो वेद-बाह्यो द्विजातिभिः ॥ २४८ ॥

9.249

श्लोक

न वेद-पथ-मात्रेण सन्तुस्येद् एस वै द्विजः । यथोक्ताचार-हिनस् तु पङ्के गौर् इव सिदति ॥ २४९ ॥

9.250

श्लोक

योऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् । स चान्धः शूद्र-कल्पस् तु पदार्थं न प्रपद्यते ॥ २५० ॥

9.251

श्लोक

अतोऽधीत्यान्वहं विद्वान् अथाध्याप्य च वैष्णवः । समर्प्य तच् च कृष्णाय यतेत निज-वृत्तये ॥ २५१ ॥

9.252

श्लोक

वृत्तौ सत्यां च शृणुयात् साधून् सङ्गत्य सत्-कथाम् ॥ २५२ ॥

9.253

श्लोक

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा । सत्यान्र्ताभ्याम् अपि वा न स्व-वृत्त्या कदाचन ॥ २५३ ॥

9.254

श्लोक

ऋतम् उञ्छ-शिलं प्रोक्तं अमृतं स्याद् अयाचितम् । मृतं तु नित्यं याच्ञा स्यात् प्रमृतं कर्षणं स्मृतम् ॥ २५४ ॥

9.255

श्लोक

सत्यानृतं तु वाणिज्यं श्व-वृत्तिर् नीच-सेवनम् ॥ २५५ ॥

9.256

श्लोक

आत्मनो नीच-लोकानां सेवनं वृत्ति-सिद्धये । नितरां निन्द्यते सद्भिर् वैष्णवस्य विशेषतः ॥ २५६ ॥

9.257

श्लोक

सेवा श्व-वृत्तिर् यैर् उक्ता न सम्यक् तैर् उदाहृतम् । स्वच्छन्द-चरितः क्व श्वा विक्रीतासुः क्व सेवकः ॥ २५७ ॥

9.258

श्लोक

पणी-कृत्यात्मनः प्राणान् ये वर्तन्ते द्विजाधमाः । तेषां दुरात्मनाम् अन्नं भुक्त्वा चान्द्रायणं चरेत् ॥ २५८ ॥

9.259

श्लोक

शुक्ल-वृत्तेर् असिद्धौ च भोज्यान्नान् शूद्र-वर्गतः । तथैव ग्राह्याग्राह्याणि जानीयाच् छास्त्रतो बुधः ॥ २५९ ॥

9.260

श्लोक

प्रतिग्रहेण यल् लब्धं यज्यतः शिष्यतस् तथा । गुनान्वितेभ्यो विप्रस्य शुक्लं तत् त्रि-विधं स्मृतम् ॥ २६० ॥

9.261

श्लोक

युद्धोपकाराल् लब्धं च दण्डाच् च व्यवहारतः । क्षत्रियस्य धनं शुक्लं त्रि-विधं परिकीर्तितम् ॥ २६१ ॥

9.262

श्लोक

कृषि-वाणिज्य-गो-रक्षः कृत्वा शुक्लं तथा विशः । द्विज-शुश्रूषया लब्धं शुक्लं शूद्रस्य कीर्तितम् ॥ २६२ ॥

9.263

श्लोक

क्रमागतं प्रीति-दानं प्राप्तं च सह भार्यया । अविशेषेन सर्वेषां धनं शुक्लं प्रकीर्तितम् ॥ २६३ ॥

9.264

श्लोक

नाद्याच् छूद्रस्य विप्रोऽन्नं मोहाद् वा यदि कामतः । न शूद्र-योनिं व्रजति यस् तु भुङ्क्ते ह्य् अनापदि ॥ २६४ ॥

9.265

श्लोक

दुष्कृतं हि मनुष्यस्य सर्वम् अन्ने प्रतिष्ठितम् । यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम् ॥ २६५ ॥

9.266

श्लोक

आर्धिकः कुल-मित्रश् च स्व-गोपालश् च नापितः । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्प-पणं बुधैः ॥ २६६ ॥

9.267

श्लोक

पायसं स्नेह-पक्वं यद् गो-रसं चैव शक्तवः । पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं तथैव च ॥ २६७ ॥

9.268

श्लोक

गो-रसं चैव शक्तूंश् च तैल-पिण्याकम् एव च । अपूपान् भक्षयेच् छूद्रात् यत् किञ्चित् पयसा कृतम् ॥ २६८ ॥

9.269

श्लोक

स्व-सुतायाश् च यो भुङ्क्ते स भुङ्क्ते पृथिवी-मलम् । नरेन्द्र-भवने भुक्त्वा विष्ठायां जायते कृमिः ॥ २६९ ॥

9.270

श्लोक

दास-नापित-गोपाल- कुल-मित्रार्ध-सीरिणः । भोज्यान्नाः शूद्र-वर्गे ऽमी तथात्म-विनिवेदकः ॥ २७० ॥

9.271

श्लोक

मधूदकं फलं मूलम् एधांस्य्-अभय-दक्षिणा । अभ्युद्यतानि त्व् एतानि ग्राह्याण्य् अपि निकृष्टतः ॥ २७१ ॥

9.272

श्लोक

खल-क्षेत्र-गतं धन्यं कूप-वापिसु यज् जलम् । अग्राह्याद् अपि तद्-ग्राह्यं यच् च गोष्ठ-गतं पयः ॥ २७२ ॥

9.273

श्लोक

पानीयं पायसं भक्ष्यं घृतं लवणम् एव च । हस्त-दत्तं न गृह्णीयात् तुल्यं गो-मांस-भक्षणैः ॥ २७३ ॥

9.274

श्लोक

समुद्रं सैन्धवं चैव लवणे परमाद्भुते । प्रत्यक्षे अपि तु ग्राह्ये निषेधस् त्व् अन्य-गोचरः ॥ २७४ ॥

9.275

श्लोक

आयसेनैव पात्रेण यद् अन्नम् उपनीयते । भोक्ता तद् विट्-समं भुङ्क्ते दाता च नरकं व्रजेत् ॥ २७५ ॥

9.276

श्लोक

गो-रक्षकान् वाणिजकान् तथा कारुक-शीलिनः । प्रोष्यान् वार्धूषिकांश् चैव विप्रान् शूद्रवद् आचरेत् ॥ २७६ ॥

9.277

श्लोक

तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेर् बुधः । धर्मार्थं केवलं विप्र ह्य् अन्यथा पतितो भवेत् ॥ २७७ ॥

9.278

श्लोक

तिल-मुद्ग-यवादीनां मुष्टिर् ग्राह्या पथि स्थितैः । क्षुधार्थैर् नान्यथा विप्र धर्म-विद्भिर् इति स्थितिः ॥ २७८ ॥

9.279

श्लोक

वैष्णवानां हि भोक्तव्यं प्रार्थ्यान्नं वैष्णवैः सदा । अवैष्णवानाम् अन्नं तु परिवर्ज्यम् अमेध्यवत् ॥ २७९ ॥

9.280

श्लोक

प्रार्थयेद् वैष्णवाद् अन्नं प्रयत्नेन विचक्षणः । सर्व-पाप-विशुध्य्-अर्थं तद्-अभावे जलं पिबेत् ॥ २८० ॥

9.281

श्लोक

महा-पातक-संयुक्तो व्रजेद् वैष्णव-मन्दिरम् । याचयेद् अन्नम् अमृतं तद्-अभावे जलं पिबेत् ॥ २८१ ॥

9.282

श्लोक

श्रोत्रियान्नं वैष्णवान्नं हुत-शेषं च यद्-धविः । आनखात् शोधयेत् पापं तुषाग्निः कनकं यथा ॥ २८२ ॥

9.283

श्लोक

शुद्धं भागवतस्यान्नं शुद्धं भगीरथि-जलम् । शुद्धं विष्णु-परं चित्तं शुद्धम् एकादशी-व्रतम् ॥ २८३ ॥

9.284

श्लोक

अवैष्णव-गृहे भुक्त्वा पीत्वा वा जानतोऽपि वा । शुद्धिश् चान्द्रायणे प्रोक्त इष्टापूर्तं वृथा सदा ॥ २८४ ॥

9.285

श्लोक

केशवार्चा गृहे यस्य न तिष्ठति मही-पते । तस्यान्नं नैव भोक्तव्यम् अभक्ष्येण समं स्मृतम् ॥ २८५ ॥

9.286

श्लोक

केचिद् वृत्त्य्-अनपेक्षस्य जप-श्रद्धावतः प्रभो । विश्वस्तस्यादिशन्त्य् अस्मिन् काले ऽपि कृतिनो जपम् ॥ २८६ ॥

9.287

श्लोक

मध्याह्ने स्नानतः पूर्वं पुष्पाद्य् आहृत्य वा स्वयम् । भृत्यादिना वा सम्पाद्य कुर्यान् मध्याह्निकीः क्रियाः ॥ २८७ ॥

9.288

श्लोक

स्नानाशक्तौ च मध्याह्ने स्नानम् आचार्य मान्त्रिकम् । यथोक्तं भगवत्-पूजां शक्तश् चेत् प्राग्वद् आचरेत् ॥ २८८ ॥

9.289

श्लोक

ततः कृष्णार्पितेनैव शुद्धेनानेन वैष्णवः । वैश्वदेवादिकं दैवं कर्म पैत्रं च साधयेत् ॥ २८९ ॥

9.290

श्लोक

तद् उक्तं षष्ठे दिन-विभागे तु कुर्यात् पञ्च महा-मखान् । दैवो होमेन यज्ञः स्यात् भौतस् तु बलि-दानतह् ॥ २९० ॥

9.291

श्लोक

पैत्रो विप्रान्न-दानेन पैत्रेण बलिनाथवा । किञ्चिद् अन्न-प्रदानाद् वा तर्पणाद् वा चतुर्-विधः ॥ २९१ ॥

9.292

श्लोक

नृ-यज्ञोऽतिथि-सत्कारात् हन्त-कारेण चाम्बुना । ब्रह्म-यज्ञो वेद-जपात् पुराण-पठनेन वा ॥ २९२ ॥

9.293

श्लोक

अकृत्वा तु द्विजः पञ्च महा-यज्ञान् द्विजोत्तमः । भुञ्जीत चेत् सु-मूढात्मा तिर्यग्-योनिं स गच्छति ॥ २९३ ॥

9.294

श्लोक

प्राप्ते श्राद्ध-दिने ऽपि प्राग् अन्नं भगवते ऽर्पयेत् । तच्-छेषेणैव कुर्वीत श्राद्धं भागवतो नरह् ॥ २९४ ॥

9.295

श्लोक

गृहाग्नि-शिषु-देवानां यतीनां ब्रह्माचारिणाम् । पितृ-पाको न दातव्यो यावत् पिण्डान् न निर्वपेत् ॥ २९५ ॥

9.296

श्लोक

ईदृण् सामान्य-वचनम् विशेष-वचन-व्रजैह् । श्रुति-स्मृति-पुराणादि- वर्त्तिभिर् बाध्यते ध्रुवम् ॥ २९६ ॥

9.297

श्लोक

विष्णोर् निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभ्यश् चापि तद् देयम् तद् आनन्त्याय कल्पते ॥ २९७ ॥

9.298

श्लोक

सात्वतं विधिम् आस्थाय प्राण् सूर्य-मुख-निसृतम् । पूजायाम् आस देवेशं तच्-छेषेण पितामहान् ॥ २९८ ॥

9.299

श्लोक

आकल्प-कोटिं पितरः सु-तृप्ताः ॥ २९९ ॥

9.300

श्लोक

देवान् पितॄन् समुद्दिश्य यद् विष्णोर् विनिवेदितम् । तान् उद्दिश्य तथा कुर्यात् प्रदानं तस्य चैव हि ॥ ३०० ॥