Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास ६

स्नापनिकः

6.301

श्लोक

विलेपयन्ति देवेशं शङ्खे कृत्वा तु चन्दनम् । परमात्मा परां प्रीतिं करोति शत्वार्षिकीम् ॥ ३०१ ॥

6.302

श्लोक

तुलसी-दल-लग्नेन चन्दनेन जनार्दनम् । विलेपयन्ति यो नित्यं लभते वाञ्छितं फलम् ॥ ३०२ ॥

6.303

श्लोक

कुङ्कुमागुरु-श्रीखण्ड-कर्दमैर् अच्युताकृतिम् । विलिप्य भक्त्या राजेन्द्र कल्प-कोटिं वसेद् दिवि ॥ ३०३ ॥

6.304

श्लोक

चन्दनागुरु-कर्पूर-कुङ्कुमोशीर-पद्मकैः । अनुलिप्तो हरिर् भक्त्या वरान् भोगान् प्रयच्छति ॥ ३०४ ॥

6.305

श्लोक

कालेयकं तुरुष्कं च रक्त-चन्दनम् उत्तमम् ॥ ३०५ ॥

6.306

श्लोक

नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तम ॥ ३०६ ॥

6.307

श्लोक

चन्दनेनानुलेप्यैनं चन्द्र-लोक अवाप्नुयात् । शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥ ३०७ ॥

6.308

श्लोक

कुङ्कुमेनानुलेप्यैनं सूर्य-लोके महीयते । सौभाग्यम् उत्तमं लोके तथा प्राप्नोति मानवः ॥ ३०८ ॥

6.309

श्लोक

कर्पूरेणानुल्पियैनं वारुणं लोकम् आप्नुयात् । शारीरैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥ ३०९ ॥

6.310

श्लोक

दत्त्वा मृगमदं मुख्यं यशसा च विराजते । दत्त्वा जात-फल-क्षोदं क्रिया-साफल्यम् अश्नुते ॥ ३१० ॥

6.311

श्लोक

रम्येणागुरु-सारेण अनुलिप्य जनार्दनम् । सौभाग्यम् अतुलं लोके बलं प्राप्नोति चोत्तमम् ॥ ३११ ॥

6.312

श्लोक

तथा बकुल-निर्यासैर् अग्निष्टोम-फलं लभेत् । बकुलागुरु-मिश्रेण चन्दनेन सुगन्धिना । समालिप्य जगन्नाथं पुण्डरीक-फलं लभेत् ॥ ३१२ ॥

6.313

श्लोक

एकीकृत्य तु सर्वाणि समालिप्य जनार्दनम् । अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्य् असंशयम् ॥ ३१३ ॥

6.314

श्लोक

योऽनुलिम्पेत देवेशं कीर्तितैर् अनुलेपनैः । पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै ॥ ३१४ ॥

6.315

श्लोक

तावद् अब्दानि लोकेषु कामचारी भवत्य् असौ । केश-सौगन्ध्य-जननं कृत्वा मृगमदं नरः ॥ ३१५ ॥

6.316

श्लोक

सर्व-काम-समृद्धस्य यज्ञस्य फलम् अश्नुते ॥ ३१६ ॥

6.317

श्लोक

यः प्रयच्छति गन्धानि गन्ध-युक्ती-कृतानि च । गन्धर्वत्वं ध्रुवं तस्य सौभाग्यं तथोत्तमम् ॥ ३१७ ॥

6.318

श्लोक

यो ददाति हरेर् नित्यं तुलसी-काष्ठ-चन्दनम् । युगानि वसते स्वर्गे ह्य् अनन्तानि नरोत्तम ॥ ३१८ ॥

6.319

श्लोक

महा-विष्णौ कलौ भक्त्या दत्त्वा तुलसी-चन्दनम् । योऽर्चयेन् मालती-पुष्पैर् न भूय-स्तनपो भवेत् ॥ ३१९ ॥

6.320

श्लोक

तुलसी-काष्ठ-सम्भूतं चन्दनम् यच्छतो हरेः । निर्दहेत् पातकं सर्वं पूर्व-जन्म-शतैः कृतम् ॥ ३२० ॥

6.321

श्लोक

सर्वेषाम् अपि देवानां तुलसी-काष्ठ-चन्दनम् । पितॄणां च विशेषेण सदाभीष्टं हरेर् यथा ॥ ३२१ ॥

6.322

श्लोक

मृत्यु-काले तु सम्प्राप्ते तुलसी-काष्ठ-चन्दनम् । भवते यस्य देहे तु हरिर् भूत्वा हरिं व्रजेत् ॥ ३२२ ॥

6.323

श्लोक

तावन् मलय-जं विष्णोर् भाति कृष्णागुरुर् नृप । यावन् न दृश्यते पुण्यं तुलसी-काष्ठ-चन्दनम् ॥ ३२३ ॥

6.324

श्लोक

तावत् कस्तूरिकामोदः कर्पूरस्य सुगन्धिना । यावन् न दीयते विष्णोस् तुलसी-काष्ठ-चन्दनम् ॥ ३२४ ॥

6.325

श्लोक

कलौ यच्छन्ति ये विष्णौ तुलसी-काष्ठ-चन्दनम् । धुन्धुमार न वै मर्त्याः पुनर् आयान्ति ते भुवि ॥ ३२५ ॥

6.326

श्लोक

यो हि भागवतो भूत्वा कलौ तुलसी-चन्दनम् । नार्पयति सदा विष्णोर् न स भागवतो नरः ॥ ३२६ ॥

6.327

श्लोक

न तेन सदृशो लोके वैष्णवो विद्यते भुवि । यः प्रयच्छति कृष्णाय तुलसी-काष्ठ-चन्दनम् ॥ ३२७ ॥

6.328

श्लोक

तुलसी-दारु-जातेन चन्दनेन कलौ नरः । विलिप्य भक्तितो विष्णुं रमते सन्निधौ हरेः ॥ ३२८ ॥

6.329

श्लोक

। तुलसी-काष्ठ-जातेन चन्दनेन विलेपनम् । यः कुर्याद् विष्णु-तोषाय कपिलागो-फलं लभेत् ॥ ३२९ ॥

6.330

श्लोक

तुलसी-काष्ठ-सम्भूतं चन्दनं यस् तु सेवते । मृत्यु-काले विशेषेण कृत-पापोऽपि मुच्यते ॥ ३३० ॥

6.331

श्लोक

यो ददाति पितॄणां तु तुलसी-काष्ठ-चन्दनम् । तेषां स कुरुते तृप्तिं श्राद्धे वै शतवार्षिकीम् ॥ ३३१ ॥

6.332

श्लोक

तुलसी-चन्दनाक्ताङ्गः कुरुते कृष्ण-पूजनम् । पूजनेन दिनैकेन लभते शत-वार्षिकीम् ॥ ३३२ ॥

6.333

श्लोक

विलेपनार्थं कृष्णस्य तुलसी-काष्ठ-चन्दनम् । मन्दिरे वसते यस्य तस्य पुण्य-फलं शृणु ॥ ३३३ ॥

6.334

श्लोक

तिल-प्रस्थाष्टकं दत्त्वा यत् पुण्यं चोत्तरायणे । तत् तुल्यं जायते पुण्यं प्रसादाच् चक्र-पाणिनः ॥ ३३४ ॥

6.335

श्लोक

देयं मलयजाभावे शीतलत्वात् कदम्बजम् । यथा किञ्चित् सुगन्धित्वाच् चन्दनं देव-दारुजम् ॥ ३३५ ॥

6.336

श्लोक

हरेर् मलयजं श्रेष्ठम् अभावे देवदारुजम् ॥ ३३६ ॥

6.337

श्लोक

दारिद्र्यं पद्मकं कुर्याद् अस्वास्थ्यं रक्त-चन्दनम् । उशीरं चित्त-विभ्रंशम् अन्ये कुर्युर् उपद्रवम् ॥ ३३७ ॥

6.338

श्लोक

पद्मकादि न दातव्यम् ऐहिकं हीच्छता सुखम् ।मुख्यालाभे तु तत् सर्वं दातव्यं भगवत्-परैः ॥ ३३८ ॥

6.339

श्लोक

ततो भगवतः कुर्याद् अनुलेपाद् अनन्तरम् । विद्वान् विचित्रैर् व्यजनैश् चामरैर् अपि वीजनम् ॥ ३३९ ॥

6.340

श्लोक

अनुलिप्य जगन्नाथं ताल-वृन्तेन वीजयेत् । वायु-लोकम् अवाप्नोति पुरुषस् तेन कर्मणा ॥ ३४० ॥

6.341

श्लोक

चामरैर् वीजयेद् यस् तु देवदेवं जनार्दनम् । तिल-प्रस्थ-प्रदानस्य फलम् आप्नोत्य् असंशयम् ॥ ३४१ ॥

6.342

श्लोक

व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वन । देवदेवस्य राजेन्द्र कुरुते ताप-वारणम् ॥ ३४२ ॥

6.343

श्लोक

तत्-कुले यम-लोके तु शमते नारको दरः । वायु-लोकान् महीपाल न च्युतिर् विद्यते पुनः ॥ ३४३ ॥

6.344

श्लोक

चलच्-चामर-वातेन कृष्णं सन्तोषयेन् नरः ॥ ३४४ ॥

6.345

श्लोक

तस्योत्तमाङ्गं देवेश स्तुवते स्व-मुखेन वै । उष्ण-काले त्व् इदं ज्ञेयं यत् सन्तः पौष-माघयोः । शीतलत्वान् मलयजम् अपि नैवार्पयन्ति हि ॥ ३४५ ॥

6.346

श्लोक

न शीते शीतलं देयम् ॥ ३४६ ॥