Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

विलास १६

श्री-दामोदर-प्रियः

16.101

श्लोक

रवि-ग्रहे कुरुक्षेत्रे नर्मदायां शशि-ग्रहे । तत् फलं कोटि-गुनितं दीप-दानेन कार्त्तिके ॥ १०१ ॥

16.102

श्लोक

घृतेन दीपको यस्य तिल-तैलेन वा पुनः । ज्वलते मुनि-शार्दूल अश्वमेधेन तस्य किम् ॥ १०२ ॥

16.103

श्लोक

मन्त्र-हीनं क्रिया-हीनं सौच-हीनं जनार्दने । सर्वं सम्पूर्णतं याति कार्त्तिके दीप-दानतः ॥ १०३ ॥

16.104

श्लोक

तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् । दीप-दानं कृतं येन कार्त्तिके केशवाग्रतः ॥ १०४ ॥

16.105

श्लोक

तावद् गर्जन्ति पुण्यानि स्वर्गे मर्त्ये रसातले । यावन् न ज्वलते ज्योतिः कार्त्तिके केशवाग्रतः ॥ १०५ ॥

16.106

श्लोक

श्रूयते चापि पितृभिर् गाथा गीता पुरा द्विज । भविष्यति कुलेऽस्माकं पितृ-भक्तः सुतो भुवि ॥ १०६ ॥

16.107

श्लोक

कार्त्तिके दीप-दानेन यस् तोषयति केशवम् । मुक्तिं प्राप्स्यामहे नूनं प्रसादाच् चक्र-पाणिनः ॥ १०७ ॥

16.108

श्लोक

मेरु-मन्दर-मात्राणि कृत्वा पापान्य् अशेषतः । दहते नात्र सन्देहो दीप-दानात् तु कार्त्तिके ॥ १०८ ॥

16.109

श्लोक

गृहे वायतने वापि दीपान् दद्याच् च कार्त्तिके । पुरतो वासुदेवस्य महा-फल-विधायिनः ॥ १०९ ॥

16.110

श्लोक

स जातो मानुषे लोके स धन्यः स च कीर्तिमान् । प्रदत्तः कार्त्तिके मासि दीपो वै मधुहाग्रतः ॥ ११० ॥

16.111

श्लोक

निमिषार्धार्ध-मात्रेण दीप-दानेन कार्त्तिके । न तत् क्रतु-शतैः प्राप्यं फलं तीर्थ-शतैर् अपि ॥ १११ ॥

16.112

श्लोक

सर्वानुष्ठान-हीनोऽपि सर्व-पाप-रतोऽपि सन् । पूयते नात्र सन्देहो दीपं दत्त्वा तु कार्त्तिके ॥ ११२ ॥

16.113

श्लोक

तन् नास्ति पातकं किञ्चित् त्रिषु लोकेषु नारद । यन् न शोधयते दीपः कार्त्तिके केशवाग्रतः ॥ ११३ ॥

16.114

श्लोक

पुरतो वासुदेवस्य दीपं दत्त्वा तु कार्त्तिके । प्राप्नोति शाश्वतं स्थानं सर्व-बाधा-विवर्जितम् ॥ ११४ ॥

16.115

श्लोक

यः कुर्यात् कार्त्तिके मासि कर्पूरेण तु दीपकम् । द्वादश्यां च विशेषेण तस्य पुण्यं वदामि ते ॥ ११५ ॥

16.116

श्लोक

कुले तस्य प्रसूता ये ये भविष्यन्ति नारद । समतिताश् च ये केचिद् येषां सङ्ख्या न विन्दते ॥ ११६ ॥

16.117

श्लोक

क्रीडित्वा सु-चिरं कालं देव-लोके यदृच्छया । ते सर्वे मुक्तिम् आयान्ति प्रसादाच् चक्र-पाणिनः ॥ ११७ ॥

16.118

श्लोक

द्यूत-व्याजेन विप्रेन्द्र कार्त्तिके केशवालयम् । द्योतयेद् यो महा-भाग पुनात्य् आसप्ततं कुलम् ॥ ११८ ॥

16.119

श्लोक

कार्त्तिके दीप-दानं तु कुर्याद् यो वैष्णवालये । धनं पुत्रो यशः कीर्तिर् भवेत् तस्य च सर्वदा ॥ ११९ ॥

16.120

श्लोक

यथा च मथनाद् वह्निः सर्व-काष्ठेषु दृश्यते । तथा च दृश्यते धर्मो दीप-दाने न संशयः ॥ १२० ॥

16.121

श्लोक

निर्धनेनापि विप्रेन्द्र कृत्वा चैवात्म-विक्रयम् । कर्तव्यं दीप-दानं तु यावत् कार्त्तिक-पूर्णिमा ॥ १२१ ॥

16.122

श्लोक

वैष्णवो न स मन्तव्यः सम्प्राप्ते कार्त्तिके मुने । यो न यच्छति मूढात्मा दीपं केशव-सद्मनि ॥ १२२ ॥

16.123

श्लोक

एकतः सर्व-दानानि दीप-दानानि चैकतः । कार्त्तिके न समं प्रोक्तं दीप-दो ह्य् अधिकः स्मृतः ॥ १२३ ॥

16.124

श्लोक

कार्त्तिकेऽखण्ड-दीपं यो ददाति हरि-सन्निधौ । दिव्य-कान्ति-विमानाग्रे रमते स हरेः पुरे ॥ १२४ ॥

16.125

श्लोक

पितृ-पक्षेऽन्न-दानेन ज्यैष्ठाषाढे च वारिणा । कार्त्तिके तत् फलं पुंसां पर-दीप-प्रबोधनात् ॥ १२५ ॥

16.126

श्लोक

बोधनात् पर-दीपस्य वैष्णवानां च सेवनात् । कार्त्तिके फलम् आप्नोति राजसूयाश्वमेधयोः ॥ १२६ ॥

16.127

श्लोक

दीपमानं तु ये दीपं बोधयन्ति हरेर् गृहे । परेण न्र्प-शार्दूल निस्तीर्णा यम-यातना ॥ १२७ ॥

16.128

श्लोक

न तद् भवति विप्रेन्द्र इष्टैर् अपि महा-मखैः । कार्त्तिके यत् फलं प्रोक्तं पर-दीप-प्रबोधनात् ॥ १२८ ॥

16.129

श्लोक

एकादश्यां परैर् दत्तं दीपं प्रज्वल्य मूषिका । मानुष्यं दुर्लभं प्राप्य परां गतिम् अवाप सा ॥ १२९ ॥

16.130

श्लोक

यदा यदा भासयते दीपकः कलसोपरि । तदा तदा मुनि-श्रेष्ठ द्रवते पाप-सञ्चयः ॥ १३० ॥

16.131

श्लोक

यो ददाति द्विजातिभ्यो महीम् उदधि-मेखलाम् । हरेः शिखर-दीपस्य कलां नार्हति षोडशीम् ॥ १३१ ॥

16.132

श्लोक

यो ददाति गवां कोटिं स-वत्सं क्षीर-संयुतम् । हरेः शिखर-दीपस्य कलां नार्हति षोडशीम् ॥ १३२ ॥

16.133

श्लोक

सर्वस्व-दानं कुरुते वैष्णवानां महा-मुने । केशवोपरि दीपस्य कलां नार्हति षोडशीम् ॥ १३३ ॥

16.134

श्लोक

यः करोति परं दीपं मूल्येनापि महा-मुने । शिखरोपरि मध्ये च कुलानां तारयेच् छतम् ॥ १३४ ॥

16.135

श्लोक

विमानं ज्योतिषा दीप्तं ये निरीक्ष्यन्ति कार्त्तिके । केशवस्य महा-भक्त्या कुले तेषां न नारकी ॥ १३५ ॥

16.136

श्लोक

दिवि देवा निरीक्ष्यन्ते विष्णु-दीप-प्रदं नरम् । कदा भविष्यत्य् अस्माकं सङ्गमः पुण्य-कर्मणा ॥ १३६ ॥

16.137

श्लोक

कार्त्तिके कार्त्तिकीं यावत् प्रसादोपरि दीपकम् । यो ददाति मुनि-श्रेष्ठ तस्येन्द्रत्वं न दुर्लभम् ॥ १३७ ॥

16.138

श्लोक

दीप-पङ्क्तेश् च रचनं स-बाह्याभ्यन्तरे हरेः । विष्णोर् विमाने कुरुते स नरः शङ्ख-चक्र-धृक् ॥ १३८ ॥

16.139

श्लोक

दीप-पङ्क्तेश् च रचनं कुरुते केशवालये । तस्यान्वये प्रसूतानां लक्षणं नरकं न हि ॥ १३९ ॥

16.140

श्लोक

विष्णोर् विमानं दीपाढ्यं स-बाह्याभ्यन्तरे मुने । दीपोद्यत-करे मार्गे तेन प्राप्तं परं पदम् ॥ १४० ॥

16.141

श्लोक

यः कुर्यात् कार्त्तिके मासि शोभनं दीप-मालिकाम् । प्रबोधे चैव द्वादश्याम् एकादश्यां विशेषतः ॥ १४१ ॥

16.142

श्लोक

सूर्यायुत-प्रकाशस् तु तेजसा भासयन् दिशः । तेजो-राशि-विमान-स्थो जगद् उद्द्योतयंस् त्विषा ॥ १४२ ॥

16.143

श्लोक

यावत् प्रदीप-सङ्ख्या तु घृतेनापूर्य बोधिता । तावद् वर्ष-सहस्राणि विष्णु-लोके महीयते ॥ १४३ ॥

16.144

श्लोक

उच्चैः प्रदीपम् आकाशे यो दद्यात् कार्त्तिके नरः । सर्वं कुलं समुद्धृत्य विष्णु-लोकम् अवाप्नुयात् ॥ १४४ ॥

16.145

श्लोक

विष्णु-केशवम् उद्दिश्य दीपं दद्यात् तु कार्त्तिके । आकाश-स्थं जल-स्थं च शृणु तस्यापि यत् फलम् ॥ १४५ ॥

16.146

श्लोक

धनं धन्यं समृद्धिश् च पुत्रवान् ईश्वरो ग्र्हे । लोचने च शुभे तस्य विद्वान् अपि च जायते ॥ १४६ ॥

16.147

श्लोक

विप्र-वेश्मनि यो दद्यात् कार्त्तिके मासि दीपकम् । अग्निष्टोम-फलं तस्य प्रवदन्ति मनीषिणः ॥ १४७ ॥

16.148

श्लोक

चतुष्पथेषु रथ्यासु ब्राह्मणावसथेषु च । वृक्ष-मूलेषु गोष्ठेषु कान्तारे गहनेषु च । दीप-दानाद् धि सर्वत्र महा-फलम् अवाप्नुयात् ॥ १४८ ॥

16.149

श्लोक

दामोदराय नभसि तुलायां लोलया सह । प्रदीपं ते प्रयच्छामि नमोऽनन्ताय वेधसे ॥ १४९ ॥

16.150

श्लोक

यत्र कुत्रापि देशे यः कार्त्तिक-स्नान-दानतः । अग्निहोत्र-सम-फलः पूजायां च विशेषतः ॥ १५० ॥

16.151

श्लोक

कुरुक्षेत्रे कोटि-गुणो गङ्गायां चापि तत्-समः । ततोऽधिकः पुष्करे स्याद् द्वारकायां च भार्गव । कृष्ण-सालोक्य-दो मासः पूजा-स्नानैश् च कार्त्तिकः ॥ १५१ ॥

16.152

श्लोक

अन्यः पूर्यास् तत्-समाना मुनयो मथुरां विना । दामोदरत्वं हि हरेस् तत्रैवासीद् यतः किल ॥ १५२ ॥

16.153

श्लोक

मथुरायां ततश् चोर्जे वैकुण्ठ-प्रीति-वर्धनः । कार्त्तिके मथुरायां वै परमावधिर् इष्यते ॥ १५३ ॥

16.154

श्लोक

यथा माघे प्रयागः स्याद् वैशाखे जाह्नवी यथा । कार्त्तिके मथुरा सेव्या तटोत्कर्षः परो न हि ॥ १५४ ॥

16.155

श्लोक

मथुरायां नरैर् ऊर्जे स्नात्वा दामोदरोऽर्चितः । कृष्ण-रूपा हि ते ज्ञेया नात्र कार्या विचारणा ॥ १५५ ॥

16.156

श्लोक

दुर्लभः कार्त्तिको विप्रा मथुरायां नृणाम् इह । यत्रार्चितः स्वकं रूपं भक्तेभ्यः सम्प्रयच्छति ॥ १५६ ॥

16.157

श्लोक

भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितोऽन्यत्र सेविनाम् । भक्तिं च न ददात्य् एष यतो वश्य-करी हरिः ॥ १५७ ॥

16.158

श्लोक

स त्व् अञ्जसा हरेर् भक्तिर् लभ्यते कार्त्तिके नरैः । मथुरायां सकृद् अपि श्री-दामोदर-पूजनात् ॥ १५८ ॥

16.159

श्लोक

मन्त्र-द्रव्य-विहीनं च विधि-हीनं च पूजनम् । मन्यते कार्त्तिके देवो मथुरायां यद्-अर्चनम् ॥ १५९ ॥

16.160

श्लोक

यस्य पापस्य युज्येत मरणान्ता विनिष्कृतिः । तच्-छुद्ध्य्-अर्थम् इदं प्रोक्तं प्रायश्चित्तं सु-निश्चितम् ॥ १६० ॥

16.161

श्लोक

कार्त्तिके मथुरायां वै पूजनाद् दर्शनं ध्रुवः । शीघ्रं सम्प्राप्तवान् बलो दुर्लभं योग-तत्-परैः ॥ १६१ ॥

16.162

श्लोक

सुलभा मथुरा भूमौ प्रत्य्-अब्दं कार्त्तिकस् तथा । तथापि संसरन्तीह नरा मूढा भवाम्बुधौ ॥ १६२ ॥

16.163

श्लोक

किं यज्ञैः किं तपोभिश् च तीर्थैर् अन्यैश् च सेवितैः । कार्त्तिके मथुरायां चेद् अर्च्यते राधिका-प्रियः ॥ १६३ ॥

16.164

श्लोक

यानि सर्वाणि तीर्थानि नदा नद्यः सरांसि च । कार्त्तिके निवसन्त्य् अत्र माथुरे सर्व-मण्डले ॥ १६४ ॥

16.165

श्लोक

कार्त्तिके जन्म-सदने केशवस्य च ये नराः । सकृत् प्रविष्टाः श्री-कृष्णं ते यान्ति परम् अव्ययम् ॥ १६५ ॥

16.166

श्लोक

परोपहासम् उद्दिश्य कार्त्तिके हरि-पूजया । मथुरायां लभेद् भक्त्या किं पुनः श्रद्धया नरः ॥ १६६ ॥

16.167

श्लोक

इत्थं कार्त्तिक-कृत्याणि व्यक्तान्य् एव स्वतोऽभवन् । तत्र किञ्चिद् विशेषेण तद्-विधिर् लिख्यतेऽधुना ॥ १६७ ॥

16.168

श्लोक

अश्विनस्य तु मासस्य य शुक्लैकादशी भवेत् । कार्त्तिकस्य व्रतानीह तस्यां कुर्याद् अतन्द्रितः ॥ १६८ ॥

16.169

श्लोक

नित्यं जागरणायान्त्ये यामे रात्रेः समुत्थितः । सुचिर् भूत्वा प्रबोध्याथा स्तोत्रैर् नीराजयेत् प्रभुम् ॥ १६९ ॥

16.170

श्लोक

निशम्य वैष्णवान् धर्मान् वैष्णवैः सह हर्षितः । कृत्वा गीतादिकं प्रातर् देवं नीराजयेत् प्रभुम् ॥ १७० ॥

16.171

श्लोक

नद्य्-आदौ च ततो गत्वाचम्य सङ्कल्पम् आचरेत् । प्रभुं प्रार्थ्याथ तस्मै च दद्याद् अर्घ्यं यथा-विधि ॥ १७१ ॥

16.172

श्लोक

कार्त्तिकेऽहं करिष्यामि प्रातः-स्नानं जनार्दन । प्रीत्य्-अर्थं तव देवेश दामोदर मया सह ॥ १७२ ॥

16.173

श्लोक

तव ध्यानेन देवेश जलेऽस्मिन् स्नातुम् उद्यतः । त्वत्-प्रसादाच् च मे पापं दामोदर विनश्यतु ॥ १७३ ॥

16.174

श्लोक

व्रतिनः कार्त्तिके मासि स्नानस्य विधिवन् मम । दामोदर गृहानार्घ्यं दनुजेन्द्र-निसूदन ॥ १७४ ॥

16.175

श्लोक

नित्ये नैमित्तिके कृत्स्ने कार्त्तिके पाप-शोषणे । गृहानार्घ्यं मया दत्तं राधया सहितो हरे ॥ १७५ ॥

16.176

श्लोक

तिलैर् आलिप्य देहं स्वं नामोच्चरण-पूर्वकम् । स्नात्वा स-विधिना सन्ध्याम् उपास्य गृहम् आव्रजेत् ॥ १७६ ॥

16.177

श्लोक

उपलिप्याथ देवाग्रे निर्माय स्वस्तिकं प्रभुम् । तुलसी-मालती-पद्मागस्त्य-पुष्पादिनार्चयेत् ॥ १७७ ॥

16.178

श्लोक

नित्यं वैष्णव-सङ्गत्या सेवेत भगवत्-कथाम् । सर्पिषाहर्-निसं दीपं तिल-तैलेन चार्चयेत् ॥ १७८ ॥

16.179

श्लोक

विशेषतश् च नैवेद्यान्य् अर्पयेद् अर्चयेत् तथा । प्रणामाम्श् च यथा-शक्त्या एक-भक्तादिक-व्रतम् ॥ १७९ ॥

16.180

श्लोक

प्रातर् उत्थाय शौचादि कृत्वा गत्वा जलाशये । कृत्वा च विधिवत् स्नानं ततो दामोदरार्चनम् ॥ १८० ॥

16.181

श्लोक

मौनेन भोजनं कार्यं कार्त्तिके व्रत-धारिणा । घृतेन दीप-दानं स्यात् तिल-तैलेन वा पुनः ॥ १८१ ॥

16.182

श्लोक

दिनं च कृष्ण-कथया वैष्णवानां च सङ्गमैः । नियतं कार्त्तिके मासि सङ्कल्प-व्रत-पालनम् ॥ १८२ ॥

16.183

श्लोक

अश्विने शुक्ल-पक्षस्य प्रारम्भे हरि-वासरे । अथवा पौर्णमासीतः सङ्क्रान्तौ वा तुलागमे ॥ १८३ ॥

16.184

श्लोक

दीप-दानम् अखण्डं च दद्याद् वै विष्णु-सन्निधौ । देवालये तुलस्यां वा आकाशे वा तद् उत्तमम् ॥ १८४ ॥

16.185

श्लोक

रजतं कनकं दीपान् मनि-मुक्ता-फलादिकम् । दामोदरस्य प्रित्य्-अर्थं प्रदद्यात् कार्त्तिके नरः ॥ १८५ ॥

16.186

श्लोक

न गृहे कार्त्तिके कुर्याद् विशेषेण तु कार्त्तिकम् । तीर्थे तु कार्त्तिकीं कुर्यात् सर्व-यत्नेन भाविनि ॥ १८६ ॥

16.187

श्लोक

कार्त्तिके तु विशेषेण राज-माषाम्श् च भक्षयन् । निष्पावान् मुनि-शार्दूल यावद् आहूत-नारकी ॥ १८७ ॥

16.188

श्लोक

कलिङ्गानि पटोलानि वृन्तकं सन्धितानि च । न त्यजेत् कार्त्तिके मासि यावद् आहूत-नारकी ॥ १८८ ॥

16.189

श्लोक

कार्त्तिके मासि धर्मात्मा मत्स्यं मांसं न भक्षयेत् । तत्रैव यत्नतस् त्याज्यं शाशकं शौकरं तथा ॥ १८९ ॥

16.190

श्लोक

परान्नं पर-शय्यां च पर-दारं पराङ्गनाम् । सर्वदा वर्जयेत् प्रजो विशेषेण तु कार्त्तिके ॥ १९० ॥

16.191

श्लोक

तैलाभ्यङ्गं तथा शय्यां परान्नं कांस्य-भोजनम् । कार्त्तिके वर्जयेद् यस् तु परिपूर्ण-व्रती भवेत् ॥ १९१ ॥

16.192

श्लोक

सम्प्राप्ते कार्त्तिके दृष्ट्वा परान्नं यस् तु वर्जयेत् । दिने दिने तु कृच्छ्रस्य फलं प्राप्नोति मानवः ॥ १९२ ॥

16.193

श्लोक

कार्त्तिके वर्जयेत् तैलं कार्त्तिके वर्जयेन् मधु । कार्त्तिके वर्जयेत् कांस्यं कार्त्तिके शुक्ल-सन्धितम् ॥ १९३ ॥

16.194

श्लोक

न मत्स्यं भक्षयेन् मांसं न कौर्मं नान्यद् एव हि । चण्डालः स भवेत् सु-भ्रु कार्त्तिके मांस-भक्षणात् ॥ १९४ ॥

16.195

श्लोक

ततः प्रियतमा विष्णो राधिका गोपिकासु च । कार्त्तिके पूजनीया च श्री-दामोदर-सन्निधौ ॥ १९५ ॥

16.196

श्लोक

द्विजं दामोदरं कृत्वा तत्-पत्नीं राधिकां तथा । कार्त्तिके पूजनीयौ तौ वासोऽलङ्कार-भोजनैः ॥ १९६ ॥

16.197

श्लोक

राधिका-प्रतिमां विप्रः पूजयेत् कार्त्तिके तु यः । तस्य तुष्यति तत्-प्रीत्यै श्रीमान् दामोदरो हरिह् ॥ १९७ ॥

16.198

श्लोक

दामोदराष्टकं नाम स्तोत्रं दामोदरार्चनम् । नित्यं दामोदराकर्षि पठेत् सत्यव्रतोदितम् ॥ १९८ ॥

16.199

श्लोक

नमामीश्वरं सच्-चिद्-आनन्द-रूपं लसत्-कुण्डलं गोकुले भ्राजमानम् । यशोदा-भियोलूखलाद् धावमानं परामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १९९ ॥

16.200

श्लोक

रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तं कराम्भोज-युग्मेन सातङ्क-नेत्रम् । मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ- स्थित-ग्रैव-दामोदरं भक्ति-बद्धम् ॥ २०० ॥