1.169
श्लोक
तद् उ होवाच ब्राह्मणोऽसाव् अनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत । गोप-वेशो मे पुरुषः पुरस्ताद् आविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन हृदा मह्यम् अष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे प्रादुरभूत् । तेष्व् अक्षरेषु भविष्यज्-जगद्-रूपं प्रकाशयत् । तद् इह काद् आपो । लात् पृथिवी । ईतोऽग्निः । बिन्दोर् इन्दुः । तन्-नादाद् अर्क इति क्लीं-काराद् असृजम् । कृष्णाद् आकाशं यद् वायुर् इत्य् उत्तरात् सुरभिं विद्यां प्रादुरकार्षम् । तद्-उत्तरात् तद्-उत्तरात् स्त्री-पुमादि चेदं सकलम् इदं इति ॥ १६९ ॥