Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

Vilāsa 9

mahā-prasādaḥ

9.401

Śloka

कोटि-यज्ञैस् तु यत् पुण्यं मासोपोषण-कोटिभिः । तत् फलं प्राप्यते पुम्भिर् विष्णोर् नैवेद्य-भक्षणात् ॥ ४०१ ॥

Transliteration

koṭi-yajñais tu yat puṇyaṁ māsopoṣaṇa-koṭibhiḥ । tat phalaṁ prāpyate pumbhir viṣṇor naivedya-bhakṣaṇāt ॥ 401 ॥

9.402

Śloka

तुलस्याश् च रजो-जुष्टं नैवेद्यस्य च भक्षणम् । निर्माल्यं च धृतं येन महा-पातक-नाशनम् ॥ ४०२ ॥

Transliteration

tulasyāś ca rajo-juṣṭaṁ naivedyasya ca bhakṣaṇam । nirmālyaṁ ca dhṛtaṁ yena mahā-pātaka-nāśanam ॥ 402 ॥

9.403

Śloka

नैवेद्यं जगदीशस्य अन्न-पानादिकं च यत् । ब्रह्मवन् निर्विकारं हि यथा विष्णुस् तथैव तत् ॥ ४०३ ॥

Transliteration

naivedyaṁ jagadīśasya anna-pānādikaṁ ca yat । brahmavan nirvikāraṁ hi yathā viṣṇus tathaiva tat ॥ 403 ॥

9.404

Śloka

विकारं ये प्रकुर्वन्ति भक्षणे तद् द्विजातयः ॥ ४०४ ॥

Transliteration

vikāraṁ ye prakurvanti bhakṣaṇe tad dvijātayaḥ ॥ 404 ॥

9.405

Śloka

कुष्ठ-व्याधि-समायुक्ताः पुत्र-दार-विवर्जिताः ॥ निरयं यान्ति ते विप्रा यस्मान् नावर्तते पुनः ॥ ४०५ ॥

Transliteration

kuṣṭha-vyādhi-samāyuktāḥ putra-dāra-vivarjitāḥ । । nirayaṁ yānti te viprā yasmān nāvartate punaḥ ॥ 405 ॥

9.406

Śloka

नवम् अन्नं फलं पुष्पं निवेद्य मधुसूदने । पश्चाद् भुङ्क्ते स्वयं यश् च तस्य तुष्यति केशवः ॥ ४०६ ॥

Transliteration

navam annaṁ phalaṁ puṣpaṁ nivedya madhusūdane । paścād bhuṅkte svayaṁ yaś ca tasya tuṣyati keśavaḥ ॥ 406 ॥

9.407

Śloka

मुकुन्दाशन-शेषं तु यो हि भुङ्क्ते दिने दिने । सिक्थे सिक्थे भवेत् पुण्यं चान्द्रायण-शताधिकम् ॥ ४०७ ॥

Transliteration

mukundāśana-śeṣaṁ tu yo hi bhuṅkte dine dine । sikthe sikthe bhavet puṇyaṁ cāndrāyaṇa-śatādhikam ॥ 407 ॥

9.408

Śloka

एकादशी-सहस्रैस् तु मासोपोषण-कोटिभिः । तत् फलं प्राप्यते पुम्भिर् विष्णोर् नैवेद्य-भक्षणात् ॥ ४०८ ॥

Transliteration

ekādaśī-sahasrais tu māsopoṣaṇa-koṭibhiḥ । tat phalaṁ prāpyate pumbhir viṣṇor naivedya-bhakṣaṇāt ॥ 408 ॥

9.409

Śloka

ततो यथोक्तम् आचम्य ताम्बूलादि विभज्य च । महा-प्रसादं दास्येन गृह्णीयात् प्रयतः स्वयम् ॥ ४०९ ॥

Transliteration

tato yathoktam ācamya tāmbūlādi vibhajya ca । mahā-prasādaṁ dāsyena gṛhṇīyāt prayataḥ svayam ॥ 409 ॥

9.410

Śloka

यथोत्तमश्लोक-जनाश्रया रतिः ॥ ४१० ॥

Transliteration

yathottamaśloka-janāśrayā ratiḥ ॥ 410 ॥

9.411

Śloka

नैवेद्य-भक्षणे यच् च निर्माल्य-ग्रहणे च यत् । माहात्म्यम् आदौ लिखितं ज्ञेयं सर्वम् इहापि तत् ॥ ४११ ॥

Transliteration

naivedya-bhakṣaṇe yac ca nirmālya-grahaṇe ca yat । māhātmyam ādau likhitaṁ jñeyaṁ sarvam ihāpi tat ॥ 411 ॥