Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

Vilāsa 16

śrī-dāmodara-priyaḥ

16.1

Śloka

दामोदरं प्रपद्येऽहं श्री-राधा-रमणं प्रभुम् । प्रग्भावाद्यस्य तत्-प्रेष्ठः कार्त्तिकः सेवितो भवेत् ॥ १ ॥

Transliteration

dāmodaraṁ prapadye’haṁ śrī-rādhā-ramaṇaṁ prabhum । pragbhāvādyasya tat-preṣṭhaḥ kārttikaḥ sevito bhavet ॥ 1 ॥

16.2

Śloka

भाति कार्त्तिक-कृत्यादि स्कान्द-पाद्मादिषु स्फुटम् । तथाप्य् एकत्र संगृह्य सारतोऽत्र विलिख्यते ॥ २ ॥

Transliteration

bhāti kārttika-kṛtyādi skānda-pādmādiṣu sphuṭam । tathāpy ekatra saṁgṛhya sārato’tra vilikhyate ॥ 2 ॥

16.3

Śloka

कार्त्तिकेऽस्मिन् विशेषेण नित्यं कुर्वीत वैष्णवः । दामोदरार्चनं प्रातः स्नान-दान-व्रतादिकम् ॥ ३ ॥

Transliteration

kārttike’smin viśeṣeṇa nityaṁ kurvīta vaiṣṇavaḥ । dāmodarārcanaṁ prātaḥ snāna-dāna-vratādikam ॥ 3 ॥

16.4

Śloka

तथा दिन-विशेषे यद्-भगवत्-पूजनादिकम् । कुर्याद् विधि-विशेषेण लेख्यम् अग्रे विविच्य तत् ॥ ४ ॥

Transliteration

tathā dina-viśeṣe yad-bhagavat-pūjanādikam । kuryād vidhi-viśeṣeṇa lekhyam agre vivicya tat ॥ 4 ॥

16.5

Śloka

दुष्प्राप्यं प्राप्य मानुष्यं कार्त्तिकोक्तं चरेन् न हि । धर्मं धर्म-भृतां श्रेष्ठ स मातृ-पितृ-घातकः ॥ ५ ॥

Transliteration

duṣprāpyaṁ prāpya mānuṣyaṁ kārttikoktaṁ caren na hi । dharmaṁ dharma-bhṛtāṁ śreṣṭha sa mātṛ-pitṛ-ghātakaḥ ॥ 5 ॥

16.6

Śloka

अव्रतेन क्षिपेद् यस् तु मासं दामोदर-प्रियम् । तिर्यग् योनिम् अवाप्नोति सर्व-धर्म-बहिष्कृतः ॥ ६ ॥

Transliteration

avratena kṣiped yas tu māsaṁ dāmodara-priyam । tiryag yonim avāpnoti sarva-dharma-bahiṣkṛtaḥ ॥ 6 ॥

16.7

Śloka

स ब्रह्महा स गो-घ्नश् च स्वर्णस्तेयी सदानृती । न करोति मुनि-श्रेष्ठ यो नरः कार्त्तिके व्रतम् ॥ ७ ॥

Transliteration

sa brahmahā sa go-ghnaś ca svarṇasteyī sadānṛtī । na karoti muni-śreṣṭha yo naraḥ kārttike vratam ॥ 7 ॥

16.8

Śloka

विधवा च विशेषेण व्रतं यदि न कार्त्तिके । करोति मुनि-शार्दूल नरकं याति सा ध्रुवम् ॥ ८ ॥

Transliteration

vidhavā ca viśeṣeṇa vrataṁ yadi na kārttike । karoti muni-śārdūla narakaṁ yāti sā dhruvam ॥ 8 ॥

16.9

Śloka

व्रतं तु कार्त्तिके मासे यदा न कुरुते गृही । इष्टापूर्तं वृथा तस्य यावद्-आहूत-नारकी ॥ ९ ॥

Transliteration

vrataṁ tu kārttike māse yadā na kurute gṛhī । iṣṭāpūrtaṁ vṛthā tasya yāvad-āhūta-nārakī ॥ 9 ॥

16.10

Śloka

सम्प्राप्ते कार्त्तिके मासे द्विजो व्रत-पराङ्मुखः । भवन्ति विमुखाः सर्वे तस्य देवाः सवासराः ॥ १० ॥

Transliteration

samprāpte kārttike māse dvijo vrata-parāṅmukhaḥ । bhavanti vimukhāḥ sarve tasya devāḥ savāsarāḥ ॥ 10 ॥

16.11

Śloka

इष्ट्वा च बहुभिर् यज्ञैः कृत्वा श्राद्ध-शतानि च । स्वर्गं नाप्नोति विप्रेन्द्र अकृत्वा कार्त्तिके व्रतम् ॥ ११ ॥

Transliteration

iṣṭvā ca bahubhir yajñaiḥ kṛtvā śrāddha-śatāni ca । svargaṁ nāpnoti viprendra akṛtvā kārttike vratam ॥ 11 ॥

16.12

Śloka

यतिश् च विधवा चैव विशेषेण वनाश्रमी । कार्त्तिके नरकं यान्ति अकृत्वा वैष्णवं व्रतम् ॥ १२ ॥

Transliteration

yatiś ca vidhavā caiva viśeṣeṇa vanāśramī । kārttike narakaṁ yānti akṛtvā vaiṣṇavaṁ vratam ॥ 12 ॥

16.13

Śloka

वेदैर् अधीतैः किं तस्य पुराण-पठनैश् च किम् । कृतं यदि न विप्रेन्द्र कार्त्तिके वैष्णवं व्रतम् ॥ १३ ॥

Transliteration

vedair adhītaiḥ kiṁ tasya purāṇa-paṭhanaiś ca kim । kṛtaṁ yadi na viprendra kārttike vaiṣṇavaṁ vratam ॥ 13 ॥

16.14

Śloka

जन्म-प्रभृति यत् पुण्यं विधिवत् समुपार्जितम् । भस्मीभवति तत् सर्वं कृत्वा कार्त्तिक-व्रतम् ॥ १४ ॥

Transliteration

janma-prabhṛti yat puṇyaṁ vidhivat samupārjitam । bhasmībhavati tat sarvaṁ kṛtvā kārttika-vratam ॥ 14 ॥

16.15

Śloka

यद्-दत्तं च परं जप्तं कृतं च सुमहत् तपः । सर्वं विफलताम् एति अकृत्वा कार्त्तिके व्रतम् ॥ १५ ॥

Transliteration

yad-dattaṁ ca paraṁ japtaṁ kṛtaṁ ca sumahat tapaḥ । sarvaṁ viphalatām eti akṛtvā kārttike vratam ॥ 15 ॥

16.16

Śloka

सप्त-जन्मार्जितं पुण्यं वृथा भवति नारद । अकृत्वा कार्त्तिके मासि वैष्णवं व्रतम् उत्तमम् ॥ १६ ॥

Transliteration

sapta-janmārjitaṁ puṇyaṁ vṛthā bhavati nārada । akṛtvā kārttike māsi vaiṣṇavaṁ vratam uttamam ॥ 16 ॥

16.17

Śloka

पाप-भूतास् तु ते ज्ञेया लोके मर्त्या महा-मुने । वैष्णवाख्यं व्रतं यैस् तु न कृतं कार्त्तिके शुभम् ॥ १७ ॥

Transliteration

pāpa-bhūtās tu te jñeyā loke martyā mahā-mune । vaiṣṇavākhyaṁ vrataṁ yais tu na kṛtaṁ kārttike śubham ॥ 17 ॥

16.18

Śloka

अकृत्वा नियमं विष्णोः कार्त्तिकं यः क्षिपेन् नरः । जन्मार्जितस्य पुण्यस्य फलं नाप्नोति नारद ॥ १८ ॥

Transliteration

akṛtvā niyamaṁ viṣṇoḥ kārttikaṁ yaḥ kṣipen naraḥ । janmārjitasya puṇyasya phalaṁ nāpnoti nārada ॥ 18 ॥

16.19

Śloka

नियमेन विना चैव यो नयेत् कार्त्तिकं मुने । चातुर्मास्यं तथा चैव ब्रह्महा स कुलाधमः ॥ १९ ॥

Transliteration

niyamena vinā caiva yo nayet kārttikaṁ mune । cāturmāsyaṁ tathā caiva brahmahā sa kulādhamaḥ ॥ 19 ॥

16.20

Śloka

पिण्ड-दानं पितॄणां पितृ-पक्षे न वै कृतम् । व्रतं न कार्त्तिके मासि श्रावण्याम् ऋषि-तर्पणम् ॥ २० ॥

Transliteration

piṇḍa-dānaṁ pitṝṇāṁ pitṛ-pakṣe na vai kṛtam । vrataṁ na kārttike māsi śrāvaṇyām ṛṣi-tarpaṇam ॥ 20 ॥

16.21

Śloka

चैत्रे नान्दोलितो विष्णुर् माघ-स्नानं न सज्-जले । न कृतामर्दकी पुष्ये श्रावणे रौहिणाष्टमी ॥ २१ ॥

Transliteration

caitre nāndolito viṣṇur māgha-snānaṁ na saj-jale । na kṛtāmardakī puṣye śrāvaṇe rauhiṇāṣṭamī ॥ 21 ॥

16.22

Śloka

सङ्गमे न कृता येन द्वादशी श्रवणान्विता । क्त्र यास्यन्ति ते मूढा नाहं वेद्मि कलि-प्रिय ॥ २२ ॥

Transliteration

saṅgame na kṛtā yena dvādaśī śravaṇānvitā । ktra yāsyanti te mūḍhā nāhaṁ vedmi kali-priya ॥ 22 ॥

16.23

Śloka

मानुषः कर्म-भूमौ यः कार्त्तिकं नयते मुधा । चिन्तामणिं करे प्राप्य क्षिप्यते कर्दमाम्बुनि ॥ २३ ॥

Transliteration

mānuṣaḥ karma-bhūmau yaḥ kārttikaṁ nayate mudhā । cintāmaṇiṁ kare prāpya kṣipyate kardamāmbuni ॥ 23 ॥

16.24

Śloka

नियमेन विना विप्राः कार्त्तिकं यः क्षिपेन् नरः । कृष्णः पराङ्-मुखस् तस्य यस्माद् ऊर्जोऽस्य वल्लभः ॥ २४ ॥

Transliteration

niyamena vinā viprāḥ kārttikaṁ yaḥ kṣipen naraḥ । kṛṣṇaḥ parāṅ-mukhas tasya yasmād ūrjo’sya vallabhaḥ ॥ 24 ॥

16.25

Śloka

यैर् न दत्तं हुतं जप्तं न स्नानं न हरेर् व्रतम् । न कृतं कार्त्तिके पुत्र द्विजास् ते वै नराधमाः ॥ २५ ॥

Transliteration

yair na dattaṁ hutaṁ japtaṁ na snānaṁ na harer vratam । na kṛtaṁ kārttike putra dvijās te vai narādhamāḥ ॥ 25 ॥

16.26

Śloka

यैर् न दत्तं हुतं जप्तं कार्त्तिके न व्रतं कृतम् । तेनात्मा हारितो नूनं न प्राप्तं प्रार्थितं फलम् ॥ २६ ॥

Transliteration

yair na dattaṁ hutaṁ japtaṁ kārttike na vrataṁ kṛtam । tenātmā hārito nūnaṁ na prāptaṁ prārthitaṁ phalam ॥ 26 ॥

16.27

Śloka

सम्प्राप्ते कार्त्तिके मासि ये रता न जनार्दने । तेषां सौरि-पुरे वासः पितृभिः सह नारद ॥ २७ ॥

Transliteration

samprāpte kārttike māsi ye ratā na janārdane । teṣāṁ sauri-pure vāsaḥ pitṛbhiḥ saha nārada ॥ 27 ॥

16.28

Śloka

कार्त्तिके नार्चितो यैस् तु भक्ति-भावेन केशवः । नरकं ते गमिष्यन्ति यम-दूतैस् तु यन्त्रिताः ॥ २८ ॥

Transliteration

kārttike nārcito yais tu bhakti-bhāvena keśavaḥ । narakaṁ te gamiṣyanti yama-dūtais tu yantritāḥ ॥ 28 ॥

16.29

Śloka

जन्म-कोटि-सहस्रैस् तु मानुष्यं प्राप्य दुर्लभम् । कार्त्तिके नार्चितो विष्णुर् हारितं तेन जन्म वै ॥ २९ ॥

Transliteration

janma-koṭi-sahasrais tu mānuṣyaṁ prāpya durlabham । kārttike nārcito viṣṇur hāritaṁ tena janma vai ॥ 29 ॥

16.30

Śloka

विष्णोः पूजा कथा विष्णोर् वैष्णवानां च दर्शनम् । न भवेत् कार्त्तिके यस्य हन्ति पुण्यं दशाब्दिकम् ॥ ३० ॥

Transliteration

viṣṇoḥ pūjā kathā viṣṇor vaiṣṇavānāṁ ca darśanam । na bhavet kārttike yasya hanti puṇyaṁ daśābdikam ॥ 30 ॥

16.31

Śloka

कार्त्तिकस्य तु माहात्म्यं प्राक् सामान्येन लिख्यते । ततो विशेषतस् तत्र कर्म-देशादि-भेदतः ॥ ३१ ॥

Transliteration

kārttikasya tu māhātmyaṁ prāk sāmānyena likhyate । tato viśeṣatas tatra karma-deśādi-bhedataḥ ॥ 31 ॥

16.32

Śloka

कार्त्तिकस्य तु मासस्य कोट्य्-अंशेनापि नार्हति । सर्व-तीर्थेषु यत् स्नानं सर्व-दानेषु यत् फलम् ॥ ३२ ॥

Transliteration

kārttikasya tu māsasya koṭy-aṁśenāpi nārhati । sarva-tīrtheṣu yat snānaṁ sarva-dāneṣu yat phalam ॥ 32 ॥

16.33

Śloka

एकतः सर्व-तीर्थानि सर्वे यज्ञाः स-दक्षिणाः । एकतः पुष्करे वासः कुरुक्षेत्रे हिमाचले ॥ ३३ ॥

Transliteration

ekataḥ sarva-tīrthāni sarve yajñāḥ sa-dakṣiṇāḥ । ekataḥ puṣkare vāsaḥ kurukṣetre himācale ॥ 33 ॥

16.34

Śloka

मेरु-तुल्य-सुवर्णानि सर्व-दानानि चैकतः । एकतः कार्त्तिको वत्स सर्वदा केशव-प्रियः ॥ ३४ ॥

Transliteration

meru-tulya-suvarṇāni sarva-dānāni caikataḥ । ekataḥ kārttiko vatsa sarvadā keśava-priyaḥ ॥ 34 ॥

16.35

Śloka

यत् किञ्चित् क्रियते पुण्यं विष्णुम् उद्दिश्य कार्त्तिके । तद्-अक्षयं भवेत् सर्वं सत्योक्तं तव नारद ॥ ३५ ॥

Transliteration

yat kiñcit kriyate puṇyaṁ viṣṇum uddiśya kārttike । tad-akṣayaṁ bhavet sarvaṁ satyoktaṁ tava nārada ॥ 35 ॥

16.36

Śloka

कार्त्तिकं ### मासं सर्व-मासेषु चोत्तमम् । पुण्यानां परमं पुण्यं पावनानां च पावनम् ॥ ३६ ॥

Transliteration

kārttikaṁ ### māsaṁ sarva-māseṣu cottamam । puṇyānāṁ paramaṁ puṇyaṁ pāvanānāṁ ca pāvanam ॥ 36 ॥

16.37

Śloka

यथा नदीनां विप्रेन्द्र शैलानां चैव नारद । उदधीनां च विप्रर्षे क्षयो नैवोपपद्यते ॥ ३७ ॥

Transliteration

yathā nadīnāṁ viprendra śailānāṁ caiva nārada । udadhīnāṁ ca viprarṣe kṣayo naivopapadyate ॥ 37 ॥

16.38

Śloka

पुण्यं कार्त्तिक-मासे तु यत् किञ्चित् क्रियते मुने । न तस्यास्ति क्षयो ब्रह्मन् पापस्याप्य् एवम् एव च ॥ ३८ ॥

Transliteration

puṇyaṁ kārttika-māse tu yat kiñcit kriyate mune । na tasyāsti kṣayo brahman pāpasyāpy evam eva ca ॥ 38 ॥

16.39

Śloka

न कार्त्तिक-समो मासो न कृतेन समं युगम् । न वेद-सदृशं शास्त्रं न तीर्थं गङ्गया समम् ॥ ३९ ॥

Transliteration

na kārttika-samo māso na kṛtena samaṁ yugam । na veda-sadṛśaṁ śāstraṁ na tīrthaṁ gaṅgayā samam ॥ 39 ॥

16.40

Śloka

कार्त्तिकः प्रवरो मासो वैष्णवानां प्रियः सदा । कार्त्तिकं सकलं यस् तु भक्त्या सेवेत वैष्णवः । पितॄन् उद्धरते सर्वान् नरकस्थान् महा-मुने ॥ ४० ॥

Transliteration

kārttikaḥ pravaro māso vaiṣṇavānāṁ priyaḥ sadā । kārttikaṁ sakalaṁ yas tu bhaktyā seveta vaiṣṇavaḥ । pitṝn uddharate sarvān narakasthān mahā-mune ॥ 40 ॥

16.41

Śloka

तत्रैव द्वादशेष्व् अपि मासेषु कार्त्तिकः कृष्ण-वल्लभः । तस्मिन् सम्पूजितो विष्णुर् अल्पकैर् अप्य् उपयनैः । ददाति वैष्णवं लोकम् इत्य् एवं निश्चितं मया ॥ ४१ ॥

Transliteration

tatraiva dvādaśeṣv api māseṣu kārttikaḥ kṛṣṇa-vallabhaḥ । tasmin sampūjito viṣṇur alpakair apy upayanaiḥ । dadāti vaiṣṇavaṁ lokam ity evaṁ niścitaṁ mayā ॥ 41 ॥

16.42

Śloka

यथा दामोदरो भक्त-वत्सलो विदितो जनैः । तस्यायं तादृशो मासः स्वल्पम् अप्य् उरु-कारकः ॥ ४२ ॥

Transliteration

yathā dāmodaro bhakta-vatsalo vidito janaiḥ । tasyāyaṁ tādṛśo māsaḥ svalpam apy uru-kārakaḥ ॥ 42 ॥

16.43

Śloka

दुर्लभो मानुषो देहो देहिनां क्षण-भङ्गुरः । तत्रापि दुर्लभः कालः कार्त्तिको हरि-वल्लभः ॥ ४३ ॥

Transliteration

durlabho mānuṣo deho dehināṁ kṣaṇa-bhaṅguraḥ । tatrāpi durlabhaḥ kālaḥ kārttiko hari-vallabhaḥ ॥ 43 ॥

16.44

Śloka

दीपेनापि हि यत्रासौ प्रीयते हरिर् ईश्वरः । सु-गीतं च ददत्य् एव पर-दीप-प्रबोधनत् ॥ ४४ ॥

Transliteration

dīpenāpi hi yatrāsau prīyate harir īśvaraḥ । su-gītaṁ ca dadaty eva para-dīpa-prabodhanat ॥ 44 ॥

16.45

Śloka

व्रतानाम् इह सर्वेषाम् एक-जन्मानुगं फलम् । कार्त्तिके तु व्रतस्योक्तं फलं जन्म-शतानुगम् ॥ ४५ ॥

Transliteration

vratānām iha sarveṣām eka-janmānugaṁ phalam । kārttike tu vratasyoktaṁ phalaṁ janma-śatānugam ॥ 45 ॥

16.46

Śloka

अक्रूर-तीर्थे विप्रेन्द्र कार्त्तिक्यां समुपोष्य च । स्नात्वा यत् फलम् आप्नोति तच् छ्रुत्वा वैष्णवं व्रतम् ॥ ४६ ॥

Transliteration

akrūra-tīrthe viprendra kārttikyāṁ samupoṣya ca । snātvā yat phalam āpnoti tac chrutvā vaiṣṇavaṁ vratam ॥ 46 ॥

16.47

Śloka

वाराणस्यां कुरुक्षेत्रे नैमिषे पुष्करेऽर्बुदे । गत्वा यत् फलम् आप्नोति व्रतं क्पितृऋत्वा तु कार्त्तिके ॥ ४७ ॥

Transliteration

vārāṇasyāṁ kurukṣetre naimiṣe puṣkare’rbude । gatvā yat phalam āpnoti vrataṁ kpitṛṛtvā tu kārttike ॥ 47 ॥

16.48

Śloka

अनिष्ट्वा च सदा यज्ञैर् न कृत्वा पितृभिः स्वधाम् । व्रतेन कार्त्तिके मासि वैष्णवं तु पदं व्रजेत् ॥ ४८ ॥

Transliteration

aniṣṭvā ca sadā yajñair na kṛtvā pitṛbhiḥ svadhām । vratena kārttike māsi vaiṣṇavaṁ tu padaṁ vrajet ॥ 48 ॥

16.49

Śloka

प्रवृत्तानां च भक्ष्याणां कार्त्तिके नियमे कृते । अवश्यं कृष्ण-रूपत्वं प्राप्यते मुक्तिदं शुभम् ॥ ४९ ॥

Transliteration

pravṛttānāṁ ca bhakṣyāṇāṁ kārttike niyame kṛte । avaśyaṁ kṛṣṇa-rūpatvaṁ prāpyate muktidaṁ śubham ॥ 49 ॥

16.50

Śloka

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो व मुनि-सत्तम । वियोनिं न व्रजत्य् एव व्रतं कृत्वा तु कार्त्तिके ॥ ५० ॥

Transliteration

brāhmaṇaḥ kṣatriyo vaiśyaḥ śūdro va muni-sattama । viyoniṁ na vrajaty eva vrataṁ kṛtvā tu kārttike ॥ 50 ॥

16.51

Śloka

कार्त्तिके मुनि-शार्दूल स्व-शक्त्या वैष्णवं व्रतम् ।यः करोति यथोक्तं तु मुक्तिस् तस्य करे स्थिता ॥ ५१ ॥

Transliteration

kārttike muni-śārdūla sva-śaktyā vaiṣṇavaṁ vratam ।yaḥ karoti yathoktaṁ tu muktis tasya kare sthitā ॥ 51 ॥

16.52

Śloka

सु-पुण्ये कार्त्तिके मासि देवर्षि-पितृ-सेविते । क्रियमाणे व्रते नृणां स्व्-अल्पेऽपि स्यान् महा-फलम् ॥ ५२ ॥

Transliteration

su-puṇye kārttike māsi devarṣi-pitṛ-sevite । kriyamāṇe vrate nṛṇāṁ sv-alpe’pi syān mahā-phalam ॥ 52 ॥

16.53

Śloka

दानं दत्तं हुतं जप्तं तपश् चैव तथा कृतम् । तद् अक्षय-फलं प्रोक्तं कार्त्तिके च द्विजोत्तम ॥ ५३ ॥

Transliteration

dānaṁ dattaṁ hutaṁ japtaṁ tapaś caiva tathā kṛtam । tad akṣaya-phalaṁ proktaṁ kārttike ca dvijottama ॥ 53 ॥

16.54

Śloka

यत् किञ्चित् कार्त्तिके दत्तं विष्णुम् उद्दिश्य मानवैः । तद् अक्षयं लभ्यते वै अन्न-दानं विशेषतः ॥ ५४ ॥

Transliteration

yat kiñcit kārttike dattaṁ viṣṇum uddiśya mānavaiḥ । tad akṣayaṁ labhyate vai anna-dānaṁ viśeṣataḥ ॥ 54 ॥

16.55

Śloka

यस् तु संवत्सरं पुर्नम् अग्निहोत्रम् उपासते । कार्त्तिके स्वस्तिके कृत्वा समम् एतन् न संशयः ॥ ५५ ॥

Transliteration

yas tu saṁvatsaraṁ purnam agnihotram upāsate । kārttike svastike kṛtvā samam etan na saṁśayaḥ ॥ 55 ॥

16.56

Śloka

कार्त्तिके या करोत्य् एवं केशवालय-मण्डलम् । स्वर्ग-स्था शोभते सा सु कपोती पक्षिणी यथा ॥ ५६ ॥

Transliteration

kārttike yā karoty evaṁ keśavālaya-maṇḍalam । svarga-sthā śobhate sā su kapotī pakṣiṇī yathā ॥ 56 ॥

16.57

Śloka

यः करोति नरो नित्यं कार्त्तिके पत्र-भोजनम् । न स दुर्गतिम् आप्नोति यावद् इन्द्रश् चतुर्दश ॥ ५७ ॥

Transliteration

yaḥ karoti naro nityaṁ kārttike patra-bhojanam । na sa durgatim āpnoti yāvad indraś caturdaśa ॥ 57 ॥

16.58

Śloka

जन्म-प्रभृति यत् पापं मानवैश् च कृतं भवेत् । तत् सर्वं नाशम् आप्नोति ब्रह्म-पत्रेषु भोजनात् ॥ ५८ ॥

Transliteration

janma-prabhṛti yat pāpaṁ mānavaiś ca kṛtaṁ bhavet । tat sarvaṁ nāśam āpnoti brahma-patreṣu bhojanāt ॥ 58 ॥

16.59

Śloka

सर्व-काम-फलं तस्य सर्व-तीर्थ-फलं लभेत् । न वापि नरकं पश्येद् ब्रह्म-पत्रेषु भोजनत् ॥ ५९ ॥

Transliteration

sarva-kāma-phalaṁ tasya sarva-tīrtha-phalaṁ labhet । na vāpi narakaṁ paśyed brahma-patreṣu bhojanat ॥ 59 ॥

16.60

Śloka

ब्रह्म चैष स्मृतिः साक्षात् पलाशः सर्व-काम-दः । मध्यमं वर्जितं पत्रं शूद्रस्य मुनि-सत्तम । भुञ्जन् नरकम् आप्नोति यावद् इन्द्रश् चतुर्दश ॥ ६० ॥

Transliteration

brahma caiṣa smṛtiḥ sākṣāt palāśaḥ sarva-kāma-daḥ । madhyamaṁ varjitaṁ patraṁ śūdrasya muni-sattama । bhuñjan narakam āpnoti yāvad indraś caturdaśa ॥ 60 ॥

16.61

Śloka

तिल-दानं नदी-स्नानं सत्-कथा साधु-सेवनम् । भोजनं ब्रह्म-पत्रेषु कार्त्तिके मुक्ति-दायकम् ॥ ६१ ॥

Transliteration

tila-dānaṁ nadī-snānaṁ sat-kathā sādhu-sevanam । bhojanaṁ brahma-patreṣu kārttike mukti-dāyakam ॥ 61 ॥

16.62

Śloka

जागरं कार्त्तिके मासि यः करोत्य् अरुणोदये । दामोदराग्रे विप्रेन्द्र गो-सहस्र-फलं लभेत् ॥ ६२ ॥

Transliteration

jāgaraṁ kārttike māsi yaḥ karoty aruṇodaye । dāmodarāgre viprendra go-sahasra-phalaṁ labhet ॥ 62 ॥

16.63

Śloka

जागरं पश्चिमे यामे यः करोति महा-मुने । कार्त्तिके सन्निधौ विष्णोस् तत्-पदं कर-संस्थितम् ॥ ६३ ॥

Transliteration

jāgaraṁ paścime yāme yaḥ karoti mahā-mune । kārttike sannidhau viṣṇos tat-padaṁ kara-saṁsthitam ॥ 63 ॥

16.64

Śloka

साधु-सेवा गवां ग्रासः कथा विष्णोस् तथार्चनम् । जागरे पश्चिमे यामे दुर्लभः कार्त्तिके कलौ ॥ ६४ ॥

Transliteration

sādhu-sevā gavāṁ grāsaḥ kathā viṣṇos tathārcanam । jāgare paścime yāme durlabhaḥ kārttike kalau ॥ 64 ॥

16.65

Śloka

जल-धेनु-सहस्रं च वृष-संस्थे दिवाकरे । तोयं दत्त्वा यद् आप्नोति स्नानं कृत्वा तु कार्त्तिके ॥ ६५ ॥

Transliteration

jala-dhenu-sahasraṁ ca vṛṣa-saṁsthe divākare । toyaṁ dattvā yad āpnoti snānaṁ kṛtvā tu kārttike ॥ 65 ॥

16.66

Śloka

सन्निहत्यां कुरुक्षेत्रे राहु-ग्रस्ते दिवाकरे । सूर्य-वरेण यत् स्नानं तद् एकाहेन कार्त्तिके ॥ ६६ ॥

Transliteration

sannihatyāṁ kurukṣetre rāhu-graste divākare । sūrya-vareṇa yat snānaṁ tad ekāhena kārttike ॥ 66 ॥

16.67

Śloka

पितॄन् उद्दिश्य यद् दत्तं कार्त्तिके कृष्ण-वल्लभे । अन्नोदकं मुनि-श्रेष्ठ अक्षयं जायते नृणाम् ॥ ६७ ॥

Transliteration

pitṝn uddiśya yad dattaṁ kārttike kṛṣṇa-vallabhe । annodakaṁ muni-śreṣṭha akṣayaṁ jāyate nṛṇām ॥ 67 ॥

16.68

Śloka

गीत-शास्त्र-विनोदेन कार्त्तिकं यो नयेन् नरः । न तस्य पुनर् आवृत्तिर् मया दृष्टा कलि-प्रिय ॥ ६८ ॥

Transliteration

gīta-śāstra-vinodena kārttikaṁ yo nayen naraḥ । na tasya punar āvṛttir mayā dṛṣṭā kali-priya ॥ 68 ॥

16.69

Śloka

प्रदक्षिणं च यः कुर्यात् कार्त्तिके विष्णु-सद्मनि । पदे पदेऽश्वमेधस्य फल-भागी भवेन् नरः ॥ ६९ ॥

Transliteration

pradakṣiṇaṁ ca yaḥ kuryāt kārttike viṣṇu-sadmani । pade pade’śvamedhasya phala-bhāgī bhaven naraḥ ॥ 69 ॥

16.70

Śloka

गीतं वाद्यं च नृत्यं च कार्त्तिके पुरतो हरेः । यः करोति नरो भक्त्या लभते चाक्षयं पदम् ॥ ७० ॥

Transliteration

gītaṁ vādyaṁ ca nṛtyaṁ ca kārttike purato hareḥ । yaḥ karoti naro bhaktyā labhate cākṣayaṁ padam ॥ 70 ॥

16.71

Śloka

हरेर् नाम-सहस्राख्यं गजेन्द्रस्य च मोक्षणम् । कार्त्तिके पठते यस् तु पुनर् जन्म न विन्दते ॥ ७१ ॥

Transliteration

harer nāma-sahasrākhyaṁ gajendrasya ca mokṣaṇam । kārttike paṭhate yas tu punar janma na vindate ॥ 71 ॥

16.72

Śloka

कार्त्तिके पश्चिमे यामे स्तवं गानं करोति यः । वसते श्वेतद्वीपे तु पितृभिः सह नारद ॥ ७२ ॥

Transliteration

kārttike paścime yāme stavaṁ gānaṁ karoti yaḥ । vasate śvetadvīpe tu pitṛbhiḥ saha nārada ॥ 72 ॥

16.73

Śloka

नैवेद्य-दानेन तु हरेः कार्त्तिके यव-सङ्ख्यया । युगानि वसते स्वर्गे तावन्ति मुनि-सत्तम ॥ ७३ ॥

Transliteration

naivedya-dānena tu hareḥ kārttike yava-saṅkhyayā । yugāni vasate svarge tāvanti muni-sattama ॥ 73 ॥

16.74

Śloka

अगुरुं तु स-कर्पूरं यो दहेत् केशवाग्रतः । कार्त्तिके तु मुनि-श्रेष्ठ युगान्ते न पुनर् भवः ॥ ७४ ॥

Transliteration

aguruṁ tu sa-karpūraṁ yo dahet keśavāgrataḥ । kārttike tu muni-śreṣṭha yugānte na punar bhavaḥ ॥ 74 ॥

16.75

Śloka

नियमेन कथं विष्णोर् ये शृण्वन्ति च भावितः । श्लोकार्धं श्लोक-पादं वा कार्त्तिके गो-शतं फलम् ॥ ७५ ॥

Transliteration

niyamena kathaṁ viṣṇor ye śṛṇvanti ca bhāvitaḥ । ślokārdhaṁ śloka-pādaṁ vā kārttike go-śataṁ phalam ॥ 75 ॥

16.76

Śloka

सर्व-धर्मान् परित्यज्य कार्त्तिके केशवाग्रतः । शास्त्रावतरनं पुण्यं श्रोतव्यं च महा-मुने ॥ ७६ ॥

Transliteration

sarva-dharmān parityajya kārttike keśavāgrataḥ । śāstrāvataranaṁ puṇyaṁ śrotavyaṁ ca mahā-mune ॥ 76 ॥

16.77

Śloka

श्रेयसा लोभ-बुद्ध्या वा यः करोति हरेः कथाम् । कार्त्तिके मुनि-शार्दूल कुलानां तारयेच् छतम् ॥ ७७ ॥

Transliteration

śreyasā lobha-buddhyā vā yaḥ karoti hareḥ kathām । kārttike muni-śārdūla kulānāṁ tārayec chatam ॥ 77 ॥

16.78

Śloka

नित्यं शास्त्र-विनोदेन कार्त्तिकं यः क्षिपेन् नरः । निर्दहेत् सर्व-पापनि यज्ञायुत-फलं लभेत् ॥ ७८ ॥

Transliteration

nityaṁ śāstra-vinodena kārttikaṁ yaḥ kṣipen naraḥ । nirdahet sarva-pāpani yajñāyuta-phalaṁ labhet ॥ 78 ॥

16.79

Śloka

न तथा तुष्यते दानैर् न यज्ञैर् गो-गजादिकैः । यथा शास्त्र-कथालापैः कार्त्तिके मधुसूदनः ॥ ७९ ॥

Transliteration

na tathā tuṣyate dānair na yajñair go-gajādikaiḥ । yathā śāstra-kathālāpaiḥ kārttike madhusūdanaḥ ॥ 79 ॥

16.80

Śloka

कार्त्तिके मुनि-शार्दूल यः शृणोति हरेः कथाम् । स निस्तरति दुर्गाणि जन्म-कोटि-शतानि च ॥ ८० ॥

Transliteration

kārttike muni-śārdūla yaḥ śṛṇoti hareḥ kathām । sa nistarati durgāṇi janma-koṭi-śatāni ca ॥ 80 ॥

16.81

Śloka

यः पठेत् प्रायतो नित्यं श्लोकं भागवतं मुने । अष्टादश-पुराणानां कार्त्तिके फलम् आप्नुयात् ॥ ८१ ॥

Transliteration

yaḥ paṭhet prāyato nityaṁ ślokaṁ bhāgavataṁ mune । aṣṭādaśa-purāṇānāṁ kārttike phalam āpnuyāt ॥ 81 ॥

16.82

Śloka

सर्वान् धर्मान् परित्यज्य इष्टापूर्तादिकान् नरः । कार्त्तिके परया भक्त्या वैष्णवैः सह संवसेत् ॥ ८२ ॥

Transliteration

sarvān dharmān parityajya iṣṭāpūrtādikān naraḥ । kārttike parayā bhaktyā vaiṣṇavaiḥ saha saṁvaset ॥ 82 ॥

16.83

Śloka

कार्त्तिके भूमि-शायी यो ब्रह्मचारी हविष्य-भुक् । पलाश-पत्रं भुञ्जानो दामोदरम् अथार्चयेत् ॥ ८३ ॥

Transliteration

kārttike bhūmi-śāyī yo brahmacārī haviṣya-bhuk । palāśa-patraṁ bhuñjāno dāmodaram athārcayet ॥ 83 ॥

16.84

Śloka

स सर्व-पातकं हित्वा वैकुण्ठे हरि-सन्निधौ । मोदते विष्णु-सदृशो भजनानन्द-निर्वृतः ॥ ८४ ॥

Transliteration

sa sarva-pātakaṁ hitvā vaikuṇṭhe hari-sannidhau । modate viṣṇu-sadṛśo bhajanānanda-nirvṛtaḥ ॥ 84 ॥

16.85

Śloka

कार्त्तिकं सकलं मासं प्रातः-स्नायी जितेन्द्रियः । जपन् हविष्य-भुग् दान्तः सर्व-पापैः प्रमुच्यते ॥ ८५ ॥

Transliteration

kārttikaṁ sakalaṁ māsaṁ prātaḥ-snāyī jitendriyaḥ । japan haviṣya-bhug dāntaḥ sarva-pāpaiḥ pramucyate ॥ 85 ॥

16.86

Śloka

कार्त्तिकं तु नरो मासं यः कुर्याद् एक-भोजनम् । शूरश् च बहु-वीर्यश् च कीर्तिमाम्श् च स जायते ॥ ८६ ॥

Transliteration

kārttikaṁ tu naro māsaṁ yaḥ kuryād eka-bhojanam । śūraś ca bahu-vīryaś ca kīrtimāmś ca sa jāyate ॥ 86 ॥

16.87

Śloka

पलाश-पत्र-भोजो च कार्त्तिके पुरुषो नरः । निष्पापः स्यात् तु नैवेद्यं हरेर् भुक्त्वा विमुच्यते । मध्य-स्थम् अईश्वरं पत्रं वर्जयेद् ब्राह्मणेतरः ॥ ८७ ॥

Transliteration

palāśa-patra-bhojo ca kārttike puruṣo naraḥ । niṣpāpaḥ syāt tu naivedyaṁ harer bhuktvā vimucyate । madhya-stham aīśvaraṁ patraṁ varjayed brāhmaṇetaraḥ ॥ 87 ॥

16.88

Śloka

अपराध-सहस्राणि पातकानि महान्त्य् अपि । क्षमतेऽस्य हरिर् देवः पूजिते कार्त्तिके प्रभुः ॥ ८८ ॥

Transliteration

aparādha-sahasrāṇi pātakāni mahānty api । kṣamate’sya harir devaḥ pūjite kārttike prabhuḥ ॥ 88 ॥

16.89

Śloka

नैवेद्यं पायसं विष्णोः प्रियं खण्डं घृतान्वितम् । विभज्य तच् च भुञ्जानो यज्ञ-साम्यं दिने दिने ॥ ८९ ॥

Transliteration

naivedyaṁ pāyasaṁ viṣṇoḥ priyaṁ khaṇḍaṁ ghṛtānvitam । vibhajya tac ca bhuñjāno yajña-sāmyaṁ dine dine ॥ 89 ॥

16.90

Śloka

स्नानं जागरणं दीपं तुलसी-वन-पालनम् । कार्त्तिके ये प्रकुर्वन्ति ते नरा विष्णु-मूर्तयः ॥ ९० ॥

Transliteration

snānaṁ jāgaraṇaṁ dīpaṁ tulasī-vana-pālanam । kārttike ye prakurvanti te narā viṣṇu-mūrtayaḥ ॥ 90 ॥

16.91

Śloka

इत्थं दिन-त्रयम् अपि कार्त्तिके ये प्रकुर्वते । देवानाम् अपि ते वन्द्याः किं यैर् आजन्म तत् कृतम् ॥ ९१ ॥

Transliteration

itthaṁ dina-trayam api kārttike ye prakurvate । devānām api te vandyāḥ kiṁ yair ājanma tat kṛtam ॥ 91 ॥

16.92

Śloka

हरि-जागरणं प्रातः स्नानं तुलसी-सेवनम् । उद्यापनं दीप-दानं व्रतान्य् एतानि कार्त्तिके ॥ ९२ ॥

Transliteration

hari-jāgaraṇaṁ prātaḥ snānaṁ tulasī-sevanam । udyāpanaṁ dīpa-dānaṁ vratāny etāni kārttike ॥ 92 ॥

16.93

Śloka

पञ्चभिर् व्रतकैर् एभिः सम्पूर्णं कार्त्तिके व्रती । फलम् आप्नोति तत् प्रोक्तं भुक्ति-मुक्ति-फल-प्रदम् ॥ ९३ ॥

Transliteration

pañcabhir vratakair ebhiḥ sampūrṇaṁ kārttike vratī । phalam āpnoti tat proktaṁ bhukti-mukti-phala-pradam ॥ 93 ॥

16.94

Śloka

विष्णोः शिवस्य वा कुर्याद् आलये हरि-जागरम् । कुर्याद् अश्वत्थ-मुले वा तुलसीनां वनेषु च ॥ ९४ ॥

Transliteration

viṣṇoḥ śivasya vā kuryād ālaye hari-jāgaram । kuryād aśvattha-mule vā tulasīnāṁ vaneṣu ca ॥ 94 ॥

16.95

Śloka

आपद्-गतो यदाप्य् अम्भो न लभेत् सवनाय सः । व्याधितो वा पुनः कुर्याद् विष्णोर् नामापमार्जनम् ॥ ९५ ॥

Transliteration

āpad-gato yadāpy ambho na labhet savanāya saḥ । vyādhito vā punaḥ kuryād viṣṇor nāmāpamārjanam ॥ 95 ॥

16.96

Śloka

उद्यापनं विधिं कर्तुम् अशक्तो वा व्रते स्थितः । ब्राह्मणान् भोजयेच् छक्त्या व्रत-सम्पूर्ण-हेतवे ॥ ९६ ॥

Transliteration

udyāpanaṁ vidhiṁ kartum aśakto vā vrate sthitaḥ । brāhmaṇān bhojayec chaktyā vrata-sampūrṇa-hetave ॥ 96 ॥

16.97

Śloka

अशक्तो दीप-दानस्य पर-दीपान् प्रबोधयेत् । तेषां वा रक्षणं कुर्याद् वातादिभ्यः प्रयत्नतः ॥ ९७ ॥

Transliteration

aśakto dīpa-dānasya para-dīpān prabodhayet । teṣāṁ vā rakṣaṇaṁ kuryād vātādibhyaḥ prayatnataḥ ॥ 97 ॥

16.98

Śloka

अभावे तुलसीनां च पूजयेद् वैष्णवं द्विजम् । सर्वाभावे व्रती कुर्याद् ब्राह्मणानां गवाम् अपि । सेवां वा बोधि-वटयोर् व्रत-सम्पूर्ण-हेतवे ॥ ९८ ॥

Transliteration

abhāve tulasīnāṁ ca pūjayed vaiṣṇavaṁ dvijam । sarvābhāve vratī kuryād brāhmaṇānāṁ gavām api । sevāṁ vā bodhi-vaṭayor vrata-sampūrṇa-hetave ॥ 98 ॥

16.99

Śloka

कल्प-कोटि-सहस्राणि पातकानि बहून्य् अपि । निमेषार्धेन दीपस्य विलयं यान्ति कार्त्तिके ॥ ९९ ॥

Transliteration

kalpa-koṭi-sahasrāṇi pātakāni bahūny api । nimeṣārdhena dīpasya vilayaṁ yānti kārttike ॥ 99 ॥

16.100

Śloka

शृणु दीपस्य माहात्म्यं कार्त्तिके केशव-प्रियम् । दीप-दानेन विप्रेन्द्र न पुनर् जायते भुवि ॥ १०० ॥

Transliteration

śṛṇu dīpasya māhātmyaṁ kārttike keśava-priyam । dīpa-dānena viprendra na punar jāyate bhuvi ॥ 100 ॥