Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

Vilāsa 9

mahā-prasādaḥ

9.301

Śloka

प्रयान्ति तृप्तिम् अतुलां सोदकेन तु तेन वै । मुकुन्द-गात्र-लग्नेन ब्राह्मणानां विलेपनम् ॥ ३०१ ॥

Transliteration

prayānti tṛptim atulāṁ sodakena tu tena vai । mukunda-gātra-lagnena brāhmaṇānāṁ vilepanam ॥ 301 ॥

9.302

Śloka

चन्दनेन तु पिण्डनम् कर्तव्यं पितृ-तृप्तये । देवानां च पितॄणां च जायते तृप्ति-रक्षया ॥ ३०२ ॥

Transliteration

candanena tu piṇḍanam kartavyaṁ pitṛ-tṛptaye । devānāṁ ca pitṝṇāṁ ca jāyate tṛpti-rakṣayā ॥ 302 ॥

9.303

Śloka

एवं कृते मही-पल मा भवेत् संशयः क्वचित् ॥ ३०३ ॥

Transliteration

evaṁ kṛte mahī-pala mā bhavet saṁśayaḥ kvacit ॥ 303 ॥

9.304

Śloka

अन्नाद्यं श्राद्ध-काले तु पतिताद्यैर् निरीक्षितम् । तुलसी-दल-मिश्रेण सलिलेनाभिषिञ्चयेत् ॥ ३०४ ॥

Transliteration

annādyaṁ śrāddha-kāle tu patitādyair nirīkṣitam । tulasī-dala-miśreṇa salilenābhiṣiñcayet ॥ 304 ॥

9.305

Śloka

तद्-अन्नं शुद्धताम् एति विष्णोर् नैवेद्य-मिश्रितम् । विष्णोर् नैवेद्य-शेषं तु तस्माद् देयं द्विजात्मनाम् । पिण्डे चैव विशेषेन पितॄणां तृप्तिम् इच्छता ॥ ३०५ ॥

Transliteration

tad-annaṁ śuddhatām eti viṣṇor naivedya-miśritam । viṣṇor naivedya-śeṣaṁ tu tasmād deyaṁ dvijātmanām । piṇḍe caiva viśeṣena pitṝṇāṁ tṛptim icchatā ॥ 305 ॥

9.306

Śloka

पितॄन् उद्दिश्य यैः पूजा केशवस्य कृता नरैह् । त्यक्त्वा ते नारकीं पीडां मुक्तिं यान्ति महा-मुने ॥ ३०६ ॥

Transliteration

pitṝn uddiśya yaiḥ pūjā keśavasya kṛtā naraih । tyaktvā te nārakīṁ pīḍāṁ muktiṁ yānti mahā-mune ॥ 306 ॥

9.307

Śloka

धन्यास् ते मानवा लोके कलि-काले विशेषतह् । ये कुर्वन्ति हरेर् नित्यं पित्र्-अर्थं पूजनं मुने ॥ ३०७ ॥

Transliteration

dhanyās te mānavā loke kali-kāle viśeṣatah । ye kurvanti harer nityaṁ pitr-arthaṁ pūjanaṁ mune ॥ 307 ॥

9.308

Śloka

किं दत्तैर् बहुभिर् पिण्डैर् गया-श्राद्धादिभिर् मुने । यैर् अर्चितो हरिर् भक्त्या पित्र्-अर्थं च दिने दिने ॥ ३०८ ॥

Transliteration

kiṁ dattair bahubhir piṇḍair gayā-śrāddhādibhir mune । yair arcito harir bhaktyā pitr-arthaṁ ca dine dine ॥ 308 ॥

9.309

Śloka

यम् उद्दिश्य हरेः पूजा क्रियते मुनि-पुङ्गव । उद्धृत्य नरकावासात् तं नयेत् परमं पदम् ॥ ३०९ ॥

Transliteration

yam uddiśya hareḥ pūjā kriyate muni-puṅgava । uddhṛtya narakāvāsāt taṁ nayet paramaṁ padam ॥ 309 ॥

9.310

Śloka

यो ददाति हरेः स्थानं पितॄन् उद्दिश्य नारद । कर्तव्यं हि पितॄणां यत् तत् कृतं तेन भो द्विज ॥ ३१० ॥

Transliteration

yo dadāti hareḥ sthānaṁ pitṝn uddiśya nārada । kartavyaṁ hi pitṝṇāṁ yat tat kṛtaṁ tena bho dvija ॥ 310 ॥

9.311

Śloka

एक एव नारायण आसीत्, न ब्रह्मा, नेमे द्यावा-पृथिव्यौ, सर्वे देवाः, सर्वे पितरः, सर्वे मनुस्याः । विष्णुना अशितम् अश्नन्ति विष्णुनाघ्रातं जिघ्रन्ति, विष्णुना पीतं पिबन्ति, तस्माद् विध्वंसो विष्णूपाहृतं भक्षयेयुः ॥ ३११ ॥

Transliteration

eka eva nārāyaṇa āsīt, na brahmā, neme dyāvā-pṛthivyau, sarve devāḥ, sarve pitaraḥ, sarve manusyāḥ ।viṣṇunā aśitam aśnanti viṣṇunāghrātaṁ jighranti, viṣṇunā pītaṁ pibanti, tasmād vidhvaṁso viṣṇūpāhṛtaṁ bhakṣayeyuḥ ॥ 311 ॥

9.312

Śloka

प्राणेभ्यो जुहुयाद् अन्नं मन्-निवेदितम् उत्तमम् । तृप्यन्ति सर्वदा प्राणा मन्-निवेदित-भक्षणात् ॥ ३१२ ॥

Transliteration

prāṇebhyo juhuyād annaṁ man-niveditam uttamam । tṛpyanti sarvadā prāṇā man-nivedita-bhakṣaṇāt ॥ 312 ॥

9.313

Śloka

तस्मात् सर्व-प्रयत्नेन प्रदेयं मन्-निवेदितम् । ममापि हृदय-स्थस्य पितॄणां च विशेषतः ॥ ३१३ ॥

Transliteration

tasmāt sarva-prayatnena pradeyaṁ man-niveditam । mamāpi hṛdaya-sthasya pitṝṇāṁ ca viśeṣataḥ ॥ 313 ॥

9.314

Śloka

भक्ष्यं भोज्यं च यत् किञ्चिद् अनिवेद्याग्र-भोक्तरि । न देयं पितृ-देवेभ्यः प्रायश्चित्ती यतो भवेत् ॥ ३१४ ॥

Transliteration

bhakṣyaṁ bhojyaṁ ca yat kiñcid anivedyāgra-bhoktari । na deyaṁ pitṛ-devebhyaḥ prāyaścittī yato bhavet ॥ 314 ॥

9.315

Śloka

स्वर्गादौ कथितो देवैर् अग्र-भुग् भगवान् हरिः । यज्ञ-भाग-भुजो देवास् ततस् तेन प्रकल्पिताः ॥ ३१५ ॥

Transliteration

svargādau kathito devair agra-bhug bhagavān hariḥ । yajña-bhāga-bhujo devās tatas tena prakalpitāḥ ॥ 315 ॥

9.316

Śloka

यस् तु विद्या-विनिर्मुक्तं मूर्खं मत्वा तु वैष्णवम् । वेदविद्भ्योऽवदाद् विप्रः श्राद्धं तद् राक्षसं भवेत् ॥ ३१६ ॥

Transliteration

yas tu vidyā-vinirmuktaṁ mūrkhaṁ matvā tu vaiṣṇavam । vedavidbhyo’vadād vipraḥ śrāddhaṁ tad rākṣasaṁ bhavet ॥ 316 ॥

9.317

Śloka

सिक्थ-मात्रं तु यद् भुङ्क्ते जलं गण्डूष-मात्रकम् । तद्-अन्नं मेरुणा तुल्यं तज् जलं सागरोपमम् ॥ ३१७ ॥

Transliteration

siktha-mātraṁ tu yad bhuṅkte jalaṁ gaṇḍūṣa-mātrakam । tad-annaṁ meruṇā tulyaṁ taj jalaṁ sāgaropamam ॥ 317 ॥

9.318

Śloka

शङ्खाङ्कित-तनुर् विप्रो भुङ्क्ते यस्य च वेश्मनि । तद्-अन्नं स्वयम् अश्नाति पितृभिः सह केशवः ॥ ३१८ ॥

Transliteration

śaṅkhāṅkita-tanur vipro bhuṅkte yasya ca veśmani । tad-annaṁ svayam aśnāti pitṛbhiḥ saha keśavaḥ ॥ 318 ॥

9.319

Śloka

सुराभाण्डस्थ-पीयूषं यथा नश्यति तत्-क्षणात् । चक्राङ्क-रहितं श्राद्धं तथा शातातपोऽब्रवीत् ॥ ३१९ ॥

Transliteration

surābhāṇḍastha-pīyūṣaṁ yathā naśyati tat-kṣaṇāt । cakrāṅka-rahitaṁ śrāddhaṁ tathā śātātapo’bravīt ॥ 319 ॥

9.320

Śloka

निवेशयेन् नरो मोहाद् अन्य-पङ्क्तौ हरेः प्रियम् । स पतेन् निरये घोरे पङ्क्ति-भेदी नराधमः ॥ ३२० ॥

Transliteration

niveśayen naro mohād anya-paṅktau hareḥ priyam । sa paten niraye ghore paṅkti-bhedī narādhamaḥ ॥ 320 ॥

9.321

Śloka

निवेदितं यद् अन्यस्मै तद् उच्छिष्टं हि कथ्यते । अतः कथञ्चिद् अपि तन् न श्री-भगवतेऽर्पयेत् ॥ ३२१ ॥

Transliteration

niveditaṁ yad anyasmai tad ucchiṣṭaṁ hi kathyate । ataḥ kathañcid api tan na śrī-bhagavate’rpayet ॥ 321 ॥

9.322

Śloka

अपि दीपावलोकं मे नोपयुञ्ज्यान् निवेदितम् ॥ ३२२ ॥

Transliteration

api dīpāvalokaṁ me nopayuñjyān niveditam ॥ 322 ॥

9.323

Śloka

पितृ-शेषं तु योउ दद्याद् धरये परमात्मने । रेतोदाः पितरस् तस्य भवन्ति क्लेश-भागिनः ॥ ३२३ ॥

Transliteration

pitṛ-śeṣaṁ tu you dadyād dharaye paramātmane । retodāḥ pitaras tasya bhavanti kleśa-bhāginaḥ ॥ 323 ॥

9.324

Śloka

हरि-शेषं हविर् दद्यात् पितॄणाम् अक्षयं भवेत् । न पुनः पितृ-शेषं तु हरेर् ब्रह्मादि-सद्-गुरोः ॥ ३२४ ॥

Transliteration

hari-śeṣaṁ havir dadyāt pitṝṇām akṣayaṁ bhavet । na punaḥ pitṛ-śeṣaṁ tu harer brahmādi-sad-guroḥ ॥ 324 ॥

9.325

Śloka

दक्षादयश् च पितरो भृत्या इन्द्रादयः सुराः । अतस् तद्-भक्त-शेषं तु विष्णोर् नैव निवेदयेत् ॥ ३२५ ॥

Transliteration

dakṣādayaś ca pitaro bhṛtyā indrādayaḥ surāḥ । atas tad-bhakta-śeṣaṁ tu viṣṇor naiva nivedayet ॥ 325 ॥

9.326

Śloka

एवम् आवश्यकं कृत्वा वैष्णवेभ्यो विभज्य च । श्रीमन्-महा-प्रसादान्नं भुञ्जीत सह बन्धुभिः ॥ ३२६ ॥

Transliteration

evam āvaśyakaṁ kṛtvā vaiṣṇavebhyo vibhajya ca । śrīman-mahā-prasādānnaṁ bhuñjīta saha bandhubhiḥ ॥ 326 ॥

9.327

Śloka

स्वभावस्थैः कर्म-जडान् वञ्चयन् द्रविणादिभिः । हरेर् नैवेद्य-सम्भारान् वैष्णवेभ्यः समर्पयेत् ॥ ३२७ ॥

Transliteration

svabhāvasthaiḥ karma-jaḍān vañcayan draviṇādibhiḥ । harer naivedya-sambhārān vaiṣṇavebhyaḥ samarpayet ॥ 327 ॥

9.328

Śloka

हरेर् निवेदितं किञ्च्चिन् न दद्यात् कर्हिचिद् बुधः । अभक्तेभ्यः सशल्येभ्यो यद् दवन् निरये व्रजेत् ॥ ३२८ ॥

Transliteration

harer niveditaṁ kiñccin na dadyāt karhicid budhaḥ । abhaktebhyaḥ saśalyebhyo yad davan niraye vrajet ॥ 328 ॥

9.329

Śloka

अवैष्णवे देव-धृतं निर्माल्यं न प्रयच्छति । नैवेद्यं वा महाभाग तस्य तुष्यति केशवः ॥ ३२९ ॥

Transliteration

avaiṣṇave deva-dhṛtaṁ nirmālyaṁ na prayacchati । naivedyaṁ vā mahābhāga tasya tuṣyati keśavaḥ ॥ 329 ॥

9.330

Śloka

कथञ्चिद् अपि नाश्नीयाद् अकृत्वा कृष्ण-पूजनम् । न चासमर्प्य गोविन्दे किञ्चिद् भुञ्जीत वैष्णवः ॥ ३३० ॥

Transliteration

kathañcid api nāśnīyād akṛtvā kṛṣṇa-pūjanam । na cāsamarpya govinde kiñcid bhuñjīta vaiṣṇavaḥ ॥ 330 ॥

9.331

Śloka

अनर्चयित्वा गोविन्दं यैर् भुक्तं धर्म-वर्जितैः । श्वान-विष्ठा-समं चान्नं नीरं च सुरया समम् ॥ ३३१ ॥

Transliteration

anarcayitvā govindaṁ yair bhuktaṁ dharma-varjitaiḥ । śvāna-viṣṭhā-samaṁ cānnaṁ nīraṁ ca surayā samam ॥ 331 ॥

9.332

Śloka

यो मोहाद् अथवालस्याद् अकृत्वा देवतार्चनम् । भुङ्क्ते स याति नरकं शूकरेष्व् इह जायते ॥ ३३२ ॥

Transliteration

yo mohād athavālasyād akṛtvā devatārcanam । bhuṅkte sa yāti narakaṁ śūkareṣv iha jāyate ॥ 332 ॥

9.333

Śloka

एक-कालं द्विकालं वा त्रि-कालं पूजयेद् धरिम् । अपूज्य भोजनं कुर्वन् नरकाणि व्रजेन् नरः ॥ ३३३ ॥

Transliteration

eka-kālaṁ dvikālaṁ vā tri-kālaṁ pūjayed dharim । apūjya bhojanaṁ kurvan narakāṇi vrajen naraḥ ॥ 333 ॥

9.334

Śloka

प्रातर् मध्यन्दिनं सायं विष्णु-पूजा स्मृता बुधैः । अशक्तो विस्तरेणैव प्रातः सम्पूज्य केशवम् ॥ ३३४ ॥

Transliteration

prātar madhyandinaṁ sāyaṁ viṣṇu-pūjā smṛtā budhaiḥ । aśakto vistareṇaiva prātaḥ sampūjya keśavam ॥ 334 ॥

9.335

Śloka

मध्याह्ने चैव सायं च पुष्पाञ्जलिम् अपि क्षिपेत् । मध्याह्ने वा विस्तरेण संक्षेपेणाथवा हरिम् ॥ ३३५ ॥

Transliteration

madhyāhne caiva sāyaṁ ca puṣpāñjalim api kṣipet । madhyāhne vā vistareṇa saṁkṣepeṇāthavā harim ॥ 335 ॥

9.336

Śloka

सम्भोज्य भोजनं कुर्याद् अन्यथा नरकं व्रजेत् ॥ ३३६ ॥

Transliteration

sambhojya bhojanaṁ kuryād anyathā narakaṁ vrajet ॥ 336 ॥

9.337

Śloka

न त्व् एवापूज्य भुञ्जीत भगवन्तं जनार्दनम् । न तत् स्वयं समश्नीयात् यद् विष्णौ न निवेदयेत् ॥ ३३७ ॥

Transliteration

na tv evāpūjya bhuñjīta bhagavantaṁ janārdanam । na tat svayaṁ samaśnīyāt yad viṣṇau na nivedayet ॥ 337 ॥

9.338

Śloka

पत्रं पुष्पं फलं तोयम् अन्न-पानाद्यम् औषधम् । अनिवेद्य च भुञ्जीत यद् आहाराय कल्पितम् ॥ ३३८ ॥

Transliteration

patraṁ puṣpaṁ phalaṁ toyam anna-pānādyam auṣadham । anivedya ca bhuñjīta yad āhārāya kalpitam ॥ 338 ॥

9.339

Śloka

अनिवेद्यं तु भुञ्जानः प्रायश्चित्ती भवेन् नरः । तस्मात् सर्वं निवेद्यैव विष्णोर् भुञ्जीत सर्वदा ॥ ३३९ ॥

Transliteration

anivedyaṁ tu bhuñjānaḥ prāyaścittī bhaven naraḥ । tasmāt sarvaṁ nivedyaiva viṣṇor bhuñjīta sarvadā ॥ 339 ॥

9.340

Śloka

अम्बरीष गृहे पक्वं यद् अभीष्टं सदात्मनः । अनिवेद्य हरेर् भुञ्जन् सप्त-कल्पानि नारकी ॥ ३४० ॥

Transliteration

ambarīṣa gṛhe pakvaṁ yad abhīṣṭaṁ sadātmanaḥ । anivedya harer bhuñjan sapta-kalpāni nārakī ॥ 340 ॥

9.341

Śloka

अवैष्णवानां यच् चान्नं पतितानां तथैव च । अनर्पितं तथा विष्णौ श्व-मांस-सदृशं भवेत् ॥ ३४१ ॥

Transliteration

avaiṣṇavānāṁ yac cānnaṁ patitānāṁ tathaiva ca । anarpitaṁ tathā viṣṇau śva-māṁsa-sadṛśaṁ bhavet ॥ 341 ॥

9.342

Śloka

अनिवेद्य तु यो भुङ्क्ते हरये परमात्मने । मज्जन्ति पितरस् तस्य नरके शाश्वतीः समाः ॥ ३४२ ॥

Transliteration

anivedya tu yo bhuṅkte haraye paramātmane । majjanti pitaras tasya narake śāśvatīḥ samāḥ ॥ 342 ॥

9.343

Śloka

अम्बरीष नवं वस्त्रं फलम् अन्नं रसादिकम् । कृत्वा विष्णूपभुक्तं तु सदा सेव्यं हि वैष्णवैः ॥ ३४३ ॥

Transliteration

ambarīṣa navaṁ vastraṁ phalam annaṁ rasādikam । kṛtvā viṣṇūpabhuktaṁ tu sadā sevyaṁ hi vaiṣṇavaiḥ ॥ 343 ॥

9.344

Śloka

गन्धान्न-वर-भक्ष्यांश् च स्रजो वासांसि भूषणम् । दत्त्वा तु देवदेवाय तच्-छेषाण्य् उपभुञ्जते ॥ ३४४ ॥

Transliteration

gandhānna-vara-bhakṣyāṁś ca srajo vāsāṁsi bhūṣaṇam । dattvā tu devadevāya tac-cheṣāṇy upabhuñjate ॥ 344 ॥

9.345

Śloka

पादोदकं पिबेन् नित्यं नैवेद्यं भक्षयेद् धरेः । शेषाश् च मस्तके धार्या इति वेदानुशासनम् ॥ ३४५ ॥

Transliteration

pādodakaṁ piben nityaṁ naivedyaṁ bhakṣayed dhareḥ । śeṣāś ca mastake dhāryā iti vedānuśāsanam ॥ 345 ॥

9.346

Śloka

उद्वास्य देवं स्वे धाम्नि तन् निवेदितम् अग्रतः । अद्याद् आत्म-विशुद्ध्य्-अर्थं सर्व-कामार्थ-सिद्धये ॥ ३४६ ॥

Transliteration

udvāsya devaṁ sve dhāmni tan niveditam agrataḥ । adyād ātma-viśuddhy-arthaṁ sarva-kāmārtha-siddhaye ॥ 346 ॥

9.347

Śloka

निवेदितं तद्-भक्ताय दद्याद् भुञ्जीत वा स्वयम् ॥ ३४७ ॥

Transliteration

niveditaṁ tad-bhaktāya dadyād bhuñjīta vā svayam ॥ 347 ॥

9.348

Śloka

शुक्लोपचार-सम्भारैर् नित्यशो हरिम् अर्चयेत् । निवेद्य कृष्णाय विधिवद् अन्नं भुञ्जीत तत् स्वयम् । अथवा सात्वते दद्याद् यदि लभ्यते भक्तितः ॥ ३४८ ॥

Transliteration

śuklopacāra-sambhārair nityaśo harim arcayet । nivedya kṛṣṇāya vidhivad annaṁ bhuñjīta tat svayam । athavā sātvate dadyād yadi labhyate bhaktitaḥ ॥ 348 ॥

9.349

Śloka

भक्त-क्षण-क्षणो देवः स्मृतिः सेवा स्व-वेश्मनि । स्व-भोज्यस्यार्पणं दानं फलम् इन्द्रादि-दुर्लभम् ॥ ३४९ ॥

Transliteration

bhakta-kṣaṇa-kṣaṇo devaḥ smṛtiḥ sevā sva-veśmani । sva-bhojyasyārpaṇaṁ dānaṁ phalam indrādi-durlabham ॥ 349 ॥

9.350

Śloka

दृष्ट्वा महा-प्रसादान्नं तत् प्राङ् नत्वाभिमन्त्रयेत् । स्वेष्ट-नाम्ना ततो मूल-मनुना वार-सप्तकम् ॥ ३५० ॥

Transliteration

dṛṣṭvā mahā-prasādānnaṁ tat prāṅ natvābhimantrayet । sveṣṭa-nāmnā tato mūla-manunā vāra-saptakam ॥ 350 ॥

9.351

Śloka

धर्मराजादि-भागं चापास्य श्री-चरणामृतम् । तुलसीं चात्र निक्षिप्य श्लोकान् सङ्कीर्तयेद् इमान् ॥ ३५१ ॥

Transliteration

dharmarājādi-bhāgaṁ cāpāsya śrī-caraṇāmṛtam । tulasīṁ cātra nikṣipya ślokān saṅkīrtayed imān ॥ 351 ॥

9.352

Śloka

यस्योच्छिष्टं हि वाञ्छन्ति ब्रह्माद्या ऋषयोऽमलाः । सिद्धाद्याश् च हरेस् तस्य वयम् उच्छिष्ट-भोजिनः ॥ ३५२ ॥

Transliteration

yasyocchiṣṭaṁ hi vāñchanti brahmādyā ṛṣayo’malāḥ । siddhādyāś ca hares tasya vayam ucchiṣṭa-bhojinaḥ ॥ 352 ॥

9.353

Śloka

यस्य नाम्ना विनश्यन्ति महापातक-राशयः । तस्य श्री-कृष्ण-देवस्य वयम् उच्छिष्ट-भोजिनः ॥ ३५३ ॥

Transliteration

yasya nāmnā vinaśyanti mahāpātaka-rāśayaḥ । tasya śrī-kṛṣṇa-devasya vayam ucchiṣṭa-bhojinaḥ ॥ 353 ॥

9.354

Śloka

उच्छिष्ट-भोजिनस् तस्य वयम् अद्भुत-कर्मणः । यो बाल्य-लीलया तांस् तान् पूतनादीन् अपातयत् ॥ ३५४ ॥

Transliteration

ucchiṣṭa-bhojinas tasya vayam adbhuta-karmaṇaḥ । yo bālya-līlayā tāṁs tān pūtanādīn apātayat ॥ 354 ॥

9.355

Śloka

त्वयोपभुक्त-स्रग्-गन्ध-वासोऽलङ्कार-चर्चिताः । उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥ ३५५ ॥

Transliteration

tvayopabhukta-srag-gandha-vāso'laṅkāra-carcitāḥ । ucchiṣṭa-bhojino dāsās tava māyāṁ jayemahi ॥ 355 ॥

9.356

Śloka

यतोऽमृतोपस्तरणम् असीत्य् उक्त्वा यथा-विधि । पञ्च प्राणाहुतीः कृत्वा भुञ्जीत पुरतः प्रभोः ॥ ३५६ ॥

Transliteration

yato’mṛtopastaraṇam asīty uktvā yathā-vidhi । pañca prāṇāhutīḥ kṛtvā bhuñjīta purataḥ prabhoḥ ॥ 356 ॥

9.357

Śloka

प्रशस्त-रत्न-पाणिस् तु भुञ्जीत प्रयतो गृही ॥ ३५७ ॥

Transliteration

praśasta-ratna-pāṇis tu bhuñjīta prayato gṛhī ॥ 357 ॥

9.358

Śloka

पुण्य-गन्धौ शस्त-माल्य-धारी चैव नरेश्वर । नैक-वस्त्र-धरोऽथार्द्र-पाणि-पादो महीपते ॥ ३५८ ॥

Transliteration

puṇya-gandhau śasta-mālya-dhārī caiva nareśvara । naika-vastra-dharo’thārdra-pāṇi-pādo mahīpate ॥ 358 ॥

9.359

Śloka

विशुद्ध-वदनः प्रीतो भुञ्जीत न विदिङ्-मुखः । प्राङ्-मुखोदङ्-मुखो वापि न चैवान्य-मना नरः ॥ ३५९ ॥

Transliteration

viśuddha-vadanaḥ prīto bhuñjīta na vidiṅ-mukhaḥ । prāṅ-mukhodaṅ-mukho vāpi na caivānya-manā naraḥ ॥ 359 ॥

9.360

Śloka

दत्त्वा तु भक्तं शिष्येभ्यः क्षुधितेभ्यस् तथा गृही । प्रशस्त-शुद्ध-पात्रे तु भुञ्जीताकुपितो द्विजः ॥ ३६० ॥

Transliteration

dattvā tu bhaktaṁ śiṣyebhyaḥ kṣudhitebhyas tathā gṛhī । praśasta-śuddha-pātre tu bhuñjītākupito dvijaḥ ॥ 360 ॥

9.361

Śloka

नासन्दि-संस्थिते पात्रे नादेशे च नरेश्वर । नाकाले नातिसङ्कीर्णे दत्त्वाग्रं च नरोऽग्नये । नाशेषं पुरुषोऽश्नीयाद् अन्यत्र जगती-पते ॥ ३६१ ॥

Transliteration

nāsandi-saṁsthite pātre nādeśe ca nareśvara । nākāle nātisaṅkīrṇe dattvāgraṁ ca naro’gnaye । nāśeṣaṁ puruṣo’śnīyād anyatra jagatī-pate ॥ 361 ॥

9.362

Śloka

मध्वम्भु-दधि-सर्पिभ्यः सक्तुभ्यश् च विवेकवान् । अश्नीयात् तन्-मयो भूत्वा पूर्वं तु मधुरं रसम् ॥ ३६२ ॥

Transliteration

madhvambhu-dadhi-sarpibhyaḥ saktubhyaś ca vivekavān । aśnīyāt tan-mayo bhūtvā pūrvaṁ tu madhuraṁ rasam ॥ 362 ॥

9.363

Śloka

लवणाम्ले तथा मध्ये कटु-तिक्तादिकांस् ततः । प्राग् द्रवं पुरुषोऽश्नीयान् मध्ये कठिनाशनम् ॥ ३६३ ॥

Transliteration

lavaṇāmle tathā madhye kaṭu-tiktādikāṁs tataḥ । prāg dravaṁ puruṣo’śnīyān madhye kaṭhināśanam ॥ 363 ॥

9.364

Śloka

अन्ते पुनर् द्रवाशी तु बलारोग्ये न मुञ्चति । पञ्च-ग्रासं महा-मौनं प्राणाद्याप्यायनाय तत् ॥ ३६४ ॥

Transliteration

ante punar dravāśī tu balārogye na muñcati । pañca-grāsaṁ mahā-maunaṁ prāṇādyāpyāyanāya tat ॥ 364 ॥

9.365

Śloka

भुक्त्वा सम्यग् अथाचम्य प्राङ्-मुखोदङ्मुखोऽपि वा । यथावत् पुनर् आचामेत् पाणी प्रक्षाल्य मूलतः ॥ ३६५ ॥

Transliteration

bhuktvā samyag athācamya prāṅ-mukhodaṅmukho’pi vā । yathāvat punar ācāmet pāṇī prakṣālya mūlataḥ ॥ 365 ॥

9.366

Śloka

स्वस्थः प्रशान्त-चित्तस् तु कृतासन-परिग्रहः । अभीष्ट-देवतानां तु कुर्वीत स्मरणं नरः ॥ ३६६ ॥

Transliteration

svasthaḥ praśānta-cittas tu kṛtāsana-parigrahaḥ । abhīṣṭa-devatānāṁ tu kurvīta smaraṇaṁ naraḥ ॥ 366 ॥

9.367

Śloka

यच्छन्त्व् अरोगो मम चास्तु देहे ॥ ३६७ ॥

Transliteration

yacchantv arogo mama cāstu dehe ॥ 367 ॥

9.368

Śloka

आरोग्यदं मे परिणामम् एतु ॥ ३६८ ॥

Transliteration

ārogyadaṁ me pariṇāmam etu ॥ 368 ॥

9.369

Śloka

इत्य् उच्चार्य स्व-हस्तेन परिमृज्य तथोदरम् । अनायास-प्रदायीनि कुर्यात् कर्माण्य् अतन्द्रितः ॥ ३६९ ॥

Transliteration

ity uccārya sva-hastena parimṛjya tathodaram । anāyāsa-pradāyīni kuryāt karmāṇy atandritaḥ ॥ 369 ॥

9.370

Śloka

प्राङ्-मुखोऽन्नानि भुञ्जीत सूर्याभिमुखम् एव वा । आसीनः स्वासने सिद्धे भूम्यां पादौ निधाय च ॥ ३७० ॥

Transliteration

prāṅ-mukho’nnāni bhuñjīta sūryābhimukham eva vā । āsīnaḥ svāsane siddhe bhūmyāṁ pādau nidhāya ca ॥ 370 ॥

9.371

Śloka

आयुष्यं प्राङ्-मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्-मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्-मुखः ॥ ३७१ ॥

Transliteration

āyuṣyaṁ prāṅ-mukho bhuṅkte yaśasyaṁ dakṣiṇāmukhaḥ । śriyaṁ pratyaṅ-mukho bhuṅkte ṛtaṁ bhuṅkte udaṅ-mukhaḥ ॥ 371 ॥

9.372

Śloka

पञ्चार्द्रो भोजनं कुर्याद् भूमौ पात्रं निधाय च । उपवासेन तत् तुल्यं मनुर् आह प्रजापतिः ॥ ३७२ ॥

Transliteration

pañcārdro bhojanaṁ kuryād bhūmau pātraṁ nidhāya ca । upavāsena tat tulyaṁ manur āha prajāpatiḥ ॥ 372 ॥

9.373

Śloka

उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ । आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ॥ ३७३ ॥

Transliteration

upalipte śucau deśe pādau prakṣālya vai karau । ācamyārdrānano’krodhaḥ pañcārdro bhojanaṁ caret ॥ 373 ॥

9.374

Śloka

महा-व्याहृतिभिस् त्व् अन्नं परिवार्योदकेन तु । अमृतोपस्तरणम् असीत्यपोशान-क्रियां चरेत् ॥ ३७४ ॥

Transliteration

mahā-vyāhṛtibhis tv annaṁ parivāryodakena tu । amṛtopastaraṇam asītyapośāna-kriyāṁ caret ॥ 374 ॥

9.375

Śloka

स्वाहा-प्रणव-संयुक्तां प्राणायेत्य् आहुतिं ततः । अपानाय ततो हुत्वा व्यानाय तद्-अनन्तरम् ॥ ३७५ ॥

Transliteration

svāhā-praṇava-saṁyuktāṁ prāṇāyety āhutiṁ tataḥ । apānāya tato hutvā vyānāya tad-anantaram ॥ 375 ॥

9.376

Śloka

उदानाय ततः कुर्यात् समानायेति पञ्चमीम् । विज्ञाय तत्त्वम् एतेषां जुहुयाद् आत्मनि द्विजाः ॥ ३७६ ॥

Transliteration

udānāya tataḥ kuryāt samānāyeti pañcamīm । vijñāya tattvam eteṣāṁ juhuyād ātmani dvijāḥ ॥ 376 ॥

9.377

Śloka

शेषम् अन्नं यथाकामं भुञ्जीत व्यञ्जनैर् युतम् । ध्यात्वा तन्-मनसा देवम् आत्मानं वै प्रजापतिम् ॥ ३७७ ॥

Transliteration

śeṣam annaṁ yathākāmaṁ bhuñjīta vyañjanair yutam । dhyātvā tan-manasā devam ātmānaṁ vai prajāpatim ॥ 377 ॥

9.378

Śloka

अमृतापिधानम् असीत्य् उपरिष्टाद् अपः पिबेत् ॥ ३७८ ॥

Transliteration

amṛtāpidhānam asīty upariṣṭād apaḥ pibet ॥ 378 ॥

9.379

Śloka

यद् भुङ्क्ते वेष्टित-शिरा यच् च भुङ्क्ते विदिङ्-मुखः । सोपानत्कश् च यद् भुङ्क्ते सर्वं विद्यात् तद् आसुरम् ॥ ३७९ ॥

Transliteration

yad bhuṅkte veṣṭita-śirā yac ca bhuṅkte vidiṅ-mukhaḥ । sopānatkaś ca yad bhuṅkte sarvaṁ vidyāt tad āsuram ॥ 379 ॥

9.380

Śloka

नार्ध-रात्रे न मध्याह्ने नाजीर्णं नार्द्र-वस्त्र-धृक् । न च भिन्नासन-गतो न याने संस्थितोऽपि वा ॥ ३८० ॥

Transliteration

nārdha-rātre na madhyāhne nājīrṇaṁ nārdra-vastra-dhṛk । na ca bhinnāsana-gato na yāne saṁsthito’pi vā ॥ 380 ॥

9.381

Śloka

न भिन्न-भाजने चैव न भूम्यां न च पाणिषु । अनारोग्यम् अनायुष्यम् अस्वर्ग्यं चातिभोजनम् । अपुण्यं लोक-विद्विष्टं तस्मात् तत् परिवर्जयेत् ॥ ३८१ ॥

Transliteration

na bhinna-bhājane caiva na bhūmyāṁ na ca pāṇiṣu । anārogyam anāyuṣyam asvargyaṁ cātibhojanam । apuṇyaṁ loka-vidviṣṭaṁ tasmāt tat parivarjayet ॥ 381 ॥

9.382

Śloka

न वाम-हस्तेनोद्धृत्य पिबेद् वक्त्रेण वा जलम् ॥ ३८२ ॥

Transliteration

na vāma-hastenoddhṛtya pibed vaktreṇa vā jalam ॥ 382 ॥

9.383

Śloka

पिबतः पतते तोयं भाजने मुख-निर्गयम् । अभोज्यं तद् भवेद् अन्नं भुक्त्वा चान्द्रायणं चरेत् ॥ ३८३ ॥

Transliteration

pibataḥ patate toyaṁ bhājane mukha-nirgayam । abhojyaṁ tad bhaved annaṁ bhuktvā cāndrāyaṇaṁ caret ॥ 383 ॥

9.384

Śloka

भुञ्जीतान्नं च तच्-चित्तो ह्य् अन्तर्जासु सदा नरः । उपघाताद् ऋते दोषान्नान्नस्योदीरयेद् बुधः ॥ ३८४ ॥

Transliteration

bhuñjītānnaṁ ca tac-citto hy antarjāsu sadā naraḥ । upaghātād ṛte doṣānnānnasyodīrayed budhaḥ ॥ 384 ॥

9.385

Śloka

हस्तादृतेऽम्बुनान्येनान् अश्नन् पात्राद् ऋते पिबेत् । दक्षिणं तु परित्यज्य वामे नीरं निघापयेत् । अभोज्यं तद् भवेद् अन्नं पानीयं च सुरा-समम् ॥ ३८५ ॥

Transliteration

hastādṛte’mbunānyenān aśnan pātrād ṛte pibet । dakṣiṇaṁ tu parityajya vāme nīraṁ nighāpayet । abhojyaṁ tad bhaved annaṁ pānīyaṁ ca surā-samam ॥ 385 ॥

9.386

Śloka

तृप्तो दद्याद् धि तद्-अन्नं शेषं दुर्गत-तृप्तये ॥ ३८६ ॥

Transliteration

tṛpto dadyād dhi tad-annaṁ śeṣaṁ durgata-tṛptaye ॥ 386 ॥

9.387

Śloka

सम्यग् आचम्य दक्षाङ्घ्रेर् अङ्गुष्ठे वारि निक्षिपेत् ॥ ३८७ ॥

Transliteration

samyag ācamya dakṣāṅghrer aṅguṣṭhe vāri nikṣipet ॥ 387 ॥

9.388

Śloka

ततः संस्मृत्य सन्तुष्टः पुष्टिदाम् इष्ट-देवताम् । सन्निकृष्टैर् वृतः शिष्टैर् जपेद् अन्न-पतेर् मनून् । अन्नपतेऽन्नस्य नो देहि ॥ ३८८ ॥

Transliteration

tataḥ saṁsmṛtya santuṣṭaḥ puṣṭidām iṣṭa-devatām । sannikṛṣṭair vṛtaḥ śiṣṭair japed anna-pater manūn । annapate’nnasya no dehi ॥ 388 ॥

9.389

Śloka

भक्षयेद् अथ ताम्बूलं प्रसादं वल्लवी-प्रभोः । शिष्टैर् इष्टैर् जपेद् दिव्यं भगवन् नाम-मङ्गलम् ॥ ३८९ ॥

Transliteration

bhakṣayed atha tāmbūlaṁ prasādaṁ vallavī-prabhoḥ । śiṣṭair iṣṭair japed divyaṁ bhagavan nāma-maṅgalam ॥ 389 ॥

9.390

Śloka

यो ममैवार्चनं कृत्वा तत्र प्रापणम् उत्तमम् । शेषम् अन्नं शम् अश्नाति ततः सौख्यतरं नु किम् ॥ ३९० ॥

Transliteration

yo mamaivārcanaṁ kṛtvā tatra prāpaṇam uttamam । śeṣam annaṁ śam aśnāti tataḥ saukhyataraṁ nu kim ॥ 390 ॥

9.391

Śloka

तवोपहारं भुक्त्वा यः सेवते यज्ञ-पूरुषम् । सेवितं तेन नियतं पुरोडाशो महाधिया ॥ ३९१ ॥

Transliteration

tavopahāraṁ bhuktvā yaḥ sevate yajña-pūruṣam । sevitaṁ tena niyataṁ puroḍāśo mahādhiyā ॥ 391 ॥

9.392

Śloka

निर्माल्य-शेषं व्रत-दान-तुल्यम् ॥ ३९२ ॥

Transliteration

nirmālya-śeṣaṁ vrata-dāna-tulyam ॥ 392 ॥

9.393

Śloka

प्राप्नोति यज्ञायुत-कोटि-पुण्यम् ॥ ३९३ ॥

Transliteration

prāpnoti yajñāyuta-koṭi-puṇyam ॥ 393 ॥

9.394

Śloka

षड्भिर् मासोपवासैस् तु यत् फलं परिकीर्तितम् । विष्णोर् नैवेद्य-शेषे यत् फलं तद् भुञ्जतां कलौ ॥ ३९४ ॥

Transliteration

ṣaḍbhir māsopavāsais tu yat phalaṁ parikīrtitam । viṣṇor naivedya-śeṣe yat phalaṁ tad bhuñjatāṁ kalau ॥ 394 ॥

9.395

Śloka

भक्त्या भुनक्ति नैवेद्यं शालग्राम-शिलार्पितम् । कोटिं मखस्य लभते फलं शत-सहस्रशः ॥ ३९५ ॥

Transliteration

bhaktyā bhunakti naivedyaṁ śālagrāma-śilārpitam । koṭiṁ makhasya labhate phalaṁ śata-sahasraśaḥ ॥ 395 ॥

9.396

Śloka

ब्रह्म-वारि-गृहस्थैश् च वानप्रस्थैश् च भिक्षुभिः । भोक्तव्यं विष्णु-नैवेद्यं नात्र कार्या विचारणा ॥ ३९६ ॥

Transliteration

brahma-vāri-gṛhasthaiś ca vānaprasthaiś ca bhikṣubhiḥ । bhoktavyaṁ viṣṇu-naivedyaṁ nātra kāryā vicāraṇā ॥ 396 ॥

9.397

Śloka

भुक्त्वान्य-देव-नैवेद्यं द्विजश् चान्द्रायणं चरेत् । भुक्त्वा केशव-नैवेद्यं यज्ञ-कोटि-फलं लभेत् ॥ ३९७ ॥

Transliteration

bhuktvānya-deva-naivedyaṁ dvijaś cāndrāyaṇaṁ caret । bhuktvā keśava-naivedyaṁ yajña-koṭi-phalaṁ labhet ॥ 397 ॥

9.398

Śloka

अग्निष्टोम-सहस्रैस् तु वाजपेय-शतैर् अपि । तत् फलं प्राप्यते नूनं विष्णोर् नैवेद्य-भक्षणात् ॥ ३९८ ॥

Transliteration

agniṣṭoma-sahasrais tu vājapeya-śatair api । tat phalaṁ prāpyate nūnaṁ viṣṇor naivedya-bhakṣaṇāt ॥ 398 ॥

9.399

Śloka

हृदि रूपं मुखे नाम नैवेद्यम् उदरे हरेः । पादोदकं च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥ ३९९ ॥

Transliteration

hṛdi rūpaṁ mukhe nāma naivedyam udare hareḥ । pādodakaṁ ca nirmālyaṁ mastake yasya so’cyutaḥ ॥ 399 ॥

9.400

Śloka

पावनं विष्णु-नैवेद्यं सुर-सिद्धर्षिभिः स्मृतम् । अन्य-देवस्य नैवेद्यं भुवत्त्वाचान्द्रायणं चरेत् ॥ ४०० ॥

Transliteration

pāvanaṁ viṣṇu-naivedyaṁ sura-siddharṣibhiḥ smṛtam । anya-devasya naivedyaṁ bhuvattvācāndrāyaṇaṁ caret ॥ 400 ॥