Vedic Library

Preview edition. Text: the Gaudiya Grantha Mandira digital files, rights unresolved. The Devanagari and Bengali scripts are derived by machine from the IAST text of those files, are not the book's own spelling, and await proofreading. Verses only: no commentary, no translation.

Vilāsa 9

mahā-prasādaḥ

9.101

Śloka

निर्मिता त्वं पुरा देवैर् अर्चिता त्वं सुरासुरैः । तुलसी हर मे पापं पूजां गृह्ण नमोऽस्तु ते ॥ १०१ ॥

Transliteration

nirmitā tvaṁ purā devair arcitā tvaṁ surāsuraiḥ । tulasī hara me pāpaṁ pūjāṁ gṛhṇa namo’stu te ॥ 101 ॥

9.102

Śloka

महा-प्रसाद-जननी सर्व-सौभाग्य-वर्धिनी । आधि-व्याधि-हरो नित्यं तुलसी त्वं नमोऽस्तु ते ॥ १०२ ॥

Transliteration

mahā-prasāda-jananī sarva-saubhāgya-vardhinī । ādhi-vyādhi-haro nityaṁ tulasī tvaṁ namo’stu te ॥ 102 ॥

9.103

Śloka

श्रीयं देहि यशो देहि कीर्तिम् आयुस् तथा सुखम् । बलं पुष्टिं तथा धर्मं तुलसी त्वं प्रसीद मे ॥ १०३ ॥

Transliteration

śrīyaṁ dehi yaśo dehi kīrtim āyus tathā sukham । balaṁ puṣṭiṁ tathā dharmaṁ tulasī tvaṁ prasīda me ॥ 103 ॥

9.104

Śloka

न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्यै तुलस्यै नमः ॥ १०४ ॥

Transliteration

nyastā tac-caraṇe vimukti-phaladā tasyai tulasyai namaḥ ॥ 104 ॥

9.105

Śloka

भगवत्यास् तुलस्यास् तु माहात्म्यामृत-सागरे । लोभात् कूर्दितुम् इच्छामि क्षुद्रस् तत् क्षम्यतां त्वया ॥ १०५ ॥

Transliteration

bhagavatyās tulasyās tu māhātmyāmṛta-sāgare । lobhāt kūrditum icchāmi kṣudras tat kṣamyatāṁ tvayā ॥ 105 ॥

9.106

Śloka

श्रावण-द्वादशी-योगे शालग्राम-शिलार्चने । यत् फलं सङ्गमे प्रोक्तं तुलसी-पूजनेन तत् ॥ १०६ ॥

Transliteration

śrāvaṇa-dvādaśī-yoge śālagrāma-śilārcane । yat phalaṁ saṅgame proktaṁ tulasī-pūjanena tat ॥ 106 ॥

9.107

Śloka

धात्री-फलेन यत् पुण्यं जयन्त्यां समुपोषणे । खगेन्द्र भवते नॄणां तुलसी-पूजनेन तत् ॥ १०७ ॥

Transliteration

dhātrī-phalena yat puṇyaṁ jayantyāṁ samupoṣaṇe । khagendra bhavate nṝṇāṁ tulasī-pūjanena tat ॥ 107 ॥

9.108

Śloka

प्रयाग-स्नान-निरतौ कस्यां प्राण-विमोक्षणे । यत् फलं विहितं देवैस् तुलसी-पूजनेन तत् ॥ १०८ ॥

Transliteration

prayāga-snāna-niratau kasyāṁ prāṇa-vimokṣaṇe । yat phalaṁ vihitaṁ devais tulasī-pūjanena tat ॥ 108 ॥

9.109

Śloka

चतुर्णाम् अपि वर्णानाम् आश्रमाणाम् विशेषतः । स्त्रीणां च पुरुषाणां च पूजितेष्टं ददाति हि ॥ १०९ ॥

Transliteration

caturṇām api varṇānām āśramāṇām viśeṣataḥ । strīṇāṁ ca puruṣāṇāṁ ca pūjiteṣṭaṁ dadāti hi ॥ 109 ॥

9.110

Śloka

तुलसी रोपिता सिक्ता दृष्टा स्पृष्टा च पावयेत् । आराधिता प्रयत्नेन सर्व-काम-फल-प्रदा ॥ ११० ॥

Transliteration

tulasī ropitā siktā dṛṣṭā spṛṣṭā ca pāvayet । ārādhitā prayatnena sarva-kāma-phala-pradā ॥ 110 ॥

9.111

Śloka

प्रदक्षिणं भ्रमित्वा ये नमस्कुर्वन्ति नित्यशः । न तेषां दुरितं किञ्चिद् अक्षीणम् अवशिष्यते ॥ १११ ॥

Transliteration

pradakṣiṇaṁ bhramitvā ye namaskurvanti nityaśaḥ । na teṣāṁ duritaṁ kiñcid akṣīṇam avaśiṣyate ॥ 111 ॥

9.112

Śloka

पूज्यमाना च तुलसी यस्य वेश्मनि तिष्ठति । तस्य सर्वाणि श्रेयांसि वर्धन्ते ऽहर्-अहर् द्विजाः ॥ ११२ ॥

Transliteration

pūjyamānā ca tulasī yasya veśmani tiṣṭhati । tasya sarvāṇi śreyāṁsi vardhante 'har-ahar dvijāḥ ॥ 112 ॥

9.113

Śloka

पक्षे पक्षे तु सम्प्राप्ते द्वादश्यां वैश्य-सत्तम । ब्रह्मादयोऽपि कुर्वन्ति तुलसी-वन-पूजनम् ॥ ११३ ॥

Transliteration

pakṣe pakṣe tu samprāpte dvādaśyāṁ vaiśya-sattama । brahmādayo’pi kurvanti tulasī-vana-pūjanam ॥ 113 ॥

9.114

Śloka

अनन्य-मनसा नित्यं तुलसीं स्तौति यो नरः । पितृ-देव-मनुष्याणां प्रियो भवति सर्वदा ॥ ११४ ॥

Transliteration

ananya-manasā nityaṁ tulasīṁ stauti yo naraḥ । pitṛ-deva-manuṣyāṇāṁ priyo bhavati sarvadā ॥ 114 ॥

9.115

Śloka

रतिं बध्नाति नान्यत्र तुलसी-काननम् विना । देव-देवो जगत्-स्वामी कलि-काले विशेषतः ॥ ११५ ॥

Transliteration

ratiṁ badhnāti nānyatra tulasī-kānanam vinā । deva-devo jagat-svāmī kali-kāle viśeṣataḥ ॥ 115 ॥

9.116

Śloka

हित्वा तीर्थ-सहस्राणि सर्वान् अपि शिलोच्चयन् । तुलसी-कानने नित्यं कलौ तिष्ठति केशवः ॥ ११६ ॥

Transliteration

hitvā tīrtha-sahasrāṇi sarvān api śiloccayan । tulasī-kānane nityaṁ kalau tiṣṭhati keśavaḥ ॥ 116 ॥

9.117

Śloka

निरीक्षिता नरैर् यैस् तु तुलसी-वन-वाटिका । रोपिता यैश् च विधिना सम्प्राप्तं परमं पदम् ॥ ११७ ॥

Transliteration

nirīkṣitā narair yais tu tulasī-vana-vāṭikā । ropitā yaiś ca vidhinā samprāptaṁ paramaṁ padam ॥ 117 ॥

9.118

Śloka

न धात्री स-फला यत्र न विष्णुस् तुलसी-वनम् । तत् श्मशान-समं स्थानं सन्ति यत्र न वैष्णवाः ॥ ११८ ॥

Transliteration

na dhātrī sa-phalā yatra na viṣṇus tulasī-vanam । tat śmaśāna-samaṁ sthānaṁ santi yatra na vaiṣṇavāḥ ॥ 118 ॥

9.119

Śloka

केशवार्थे कलौ ये तु रोपयन्तीह भू-तले । किं करिष्यत्य् असन्तुष्टो यमोऽपि सह किङ्करैः ॥ ११९ ॥

Transliteration

keśavārthe kalau ye tu ropayantīha bhū-tale । kiṁ kariṣyaty asantuṣṭo yamo’pi saha kiṅkaraiḥ ॥ 119 ॥

9.120

Śloka

तुलस्या रोपणं कार्यं श्रवणेन विशेषतः । अपराध-सहस्राणि क्षमते पुरुषोत्तमः ॥ १२० ॥

Transliteration

tulasyā ropaṇaṁ kāryaṁ śravaṇena viśeṣataḥ । aparādha-sahasrāṇi kṣamate puruṣottamaḥ ॥ 120 ॥

9.121

Śloka

देवालयेषु सर्वेषु पुण्य-क्षेत्रेषु यो नरः । वापयेत् तुलसीं पुण्यां तत् तीर्थं चक्र-पाणिनः ॥ १२१ ॥

Transliteration

devālayeṣu sarveṣu puṇya-kṣetreṣu yo naraḥ । vāpayet tulasīṁ puṇyāṁ tat tīrthaṁ cakra-pāṇinaḥ ॥ 121 ॥

9.122

Śloka

घटैर् यन्त्र-घटीभिश् च सिञ्चितं तुलसी-वनम् । जल-धाराभिर् विप्रेन्द्र प्रीणितं भुवन-त्रयम् ॥ १२२ ॥

Transliteration

ghaṭair yantra-ghaṭībhiś ca siñcitaṁ tulasī-vanam । jala-dhārābhir viprendra prīṇitaṁ bhuvana-trayam ॥ 122 ॥

9.123

Śloka

तुलसी-गन्धम् आदाय यत्र गच्छति मारुतः । दिशो दश च पूताः स्युर् भूत-ग्रामाश् चतुर्-विधाः ॥ १२३ ॥

Transliteration

tulasī-gandham ādāya yatra gacchati mārutaḥ । diśo daśa ca pūtāḥ syur bhūta-grāmāś catur-vidhāḥ ॥ 123 ॥

9.124

Śloka

तुलसी-काननोद्भूता छाया यत्र भवेद् द्विज । तत्र श्राद्धं प्रदातव्यम् पितॄणां तृप्ति-हेतवे ॥ १२४ ॥

Transliteration

tulasī-kānanodbhūtā chāyā yatra bhaved dvija । tatra śrāddhaṁ pradātavyam pitṝṇāṁ tṛpti-hetave ॥ 124 ॥

9.125

Śloka

तुलसी-बीज-निकराः पतते यत्र नारद । पिण्ड-दानं कृतं तत्र पितॄणां दत्तम् अक्षयम् ॥ १२५ ॥

Transliteration

tulasī-bīja-nikarāḥ patate yatra nārada । piṇḍa-dānaṁ kṛtaṁ tatra pitṝṇāṁ dattam akṣayam ॥ 125 ॥

9.126

Śloka

दृष्टा स्पृष्टा तथा ध्याता कीर्तिता नमिता श्रुता । रोपिता सेविता नित्यं पूजिता तुलसी शुभा ॥ १२६ ॥

Transliteration

dṛṣṭā spṛṣṭā tathā dhyātā kīrtitā namitā śrutā । ropitā sevitā nityaṁ pūjitā tulasī śubhā ॥ 126 ॥

9.127

Śloka

नवधा तुलसीं नित्यं ये भजन्ति दिने दिने । युग-कोटि-सहस्राणि ते वसन्ति हरेर् गृहे ॥ १२७ ॥

Transliteration

navadhā tulasīṁ nityaṁ ye bhajanti dine dine । yuga-koṭi-sahasrāṇi te vasanti harer gṛhe ॥ 127 ॥

9.128

Śloka

रोपिता तुलसी यावत् कुरुते मूल-विस्तरं । तावत् कोटि-सहस्रं तु तनोति सुकृतं कलौ ॥ १२८ ॥

Transliteration

ropitā tulasī yāvat kurute mūla-vistaraṁ । tāvat koṭi-sahasraṁ tu tanoti sukṛtaṁ kalau ॥ 128 ॥

9.129

Śloka

यावच् छाखा-प्रशाखाभिर् बीज-पुष्पैः फलैर् मुने । रोपिता तुलसी पुम्भिर् वर्धते वसुधा-तले ॥ १२९ ॥

Transliteration

yāvac chākhā-praśākhābhir bīja-puṣpaiḥ phalair mune । ropitā tulasī pumbhir vardhate vasudhā-tale ॥ 129 ॥

9.130

Śloka

कुले तेषां तु ये जाता ये भविष्यन्ति ये मृतः । आकल्पं युग-साहस्रं तेषां वासो हरेर् गृहे ॥ १३० ॥

Transliteration

kule teṣāṁ tu ye jātā ye bhaviṣyanti ye mṛtaḥ । ākalpaṁ yuga-sāhasraṁ teṣāṁ vāso harer gṛhe ॥ 130 ॥

9.131

Śloka

तुलसीं ये विचिन्वन्ति धन्यास् तत्-कर-पल्लवाः । केशवार्थे कलौ ये च रोपयन्तीह भू-तले ॥ १३१ ॥

Transliteration

tulasīṁ ye vicinvanti dhanyās tat-kara-pallavāḥ । keśavārthe kalau ye ca ropayantīha bhū-tale ॥ 131 ॥

9.132

Śloka

स्नाने दाने तथा ध्याने प्राशने केशवार्चने । तुलसी दहते पापं रोपणे कीर्तने कलौ ॥ १३२ ॥

Transliteration

snāne dāne tathā dhyāne prāśane keśavārcane । tulasī dahate pāpaṁ ropaṇe kīrtane kalau ॥ 132 ॥

9.133

Śloka

तुलस्य्-अलङ्कृता ये ये तुलसी-नाम-जापकाः । तुलसी-वन-पाला ये ते त्याज्या दूरतो भटाः ॥ १३३ ॥

Transliteration

tulasy-alaṅkṛtā ye ye tulasī-nāma-jāpakāḥ । tulasī-vana-pālā ye te tyājyā dūrato bhaṭāḥ ॥ 133 ॥

9.134

Śloka

तुलसी यस्य भवने प्रत्य्-अहं परिपूज्यते । तद्-गृहे नोपसर्पन्ति कदाचिद् यम-किङ्कराः ॥ १३४ ॥

Transliteration

tulasī yasya bhavane praty-ahaṁ paripūjyate । tad-gṛhe nopasarpanti kadācid yama-kiṅkarāḥ ॥ 134 ॥

9.135

Śloka

न पश्यन्ति यमं वैश्य तुलसी-वन-रोपणात् । सर्व-पाप-हरं सर्व-कामदं तुलसी-वनम् ॥ १३५ ॥

Transliteration

na paśyanti yamaṁ vaiśya tulasī-vana-ropaṇāt । sarva-pāpa-haraṁ sarva-kāmadaṁ tulasī-vanam ॥ 135 ॥

9.136

Śloka

तुलसी-काननं वैश्य गृहे यस्मिंस् तु तिष्ठते । तद्-गृहं तीर्थी-भूतं हि नो यान्ति यम-किङ्कराः ॥ १३६ ॥

Transliteration

tulasī-kānanaṁ vaiśya gṛhe yasmiṁs tu tiṣṭhate । tad-gṛhaṁ tīrthī-bhūtaṁ hi no yānti yama-kiṅkarāḥ ॥ 136 ॥

9.137

Śloka

तावद् वर्ष-सहस्राणि यावद् बीज-दलानि च । वसन्ति देव-लोके तु तुलसीं रोपयन्ति ये ॥ १३७ ॥

Transliteration

tāvad varṣa-sahasrāṇi yāvad bīja-dalāni ca । vasanti deva-loke tu tulasīṁ ropayanti ye ॥ 137 ॥

9.138

Śloka

तुलसी-गन्धम् आघ्राय पितरस् तुष्ट-मानसाः । प्रयान्ति गरुडारूढास् तत् पदं चक्र-पाणिनः ॥ १३८ ॥

Transliteration

tulasī-gandham āghrāya pitaras tuṣṭa-mānasāḥ । prayānti garuḍārūḍhās tat padaṁ cakra-pāṇinaḥ ॥ 138 ॥

9.139

Śloka

दर्शनं नर्मदायास् तु गङ्गा-स्नानं विशां वर । तुलसी-दल-संस्पर्सः समम् एतत् त्रयं स्मृतम् ॥ १३९ ॥

Transliteration

darśanaṁ narmadāyās tu gaṅgā-snānaṁ viśāṁ vara । tulasī-dala-saṁsparsaḥ samam etat trayaṁ smṛtam ॥ 139 ॥

9.140

Śloka

रोपणात् पालनात् सेकाद् दर्शनात् स्पर्शनान् नृणाम् । तुलसी दहते पापं वाङ्-मनः-काय-सञ्चितम् ॥ १४० ॥

Transliteration

ropaṇāt pālanāt sekād darśanāt sparśanān nṛṇām । tulasī dahate pāpaṁ vāṅ-manaḥ-kāya-sañcitam ॥ 140 ॥

9.141

Śloka

आम्र-वृक्ष-सहस्रेण पिप्पलानां शतेन च । यत् फलं हि तद् एकेन तुलसी-वितपेन तु ॥ १४१ ॥

Transliteration

āmra-vṛkṣa-sahasreṇa pippalānāṁ śatena ca । yat phalaṁ hi tad ekena tulasī-vitapena tu ॥ 141 ॥

9.142

Śloka

विष्णु-पूजन-संयुक्तस् तुलसीं यस् तु रोपयेत् । युगायुत-दशैकं स रोपको रमते दिवि ॥ १४२ ॥

Transliteration

viṣṇu-pūjana-saṁyuktas tulasīṁ yas tu ropayet । yugāyuta-daśaikaṁ sa ropako ramate divi ॥ 142 ॥

9.143

Śloka

पुष्करादीनि तीर्थानि गङ्गाद्याः सरितस् तथा । वासुदेवादयो देवा वसन्ति तुलसी-दले ॥ १४३ ॥

Transliteration

puṣkarādīni tīrthāni gaṅgādyāḥ saritas tathā । vāsudevādayo devā vasanti tulasī-dale ॥ 143 ॥

9.144

Śloka

दारिद्र्य-दुःख-रोगार्ति-पापानि सु-बहून्य् अपि । तुलसी हरति क्षिप्रं रोगान् इव हरीतकी ॥ १४४ ॥

Transliteration

dāridrya-duḥkha-rogārti-pāpāni su-bahūny api । tulasī harati kṣipraṁ rogān iva harītakī ॥ 144 ॥

9.145

Śloka

यद्-गृहे तुलसी भाति रक्षाभिर् जल-सेचनैः । तद्-गृहे यम-दूताश् च दूरतो वर्जयन्ति हि ॥ १४५ ॥

Transliteration

yad-gṛhe tulasī bhāti rakṣābhir jala-secanaiḥ । tad-gṛhe yama-dūtāś ca dūrato varjayanti hi ॥ 145 ॥

9.146

Śloka

तुलस्यास् तर्पणं ये च पितॄन् उद्दिश्य मानवाः । कुर्वन्ति तेषां पितरस् तृप्ता वर्षयुतं जलैः ॥ १४६ ॥

Transliteration

tulasyās tarpaṇaṁ ye ca pitṝn uddiśya mānavāḥ । kurvanti teṣāṁ pitaras tṛptā varṣayutaṁ jalaiḥ ॥ 146 ॥

9.147

Śloka

परिचर्यां च ये तस्य रक्षयाबाल-बन्धनैः । शुश्रूषितो हरिस् तैस् तु नात्र कार्या विचारणा ॥ १४७ ॥

Transliteration

paricaryāṁ ca ye tasya rakṣayābāla-bandhanaiḥ । śuśrūṣito haris tais tu nātra kāryā vicāraṇā ॥ 147 ॥

9.148

Śloka

नावज्ञा जातु कार्यास्या वृक्ष-भावान् मनीषिभिः । यथा हि वासुदेवस्य वैकुण्ठ-भोग-विग्रहः ॥ १४८ ॥

Transliteration

nāvajñā jātu kāryāsyā vṛkṣa-bhāvān manīṣibhiḥ । yathā hi vāsudevasya vaikuṇṭha-bhoga-vigrahaḥ ॥ 148 ॥

9.149

Śloka

शालग्राम-शिला-रूपम् स्थावरं भुवि दृश्यते । तथा लक्ष्म्य्-ऐक्यम् आपन्ना तुलसी भोग-विग्रहा ॥ १४९ ॥

Transliteration

śālagrāma-śilā-rūpam sthāvaraṁ bhuvi dṛśyate । tathā lakṣmy-aikyam āpannā tulasī bhoga-vigrahā ॥ 149 ॥

9.150

Śloka

अपरं स्थावरं रूपं भुवि लोक-हिताय वै । स्पृष्टा दृष्टा रक्षिता च महा-पातक-नाशिनी ॥ १५० ॥

Transliteration

aparaṁ sthāvaraṁ rūpaṁ bhuvi loka-hitāya vai । spṛṣṭā dṛṣṭā rakṣitā ca mahā-pātaka-nāśinī ॥ 150 ॥

9.151

Śloka

विष्णोस् त्रैलोक्य-नाथस्य रामस्य जनकात्मजा । प्रिया तथैव तुलसी सर्व-लोकैक-पावनी ॥ १५१ ॥

Transliteration

viṣṇos trailokya-nāthasya rāmasya janakātmajā । priyā tathaiva tulasī sarva-lokaika-pāvanī ॥ 151 ॥

9.152

Śloka

तुलसी-वाटिका यत्र पुष्पान्तर-शतावृता । शोभते राघवस् तत्र सीतया सहितं स्वयम् ॥ १५२ ॥

Transliteration

tulasī-vāṭikā yatra puṣpāntara-śatāvṛtā । śobhate rāghavas tatra sītayā sahitaṁ svayam ॥ 152 ॥

9.153

Śloka

तुलसी-विपिनस्यापि समन्तात् पावनं स्थलम् । क्रोश-मात्रं भवत्य् एव गाङ्गेयस्यैव पाथसः ॥ १५३ ॥

Transliteration

tulasī-vipinasyāpi samantāt pāvanaṁ sthalam । krośa-mātraṁ bhavaty eva gāṅgeyasyaiva pāthasaḥ ॥ 153 ॥

9.154

Śloka

तुलसी-सन्निधौ प्राणान् ये त्यजन्ति मुनीश्वर । न तेषां नरक-क्लेशह् प्रयान्ति परमं पदम् ॥ १५४ ॥

Transliteration

tulasī-sannidhau prāṇān ye tyajanti munīśvara । na teṣāṁ naraka-kleśah prayānti paramaṁ padam ॥ 154 ॥

9.155

Śloka

अनन्य-दर्शनाः प्रातर् ये पश्यन्ति तपो-धन । अहो-रात्र-कृतं पापं तत्-क्षणात् प्रहरन्ति ते ॥ १५५ ॥

Transliteration

ananya-darśanāḥ prātar ye paśyanti tapo-dhana । aho-rātra-kṛtaṁ pāpaṁ tat-kṣaṇāt praharanti te ॥ 155 ॥

9.156

Śloka

कृतं येन महा-भाग तुलसी-वन-रोपणम् । मुक्तिस् तेन भवेद् दत्ता प्राणिनां विनता-सुत ॥ १५६ ॥

Transliteration

kṛtaṁ yena mahā-bhāga tulasī-vana-ropaṇam । muktis tena bhaved dattā prāṇināṁ vinatā-suta ॥ 156 ॥

9.157

Śloka

तुलसी वापिता येन पुण्यारामे वने गृहे । पक्षीन्द्र तेन सत्योक्तं लोकाः सप्त प्रतिष्ठिताः ॥ १५७ ॥

Transliteration

tulasī vāpitā yena puṇyārāme vane gṛhe । pakṣīndra tena satyoktaṁ lokāḥ sapta pratiṣṭhitāḥ ॥ 157 ॥

9.158

Śloka

तुलसी-कानने यस् तु मुहूर्तम् अपि विश्रमेत् । जन्म-कोटि-कृतात् पापान् मुच्यते नात्र संशयः ॥ १५८ ॥

Transliteration

tulasī-kānane yas tu muhūrtam api viśramet । janma-koṭi-kṛtāt pāpān mucyate nātra saṁśayaḥ ॥ 158 ॥

9.159

Śloka

प्रदक्षिणां यः कुरुते पठन् नाम-सहस्रकम् । तुलसी-कानने नित्यं यज्ञायुत-फलं लभेत् ॥ १५९ ॥

Transliteration

pradakṣiṇāṁ yaḥ kurute paṭhan nāma-sahasrakam । tulasī-kānane nityaṁ yajñāyuta-phalaṁ labhet ॥ 159 ॥

9.160

Śloka

नित्यं सन्निहितो विष्णुः स-स्पृहस् तुलसी-वने । अपि मेऽक्षत-पत्रैकं कश्चिद् धन्योऽर्पयेद् इति ॥ १६० ॥

Transliteration

nityaṁ sannihito viṣṇuḥ sa-spṛhas tulasī-vane । api me’kṣata-patraikaṁ kaścid dhanyo’rpayed iti ॥ 160 ॥

9.161

Śloka

संसार-पाप-विच्छेदि गङ्गा-नाम प्रकीर्तितम् । तथा तुलस्या भक्तिश् च हरि-कीर्ति-प्रवक्तरि ॥ १६१ ॥

Transliteration

saṁsāra-pāpa-vicchedi gaṅgā-nāma prakīrtitam । tathā tulasyā bhaktiś ca hari-kīrti-pravaktari ॥ 161 ॥

9.162

Śloka

तुलसी-काननं यत्र यत्र पद्म-वनानि च । पुराण-पठनं यत्र तत्र सन्निहितो हरिः ॥ १६२ ॥

Transliteration

tulasī-kānanaṁ yatra yatra padma-vanāni ca । purāṇa-paṭhanaṁ yatra tatra sannihito hariḥ ॥ 162 ॥

9.163

Śloka

तुलसी-रोपणं ये तु कुर्वते मनुजेश्वर । तेषां पुण्य-फलं वक्ष्ये वदतस् त्वं निशामय ॥ १६३ ॥

Transliteration

tulasī-ropaṇaṁ ye tu kurvate manujeśvara । teṣāṁ puṇya-phalaṁ vakṣye vadatas tvaṁ niśāmaya ॥ 163 ॥

9.164

Śloka

सप्त-कोटि-कुलैर् युक्तो मातृतः पितृतस् तथा । वसेत् कल्प-शतं साग्रं नारायण-समीपगः ॥ १६४ ॥

Transliteration

sapta-koṭi-kulair yukto mātṛtaḥ pitṛtas tathā । vaset kalpa-śataṁ sāgraṁ nārāyaṇa-samīpagaḥ ॥ 164 ॥

9.165

Śloka

तृणानि तुलसी-मूलात् यावन्त्य् अपहिनोति वै । तावतीर् ब्रह्म-हत्या हि छिन्नत्त्य् एव न संशयः ॥ १६५ ॥

Transliteration

tṛṇāni tulasī-mūlāt yāvanty apahinoti vai । tāvatīr brahma-hatyā hi chinnatty eva na saṁśayaḥ ॥ 165 ॥

9.166

Śloka

तुलस्या सिञ्चयेद् यस् तु चुलुकोदक-मात्रकम् । क्षीरोदशायिना सार्धं वसेद् आचन्द्र-तारकम् ॥ १६६ ॥

Transliteration

tulasyā siñcayed yas tu culukodaka-mātrakam । kṣīrodaśāyinā sārdhaṁ vased ācandra-tārakam ॥ 166 ॥

9.167

Śloka

कण्टकावरणं वापि वृतिं काष्ठैः करोति यः । तुलस्याः शृणु राजेन्द्र तस्य पुण्य-फलं महत् ॥ १६७ ॥

Transliteration

kaṇṭakāvaraṇaṁ vāpi vṛtiṁ kāṣṭhaiḥ karoti yaḥ । tulasyāḥ śṛṇu rājendra tasya puṇya-phalaṁ mahat ॥ 167 ॥

9.168

Śloka

यावद् दिनानि सन्तिष्ठेत् कण्टकावरणं प्रभो । कुल-त्रय-युतस् तावत् तिष्ठेद् ब्रह्म-पदे युगम् ॥ १६८ ॥

Transliteration

yāvad dināni santiṣṭhet kaṇṭakāvaraṇaṁ prabho । kula-traya-yutas tāvat tiṣṭhed brahma-pade yugam ॥ 168 ॥

9.169

Śloka

प्राकार-कल्पको यस् तु तुलस्या मनुजेश्वर । कुल-त्रयेण सहितो विष्णोः सारूप्यतां व्रजेत् ॥ १६९ ॥

Transliteration

prākāra-kalpako yas tu tulasyā manujeśvara । kula-trayeṇa sahito viṣṇoḥ sārūpyatāṁ vrajet ॥ 169 ॥

9.170

Śloka

दुर्लभा तुलसी-सेवा दुर्लभा सङ्गतिः सताम् । दुर्लभा हरि-भक्तिश् च संसारार्णव-पातिनाम् ॥ १७० ॥

Transliteration

durlabhā tulasī-sevā durlabhā saṅgatiḥ satām । durlabhā hari-bhaktiś ca saṁsārārṇava-pātinām ॥ 170 ॥

9.171

Śloka

यत् फलं क्रतुभिः स्विष्टैः समाप्त-वर-दक्षिणैः । तत् फलं कोटि-गुणितं रोपयित्वा हरेः प्रियाम् ॥ १७१ ॥

Transliteration

yat phalaṁ kratubhiḥ sviṣṭaiḥ samāpta-vara-dakṣiṇaiḥ । tat phalaṁ koṭi-guṇitaṁ ropayitvā hareḥ priyām ॥ 171 ॥

9.172

Śloka

तुलसीं ये प्रयच्छन्ति सुराणाम् अर्चनाय वै । रोपयन्ति शुचौ देशे तेषां लोकोऽक्षयः स्मृतः ॥ १७२ ॥

Transliteration

tulasīṁ ye prayacchanti surāṇām arcanāya vai । ropayanti śucau deśe teṣāṁ loko’kṣayaḥ smṛtaḥ ॥ 172 ॥

9.173

Śloka

रोपितां तुलसीं दृष्ट्वा नरेण भुवि भूमिप । विवर्ण-वदनो भूत्वा तल्-लिपिं मार्जयेद् यमः ॥ १७३ ॥

Transliteration

ropitāṁ tulasīṁ dṛṣṭvā nareṇa bhuvi bhūmipa । vivarṇa-vadano bhūtvā tal-lipiṁ mārjayed yamaḥ ॥ 173 ॥

9.174

Śloka

तुलसीति च यो ब्रूयात् त्रि-कालं वदने यदि । नित्यं स गो-सहस्रस्य फलम् आप्नोति भूसुर ॥ १७४ ॥

Transliteration

tulasīti ca yo brūyāt tri-kālaṁ vadane yadi । nityaṁ sa go-sahasrasya phalam āpnoti bhūsura ॥ 174 ॥

9.175

Śloka

तेन दत्तं हुतं जप्तं कृतं श्राद्धं गयाशिरे । तपस् तप्तं खग-श्रेष्ठ तुलसी येन रोपिता ॥ १७५ ॥

Transliteration

tena dattaṁ hutaṁ japtaṁ kṛtaṁ śrāddhaṁ gayāśire । tapas taptaṁ khaga-śreṣṭha tulasī yena ropitā ॥ 175 ॥

9.176

Śloka

श्रुताभिलषिता दृष्टा रोपिता सिञ्चिता नता । तुलसी दहते पापं युगान्ताग्निर् इवाखिलम् ॥ १७६ ॥

Transliteration

śrutābhilaṣitā dṛṣṭā ropitā siñcitā natā । tulasī dahate pāpaṁ yugāntāgnir ivākhilam ॥ 176 ॥

9.177

Śloka

केशवायतने यस् तु कारयेत् तुलसी-वनम् । लभते चाक्षयं स्थानं पितृभिः सह वैष्णवः ॥ १७७ ॥

Transliteration

keśavāyatane yas tu kārayet tulasī-vanam । labhate cākṣayaṁ sthānaṁ pitṛbhiḥ saha vaiṣṇavaḥ ॥ 177 ॥

9.178

Śloka

तुलसी-कानने श्राद्धं पितॄणां कुरुते तु यः । गया-श्राद्धं कृतं तेन भाषितं विष्णुना पुरा ॥ १७८ ॥

Transliteration

tulasī-kānane śrāddhaṁ pitṝṇāṁ kurute tu yaḥ । gayā-śrāddhaṁ kṛtaṁ tena bhāṣitaṁ viṣṇunā purā ॥ 178 ॥

9.179

Śloka

तुलसी-गहनं दृष्ट्वा विमुक्तो याति पातकात् । सर्वथा मुनि-शार्दूल ब्रह्महा पुण्य-भाग् भवेत् ॥ १७९ ॥

Transliteration

tulasī-gahanaṁ dṛṣṭvā vimukto yāti pātakāt । sarvathā muni-śārdūla brahmahā puṇya-bhāg bhavet ॥ 179 ॥

9.180

Śloka

शुक्ल-पक्षे यदा राजन् तृतीया बुध-संयुता । श्रवणेन महाभाग तुलसी चातिपुण्यदा ॥ १८० ॥

Transliteration

śukla-pakṣe yadā rājan tṛtīyā budha-saṁyutā । śravaṇena mahābhāga tulasī cātipuṇyadā ॥ 180 ॥

9.181

Śloka

प्रसङ्गात् श्री-तुलस्या हि मृदः काष्ठस्य चाधुना । माहात्म्यं लिख्यते कृष्णे अर्पितस्य दलस्य च ॥ १८१ ॥

Transliteration

prasaṅgāt śrī-tulasyā hi mṛdaḥ kāṣṭhasya cādhunā । māhātmyaṁ likhyate kṛṣṇe arpitasya dalasya ca ॥ 181 ॥

9.182

Śloka

भूगतैस् तुलसी-मूलैर् मृत्तिका स्पर्शिता तु या । तीर्थ-कोटि-समा ज्ञेया धार्या यत्नेन सा गृहे ॥ १८२ ॥

Transliteration

bhūgatais tulasī-mūlair mṛttikā sparśitā tu yā । tīrtha-koṭi-samā jñeyā dhāryā yatnena sā gṛhe ॥ 182 ॥

9.183

Śloka

यस्मिन् गृहे द्विज-श्रेष्ठ तुलसी-मूल-मृत्तिका । सर्वदा तिष्ठते देहे देवता न स मानुषः ॥ १८३ ॥

Transliteration

yasmin gṛhe dvija-śreṣṭha tulasī-mūla-mṛttikā । sarvadā tiṣṭhate dehe devatā na sa mānuṣaḥ ॥ 183 ॥

9.184

Śloka

तुलसी-मृत्तिका-लिप्तो यदि प्राणान् परित्यजेत् । यमेन नेक्षितुं शक्तो युक्तः पाप-शतैर् अपि ॥ १८४ ॥

Transliteration

tulasī-mṛttikā-lipto yadi prāṇān parityajet । yamena nekṣituṁ śakto yuktaḥ pāpa-śatair api ॥ 184 ॥

9.185

Śloka

शिरसि क्रियते यैस् तु तुलसी-मूल-मृत्तिका । विघ्नानि तस्य नश्यन्ति सानुकूला ग्रहास् तथा ॥ १८५ ॥

Transliteration

śirasi kriyate yais tu tulasī-mūla-mṛttikā । vighnāni tasya naśyanti sānukūlā grahās tathā ॥ 185 ॥

9.186

Śloka

तुलसी-मृत्तिका यत्र काष्ठं पत्रं च वेश्मनि । तिष्ठते मुनि-शार्दूल निश्चलं वैष्णवं पदम् ॥ १८६ ॥

Transliteration

tulasī-mṛttikā yatra kāṣṭhaṁ patraṁ ca veśmani । tiṣṭhate muni-śārdūla niścalaṁ vaiṣṇavaṁ padam ॥ 186 ॥

9.187

Śloka

मङ्गलार्थं च दोष-घ्नं पवित्रार्थं द्विजोत्तम । तुलसी-मूल-संलग्नां मृत्तिकाम् आवहेद् बुधः ॥ १८७ ॥

Transliteration

maṅgalārthaṁ ca doṣa-ghnaṁ pavitrārthaṁ dvijottama । tulasī-mūla-saṁlagnāṁ mṛttikām āvahed budhaḥ ॥ 187 ॥

9.188

Śloka

तन्-मूल-मृत्तिकां यो वै धारयिष्यति मस्तके । तस्य तुष्टो वरान् कामान् प्रददाति जनार्दनः ॥ १८८ ॥

Transliteration

tan-mūla-mṛttikāṁ yo vai dhārayiṣyati mastake । tasya tuṣṭo varān kāmān pradadāti janārdanaḥ ॥ 188 ॥

9.189

Śloka

तुलसी-मूल-सम्भूता हरि-भक्त-पदोद्भवा । गङ्गोद्भवा च मृल्-लेखा नयत्य् अच्युत-रूपताम् ॥ १८९ ॥

Transliteration

tulasī-mūla-sambhūtā hari-bhakta-padodbhavā । gaṅgodbhavā ca mṛl-lekhā nayaty acyuta-rūpatām ॥ 189 ॥

9.190

Śloka

यद्-गृहे तुलसी-काष्ठम् पत्रं शुष्कम् अथार्द्रकम् । भवते नैव पापं तद्-गृहे सङ्क्रमते कलौ ॥ १९० ॥

Transliteration

yad-gṛhe tulasī-kāṣṭham patraṁ śuṣkam athārdrakam । bhavate naiva pāpaṁ tad-gṛhe saṅkramate kalau ॥ 190 ॥

9.191

Śloka

पत्रं पुष्पं फलं काष्ठं त्वक्-शाखा-पल्लवाङ्कुरम् । तुलसी-सम्भवं मूलं पावनं मृत्तिकाद्य् अपि ॥ १९१ ॥

Transliteration

patraṁ puṣpaṁ phalaṁ kāṣṭhaṁ tvak-śākhā-pallavāṅkuram । tulasī-sambhavaṁ mūlaṁ pāvanaṁ mṛttikādy api ॥ 191 ॥

9.192

Śloka

होमं कुर्वन्ति ये विप्रास् तुलसी-काष्ठ-वह्निना । लवे लवे भवेत् पुण्यम् अग्निष्टोम-शतोद्भवम् ॥ १९२ ॥

Transliteration

homaṁ kurvanti ye viprās tulasī-kāṣṭha-vahninā । lave lave bhavet puṇyam agniṣṭoma-śatodbhavam ॥ 192 ॥

9.193

Śloka

नैवेद्यं पचते यस् तु तुलसी-काष्ठ-वह्निना । मेरु-तुल्यं भवेद् अन्नं तद् दत्तं केशवाय हि ॥ १९३ ॥

Transliteration

naivedyaṁ pacate yas tu tulasī-kāṣṭha-vahninā । meru-tulyaṁ bhaved annaṁ tad dattaṁ keśavāya hi ॥ 193 ॥

9.194

Śloka

शरीरं दह्यते येषां तुलसी-काष्ठ-वह्निना । न तेषां पुनर् आवृत्तिर् विष्णु-लोकात् कथञ्चन ॥ १९४ ॥

Transliteration

śarīraṁ dahyate yeṣāṁ tulasī-kāṣṭha-vahninā । na teṣāṁ punar āvṛttir viṣṇu-lokāt kathañcana ॥ 194 ॥

9.195

Śloka

ग्रस्तो यदि महा-पापैर् अगम्यागमनादिकैः । मृतः शुध्यति दाहेन तुलसी-काष्ठ-वह्निना ॥ १९५ ॥

Transliteration

grasto yadi mahā-pāpair agamyāgamanādikaiḥ । mṛtaḥ śudhyati dāhena tulasī-kāṣṭha-vahninā ॥ 195 ॥

9.196

Śloka

तीर्थं यदि न सम्प्राप्तं स्मृतिर् वा कीर्तनम् हरेः । तुलसी-काष्ठ-दग्धस्य मृतस्य न पुनर् भवः ॥ १९६ ॥

Transliteration

tīrthaṁ yadi na samprāptaṁ smṛtir vā kīrtanam hareḥ । tulasī-kāṣṭha-dagdhasya mṛtasya na punar bhavaḥ ॥ 196 ॥

9.197

Śloka

यद्य् एकं तुलसी-काष्ठं मध्ये काष्ठ-चयस्य हि । दह-काले भवेन् मुक्तिह् पाप-कोटि-युतस्य च ॥ १९७ ॥

Transliteration

yady ekaṁ tulasī-kāṣṭhaṁ madhye kāṣṭha-cayasya hi । daha-kāle bhaven muktih pāpa-koṭi-yutasya ca ॥ 197 ॥

9.198

Śloka

जन्म-कोटि-सहस्रैस् तु तोषितो यैर् जनार्दनः । दह्यन्ते ते जना लोके तुलसी-काष्ठ-वह्निना ॥ १९८ ॥

Transliteration

janma-koṭi-sahasrais tu toṣito yair janārdanaḥ । dahyante te janā loke tulasī-kāṣṭha-vahninā ॥ 198 ॥

9.199

Śloka

यः कुर्यात् तुलसी-काष्ठैर् अक्ष-मालां सु-रूपिणीम् । कण्ठ-मालां च यत्नेन कृतं तस्याक्षयं भवेत् ॥ १९९ ॥

Transliteration

yaḥ kuryāt tulasī-kāṣṭhair akṣa-mālāṁ su-rūpiṇīm । kaṇṭha-mālāṁ ca yatnena kṛtaṁ tasyākṣayaṁ bhavet ॥ 199 ॥

9.200

Śloka

यस्य नाभि-स्थितं पत्रं मुखे शिरसि कर्णयोः । तुलसी-सम्भवं नित्यं तीर्थैस् तस्य मखैश् च किम् ॥ २०० ॥

Transliteration

yasya nābhi-sthitaṁ patraṁ mukhe śirasi karṇayoḥ । tulasī-sambhavaṁ nityaṁ tīrthais tasya makhaiś ca kim ॥ 200 ॥