9.62
Śloka
चक्र-तीर्थं फलं यादृक् तादृण् पादाम्बु-धारणात् ।
सरस्वत्यां गयायां च गत्वा यत् प्राप्नुयात् फलम् ।
तत् फलं लभते श्रेष्ठं मूर्ध्नि पादाम्बु-धारणात् ॥ ६२ ॥
Transliteration
cakra-tīrthaṁ phalaṁ yādṛk tādṛṇ pādāmbu-dhāraṇāt ।
sarasvatyāṁ gayāyāṁ ca gatvā yat prāpnuyāt phalam ।
tat phalaṁ labhate śreṣṭhaṁ mūrdhni pādāmbu-dhāraṇāt ॥ 62 ॥